अद्वैतशारदा

पञ्चरत्नस्तोत्राणि

श्रीगणेशपञ्चरत्नम्

मुदा करात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासलोकरक्षकम् ।
अनायकैकनायकं विना­शि­ते­भ­दै­त्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥

नतेतरातिभीकरं नवो­दि­ता­र्क­भा­स्वरं नम­त्सु­रा­रि­नि­र्जरं नता­धि­का­प­दु­द्ध­रम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥

समस्तलोकशङ्करं निर­स्त­दै­त्य­कु­ञ्जरं दरेतरोदरं वरं वरे­भ­व­क्त्र­म­क्ष­रम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३॥

अकि­ञ्च­ना­र्ति­मा­र्जनं चिर­न्त­नो­क्ति­भा­जनं पुरा­रि­पू­र्व­न­न्दनं सुरा­रि­ग­र्व­च­र्व­णम् ।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं कपोलदानवारणं भजे पुराणवारणम् ॥ ४॥

निता­न्त­का­न्त­द­न्त­का­न्ति­म­न्त­का­न्त­का­त्मजं अचि­न्त्य­रू­प­म­न्त­ही­न­म­न्त­रा­य­कृ­न्त­नम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ ५॥

महा­ग­णे­श­प­ञ्च­र­त्न­मा­द­रेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन्गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां समी­हि­ता­यु­र­ष्ट­भू­ति­म­भ्यु­पैति सोऽचिरात् ॥