अद्वैतशारदा

पञ्चरत्नस्तोत्राणि

यतिपञ्चकम्

बेदान्तवाक्येषु सदा रमन्तो भिक्षा­न्न­मा­त्रेण च तुष्टिमन्तः ।
विशोकवन्तः करणैकवन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ १ ॥

मूलं तरोः केवलमाश्रयन्तः पाणिद्वयं भोक्तु­म­म­त्त्र­यन्तः ।
कन्थामिव श्रीमपि कुत्सयन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ २ ॥

देहादिभावं परिमार्जयन्त आत्मा­न­मा­त्म­न्य­व­लो­क­यन्तः ।
नान्तर्न मध्यं न बहिः स्मरन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ३ ॥

स्वानन्दभावे परितुष्टिमन्तः संशा­न्त­स­र्वे­न्द्रि­य­दृ­ष्टि­मन्तः ।
अहर्निशं ब्रह्मणि में रमन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ४ ॥

पञ्चाक्षरं पावनमुच्चरन्तः पतिं पशूनां हृदि भावयन्तः ।
भिक्षाशना दिक्षु परिभ्रमन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ५ ॥