अद्वैतशारदा

सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः

० विभागः

अख­ण्डा­न­न्द­स­न्दोहो वन्दनाद्यस्य जायते ।
गोविन्दं तमहं वन्दे चिदानन्दतनुं गुरुम् ॥ १ ॥

अखण्डं सच्चि­दा­न­न्द­म­वा­ङ्म­न­स­गो­च­रम् ।
आत्मा­न­म­खि­ला­धा­र­मा­श्र­येऽ­भी­ष्ट­सि­द्धये ॥ २ ॥

यदालम्बो दरं हन्ति सतां प्रत्यूहसम्भवम् ।
तदालम्बे दयालम्बं लम्बो­द­र­प­दा­म्बु­जम् ॥ ३ ॥

वेदा­न्त­शा­स्त्र­सि­द्धा­न्त­सा­र­स­ङ्ग्रह उच्यते ।
प्रेक्षावतां मुमुक्षूणां सुखबोधोपपत्तये ॥ ४ ॥

अस्य शास्त्रा­नु­सा­रि­त्वा­द­नु­ब­न्ध­च­तु­ष्ट­यम् ।
यदेव मूलं शास्त्रस्य निर्दिष्टं तदिहोच्यते ॥ ५ ॥

अधिकारी च विषयः सम्बन्धश्च प्रयोजनम् ।
शास्त्रारम्भफलं प्राहु­र­नु­ब­न्ध­च­तु­ष्ट­यम् ॥ ६ ॥

चतुर्भिः साधनैः सम्यक्सम्पन्नो युक्तिदक्षिणः ।
मेधावी पुरुषो विद्वा­न­धि­का­र्यत्र सम्मतः ॥ ७ ॥

विषयः शुद्धचैतन्यं जीव­ब्र­ह्मै­क्य­ल­क्ष­णम् ।
यत्रैव दृश्यते सर्ववेदान्तानां समन्वयः ॥ ८ ॥

एत­दै­क्य­प्र­मे­यस्य प्रमाणस्यापि च श्रुतेः ।
सम्बन्धः कथ्यते सद्भि­र्बो­ध्य­बो­ध­क­ल­क्षणः ॥ ९ ॥

ब्रह्मा­त्मै­क­त्व­वि­ज्ञानं सन्तः प्राहुः प्रयोजनम् ।
येन निःशे­ष­सं­सा­र­ब­न्धा­त्सद्यः प्रमुच्यते ॥ १० ॥

प्रयोजनं सम्प्रवृत्तेः कारणं फललक्षणम् ।
प्रयो­ज­न­म­नु­द्दिश्य न मन्दोऽपि प्रवर्तते ॥ ११ ॥

साध­न­च­तु­ष्ट­य­स­म्प­त्ति­र्य­स्यास्ति धीमतः पुंसः ।
तस्यै­वै­त­त्फ­ल­सि­द्धि­र्ना­न्यस्य किञ्चिदूनस्य ॥ १२ ॥

चत्वारि साधनान्यत्र वदन्ति परमर्षयः ।
मुक्तिर्येषां तु सद्भावे नाभावे सिध्यति ध्रुवम् ॥ १३ ॥

आद्यं नित्या­नि­त्य­व­स्तु­वि­वेकः साधनं मतम् ।
इहा­मु­त्रा­र्थ­फ­ल­भो­ग­वि­रागो द्वितीयकम् ॥ १४ ॥

शमा­दि­ष­ट्क­स­म्प­त्ति­स्तृ­तीयं साधनम् मतम् ।
तुरीयं तु मुमुक्षुत्वं साधनं शास्त्रसम्मतम् ॥ १५ ॥

ब्रह्मैव नित्यमन्यत्तु ह्यनित्यमिति वेदनम् ।
सोऽयं नित्या­नि­त्य­व­स्तु­वि­वेक इति कथ्यते ॥ १६ ॥

मृदादिकारणं नित्यं त्रिषु कालेषु दर्शनात् ।
घटाद्यनित्यं तत्कार्यं यतस्तन्नाश ईक्ष्यते ॥ १७ ॥

तथै­वै­त­ज्ज­ग­त्स­र्व­म­नित्यं ब्रह्मकार्यतः ।
तत्कारणं परं ब्रह्म भवेन्नित्यं मृदादिवत् ॥ १८ ॥

सर्गं वक्त्यस्य तस्माद्वा एतस्मादित्यपि श्रुतिः ।
सका­शा­द्ब्र­ह्म­ण­स्त­स्मा­द­नि­त्यत्वे न संशयः ॥ १९ ॥

सर्व­स्या­नि­त्यत्वे सावयवत्वेन सर्वतः सिद्धे ।
वैकुण्ठादिषु नित्य­त्व­म­ति­र्भ्रम एव मूढबुद्धीनाम् ॥ २० ॥

अनित्यत्वं च नित्यत्वमेवं यच्छ्रु­ति­यु­क्तिभिः ।
विवेचनं नित्या­नि­त्य­वि­वेक इति कथ्यते ॥ २१ ॥

ऐहि­का­मु­ष्मि­का­र्थेषु ह्यनित्यत्वेन निश्चयात् ।
नैःस्पृह्यं तुच्छबुद्ध्या यत्त­द्वै­रा­ग्य­मि­ती­र्यते ॥ २२ ॥

नित्या­नि­त्य­प­दा­र्थ­वि­वे­का­त्पु­रु­षस्य जायते सद्यः ।
स्रक्च­न्द­न­व­नि­तादौ सर्व­त्रा­नि­त्य­व­स्तुनि विरक्तिः ॥ २३ ॥

काकस्य विष्ठा­व­द­स­ह्य­बुद्धि -
र्भोग्येषु सा तीव्र­वि­र­क्ति­रि­ष्यते ।
विर­क्ति­ती­व्र­त्व­नि­दा­न­माहु -
र्भोग्येषु दोषेक्षणमेव सन्तः ॥ २४ ॥

प्रदृश्यते वस्तुनि यत्र दोषो
न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः ।
अन्त­र्म­हा­रो­ग­वतीं विजान -
न्को नाम वेश्यामपि रूपिणीं व्रजेत् ॥ २५ ॥

अत्रापि चान्यत्र च विद्यमान -
पदा­र्थ­स­म्म­र्श­न­मेव कार्यम् ।
यथा­प्र­का­रा­र्थ­गु­णा­भि­म­र्शनं
सन्दर्शयत्येव तदीयदोषम् ॥ २६ ॥

कुक्षौ स्वमा­तु­र्म­ल­मू­त्र­मध्ये
स्थितिं तदा विट्क्रिमिदंशनं च ।
तदी­य­कौ­क्षे­य­क­व­ह्नि­दाहं
विचार्य को वा विरतिं न याति ॥ २७ ॥

स्वकी­य­वि­ण्मू­त्र­वि­स­र्जनं त -
च्चोत्तानगत्या शयनं तदा यत् ।
बाल­ग्र­हा­द्या­ह­ति­भाक्च शैशवं
विचार्य को वा विरतिं न याति ॥ २८ ॥

स्वीयैः परै­स्ता­ड­न­म­ज्ञ­भाव -
मत्य­न्त­चा­प­ल्य­म­स­त्क्रियां च ।
कुमारभावे प्रति­षि­द्ध­वृत्तिं
विचार्य को वा विरतिं न याति ॥ २९ ॥

मदोद्धतिं मान्यतिरस्कृतिं च
कामातुरत्वं समयातिलङ्घनम् ।
तां तां युव­त्यो­दि­त­दु­ष्ट­चेष्टां
विचार्य को वा विरतिं न याति ॥ ३० ॥

विरूपतां सर्वजनादवज्ञां
सर्वत्र दैन्यं निज­बु­द्धि­है­न्यम् ।
वृद्ध­त्व­स­म्भा­वि­त­दु­र्दशां तां
विचार्य को वा विरतिं न याति ॥ ३१ ॥

पित्त­ज्व­रा­र्शः­क्ष­य­गु­ल्म­शूल -
श्लेष्मा­दि­रो­गो­दि­त­ती­व्र­दुः­खम् ।
दुर्ग­न्ध­म­स्वा­स्थ्य­म­नू­न­चिन्तां
विचार्य को वा विरतिं न याति ॥ ३२ ॥

यमा­व­लो­को­दि­त­भी­ति­कम्प -
मर्म­व्य­थो­च्छ्वा­स­ग­तीश्च वेदनाम् ।
प्राणप्रयाणे परिदृश्यमानां
विचार्य को वा विरतिं न याति ॥ ३३ ॥

अङ्गारनद्यां तपने च कुम्भी -
पाकेऽपि वीच्या­म­सि­प­त्र­का­नने ।
दूतैर्यमस्य क्रियमाणबाधां
विचार्य को वा विरतिं न याति ॥ ३४ ॥

पुण्यक्षये पुण्यकृतो नभःस्थै -
र्निपा­त्य­मा­ना­न्शि­थि­ली­कृ­ता­ङ्गान् ।
नक्षत्ररूपेण दिव­श्च्यु­तांस्ता -
न्विचार्य को वा विरतिं न याति ॥ ३५ ॥

वाय्व­र्क­व­ह्नी­न्द्र­मु­खा­न्सु­रेन्द्रा -
नीशोग्रभीत्या ग्रथि­ता­न्त­र­ङ्गान् ।
विपक्षलोकैः परिदूयमाना -
न्विचार्य को वा विरतिं न याति ॥ ३६ ॥

श्रुत्या निरुक्तं सुखतारतम्यं
ब्रह्मा­न्त­मा­रभ्य महीमहेशम् ।
औपाधिकं तत्तु न वास्तवं चे -
दालोच्य को वा विरतिं न याति ॥ ३७ ॥

सालो­क्य­सा­मी­प्य­स­रू­प­तादि -
भेदस्तु सत्क­र्म­वि­शे­ष­सिद्धः ।
न कर्मसिद्धस्य तु नित्यतेति
विचार्य को वा विरतिं न याति ॥ ३८ ॥

यत्रास्ति लोके गतितारतम्यं
उच्चा­व­च­त्वा­न्वि­त­मत्र तत्कृतम् ।
यथेह तद्वत्खलु दुःखमस्ती -
त्यालोच्य को वा विरतिं न याति ॥ ३९ ॥

को नाम लोके पुरुषो विवेकी
विनश्वरे तुच्छसुखे गृहादौ ।
कुर्याद्रतिं नित्यमवेक्षमाणो
वृथैव मोहा­न्म्रि­य­मा­ण­ज­न्तून् ॥ ४० ॥

सुखं किमस्त्यत्र विचार्यमाणे
गृहेऽपि वा योषिति वा पदार्थे ।
माया­त­मोऽ­न्धी­कृ­त­च­क्षुषो ये
त एव मुह्यन्ति विवेकशून्याः ॥ ४१ ॥

अविचारितरमणीयं
सर्व­मु­दु­म्ब­र­फ­लो­पमं भोग्यम् ।
अज्ञा­ना­मु­प­भोग्यं
न तु तज्ज्ञानां योषिति वा पदार्थे ॥ ४२ ॥

गतेऽपि तोये सुषिरं कुलीरो
हातुं ह्यशक्तो म्रियते विमोहात् ।
यथा तथा गेहसुखानुषक्तो
विनाशमायाति नरो भ्रमेण ॥ ४३ ॥

कोश­क्रि­मि­स्त­न्तु­भि­रा­त्म­देह -
मावेष्ट्य चावेष्ट्य च गुप्तिमिच्छन् ।
स्वयं विनि­र्ग­न्तु­म­शक्त एव
संस्ततस्तदन्ते म्रियते च लग्नः ॥ ४४ ॥

यथा तथा पुत्रकलत्रमित्र -
स्नेहा­नु­ब­न्धै­र्ग्र­थितो गृहस्थः ।
कदापि वा तान्परिमुच्य गेहा -
द्गन्तुं न शक्तो म्रियते मुधैव ॥ ४५ ॥

कारागृहस्यास्य च को विशेषः
प्रदृश्यते साधु विचार्यमाणे ।
मुक्तेः प्रतीपत्वमिहापि पुंसः
कान्ता­सु­खा­भ्यु­त्थि­त­मो­ह­पाशैः ॥ ४६ ॥

गृहस्पृहा पाद­नि­ब­द्ध­शृ­ङ्खला
कान्तासुताशा पटुकण्ठपाशः ।
शीर्षे पत­द्भू­र्य­श­निर्हि साक्षा -
त्प्राणा­न्त­हेतुः प्रबला धनाशा ॥ ४७ ॥

आशापाशशतेन पाशितपदो नोत्थातुमेव क्षमः
काम­क्रो­ध­म­दा­दिभिः प्रतिभटैः संर­क्ष्य­मा­णोऽ­नि­शम् ।
संमोहावरणेन गोपनवतः संसारकारागृहा -
न्निर्गन्तुं त्रिवि­धे­ष­णा­प­र­वशः कः शक्नुयाद्रागिषु ॥ ४८ ॥

कामान्धकारेण निरुद्धदृष्टि -
र्मुह्य­त्य­स­त्य­प्य­ब­ला­स्व­रूपे ।
न ह्यन्ध­दृ­ष्टे­र­सतः सतो वा
सुख­त्व­दुः­ख­त्व­वि­चा­र­णास्ति ॥ ४९ ॥

श्लेष्मोद्गारि मुखं स्रवन्मलवती नासा­श्रु­म­ल्लो­चनं
स्वेदस्रावि मलाभिपूर्णमभितो दुर्गन्धदुष्टं वपुः ।
अन्य­द्व­क्तु­म­श­क्य­मेव मनसा मन्तुं क्वचिन्नार्हति
स्त्रीरूपं कथमीदृशं सुमनसां पात्री­भ­वे­न्ने­त्रयोः ॥ ५० ॥

दूरा­द­वे­क्ष्या­ग्नि­शिखां पतङ्गो
रम्यत्वबुद्ध्या विनिपत्य नश्यति ।
यथा तथा नष्टदृगेष सूक्ष्मं
कथं निरीक्षेत विमुक्तिमार्गम् ॥ ५१ ॥

कामेन कान्तां परिगृह्य तद्व -
ज्जनोऽप्ययं नश्यति नष्टदृष्टिः ।
मांसा­स्थि­म­ज्जा­म­ल­मू­त्र­पात्रं
स्त्रियं स्वयं रम्यतयैव पश्यति ॥ ५२ ॥

काम एव यमः साक्षात्कान्ता वैतरणी नदी ।
विवेकिनां मुमुक्षूणां निलयस्तु यमालयः ॥ ५३ ॥

यमालये वापि गृहेऽपि नो नृणां
ताप­त्र­य­क्ले­श­नि­वृ­त्ति­रस्ति ।
किञ्चि­त्स­मा­लोक्य तु तद्विरामं
सुखात्मना पश्यति मूढलोकः ॥ ५४ ॥

यमस्य कामस्य च तारतम्यं
विचार्यमाणे महदस्ति लोके ।
हितं करोत्यस्य यमोऽप्रियः स -
न्कामस्त्वनर्थं कुरुते प्रियः सन् ॥ ५५ ॥

यमोऽसतामेव करोत्यनर्थं
सतां तु सौख्यं कुरुते हितः सन् ।
कामः सतामेव गतिं निरुन्ध -
न्करोत्यनर्थं ह्यसतां नु का कथा ॥ ५६ ॥

विश्वस्य वृद्धिं स्वयमेव काङ्क्ष -
न्प्रवर्तकं कामिजनं ससर्ज ।
तेनैव लोकः परिमुह्यमानः
प्रवर्धते चन्द्रमसेव चाब्धिः ॥ ५७ ॥

कामो नाम महा­ञ्ज­ग­द्भ्र­म­यिता स्थित्वा­न्त­रङ्गे स्वयं
स्त्रीपुं­सा­वि­त­रे­त­रा­ङ्ग­क­गु­णै­र्हा­सैश्च भावैः स्फुटम् ।
अन्योन्यं परिमोह्य नैजतमसा प्रेमानुबन्धेन तौ
बद्ध्वा भ्रामयति प्रपञ्चरचनां संव­र्ध­य­न्ब्र­ह्महा ॥ ५८ ॥

अतोऽ­न्त­र­ङ्ग­स्थि­त­का­म­वेगा -
द्भोग्ये प्रवृत्तिः स्वत एव सिद्धा ।
सर्वस्य जन्तो­र्ध्रु­व­म­न्यथा चे -
दबोधितार्थेषु कथं प्रवृत्तिः ॥ ५९ ॥

तेनैव सर्वजन्तूनां कामना बलवत्तरा ।
जीर्यत्यपि च देहेऽ­स्मि­न्का­मना नैव जीर्यते ॥ ६० ॥

अवेक्ष्य विषये दोषं बुद्धियुक्तो विचक्षणः ।
कामपाशेन यो मुक्तः स मुक्तेः पथि गोचरः ॥ ६१ ॥

कामस्य विजयोपायं सूक्ष्मं वक्ष्याम्यहं सताम् ।
सङ्कल्पस्य परित्याग उपायः सुलभो मतः ॥ ६२ ॥

श्रुते दृष्टेऽपि वा भोग्ये यस्मि­न्क­स्मिंश्च वस्तुनि ।
समी­ची­न­त्व­धी­त्या­गा­त्कामो नोदेति कर्हिचित् ॥ ६३ ॥

कामस्य बीजं सङ्कल्पः सङ्कल्पादेव जायते ।
बीजे नष्टेऽङ्कुर इव तस्मिन्नष्टे विनश्यति ॥ ६४ ॥

न कोऽपि सम्यक्त्वधिया विनैव
भोग्यं नरः कामयितुं समर्थः ।
यतस्ततः कामजयेच्छुरेतां
सम्य­क्त्व­बुद्धिं विषये निहन्यात् ॥ ६५ ॥

भोग्ये नरः कामजयेच्छुरेतां
सुखत्वबुद्धिं विषये निहन्यात् ।
याव­त्सु­ख­त्व­भ्र­मधीः पदार्थे
तावन्न जेतुं प्रभवेद्धि कामम् ॥ ६६ ॥

सङ्कल्पानुदये हेतु­र्य­था­भू­ता­र्थ­द­र्श­नम् ।
अनर्थचिन्तनं चाभ्यां नावकाशोऽस्य विद्यते ॥ ६७ ॥

रत्ने यदि शिला­बु­द्धि­र्जा­यते वा भयं ततः ।
समी­ची­न­त्व­धी­र्नैति नोपादेयत्वधीरपि ॥ ६८ ॥

यथार्थदर्शनं वस्तु­न्य­न­र्थ­स्यापि चिन्तनम् ।
सङ्कल्पस्यापि कामस्य तद्वधोपाय इष्यते ॥ ६९ ॥

धनं भयनिबन्धनं सततदुःखसंवर्धनं
प्रचण्डतरकर्दनं स्फुटि­त­ब­न्धु­सं­व­र्ध­नम् ।
विशिष्टगुणबाधनं कृपणधीसमाराधनं
न मुक्तिगतिसाधनं भवति नापि हृच्छोधनम् ॥ ७० ॥

राज्ञो भयं चोरभयं प्रमादा -
द्भयं तथा ज्ञातिभयं च वस्तुतः ।
धनं भय­ग्र­स्त­म­न­र्थ­मूलं
यतः सतां नैव सुखाय कल्पते ॥ ७१ ॥

आर्जने रक्षणे दाने व्यये वापि च वस्तुतः ।
दुःखमेव सदा नॄणां न धनं सुखसाधनम् ॥ ७२ ॥

सतामपि पदार्थस्य लाभाल्लोभः प्रवर्धते ।
विवेको लुप्यते लोभा­त्त­स्मिं­ल्लुप्ते विनश्यति ॥ ७३ ॥

दहत्यलाभे निःस्वत्वं लाभे लोभो दहत्यमुम् ।
तस्मात्सन्तापकं वित्तं कस्य सौख्यं प्रयच्छति ॥ ७४ ॥

भोगेन मत्तता जन्तोर्दानेन पुनरुद्भवः ।
वृथैवोभयथा वित्तं नास्त्येव गतिरन्यथा ॥ ७५ ॥

धनेन मदवृद्धिः स्यान्मदेन स्मृतिनाशनम् ।
स्मृति­ना­शा­द्बु­द्धि­नाशो बुद्धि­ना­शा­त्प्र­ण­श्यति ॥ ७६ ॥

सुखयति धन­मे­वे­त्य­न्त­रा­शा­पि­शाच्या
दृढतरमुपगूढो मूढलोको जडात्मा ।
निवसति तदुपान्ते सन्ततं प्रेक्षमाणो
व्रजति तदपि पश्चा­त्प्रा­ण­मे­तस्य हृत्वा ॥ ७७ ॥

सम्प­न्नोऽ­न्ध­व­देव किञ्चिदपरं नो वीक्षते चक्षुषा
सद्भि­र्व­र्जि­त­मार्ग एव चरति प्रोत्सारितो बालिशैः ।
तस्मिन्नेव मुहुः स्खलन्प्रतिपदं गत्वान्धकूपे पत -
त्यस्या­न्ध­त्व­नि­व­र्त­कौ­ष­ध­मिदं दारि­द्र्य­मे­वा­ञ्ज­नम् ॥ ७८ ॥

लोभः क्रोधश्च डम्भश्च मदो मत्सर एव च ।
वर्धते वित्त­स­म्प्राप्त्या कथं तच्चित्तशोधनम् ॥ ७९ ॥

अलाभाद्द्विगुणं दुःखं वित्तस्य व्ययसम्भवे ।
ततोऽपि त्रिगुणं दुःखं दुर्व्यये विदुषामपि ॥ ८० ॥

नित्याहितेन वित्तेन
भयचिन्तानपायिना ।
चित्तस्वास्थ्यं कुतो जन्तो -
र्गृहस्थेनाहिना यथा ॥ ८१ ॥

कान्तारे विजने वने जनपदे सेतौ निरीतौ च वा
चोरैर्वापि तथे­त­रै­र्न­र­व­रै­र्युक्तो वियुक्तोऽपि वा ।
निःस्वः स्वस्थतया सुखेन वसति ह्याद्रीयमाणो जनैः
क्लिश्नात्येव धनी सदा­कु­ल­म­ति­र्भी­तश्च पुत्रादपि ॥ ८२ ॥

तस्मादनर्थस्य निदानमर्थः
पुमर्थसिद्धिर्न भवत्यनेन ।
ततो वनान्ते निवसन्ति सन्तः
संन्यस्य सर्वं प्रतिकूलमर्थम् ॥ ८३ ॥

श्रद्धा­भ­क्ति­मतीं सतीं गुणवतीं पुत्रा­ञ्श्रु­ता­न्स­म्मता -
नक्षय्यं वसु­धा­नु­भो­ग­वि­भवैः श्रीसुन्दरं मन्दिरम् ।
सर्वं नश्वरमित्यवेत्य कवयः श्रुत्यु­क्ति­भि­र्यु­क्तिभिः
संन्य­स्य­न्त्य­परे तु तत्सुखमिति भ्राम्यन्ति दुःखार्णवे ॥ ८४ ॥

सुखमिति मलराशौ ये रमन्तेऽत्र गेहे
क्रिमय इव कल­त्र­क्षे­त्र­पु­त्रा­नु­षक्त्या ।
सुरपद इव तेषां नैव मोक्षप्रसङ्ग -
स्त्वपि तु निर­य­ग­र्भा­वा­स­दुः­ख­प्र­वाहः ॥ ८५ ॥

येषामाशा निराशा स्या -
द्दारा­प­त्य­ध­ना­दिषु ।
तेषां सिध्यति नान्येषां
मोक्षाशाभिमुखी गतिः ॥ ८६ ॥

सत्क­र्म­क्ष­य­पा­प्मनां श्रुतिमतां सिद्धात्मनां धीमतां
नित्या­नि­त्य­प­दा­र्थ­शो­ध­न­मिदं युक्त्या मुहुः कुर्वताम् ।
तस्मा­दु­त्थ­म­हा­वि­र­क्त्य­सि­मतां मोक्षै­क­का­ङ्क्षा­वतां
धन्यानां सुलभं स्त्रिया­दि­वि­ष­ये­ष्वा­शा­ल­ता­च्छे­द­नम् ॥ ८७ ॥

संसा­र­मृ­त्यो­र्ब­लिनः प्रवेष्टुं
द्वाराणि तु त्रीणि महान्ति लोके ।
कान्ता च जिह्वा कनकं च तानि
रुणद्धि यस्तस्य भयं न मृत्योः ॥ ८८ ॥

मुक्ति­श्री­न­ग­रस्य दुर्जयतरं द्वारं यदस्त्यादिमं
तस्य द्वे अररे धनं च युवती ताभ्यां पिनद्धं दृढम् ।
कामा­ख्या­र्ग­ल­दा­रुणा बलवता द्वारं तदेतत्त्रयं
धीरो यस्तु भिनत्ति सोऽर्हति सुखं भोक्तुं विमुक्तिश्रियः ॥ ८९ ॥

आरूढस्य विवेकाश्वं तीव्र­वै­रा­ग्य­ख­ड्गिनः ।
तिति­क्षा­व­र्म­यु­क्तस्य प्रतियोगी न दृश्यते ॥ ९० ॥

विवेकजां तीव्रविरक्तिमेव मुक्तेर्निदानं निगदन्ति सन्तः ।
तस्माद्विवेकी विरतिं मुमुक्षुः सम्पादयेत्तां प्रथमं प्रयत्नात् ॥ ९१ ॥

पुमा­न­जा­त­नि­र्वेदो देहबन्धं जिहासितुम् ।
न हि शक्नोति निर्वेदो बन्धभेदो महानसौ ॥ ९२ ॥

वैराग्यरहिता एव यमालय इवालये ।
क्लिश्नन्ति त्रिवि­धै­स्ता­पै­र्मो­हिता अपि पण्डिताः ॥ ९३ ॥

शमो दम­स्ति­ति­क्षो­प­रतिः श्रद्धा ततः परम् ।
समाधानमिति प्रोक्तं षडेवैते शमादयः ॥ ९४ ॥

एकवृत्त्यैव मनसः स्वलक्ष्ये नियतस्थितिः ।
शम इत्युच्यते सद्भिः शमलक्षणवेदिभिः ॥ ९५ ॥

उत्तमो मध्यमश्चैव जघन्य इति च त्रिधा ।
निरूपितो विपश्चिद्भिः तत्त­ल्ल­क्ष­ण­वे­दिभिः ॥ ९६ ॥

स्वविकारं परित्यज्य वस्तुमात्रतया स्थितिः ।
मनसः सोत्तमा शान्ति­र्ब्र­ह्म­नि­र्वा­ण­ल­क्षणा ॥ ९७ ॥

प्रत्य­क्प्र­त्य­य­स­न्ता­न­प्र­वा­ह­क­रणं धियः ।
यदेषा मध्यमा शान्तिः शुद्ध­स­त्त्वै­क­ल­क्षणा ॥ ९८ ॥

विषयव्यापृतिं त्यक्त्वा श्रव­णै­क­म­न­स्थितिः ।
मनसश्चेतरा शान्ति­र्मि­श्र­स­त्त्वै­क­ल­क्षणा ॥ ९९ ॥

प्राच्यो­दी­च्या­ङ्ग­स­द्भावे शमः सिध्यति नान्यथा ।
तीव्रा विरक्तिः प्राच्या­ङ्ग­मु­दी­च्याङ्गं दमादयः ॥ १०० ॥

कामः क्रोधश्च लोभश्च मदो मोहश्च मत्सरः ।
न जिताः षडिमे येन तस्य शान्तिर्न सिध्यति ॥ १०१ ॥

शब्दा­दि­वि­ष­येभ्यो यो विषवन्न निवर्तते ।
तीव्र­मो­क्षे­च्छया भिक्षोस्तस्य शान्तिर्न सिध्यति ॥ १०२ ॥

येन नाराधितो देवो यस्य नो गुर्वनुग्रहः ।
न वश्यं हृदयं यस्य तस्य शान्तिर्न सिध्यति ॥ १०३ ॥

मनः­प्र­सा­द­सि­द्ध्यर्थं साधनं श्रूयतां बुधैः ।
मनःप्रसादो यत्सत्त्वे यदभावे न सिध्यति ॥ १०४ ॥

ब्रह्म­च­र्य­म­हिंसा च दया भूतेष्ववक्रता ।
विष­ये­ष्व­ति­वै­तृष्ण्यं शौचं दम्भविवर्जनम् ॥ १०५ ॥

सत्यं निर्ममता स्थैर्य­म­भि­मा­न­वि­स­र्ज­नम् ।
ईश्वरध्यानपरता ब्रह्मविद्भिः सहस्थितिः ॥ १०६ ॥

ज्ञान­शा­स्त्रै­क­प­रता समता सुखदुःखयोः ।
माना­ना­स­क्ति­रे­का­न्त­शी­लता च मुमुक्षुता ॥ १०७ ॥

यस्यैतद्विद्यते सर्वं तस्य चित्तं प्रसीदति ।
न त्वेत­द्ध­र्म­शू­न्यस्य प्रका­रा­न्त­र­को­टिभिः ॥ १०८ ॥

स्मरणं दर्शनं स्त्रीणां गुण­क­र्मा­नु­की­र्त­नम् ।
समी­ची­न­त्व­धी­स्तासु प्रीतिः सम्भाषणं मिथः ॥ १०९ ॥

सहवासश्च संसर्गोऽष्टधा मैथुनं विदुः ।
एतद्विलक्षणं ब्रह्मचर्यं चित्तप्रसादकम् ॥ ११० ॥

अहिंसा वाङ्मनःकायैः प्राणि­मा­त्रा­प्र­पी­ड­नम् ।
स्वात्म­व­त्स­र्व­भू­तेषु कायेन मनसा गिरा ॥ १११ ॥

अनुकम्पा दया सैव प्रोक्ता वेदान्तवेदिभिः ।
कर­ण­त्रि­त­ये­ष्वे­क­रू­प­ता­व­क्रता मता ॥ ११२ ॥

ब्रह्मा­दि­स्था­व­रा­न्तेषु वैराग्यं विषयेष्वनु ।
यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ११३ ॥

बाह्यमाभ्यन्तरं चेति द्विविधं शौचमुच्यते ।
मृज्जलाभ्यां कृतं शौचं बाह्यं शारीरकं स्मृतम् ॥ ११४ ॥

अज्ञानदूरीकरणं मानसं शौचमान्तरम् ।
अन्तःशौचे स्थिते सम्यग्बाह्यं नावश्यकं नृणाम् ॥ ११५ ॥

ध्यानपूजादिकं लोके द्रष्टर्येव करोति यः ।
पार­मा­र्थि­क­धी­हीनः स दम्भाचार उच्यते ॥ ११६ ॥

पुंस­स्त­था­ना­च­र­ण­म­द­म्भित्वं विदुर्बुधा ः ।
यत्स्वेन दृष्टं सम्यक्च श्रुतं तस्यैव भाषणम् ॥ ११७ ॥

सत्यमित्युच्यते ब्रह्म सत्य­मि­त्य­भि­भा­ष­णम् ।
देहादिषु स्वकी­य­त्व­दृ­ढ­बु­द्धि­वि­स­र्ज­नम् ॥ ११८ ॥

निर्ममत्वं स्मृतं येन कैवल्यं लभते बुधः ।
गुरु­वे­दा­न्त­व­च­नै­र्नि­श्चि­तार्थे दृढस्थितिः ॥ ११९ ॥

तदेकवृत्त्या तत्स्थैर्यं नैश्चल्यं न तु वर्ष्मणः ।
विद्यै­श्व­र्य­त­पो­रू­प­कु­ल­व­र्णा­श्र­मा­दिभिः ॥ १२० ॥

सञ्जा­ता­ह­ङ्कृ­ति­त्या­ग­स्त्व­भि­मा­न­वि­स­र्ज­नम् ।
त्रिभिश्च करणैः सम्यग्हित्वा वैषयिकीं क्रियाम् ॥ १२१ ॥

स्वात्मै­क­चि­न्तनं यत्त­दी­श्व­र­ध्या­न­मी­रि­तम् ।
छायेव सर्वदा वासो ब्रह्मविद्भिः सह स्थितिः ॥ १२२ ॥

यद्यदुक्तं ज्ञानशास्त्रे श्रवणादिकमेषु यः ।
निरतः कर्मधीहीनः ज्ञाननिष्ठः स एव हि ॥ १२३ ॥

धन­का­न्ता­ज्व­रा­दीनां प्राप्तकाले सुखादिभिः ।
विकारहीनतैव स्यात्सु­ख­दुः­ख­स­मा­नता ॥ १२४ ॥

श्रेष्ठं पूज्यं विदित्वा मां मानयन्तु जना भुवि ।
इत्यासक्त्या विहीनत्वं माना­ना­स­क्ति­रु­च्यते ॥ १२५ ॥

सच्चिन्तनस्य सम्बाधो विघ्नोऽयं निर्जने ततः ।
स्थेयमित्येक एवास्ति चेत्सै­वै­का­न्त­शी­लता ॥ १२६ ॥

संसा­र­ब­न्ध­नि­र्मुक्तिः कदा झटिति मे भवेत् ।
इति या सुदृढा बुद्धिरीरिता सा मुमुक्षुता ॥ १२७ ॥

ब्रह्म­च­र्या­दि­भि­र्ध­र्मै­र्बु­द्धे­र्दो­ष­नि­वृ­त्तये ।
दण्डनं दम इत्या­हु­र्द­म­श­ब्दा­र्थ­को­विदाः ॥ १२८ ॥

तत्त­द्वृ­त्ति­नि­रो­धेन बाह्ये­न्द्रि­य­वि­नि­ग्रहः ।
योगिनो दम इत्याहुर्मनसः शान्तिसाधनम् ॥ १२९ ॥

इन्द्रि­ये­ष्वि­न्द्रि­या­र्थेषु प्रवृत्तेषु यदृच्छया ।
अनुधावति तान्येव मनो वायुमिवानलः ॥ १३० ॥

इन्द्रियेषु निरुद्धेषु त्यक्त्वा वेगं मनः स्वयम् ।
सत्त्व­भा­व­मु­पा­दत्ते प्रसादस्तेन जायते ॥ १३१ ॥

प्रसन्ने सति चित्तेऽस्य
मुक्तिः सिध्यति नान्यथा ।
मनःप्रसादस्य निदानमेव
निरोधनं यत्स­क­ले­न्द्रि­या­णाम् ।
बाह्येन्द्रिये साधु निरुध्यमाने
बाह्यार्थभोगो मनसो वियुज्यते ॥ १३२ ॥

तेन स्वदौष्ट्यं परिमुच्य चित्तं
शनैः शनैः शान्तिमुपाददाति ।
चित्तस्य बाह्या­र्थ­वि­मो­क्ष­मेव
मोक्षं विदु­र्मो­क्ष­ण­ल­क्ष­णज्ञाः ॥ १३३ ॥

दमं विना साधु मनःप्रसाद -
हेतुं न विद्मः सुकरं मुमुक्षोः ।
दमेन चित्तं निजदोषजातं
विसृज्य शान्तिं समुपैति शीघ्रम् ॥ १३४ ॥

प्राणा­या­मा­द्भ­वति मनसो निश्चलत्वं प्रसादो
यस्याप्यस्य प्रति­नि­य­त­दि­ग्दे­श­का­ला­द्य­वेक्ष्य ।
सम्यग्दृष्ट्या क्वचिदपि तया नो दमो हन्यते त -
त्कुर्या­द्धी­मा­न्द­म­म­न­ल­स­श्चि­त्त­शान्त्यै प्रयत्नात् ॥ १३५ ॥

सर्वे­न्द्रि­याणां गतिनिग्रहेण
भोग्येषु दोषाद्यवमर्शनेन ।
ईशप्रसादाच्च गुरोः प्रसादा -
च्छान्तिं समायात्यचिरेण चित्तम् ॥ १३६ ॥

आध्यात्मिकादि यद्दुःखं प्राप्तं प्रारब्धवेगतः ।
अचिन्तया तत्सहनं तितिक्षेति निगद्यते ॥ १३७ ॥

रक्षा तितिक्षासदृशी मुमुक्षो -
र्न विद्यतेऽसौ पविना न भिद्यते ।
यामेव धीराः कवचीव विघ्ना -
न्सर्वां­स्तृ­णी­कृत्य जयन्ति मायाम् ॥ १३८ ॥

क्षमावतामेव हि योगसिद्धिः
स्वारा­ज्य­ल­क्ष्मी­सु­ख­भो­ग­सिद्धिः ।
क्षमाविहीना निपतन्ति विघ्नै -
र्वातैर्हताः पर्णचया इव द्रुमात् ॥ १३९ ॥

तितिक्षया तपो दानं यज्ञस्तीर्थं व्रतं श्रुतम् ।
भूतिः स्वर्गोऽ­प­व­र्गश्च प्राप्यते तत्तदर्थिभिः ॥ १४० ॥

ब्रह्म­च­र्य­म­हिंसा च साधू­ना­म­प्य­ग­र्ह­णम् ।
पराक्षेपादिसहनं तितिक्षोरेव सिध्यति ॥ १४१ ॥

साधनेष्वपि सर्वेषु तिति­क्षो­त्त­म­सा­ध­नम् ।
यत्र विघ्नाः पलायन्ते दैविका अपि भौतिकाः ॥ १४२ ॥

तितिक्षोरेव विघ्ने­भ्य­स्त्व­नि­व­र्ति­त­चे­तसः ।
सिध्यन्ति सिद्धयः सर्वा अणिमाद्याः समृद्धयः ॥ १४३ ॥

तस्मा­न्मु­मु­क्षो­र­धिका तितिक्षा
सम्पा­द­नी­ये­प्सि­त­का­र्य­सिद्ध्यै ।
तीव्रा मुमुक्षा च महत्युपेक्षा
चोभे तिति­क्षा­स­ह­का­रि­का­र­णम् ॥ १४४ ॥

तत्त­त्का­ल­स­मा­ग­ता­म­य­ततेः शान्त्यै प्रवृत्तो यदि
स्यात्त­त्त­त्प­रि­हा­र­कौ­ष­ध­र­त­स्त­च्चि­न्तने तत्परः ।
तद्भिक्षुः श्रव­णा­दि­ध­र्म­र­हितो भूत्वा मृतश्चेत्ततः
किं सिद्धं फल­मा­प्नु­या­दु­भ­यथा भ्रष्टो भवेत्स्वार्थतः ॥ १४५ ॥

योगमभ्यस्यतो भिक्षो­र्यो­गा­च्च­लि­त­चे­तसः ।
प्राप्य पुण्य­कृ­तां­ल्लो­का­नि­त्यादि प्राह केशवः ॥ १४६ ॥

न तु कृत्वैव संन्यासं तूष्णीमेव मृतस्य हि ।
पुण्यलोकगतिं ब्रूते भग­वा­न्न्या­स­मा­त्रतः ॥ १४७ ॥

न च संन्यसनादेव सिद्धिं समधिगच्छति ।
इत्य­नु­ष्ठे­य­स­न्त्या­गा­त्सि­द्ध्य­भा­व­मु­वाच च ॥ १४८ ॥

तस्मा­त्ति­ति­क्षया सोढ्वा तत्त­द्दुः­ख­मु­पा­ग­तम् ।
कुर्या­च्छ­क्त्य­नु­रू­पेण श्रवणादि शनैः शनैः ॥ १४९ ॥

प्रयोजनं तितिक्षायाः साधितायाः प्रयत्नतः ।
प्राप्त­दुः­खा­स­हि­ष्णुत्वे न किञ्चिदपि दृश्यते ॥ १५० ॥

साधनत्वेन दृष्टानां सर्वेषामपि कर्मणाम् ।
विधिना यः परित्यागः स संन्यासः सतां मतः ॥ १५१ ॥

उपरमयति कर्मा­णी­त्यु­प­र­ति­श­ब्देन कथ्यते न्यासः ।
न्यासेन हि सर्वेषां श्रुत्या प्रोक्तो विकर्मणां त्यागः ॥ १५२ ॥

कर्मणा साध्य­मा­न­स्या­नि­त्यत्वं श्रूयते यतः ।
कर्मणानेन किं नित्यफलेप्सोः परमार्थिनः ॥ १५३ ॥

उत्पाद्यमाप्यं संस्कार्यं विकार्यं परिगण्यते ।
चतुर्विधं कर्मसाध्यं फलं नान्यदितः परम् ॥ १५४ ॥

नैतदन्यतरं ब्रह्म कदा भवितुमर्हति ।
स्वतःसिद्धं सर्वदाप्तं शुद्धं निर्मलमक्रियम् ॥ १५५ ॥

न चास्य कश्चि­ज्ज­नि­ते­त्या­ग­मेन निषिध्यते ।
कारणं ब्रह्म तत्त­स्मा­द्ब्रह्म नोत्पा­द्य­मि­ष्यते ॥ १५६ ॥

आप्त्रा­प्य­योस्तु भेदश्चेदाप्त्रा चाप्यमवाप्यते ।
आप्तृ­स्व­रू­प­मे­वै­त­द्ब्रह्म नाप्यं कदाचन ॥ १५७ ॥

मलिनस्यैव संस्कारो दर्प­णा­दे­रि­हे­ष्यते ।
व्योम­व­न्नि­त्य­शु­द्धस्य ब्रह्मणो नैव संस्क्रिया ॥ १५८ ॥

केन दुष्टेन युज्येत वस्तु निर्मलमक्रियम् ।
यद्योगादागतं दोषं संस्कारो विनिवर्तयेत् ॥ १५९ ॥

निर्गुणस्य गुणाधानमपि नैवोपपद्यते ।
केवलो निर्गुणश्चेति नैर्गुण्यं श्रूयते यतः ॥ १६० ॥

सावयवस्य क्षीरा­दे­र्व­स्तुनः परिणामिनः ।
येन केन विकारित्वं स्यान्नो निष्कर्मवस्तुनः ॥ १६१ ॥

निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।
इत्येव वस्तुनस्तत्त्वं श्रुति­यु­क्ति­व्य­व­स्थि­तम् ॥ १६२ ॥

तस्मान्न कर्मसाध्यत्वं ब्रह्मणोऽस्ति कुतश्चन ।
कर्मसाध्यं त्वनित्यं हि ब्रह्म नित्यं सनातनम् ॥ १६३ ॥

देहादिः क्षीयते लोको यथैवं कर्मणा चितः ।
तथैवामुष्मिको लोकः सञ्चितः पुण्यकर्मणा ॥ १६४ ॥

कृत­क­त्व­म­नि­त्यत्वे हेतुर्जागर्ति सर्वदा ।
तस्मादनित्ये स्वर्गादौ पण्डितः को नु मुह्यति ॥ १६५ ॥

जगद्धेतोस्तु नित्यत्वं सर्वेषामपि सम्मतम् ।
जग­द्धे­तु­त्व­म­स्यैव वावदीति श्रुतिर्मुहुः ॥ १६६ ॥

ऐतदात्म्यमिदं सर्वं तत्सत्यमिति च श्रुतिः ।
अस्यैव नित्यतां ब्रूते जगद्धेतोः सतः स्फुटम् ॥ १६७ ॥

न कर्मणा न प्रजया धनेनेति स्वयं श्रुतिः ।
कर्मणो मोक्षहेतुत्वं साक्षादेव निषेधति ॥ १६८ ॥

प्रत्य­ग्ब्र­ह्म­वि­चा­र­पू­र्व­मु­भ­यो­रे­क­त्व­बो­धा­द्विना
कैवल्यं पुरुषस्य सिध्यति पर­ब्र­ह्मा­त्म­ता­ल­क्ष­णम् ।
न स्नानैरपि कीर्तनैरपि जपैर्नो कृच्छ्र­चा­न्द्रा­यणै -
र्नो वाप्य­ध्व­र­य­ज्ञ­दा­न­नि­ग­मैर्नो मन्त्र­त­न्त्रै­रपि ॥ १६९ ॥

ज्ञानादेव तु कैवल्यमिति श्रुत्या निगद्यते ।
ज्ञानस्य मुक्ति­हे­तु­त्व­म­न्य­व्या­वृ­त्ति­पू­र्व­कम् ॥ १७० ॥

विवेकिनो विरक्तस्य ब्रह्म­नि­त्य­त्व­वे­दिनः ।
तद्भा­वे­च्छो­र­नि­त्यार्थे तत्सामग्र्ये कुतो रतिः ॥ १७१ ॥

तस्मादनित्ये स्वर्गादौ साधनत्वेन चोदितम् ।
नित्यं नैमित्तिकं चापि सर्वं कर्म ससाधनम् ॥ १७२ ॥

मुमुक्षुणा परित्याज्यं ब्रह्म­भा­व­म­भी­प्सुना ।
मुमुक्षोरपि कर्मास्तु श्रवणं चापि साधनम् ॥ १७३ ॥

हस्त­व­द्द्व­य­मे­तस्य स्वकार्यं साधयिष्यति ।
यथा विजृम्भते दीपो ऋजूकरणकर्मणा ॥ १७४ ॥

तथा श्रवणजो बोधः पुंसो विहितकर्मणा ।
अतः सापेक्षितं ज्ञानमथवापि समुच्चयम् ॥ १७५ ॥

मोक्षस्य साधनमिति वदन्ति ब्रह्मवादिनः ।
मुमु­क्षो­र्यु­ज्यते त्यागः कथं विहितकर्मणः ॥ ।
१७६ ॥

इति शङ्का न कर्तव्या मूढ­व­त्प­ण्डि­तो­त्तमैः ।
कर्मणः फलमन्यत्तु श्रवणस्य फलं पृथक् ॥ १७७ ॥

वैलक्षण्यं च साम­ग्र्यो­श्चो­भ­य­त्रा­धि­का­रिणोः ।
कामी कर्मण्यधिकृतो निष्कामी श्रवणे मतः ॥ १७८ ॥

अर्थी समर्थ इत्यादि लक्षणं कर्मिणो मतम् ।
परीक्ष्य लोकानित्यादि लक्षणं मोक्षकाङ्क्षिणः ॥ १७९ ॥

मोक्षाधिकारी संन्यासी गृहस्थः किल कर्मणि ।
कर्मणः साधनं भार्या­स्रु­क्स्रु­वा­दि­प­रि­ग्रहः ॥ १८० ॥

नैवा­न्य­सा­ध­ना­पेक्षा शुश्रूषोस्तु गुरुं विना ।
उप­र्यु­प­र्य­ह­ङ्कारो वर्धते कर्मणा भृशम् ॥ १८१ ॥

अहङ्कारस्य विच्छित्तिः श्रवणेन प्रतिक्षणम् ।
प्रवर्तकं कर्मशास्त्रं ज्ञानशास्त्रं निवर्तकम् ॥ १८२ ॥

इत्या­दि­वै­प­रीत्यं तत्साधने चाधिकारिणोः ।
द्वयोः परस्परापेक्षा विद्यते न कदाचन ॥ १८३ ॥

साम­ग्र्यो­श्चो­भ­यो­स्त­द्व­दु­भ­य­त्रा­धि­का­रिणोः ।
ऊर्ध्वं नयति विज्ञानमधः प्रापयति क्रिया ॥ १८४ ॥

कथ­म­न्यो­न्य­सा­पेक्षा कथं वापि समुच्चयः ।
यथा­ग्ने­स्तृ­ण­कू­टस्य तेजसस्तिमिरस्य च ॥ १८५ ॥

सहयोगो न घटते तथैव ज्ञानकर्मणोः ।
किमू­प­कु­र्या­ज्ज्ञा­नस्य कर्म­स्व­प्र­ति­यो­गिनः ।
यस्य संनिधिमात्रेण स्वयं न स्फूर्तिमृच्छति ॥ १८६ ॥

कोटी­न्ध­ना­द्रि­ज्व­लि­तोऽपि वह्निरर्कस्य नार्ह­त्यु­प­क­र्तु­मी­षत् ।
यथा तथा कर्म­स­ह­स्र­को­टि­र्ज्ञा­नस्य किं नु स्वयमेव लीयते ॥ १८७ ॥

एककर्त्राश्रयौ हस्तौ कर्म­ण्य­धि­कृ­ता­वुभौ ।
सह­यो­ग­स्त­यो­र्युक्तो न तथा ज्ञानकर्मणोः ॥ १८८ ॥

कर्त्रा कर्तुमकर्तुं वाप्यन्यथा कर्म शक्यते ।
न तथा वस्तुनो ज्ञानं कर्तृतन्त्रं कदाचन ॥ १८९ ॥

यथा वस्तु तथा ज्ञानं प्रमाणेन विजायते ।
नापेक्षते च यत्किञ्चित्कर्म वा युक्तिकौशलम् ॥ १९० ॥

ज्ञानस्य वस्तुतन्त्रत्वे संशयाद्युदयः कथम् ।
अतो न वास्तवं ज्ञानमिति नो शङ्क्यतां बुधैः ॥ १९१ ॥

प्रमा­णा­सौ­ष्ठ­व­वृतं संशयादि न वास्तवम् ।
श्रुति­प्र­मा­ण­सु­ष्ठुत्वे ज्ञानं भवति वास्तवम् ॥ १९२ ॥

वस्तु तावत्परं ब्रह्म नित्यं सत्यं ध्रुवं विभु ।
श्रुतिप्रमाणे तज्ज्ञानं स्यादेव निरपेक्षकम् ॥ १९३ ॥

रूपज्ञानं यथा सम्यग्दृष्टौ सत्यां भवेत्तथा ।
श्रुतिप्रमाणे सत्येव ज्ञानं भवति वास्तवम् ॥ १९४ ॥

न कर्म यत्कि­ञ्चि­द­पे­क्षते हि रूपोपलब्धौ पुरुषस्य चक्षुः ।
ज्ञानं तथैव श्रवणादिजन्यं वस्तुप्रकाशे निरपेक्षमेव ॥ १९५ ॥

कर्तृतन्त्रं भवेत्कर्म कर्मतन्त्रं शुभाशुभम् ।
प्रमाणतन्त्रं विज्ञानं मायातन्त्रमिदं जगत् ॥ १९६ ॥

विद्यां चाविद्यां चेति सहो­क्ति­रि­य­मु­प­कृता सद्भिः ।
सत्क­र्मो­पा­स­न­योर्न त्वात्म­ज्ञा­न­क­र्मणोः क्वापि ॥ १९७ ॥

नित्या­नि­त्य­प­दा­र्थ­बो­ध­र­हितो यश्चोभयत्र स्रगा -
द्यर्था­ना­म­नु­भू­ति­ल­ग्न­हृ­दयो निर्वि­ण्ण­बु­द्धि­र्जनः ।
तस्यैवास्य जडस्य कर्म विहितं श्रुत्या विरज्याभितो
मोक्षेच्छोर्न विधीयते तु परमानन्दार्थिनो धीमतः ॥ १९८ ॥

मोक्षेच्छया यदहरेव विरज्यतेऽसौ
न्यासस्तदैव विहितो विदुषो मुमुक्षोः ।
श्रुत्या तयैव परया च ततः सुधीभिः
प्रामा­णि­कोऽ­य­मिति चेतसि निश्चितव्यः ॥ १९९ ॥

स्वापरोक्षस्य वेदादेः साधनत्वं निषेधति ।
नाहं वेदैर्न तपसेत्यादिना भगवानपि ॥ २०० ॥

प्रवृत्तिश्च निवृत्तिश्च द्वे एते श्रुतिगोचरे ।
प्रवृत्त्या बध्यते जन्तु­र्नि­वृत्त्या तु विमुच्यते ॥ २०१ ॥

यन्न स्वबन्धोऽभिमतो मूढस्यापि क्वचित्ततः ।
निवृत्तिः कर्मसंन्यासः कर्तव्यो मोक्ष­का­ङ्क्षिभिः ॥ २०२ ॥

न ज्ञान­क­र्म­णो­र्य­स्मा­त्स­ह­यो­गस्तु युज्यते ।
तस्मात्त्याज्यं प्रयत्नेन कर्म ज्ञानेच्छुना ध्रुवम् ॥ २०३ ॥

इष्ट­सा­ध­न­ता­बुद्ध्या गृहीतस्यापि वस्तुनः ।
विज्ञाय फल्गुतां पश्चात्कः पुन­स्त­त्प्र­ती­क्षते ॥ २०४ ॥

उपरतिशब्दार्थो ह्युपरमणं पूर्व­दृ­ष्ट­वृ­त्तिभ्यः ।
सोऽयं मुख्यो गौणश्चेति च वृत्त्या द्विरूपतां धत्ते ॥ २०५ ॥

वृत्ते­र्दृ­श्य­प­रि­त्यागो मुख्यार्थ इति कथ्यते ।
गौणार्थः कर्मसंन्यासः श्रुतेरङ्गतया मतः ॥ २०६ ॥

पुंसः प्रधा­न­सि­द्ध्य­र्थ­म­ङ्ग­स्या­श्र­यणं ध्रुवम् ।
कर्तव्यमङ्गहीनं चेत्प्रधानं नैव सिध्यति ॥ २०७ ॥

संन्य­से­त्सु­वि­रक्तः सन्नि­हा­मु­त्रा­र्थतः सुखात् ।
अविरक्तस्य संन्यासो निष्फ­लोऽ­या­ज्य­या­ग­वत् ॥ २०८ ॥

संन्यस्य तु यतिः कुर्यान्न पूर्व­वि­ष­य­स्मृ­तिम् ।
तां तां तत्स्मरणे तस्य जुगुप्सा जायते यतः ॥ २०९ ॥

गुरु­वे­दा­न्त­वा­क्येषु बुद्धिर्या निश्चयात्मिका ।
सत्यमित्येव सा श्रद्धा निदानं मुक्तिसिद्धये ॥ २१० ॥

श्रद्धावतामेव सतां पुमर्थः
समीरितः सिध्यति नेतरेषाम् ।
उक्तं सुसूक्ष्मं परमार्थतत्त्वं
श्रद्धत्स्व सोम्येति च वक्ति वेदः ॥ २११ ॥

श्रद्धाविहीनस्य तु न प्रवृत्तिः
प्रवृ­त्ति­शू­न्यस्य न साध्यसिद्धिः ।
अश्र­द्ध­यै­वा­भि­ह­ताश्च सर्वे
मज्जन्ति संसारमहासमुद्रे ॥ २१२ ॥

दैवे च वेदे च गुरौ च मन्त्रे
तीर्थे महात्मन्यपि भेषजे च ।
श्रद्धा भवत्यस्य यथा यथान्त -
स्तथा तथा सिद्धिरुदेति पुंसाम् ॥ २१३ ॥

अस्ती­त्ये­वो­प­ल­ब्धव्यं वस्तु­स­द्भा­व­नि­श्च­यात् ।
सद्भा­व­नि­श्च­य­स्तस्य श्रद्धया शास्त्रसिद्धया ॥ २१४ ॥

तस्माच्छ्रद्धा सुसम्पाद्या गुरु­वे­दा­न्त­वा­क्ययोः ।
मुमुक्षोः श्रद्दधानस्य फलं सिध्यति नान्यथा ॥ २१५ ॥

यथार्थवादिता पुंसां श्रद्धा­ज­न­न­का­र­णम् ।
वेद­स्ये­श्व­र­वा­क्य­त्वा­द्य­था­र्थत्वे न संशयः ॥ २१६ ॥

मुक्त­स्ये­श्व­र­रू­प­त्वा­द्गु­रो­र्वा­गपि तादृशी ।
तस्मा­त्त­द्वा­क्ययोः श्रद्धा सतां सिध्यति धीमताम् ॥ २१७ ॥

श्रुत्यु­क्ता­र्था­व­गा­हाय विदुषा ज्ञेयवस्तुनि ।
चित्तस्य सम्यगाधानं समाधानमितीर्यते ॥ २१८ ॥

चित्तस्य साध्यैकपरत्वमेव
पुम­र्थ­सि­द्धे­र्नि­य­मेन कारणम् ।
नैवान्यथा सिध्यति साध्यमीष -
न्मनःप्रमादे विफलः प्रयत्नः ॥ २१९ ॥

चित्तं च दृष्टिं करणं तथान्य -
देकत्र बघ्नाति हि लक्ष्यभेत्ता ।
किञ्चित्प्रमादे सति लक्ष्यभेत्तु -
र्बाणप्रयोगो विफलो यथा तथा ॥ २२० ॥

सिद्धे­श्चि­त्त­स­मा­धा­न­म­सा­धा­र­ण­का­र­णम् ।
यतस्ततो मुमुक्षूणां भवितव्यं सदामुना ॥ २२१ ॥

अत्य­न्त­ती­व्र­वै­राग्यं फललिप्सा महत्तरा ।
तदेतदुभयं विद्या­त्स­मा­धा­नस्य कारणम् ॥ २२२ ॥

बहिरङ्गं श्रुतिः प्राह ब्रह्मचर्यादि मुक्तये ।
शमा­दि­ष­ट्क­मे­वै­त­द­न्त­रङ्गं विदुर्बुधाः ॥ २२३ ॥

अन्तरङ्गं हि बल­व­द्ब­हि­र­ङ्गा­द्य­त­स्ततः ।
शमादिषट्कं जिज्ञासोरवश्यं भाव्यमान्तरम् ॥ २२४ ॥

अन्त­र­ङ्ग­वि­ही­नस्य कृतश्रवणकोटयः ।
न फलन्ति यथा योद्धु­र­धी­र­स्या­स्त्र­स­म्पदः ॥ २२५ ॥

ब्रह्मा­त्मै­क­त्व­वि­ज्ञा­ना­द्य­द्वि­द्वा­न्मो­क्तु­मि­च्छति ।
संसारपाशबन्धं तन्मुमुक्षुत्वं निगद्यते ॥ २२६ ॥

साधनानां तु सर्वेषां मुमुक्षा मूलकारणम् ।
अनि­च्छो­र­प्र­वृ­त्तस्य क्व श्रुतिः क्व नु तत्फलम् ॥ २२७ ॥

तीव्र­म­ध्य­म­म­न्दा­ति­म­न्द­भे­दा­श्च­तु­र्विधाः ।
मुमुक्षा तत्प्रकारोऽपि कीर्त्यते श्रूयतां बुधैः ॥ २२८ ॥

तापै­स्त्रि­भि­र्नि­त्य­म­ने­क­रूपैः सन्तप्यमानः क्षुभि­ता­न्त­रात्मा ।
परिग्रहं सर्व­म­न­र्थ­बुद्ध्या जहाति सा तीव्रतरा मुमुक्षा ॥ २२९ ॥

तापत्रयं तीव्रमवेक्ष्य वस्तु
दृष्ट्वा कलत्रं तनयान्विहातुम् ।
मध्ये द्वयो­र्लो­ड­न­मा­त्मनो य -
त्सैषा मता माध्यमिकी मुमुक्षा ॥ २३० ॥

मोक्षस्य कालोऽस्ति किमद्य मे त्वरा
भुक्त्वैव भोगा­न्कृ­त­स­र्व­कार्यः ।
मुक्त्यै यतिष्येऽहमथेति बुद्धि -
रेषैव मन्दा कथिता मुमुक्षा ॥ २३१ ॥

मार्गे प्रया­तु­र्म­णि­ला­भ­वन्मे
लभेत मोक्षो यदि तर्हि धन्यः ।
इत्याशया मूढधियां मतिर्या
सैषा­ति­म­न्दा­भि­मता मुमुक्षा ॥ २३२ ॥

जन्मा­ने­क­स­ह­स्रेषु तपसाराधितेश्वरः ।
तेन निःशे­ष­नि­र्धू­त­हृ­द­य­स्थि­त­क­ल्मषः ॥ २३३ ॥

शास्त्र­वि­द्गु­ण­दो­षज्ञो भोग्यमात्रे विनिस्पृहः ।
नित्या­नि­त्य­प­दा­र्थज्ञो मुक्तिकामो दृढव्रतः ॥ २३४ ॥

निष्टप्तमग्निना पात्रमुद्वास्य त्वरया यथा ।
जहाति गेहं तद्वच्च तीव्र­मो­क्षे­च्छया द्विजः ॥ २३५ ॥

स एव सद्यस्तरति संसृतिं गुर्वनुग्रहात् ।
यस्तु तीव्रमुमुक्षुः स्यात्स जीवन्नेव मुच्यते ॥ २३६ ॥

जन्मान्तरे मध्यमस्तु तदन्यस्तु युगान्तरे ।
चतुर्थः कल्पकोट्यां वा नैव बन्धा­द्वि­मु­च्यते ॥ २३७ ॥

नृजन्म जन्तोरतिदुर्लभं विदु -
स्ततोऽपि पुंस्त्वं च ततो विवेकः ।
लब्ध्वा तदेतत्त्रितयं महात्मा
यतेत मुक्त्यै सहसा विरक्तः ॥ २३८ ॥

पुत्र­मि­त्र­क­ल­त्रा­दि­सुखं जन्मनि जन्मनि ।
मर्त्यत्वं पुरुषत्वं च विवेकश्च न लभ्यते ॥ २३९ ॥

लब्ध्वा सुदुर्लभतरं नरजन्म जन्तु -
स्तत्रापि पौरुषमतः सदसद्विवेकम् ।
सम्प्राप्य चैहिकसुखाभिरतो यदि स्या -
द्धिक्तस्य जन्म कुमतेः पुरुषाधमस्य ॥ २४० ॥

खादते मोदते नित्यं शुनकः सूकरः खरः ।
तेषामेषां विशेषः को वृत्तिर्येषां तु तैः समा ॥ २४१ ॥

यावन्नाश्रयते रोगो यावन्नाक्रमते जरा ।
यावन्न धीर्विपर्येति यावन्मृत्युं न पश्यति ॥ २४२ ॥

तावदेव नरः स्वस्थः सारग्रहणतत्परः ।
विवेकी प्रयतेताशु भवबन्धविमुक्तये ॥ २४३ ॥

देव­र्षि­पि­तृ­म­र्त्य­र्ण­ब­न्ध­मु­क्तास्तु कोटिशः ।
भव­ब­न्ध­वि­मु­क्तस्तु यः कश्चि­द्ब्र­ह्म­वि­त्तमः ॥ २४४ ॥

अन्तर्बन्धेन बद्धस्य किं बहिर्बन्धमोचनैः ।
तद­न्त­र्ब­न्ध­मु­क्त्यर्थं क्रियतां कृतिभिः कृतिः ॥ २४५ ॥

कृतिपर्यवसानैव मता तीव्रमुमुक्षुता ।
अन्या तु रञ्जनामात्रा यत्र नो दृश्यते कृतिः ॥ २४६ ॥

गेहादिसर्वमपहाय लघुत्वबुद्ध्या
सौख्येच्छया स्वप­ति­ना­न­ल­मा­वि­विक्षोः ।
कान्ताजनस्य नियता सुदृढा त्वरा या
सैषा फलान्तगमने करणं मुमुक्षोः ॥ २४७ ॥

नित्या­नि­त्य­वि­वे­कश्च देहक्षणिकतामतिः ।
मृत्योर्भीतिश्च तापश्च मुमु­क्षा­वृ­द्धि­का­र­णम् ॥ २४८ ॥

शिरो विवे­क­स्त्व­त्यन्तं वैराग्यं वपुरुच्यते ।
शमादयः षडङ्गानि मोक्षेच्छा प्राण इष्यते ॥ २४९ ॥

ईदृ­शा­ङ्ग­स­मा­युक्तो जिज्ञा­सु­र्यु­क्ति­को­विदः ।
शूरो मृत्युं निहन्त्येव सम्य­ग्ज्ञा­ना­सिना ध्रुवम् ॥ २५० ॥

उक्त­सा­ध­न­स­म्पन्नो जिज्ञा­सु­र्य­ति­रा­त्मनः ।
जिज्ञासायै गुरुं गच्छे­त्स­मि­त्पा­णि­र्न­यो­ज्ज्वलः ॥ २५१ ॥

श्रोत्रियो ब्रह्मनिष्ठो यः प्रशान्तः समदर्शनः ।
निर्ममो निरहङ्कारो निर्द्वन्द्वो निष्परिग्रहः ॥ २५२ ॥

अनपेक्षः शुचिर्दक्षः करुणामृतसागरः ।
एवं­ल­क्ष­ण­स­म्पन्नः स गुरु­र्ब्र­ह्म­वि­त्तमः ।
उपासाद्यः प्रयत्नेन जिझासोः स्वार्थसिद्धये ॥ २५३ ॥

जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितो
भक्तै­र्वै­दि­क­ल­क्ष­णेन विधिना सन्तुष्ट ईशः स्वयम् ।
साक्षा­च्छ्री­गु­रु­रू­प­मेत्य कृपया दृग्गोचरः सन्प्रभुः
तत्त्वं साधु विबोध्य तारयति तान्सं­सा­र­दुः­खा­र्ण­वात् ॥ २५४ ॥

अवि­द्या­हृ­द­य­ग्र­न्थि­वि­मो­क्षोऽपि भवेद्यतः ।
तमेव गुरु­रि­त्या­हु­र्गु­रु­श­ब्दा­र्थ­वे­दिनः ॥ २५५ ॥

शिव एव गुरुः साक्षात् गुरुरेव शिवः स्वयम् ।
उभयोरन्तरं किञ्चिन्न द्रष्टव्यं मुमुक्षुभिः ॥ २५६ ॥

बन्धमुक्तं ब्रह्मनिष्ठं कृतकृत्यं भजेद्गुरुम् ।
यस्य प्रसा­दा­त्सं­सा­र­सा­गरो गोष्पदायते ॥ २५७ ॥

शुश्रूषया सदा भक्त्या प्रणा­मै­र्वि­न­यो­क्तिभिः ।
प्रसन्नं गुरुमासाद्य प्रष्टव्यं ज्ञेयमात्मनः ॥ २५८ ॥

भग­व­न्क­रु­णा­सिन्धो भव­सि­न्धो­र्भ­वां­स्तरिः ।
यमा­श्रि­त्या­श्र­मे­णैव परं पारं गता बुधाः ॥ २५९ ॥

जन्मा­न्त­र­कृ­ता­न­न्त­पु­ण्य­क­र्म­फ­लो­दयः ।
अद्य संनिहितो यस्मा­त्त्व­त्कृ­पा­पा­त्र­म­स्म्य­हम् ॥ २६० ॥

सम्प्री­ति­म­क्ष्णो­र्व­द­न­प्र­साद -
मान­न्द­म­न्तः­क­र­णस्य सद्यः ।
विलोकनं ब्रह्म­वि­द­स्त­नोति
छिनत्ति मोहं सुगतिं व्यनक्ति ॥ २६१ ॥

हुताशनानां शशिनामिनाना -
मप्यर्बुदं वापि न यन्निहन्तुम् ।
शक्नोति यद्ध्वा­न्त­म­न­न्त­मा­न्तरं
हन्त्या­त्म­वेत्ता सकृदीक्षणेन ॥ २६२ ॥

दुष्पारे भवसागरे जनि­मृ­त­व्या­ध्या­दि­दुः­खो­त्कटे
घोरे पुत्र­क­ल­त्र­मि­त्र­ब­हु­ल­ग्रा­हा­करे भीकरे ।
कर्मो­त्तु­ङ्ग­त­र­ङ्ग­भ­ङ्ग­नि­क­रै­रा­कृ­ष्य­माणो मुहुः
याता­या­त­ग­ति­भ्र­मेण शरणं किञ्चिन्न पश्याम्यहम् ॥ २६३ ॥

केन वा पुण्यशेषेण तव पादाम्बुजद्वयम् ।
दृष्टवानस्मि मामार्तं मृत्योस्त्राहि दयादृशा ॥ २६४ ॥

वदन्तमेवं तं शिष्यं दृष्ट्यैव दयया गुरुः ।
दद्यादभयमेतस्मै मा भैष्टेति मुहुर्मुहुः ॥ २६५ ॥

विद्व­न्मृ­त्यु­भयं जहीहि भवतो नास्त्येव मृत्युः क्वचि -
न्नित्यस्य द्वयवर्जितस्य परमानन्दात्मनो ब्रह्मणः ।
भ्रान्त्या किञ्चिदवेक्ष्य भीतमनसा मिथ्या त्वया कथ्यते
मां त्राहीति हि सुप्तवत्प्रलपनं शून्यात्मकं ते मृषा ॥ २६६ ॥

निद्रा­गा­ढ­त­मो­वृतः किल जनः स्वप्ने भुजङ्गादिना
ग्रस्तं स्वं समवेक्ष्य यत्प्रलपति त्रासा­द्ध­तोऽ­स्मी­त्य­लम् ।
आप्तेन प्रतिबोधितः करतलेनाताड्य पृष्टः स्वयं
किञ्चिन्नेति वदत्यमुष्य वचनं स्यात्त­त्कि­मर्थं वद ॥ २६७ ॥

रज्जोस्तु तत्त्वमनवेक्ष्य गृहीतसर्प -
भावः पुमा­न­य­म­हि­र्व­स­तीति मोहात् ।
आक्रोशति प्रतिबिभेति च कम्पते त -
न्मिथ्यैव नात्र भुजगोऽस्ति विचार्यमाणे ॥ २६८ ॥

तद्व­त्त्व­या­प्या­त्मन उक्तमेत -
ज्जन्मा­प्य­य­व्या­धि­ज­रा­दि­दुः­खम् ।
मृषैव सर्वं भ्रमकल्पितं ते
सम्य­ग्वि­चा­र्या­त्मनि मुञ्च भीतिम् ॥ २६९ ॥

भवाननात्मनो धर्मा­ना­त्म­न्या­रोप्य शोचति ।
तदज्ञानकृतं सर्वं भयं त्यक्त्वा सुखी भव ॥ २७० ॥

शिष्यः -

श्रीमद्भिरुक्तं सकलं मृषेति
दृष्टान्त एव ह्युपपद्यते तत् ।
दार्ष्टान्तिके नैव भवादिदुःखं
प्रत्यक्षतः सर्व­ज­न­प्र­सि­द्धम् ॥ २७१ ॥

प्रत्य­क्षे­णा­नु­भू­तार्थः कथं मिथ्यात्वमर्हति ।
चक्षुषो विषयं कुम्भं कथं मिथ्या करोम्यहम् ॥ २७२ ॥

विद्यमानस्य मिथ्यात्वं कथं नु घटते प्रभो ।
प्रत्यक्षं खलु सर्वेषां प्रमाणं प्रस्फुटार्थकम् ॥ २७३ ॥

मर्त्यस्य मम जन्मा­दि­दुः­ख­भा­जोऽ­ल्प­जी­विनः ।
ब्रह्मत्वमपि नित्यत्वं परमानन्दता कथम् ॥ २७४ ॥

क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः ।
आत्म­न्य­ना­त्म­ध­र्मा­णा­मा­रोपः क्रियते कथम् ॥ २७५ ॥

किमज्ञानं तदु­त्प­न्न­भ­य­त्या­गोऽपि वा कथम् ।
किमु ज्ञानं तदु­त्प­न्न­सु­ख­प्रा­प्तिश्च वा कथम् ॥ २७६ ॥

सर्व­मे­त­द्य­था­पूर्वं करा­म­ल­क­व­त्स्फु­टम् ।
प्रतिपादय मे स्वामिन् श्रीगुरो करुणानिधे ॥ २७७ ॥

श्रीगुरुः -

धन्यः कृतार्थस्त्वमहो विवेकः
शिवप्रसादस्तव विद्यते महान् ।
विसृज्य तु प्राकृ­त­लो­क­मार्गं
ब्रह्मावगन्तुं यतसे यतस्त्वम् ॥ २७८ ॥

शिवप्रसादेन विना न सिद्धिः
शिवप्रसादेन विना न बुद्धिः ।
शिवप्रसादेन विना न युक्तिः
शिवप्रसादेन विना न मुक्तिः ॥ २७९ ॥

यस्य प्रसादेन विमुक्तसङ्गाः
शुकादयः संसृ­ति­ब­न्ध­मुक्ताः ।
तस्य प्रसादो बहुजन्मलभ्यो
भक्त्यैकगम्यो भवमुक्तिहेतुः ॥ २८० ॥

विवेको जन्तूनां प्रभवति जनिष्वेव बहुषु
प्रसा­दा­दे­वै­शा­द्ब­हु­सु­कृ­त­पा­को­द­य­व­शात् ।
यतस्तस्मादेव त्वमपि परमार्थावगमने
कृतारम्भः पुंसामिदमिह विवेकस्य तु फलम् ॥ २८१ ॥

मर्त्य­त्व­सि­द्धे­रपि पुंस्त्वसिद्धे -
र्विप्र­त्व­सि­द्धेश्च विवेकसिद्धेः ।
वदन्ति मुख्यं फलमेव मोक्षं
व्यर्थं समस्तं यदि चेन्न मोक्षः ॥ २८२ ॥

प्रश्नः समीचीनतरस्तवायं
यदा­त्म­त­त्त्वा­व­गमे प्रवृत्तिः ।
ततस्तवैतत्सकलं समूलं
निवेदयिष्यामि मुदा शृणुष्व ॥ २८३ ॥

मर्त्यत्वं त्वयि कल्पितं भ्रमवशात्तेनैव जन्मादयः
तत्सम्भावितमेव दुःखमपि ते नो वस्तुतस्तन्मृषा ।
निद्रा­मो­ह­व­शा­दु­पा­ग­त­सुखं दुःखं च किं नु त्वया
सत्यत्वेन विलोकितं क्वचिदपि ब्रूहि प्रबोधागमे ॥ २८४ ॥

नाशे­ष­लो­कै­र­नु­भू­य­मानः
प्रत्यक्षतोऽयं सकलप्रपञ्चः ।
कथं मृषा स्यादिति शङ्कनीयं
विचारशून्येन विमुह्यता त्वया ॥ २८५ ॥

दिवा­न्ध­दृ­ष्टेस्तु दिवान्धकारः
प्रत्य­क्ष­सि­द्धोऽपि स किं यथार्थः ।
तद्व­द्भ्र­मे­णा­व­गतः पदार्थो
भ्रान्तस्य सत्यः सुमतेर्मृषैव ॥ २८६ ॥

घटोऽयमित्यत्र घटाभिधानः
प्रत्यक्षतः कश्चिदुदेति दृष्टेः ।
विचार्यमाणे स तु नास्ति तत्र
मृदस्ति तद्भावविलक्षणा सा ॥ २८७ ॥

प्रादेशमात्रः परिदृश्यतेऽर्कः
शास्त्रेण सन्द­र्शि­त­ल­क्ष­यो­जनः ।
मानान्तरेण क्वचिदेति बाधां
प्रत्य­क्ष­म­प्यत्र हि न व्यवस्था ॥ २८८ ॥

तस्मात्त्वयीदं भ्रमतः प्रतीतं
मृषैव नो सत्यमवेहि साक्षात् ।
ब्रह्म त्वमेवासि सुखस्वरुपं
त्वत्तो न भिन्नं विचिनुष्व बुद्धौ ॥ २८९ ॥

लोकान्तरे वात्र गुहान्तरे वा
तीर्थान्तरे कर्म­प­र­म्प­रा­न्तरे ।
शास्त्रान्तरे नास्त्य­नु­प­श्य­ता­मिह
स्वयं परं ब्रह्म विचार्यमाणे ॥ २९० ॥

तत्त्व­मा­त्म­स्थ­म­ज्ञात्वा मूढः शास्त्रेषु पश्यति ।
गोपः कक्षगतं छागं यथा कूपेषु दुर्मतिः ॥ २९१ ॥

स्वमात्मानं परं मत्वा परमात्मानमन्यथा ।
विमृग्यते पुनः स्वात्मा बहिः कोशेषु पण्डितैः ॥ २९२ ॥

विस्मृत्य वस्तु­न­स्त­त्त्व­म­ध्या­रोप्य च वस्तुनि ।
अवस्तुतां च तद्धर्मान्मुधा शोचति नान्यथा ॥ २९३ ॥

आत्मा­ना­त्म­वि­वेकं ते वक्ष्यामि शृणु सादरम् ।
यस्य श्रवणमात्रेण मुच्य­तेऽ­ना­त्म­ब­न्ध­नात् ॥ २९४ ॥

इत्यु­क्त्वा­भि­मु­खी­कृत्य शिष्यं करुणया गुरुः ।
अध्या­रो­पा­प­वा­दाभ्यां निष्प्रपञ्चं प्रपञ्चयन् ॥ २९५ ॥

सम्य­क्प्रा­बो­ध­य­त्तत्त्वं शास्त्रदृष्टेन वर्त्मना ।
सर्वेषामुपकाराय तत्प्रकारोऽत्र दर्श्यते ॥ २९६ ॥

वस्तु­न्य­व­स्त्वा­रोपो यः सोऽध्यारोप इतीर्यते ।
असर्पभूते रज्ज्वादौ सर्पत्वारोपणं यथा ॥ २९७ ॥

वस्तु तावत्परं ब्रह्म सत्य­ज्ञा­ना­दि­ल­क्ष­णम् ।
इदमारोपितं यत्र भाति खे नीलतादिवत् ॥ २९८ ॥

तत्कारणं यदज्ञानं सकार्यं सद्विलक्षणम् ।
अव­स्त्वि­त्यु­च्यते सद्भिर्यस्य बाधा प्रदृश्यते ॥ २९९ ॥

अवस्तु तत्प्र­मा­णै­र्य­द्बा­ध्यते शुक्तिरौप्यवत् ।
न बाध्यते यत्तद्वस्तु त्रिषु कालेषु शुक्तिवत् ॥ ३०० ॥

शुक्तेर्बाधा न खल्वस्ति रजतस्य यथा तथा ।
अवस्तुसंज्ञितं यत्त­ज्ज­ग­द­ध्या­स­का­र­णम् ॥ ३०१ ॥

सद­स­द्भ्या­म­नि­र्वा­च्य­म­ज्ञानं त्रिगुणात्मकम् ।
वस्तु­त­त्त्वा­व­बो­धै­क­बाध्यं तद्भावलक्षणम् ॥ ३०२ ॥

मिथ्या­स­म्ब­न्ध­त­स्तत्र ब्रह्म­ण्या­श्रित्य तिष्ठति ।
मणौ शक्तिर्यथा तद्व­न्नै­त­दा­श्र­य­दू­ष­कम् ॥ ३०३ ॥

सद्भावे लिङ्गमेतस्य कार्य­मे­त­च्च­रा­च­रम् ।
मानं श्रुतिः स्मृति­श्चा­ज्ञोऽ­ह­मि­त्य­नु­भ­वोऽपि च ॥ ३०४ ॥

अज्ञानं प्रकृतिः शक्तिरविद्येति निगद्यते ।
तदेतत्सन्न भवति नासद्वा शुक्तिरौप्यवत् ॥ ३०५ ॥

सतो भिन्नमभिन्नं वा न दीपस्य प्रभा यथा ।
न सावयवमन्यद्वा बीज­स्या­ङ्कु­र­व­त्क्व­चित् ॥ ३०६ ॥

अत एत­द­नि­र्वा­च्य­मि­त्येव कवयो विदुः ।
सम­ष्टि­व्य­ष्टि­रू­पेण द्विधाज्ञानं निगद्यते ॥ ३०७ ॥

नानात्वेन प्रती­ता­ना­म­ज्ञा­ना­ना­म­भे­दतः ।
एकत्वेन समष्टिः स्याद्भूरुहाणां वनं यथा ॥ ३०८ ॥

इयं सम­ष्टि­रु­त्कृष्टा सत्त्वां­शो­त्क­र्षतः पुरा ।
मायेति कथ्यते तज्ज्ञैः शुद्ध­स­त्त्वै­क­ल­क्षणा ॥ ३०९ ॥

मायोपहितचैतन्यं साभासं सत्त्वबृंहितम् ।
सर्व­ज्ञ­त्वा­दि­गु­णकं सृष्टि­स्थि­त्य­न्त­का­र­णम् ॥ ३१० ॥

अव्याकृतं तदव्यक्तमीश इत्यपि गीयते ।
सर्व­श­क्ति­गु­णो­पेतः सर्व­ज्ञा­ना­व­भा­सकः ॥ ३११ ॥

स्वतन्त्रः सत्यसङ्कल्पः सत्यकामः स ईश्वरः ।
तस्यैतस्य महा­वि­ष्णो­र्म­हा­श­क्ते­र्म­ही­यसः ॥ ३१२ ॥

सर्व­ज्ञ­त्वे­श्व­र­त्वा­दि­का­र­ण­त्वा­न्म­नी­षिणः ।
कारणं वपुरित्याहुः समष्टिं सत्त्वबृंहितम् ॥ ३१३ ॥

आन­न्द­प्र­चु­र­त्वेन साधकत्वेन कोशवत् ।
सैषानन्दमयः कोश इतीशस्य निगद्यते ॥ ३१४ ॥

सर्वो­प­र­म­हे­तु­त्वा­त्सु­षु­प्ति­स्था­न­मि­ष्यते ।
प्राकृतः प्रलयो यत्र श्राव्यते श्रुतिभिर्मुहुः ॥ ३१५ ॥

अज्ञानं व्यष्ट्य­भि­प्रा­या­द­ने­क­त्वेन भिद्यते ।
अज्ञानवृत्तयो नाना तत्त­द्गु­ण­वि­ल­क्षणाः ॥ ३१६ ॥

वनस्य व्यष्ट्य­भि­प्रा­या­द्भू­रुहा इत्यनेकता ।
यथा तथैवाज्ञानस्य व्यष्टितः स्यादनेकता ॥ ३१७ ॥

व्यष्टि­र्म­लि­न­स­त्वैषा रजसा तमसा युता ।
ततो निकृष्टा भवति योपाधिः प्रत्यगात्मनः ॥ ३१८ ॥

चैतन्यं व्यष्ट्य­व­च्छिन्नं प्रत्यगात्मेति गीयते ।
साभासं व्यष्ट्युपहितं सत्तादात्म्येन तद्गुणैः ॥ ३१९ ॥

अभिभूतः स एवात्मा जीव इत्यभिधीयते ।
किञ्चि­ज्ज्ञ­त्वा­नी­श्व­र­त्व­सं­सा­रि­त्वा­दि­ध­र्म­वान् ॥ ३२० ॥

अस्य व्यष्टि­र­ह­ङ्का­र­का­र­ण­त्वेन कारणम् ।
वपु­स्त­त्रा­भि­मा­न्यात्मा प्राज्ञ इत्युच्यते बुधैः ॥ ३२१ ॥

प्राज्ञ­त्व­म­स्यै­का­ज्ञा­न­भा­स­क­त्वेन सम्मतम् ।
व्यष्टे­र्नि­कृ­ष्ट­त्वे­नास्य नाने­का­ज्ञा­न­भा­स­कम् ॥ ३२२ ॥

स्वरू­पा­च्छा­द­क­त्वे­ना­प्या­न­न्द­प्र­चु­र­त्वतः ।
कारणं वपुरानन्दमयः कोश इतीर्यते ॥ ३२३ ॥

अस्यावस्था सुषुप्तिः स्याद्य­त्रा­नन्दः प्रकृष्यते ।
एषोऽहं सुखमस्वाप्सं न तु किञ्चिदवेदिषम् ॥ ३२४ ॥

इत्या­न­न्द­स­मु­त्कर्षः प्रबुद्धेषु प्रदृश्यते ।
समष्टेरपि च व्यष्टे­रु­भ­यो­र्व­न­वृ­क्ष­वत् ॥ ३२५ ॥

अभेद एव नो भेदो जात्येकत्वेन वस्तुतः ।
अभेद एव ज्ञात­व्य­स्त­थे­श­प्रा­ज्ञ­यो­रपि ॥ ३२६ ॥

सत्यु­पा­ध्यो­र­भि­न्नत्वे क्व भेद­स्त­द्वि­शि­ष्टयोः ।
एकीभावे तरङ्गाब्ध्योः को भेदः प्रतिबिम्बयोः ॥ ३२७ ॥

अज्ञा­न­त­द­व­च्छि­न्ना­भा­स­यो­रु­भ­यो­रपि ।
आधारं शुद्धचैतन्यं यत्त­त्तु­र्य­मि­ती­र्यते ॥ ३२८ ॥

एतदेवाविविक्तं सदुपाधिभ्यां च तद्गुणैः ।
महावाक्यस्य वाच्यार्थो विविक्तं लक्ष्य इष्यते ॥ ३२९ ॥

अन­न्त­श­क्ति­स­म्पन्नो मायोपाधिक ईश्वरः ।
ईक्षामात्रेण सृजति विश्व­मे­त­च्च­रा­च­रम् ॥ ३३० ॥

अद्वि­ती­य­स्व­मा­त्रोऽसौ निरुपादान ईश्वरः ।
स्वयमेव कथं सर्वं सृजतीति न शङ्क्यताम् ॥ ३३१ ॥

निमि­त्त­म­प्यु­पा­दानं स्वयमेव भवन्प्रभुः ।
चराचरात्मकं विश्वं सृजत्यवति लुम्पति ॥ ३३२ ॥

स्वप्राधान्येन जगतो निमित्तमपि कारणम् ।
उपादानं ततो­पा­धि­प्रा­धा­न्येन भवत्ययम् ॥ ३३३ ॥

यथालूता निमित्तं च स्वप्रधानतया भवेत् ।
स्वश­री­र­प्र­धा­न­त्वे­नो­पा­दानं तथेश्वरः ॥ ३३४ ॥

तमः­प्र­धा­न­प्र­कृ­ति­वि­शि­ष्टा­त्प­र­मा­त्मनः ।
अभू­त्स­का­शा­दा­का­श­मा­का­शा­द्वा­यु­रु­च्यते ॥ ३३५ ॥

वायो­र­ग्नि­स्त­थै­वा­ग्ने­रा­पोऽद्भ्यः पृथिवी क्रमात् ।
शक्ते­स्त­मः­प्र­धा­नत्वं तत्कार्ये जाड्यदर्शनात् ॥ ३३६ ॥