अद्वैतशारदा

पञ्चरत्नस्तोत्राणि

काशीपञ्चकम्

मनोनिवृत्तिः परमोपशान्तिः सा तीर्थवर्या मणिकर्णिका च ।
ज्ञानप्रवाहा विमलादिगङ्गा सा काशिकाऽहं निजबोधरूपा ॥ १ ॥

यस्यामिदं कल्पि­त­मि­न्द्र­जालं चराचरं भाति मनोविलासम् ।
सचित्सुखैका परमात्मरूपा ता काशिकाऽहं निजबोचरूपा ॥ २ ॥

कोशेषु पञ्च­स्व­धि­रा­ज­माना बुद्धिर्भवानी प्रतिदेहगेहम् ।
साक्षी शिवः सर्व­ग­तोऽ­न्त­रात्मा सा काशिकाऽई निजबोधरूपा ॥ ३ ॥

काश्यां हि काशते काशी काशी सर्वप्रकाशिका ।
सा काशी विदिता येन तेन प्राप्ता हि काशिका ॥ ४ ॥

काशीक्षेत्रं शरीरं त्रिभुवनजननी व्यापिनी ज्ञानगङ्गा भक्तिः श्रद्धा गयेयं निज­गु­रु­च­र­ण­ध्या­न­योगः प्रयागः ।
विश्वेशोऽयं तुरीयः सक­ल­ज­न­म­नः­सा­क्षि­भू­तोऽ­न्त­रात्मा देहे सर्वं मदीये यदि वसति पुन­स्ती­र्थ­म­न्य­त्कि­मस्ति ॥ ५ ॥