अद्वैतशारदा

पञ्चरत्नस्तोत्राणि

मनीषापञ्चकम्

जाग्र­त्व­स्व­प्न­सु­षु­प्तिषु स्फुटतरा या संविदुज्जृम्भते या ब्रह्मादि पिपीलिकान्त तनुषु प्रोता जगत्साक्षिणी ।
सैवाहं न च दृश्यवस्थ्विति दृढप्रज्ञापि यस्यास्ति चे- च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ १ ॥

ब्रह्मैवाहमिदं जगच्च सकलं चिन्मा­त्र­वि­स्ता­रितं सर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम् ।
इथ्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ २ ॥

शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरोः नित्यं ब्रह्मनिरन्तरं विमृशता निर्व्या­ज­शा­न्ता­त्मना ।
भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीना मम ॥ ३॥

या तिर्य­ङ्न­र­दे­व­ता­भि­र­ह­मि­त्यन्तः स्फुटा गृह्यते यद्भासा हृद­या­क्ष­दे­ह­वि­षया भान्ति स्वतोऽचेतनाः। तां भास्यैः पिहि­ता­र्क­म­ण्ड­ल­निभां स्फूर्तिं सदा भावयन्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥ ४॥

यत्सौ­ख्या­म्बु­धि­ले­श­ले­शत इमे शक्रादयो निर्वृता यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिनिर्वृतः ।
यस्मि­न्नि­त्य­सु­खा­म्बुधौ गलि­त­धी­र्ब्र­ह्मैव न ब्रह्मवित् यः कचित् स सुरे­न्द्र­व­न्दि­त­पदो नूनं मनीषा मम ॥ ५ ॥