सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः
० विभागः
अखण्डानन्दसन्दोहो वन्दनाद्यस्य जायते ।
गोविन्दं तमहं वन्दे चिदानन्दतनुं गुरुम् ॥ १ ॥
अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।
आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ २ ॥
यदालम्बो दरं हन्ति सतां प्रत्यूहसम्भवम् ।
तदालम्बे दयालम्बं लम्बोदरपदाम्बुजम् ॥ ३ ॥
वेदान्तशास्त्रसिद्धान्तसारसङ्ग्रह उच्यते ।
प्रेक्षावतां मुमुक्षूणां सुखबोधोपपत्तये ॥ ४ ॥
अस्य शास्त्रानुसारित्वादनुबन्धचतुष्टयम् ।
यदेव मूलं शास्त्रस्य निर्दिष्टं तदिहोच्यते ॥ ५ ॥
अधिकारी च विषयः सम्बन्धश्च प्रयोजनम् ।
शास्त्रारम्भफलं प्राहुरनुबन्धचतुष्टयम् ॥ ६ ॥
चतुर्भिः साधनैः सम्यक्सम्पन्नो युक्तिदक्षिणः ।
मेधावी पुरुषो विद्वानधिकार्यत्र सम्मतः ॥ ७ ॥
विषयः शुद्धचैतन्यं जीवब्रह्मैक्यलक्षणम् ।
यत्रैव दृश्यते सर्ववेदान्तानां समन्वयः ॥ ८ ॥
एतदैक्यप्रमेयस्य प्रमाणस्यापि च श्रुतेः ।
सम्बन्धः कथ्यते सद्भिर्बोध्यबोधकलक्षणः ॥ ९ ॥
ब्रह्मात्मैकत्वविज्ञानं सन्तः प्राहुः प्रयोजनम् ।
येन निःशेषसंसारबन्धात्सद्यः प्रमुच्यते ॥ १० ॥
प्रयोजनं सम्प्रवृत्तेः कारणं फललक्षणम् ।
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥ ११ ॥
साधनचतुष्टयसम्पत्तिर्यस्यास्ति धीमतः पुंसः ।
तस्यैवैतत्फलसिद्धिर्नान्यस्य किञ्चिदूनस्य ॥ १२ ॥
चत्वारि साधनान्यत्र वदन्ति परमर्षयः ।
मुक्तिर्येषां तु सद्भावे नाभावे सिध्यति ध्रुवम् ॥ १३ ॥
आद्यं नित्यानित्यवस्तुविवेकः साधनं मतम् ।
इहामुत्रार्थफलभोगविरागो द्वितीयकम् ॥ १४ ॥
शमादिषट्कसम्पत्तिस्तृतीयं साधनम् मतम् ।
तुरीयं तु मुमुक्षुत्वं साधनं शास्त्रसम्मतम् ॥ १५ ॥
ब्रह्मैव नित्यमन्यत्तु ह्यनित्यमिति वेदनम् ।
सोऽयं नित्यानित्यवस्तुविवेक इति कथ्यते ॥ १६ ॥
मृदादिकारणं नित्यं त्रिषु कालेषु दर्शनात् ।
घटाद्यनित्यं तत्कार्यं यतस्तन्नाश ईक्ष्यते ॥ १७ ॥
तथैवैतज्जगत्सर्वमनित्यं ब्रह्मकार्यतः ।
तत्कारणं परं ब्रह्म भवेन्नित्यं मृदादिवत् ॥ १८ ॥
सर्गं वक्त्यस्य तस्माद्वा एतस्मादित्यपि श्रुतिः ।
सकाशाद्ब्रह्मणस्तस्मादनित्यत्वे न संशयः ॥ १९ ॥
सर्वस्यानित्यत्वे सावयवत्वेन सर्वतः सिद्धे ।
वैकुण्ठादिषु नित्यत्वमतिर्भ्रम एव मूढबुद्धीनाम् ॥ २० ॥
अनित्यत्वं च नित्यत्वमेवं यच्छ्रुतियुक्तिभिः ।
विवेचनं नित्यानित्यविवेक इति कथ्यते ॥ २१ ॥
ऐहिकामुष्मिकार्थेषु ह्यनित्यत्वेन निश्चयात् ।
नैःस्पृह्यं तुच्छबुद्ध्या यत्तद्वैराग्यमितीर्यते ॥ २२ ॥
नित्यानित्यपदार्थविवेकात्पुरुषस्य जायते सद्यः ।
स्रक्चन्दनवनितादौ सर्वत्रानित्यवस्तुनि विरक्तिः ॥ २३ ॥
काकस्य विष्ठावदसह्यबुद्धि -
र्भोग्येषु सा तीव्रविरक्तिरिष्यते ।
विरक्तितीव्रत्वनिदानमाहु -
र्भोग्येषु दोषेक्षणमेव सन्तः ॥ २४ ॥
प्रदृश्यते वस्तुनि यत्र दोषो
न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः ।
अन्तर्महारोगवतीं विजान -
न्को नाम वेश्यामपि रूपिणीं व्रजेत् ॥ २५ ॥
अत्रापि चान्यत्र च विद्यमान -
पदार्थसम्मर्शनमेव कार्यम् ।
यथाप्रकारार्थगुणाभिमर्शनं
सन्दर्शयत्येव तदीयदोषम् ॥ २६ ॥
कुक्षौ स्वमातुर्मलमूत्रमध्ये
स्थितिं तदा विट्क्रिमिदंशनं च ।
तदीयकौक्षेयकवह्निदाहं
विचार्य को वा विरतिं न याति ॥ २७ ॥
स्वकीयविण्मूत्रविसर्जनं त -
च्चोत्तानगत्या शयनं तदा यत् ।
बालग्रहाद्याहतिभाक्च शैशवं
विचार्य को वा विरतिं न याति ॥ २८ ॥
स्वीयैः परैस्ताडनमज्ञभाव -
मत्यन्तचापल्यमसत्क्रियां च ।
कुमारभावे प्रतिषिद्धवृत्तिं
विचार्य को वा विरतिं न याति ॥ २९ ॥
मदोद्धतिं मान्यतिरस्कृतिं च
कामातुरत्वं समयातिलङ्घनम् ।
तां तां युवत्योदितदुष्टचेष्टां
विचार्य को वा विरतिं न याति ॥ ३० ॥
विरूपतां सर्वजनादवज्ञां
सर्वत्र दैन्यं निजबुद्धिहैन्यम् ।
वृद्धत्वसम्भावितदुर्दशां तां
विचार्य को वा विरतिं न याति ॥ ३१ ॥
पित्तज्वरार्शःक्षयगुल्मशूल -
श्लेष्मादिरोगोदिततीव्रदुःखम् ।
दुर्गन्धमस्वास्थ्यमनूनचिन्तां
विचार्य को वा विरतिं न याति ॥ ३२ ॥
यमावलोकोदितभीतिकम्प -
मर्मव्यथोच्छ्वासगतीश्च वेदनाम् ।
प्राणप्रयाणे परिदृश्यमानां
विचार्य को वा विरतिं न याति ॥ ३३ ॥
अङ्गारनद्यां तपने च कुम्भी -
पाकेऽपि वीच्यामसिपत्रकानने ।
दूतैर्यमस्य क्रियमाणबाधां
विचार्य को वा विरतिं न याति ॥ ३४ ॥
पुण्यक्षये पुण्यकृतो नभःस्थै -
र्निपात्यमानान्शिथिलीकृताङ्गान् ।
नक्षत्ररूपेण दिवश्च्युतांस्ता -
न्विचार्य को वा विरतिं न याति ॥ ३५ ॥
वाय्वर्कवह्नीन्द्रमुखान्सुरेन्द्रा -
नीशोग्रभीत्या ग्रथितान्तरङ्गान् ।
विपक्षलोकैः परिदूयमाना -
न्विचार्य को वा विरतिं न याति ॥ ३६ ॥
श्रुत्या निरुक्तं सुखतारतम्यं
ब्रह्मान्तमारभ्य महीमहेशम् ।
औपाधिकं तत्तु न वास्तवं चे -
दालोच्य को वा विरतिं न याति ॥ ३७ ॥
सालोक्यसामीप्यसरूपतादि -
भेदस्तु सत्कर्मविशेषसिद्धः ।
न कर्मसिद्धस्य तु नित्यतेति
विचार्य को वा विरतिं न याति ॥ ३८ ॥
यत्रास्ति लोके गतितारतम्यं
उच्चावचत्वान्वितमत्र तत्कृतम् ।
यथेह तद्वत्खलु दुःखमस्ती -
त्यालोच्य को वा विरतिं न याति ॥ ३९ ॥
को नाम लोके पुरुषो विवेकी
विनश्वरे तुच्छसुखे गृहादौ ।
कुर्याद्रतिं नित्यमवेक्षमाणो
वृथैव मोहान्म्रियमाणजन्तून् ॥ ४० ॥
सुखं किमस्त्यत्र विचार्यमाणे
गृहेऽपि वा योषिति वा पदार्थे ।
मायातमोऽन्धीकृतचक्षुषो ये
त एव मुह्यन्ति विवेकशून्याः ॥ ४१ ॥
अविचारितरमणीयं
सर्वमुदुम्बरफलोपमं भोग्यम् ।
अज्ञानामुपभोग्यं
न तु तज्ज्ञानां योषिति वा पदार्थे ॥ ४२ ॥
गतेऽपि तोये सुषिरं कुलीरो
हातुं ह्यशक्तो म्रियते विमोहात् ।
यथा तथा गेहसुखानुषक्तो
विनाशमायाति नरो भ्रमेण ॥ ४३ ॥
कोशक्रिमिस्तन्तुभिरात्मदेह -
मावेष्ट्य चावेष्ट्य च गुप्तिमिच्छन् ।
स्वयं विनिर्गन्तुमशक्त एव
संस्ततस्तदन्ते म्रियते च लग्नः ॥ ४४ ॥
यथा तथा पुत्रकलत्रमित्र -
स्नेहानुबन्धैर्ग्रथितो गृहस्थः ।
कदापि वा तान्परिमुच्य गेहा -
द्गन्तुं न शक्तो म्रियते मुधैव ॥ ४५ ॥
कारागृहस्यास्य च को विशेषः
प्रदृश्यते साधु विचार्यमाणे ।
मुक्तेः प्रतीपत्वमिहापि पुंसः
कान्तासुखाभ्युत्थितमोहपाशैः ॥ ४६ ॥
गृहस्पृहा पादनिबद्धशृङ्खला
कान्तासुताशा पटुकण्ठपाशः ।
शीर्षे पतद्भूर्यशनिर्हि साक्षा -
त्प्राणान्तहेतुः प्रबला धनाशा ॥ ४७ ॥
आशापाशशतेन पाशितपदो नोत्थातुमेव क्षमः
कामक्रोधमदादिभिः प्रतिभटैः संरक्ष्यमाणोऽनिशम् ।
संमोहावरणेन गोपनवतः संसारकारागृहा -
न्निर्गन्तुं त्रिविधेषणापरवशः कः शक्नुयाद्रागिषु ॥ ४८ ॥
कामान्धकारेण निरुद्धदृष्टि -
र्मुह्यत्यसत्यप्यबलास्वरूपे ।
न ह्यन्धदृष्टेरसतः सतो वा
सुखत्वदुःखत्वविचारणास्ति ॥ ४९ ॥
श्लेष्मोद्गारि मुखं स्रवन्मलवती नासाश्रुमल्लोचनं
स्वेदस्रावि मलाभिपूर्णमभितो दुर्गन्धदुष्टं वपुः ।
अन्यद्वक्तुमशक्यमेव मनसा मन्तुं क्वचिन्नार्हति
स्त्रीरूपं कथमीदृशं सुमनसां पात्रीभवेन्नेत्रयोः ॥ ५० ॥
दूरादवेक्ष्याग्निशिखां पतङ्गो
रम्यत्वबुद्ध्या विनिपत्य नश्यति ।
यथा तथा नष्टदृगेष सूक्ष्मं
कथं निरीक्षेत विमुक्तिमार्गम् ॥ ५१ ॥
कामेन कान्तां परिगृह्य तद्व -
ज्जनोऽप्ययं नश्यति नष्टदृष्टिः ।
मांसास्थिमज्जामलमूत्रपात्रं
स्त्रियं स्वयं रम्यतयैव पश्यति ॥ ५२ ॥
काम एव यमः साक्षात्कान्ता वैतरणी नदी ।
विवेकिनां मुमुक्षूणां निलयस्तु यमालयः ॥ ५३ ॥
यमालये वापि गृहेऽपि नो नृणां
तापत्रयक्लेशनिवृत्तिरस्ति ।
किञ्चित्समालोक्य तु तद्विरामं
सुखात्मना पश्यति मूढलोकः ॥ ५४ ॥
यमस्य कामस्य च तारतम्यं
विचार्यमाणे महदस्ति लोके ।
हितं करोत्यस्य यमोऽप्रियः स -
न्कामस्त्वनर्थं कुरुते प्रियः सन् ॥ ५५ ॥
यमोऽसतामेव करोत्यनर्थं
सतां तु सौख्यं कुरुते हितः सन् ।
कामः सतामेव गतिं निरुन्ध -
न्करोत्यनर्थं ह्यसतां नु का कथा ॥ ५६ ॥
विश्वस्य वृद्धिं स्वयमेव काङ्क्ष -
न्प्रवर्तकं कामिजनं ससर्ज ।
तेनैव लोकः परिमुह्यमानः
प्रवर्धते चन्द्रमसेव चाब्धिः ॥ ५७ ॥
कामो नाम महाञ्जगद्भ्रमयिता स्थित्वान्तरङ्गे स्वयं
स्त्रीपुंसावितरेतराङ्गकगुणैर्हासैश्च भावैः स्फुटम् ।
अन्योन्यं परिमोह्य नैजतमसा प्रेमानुबन्धेन तौ
बद्ध्वा भ्रामयति प्रपञ्चरचनां संवर्धयन्ब्रह्महा ॥ ५८ ॥
अतोऽन्तरङ्गस्थितकामवेगा -
द्भोग्ये प्रवृत्तिः स्वत एव सिद्धा ।
सर्वस्य जन्तोर्ध्रुवमन्यथा चे -
दबोधितार्थेषु कथं प्रवृत्तिः ॥ ५९ ॥
तेनैव सर्वजन्तूनां कामना बलवत्तरा ।
जीर्यत्यपि च देहेऽस्मिन्कामना नैव जीर्यते ॥ ६० ॥
अवेक्ष्य विषये दोषं बुद्धियुक्तो विचक्षणः ।
कामपाशेन यो मुक्तः स मुक्तेः पथि गोचरः ॥ ६१ ॥
कामस्य विजयोपायं सूक्ष्मं वक्ष्याम्यहं सताम् ।
सङ्कल्पस्य परित्याग उपायः सुलभो मतः ॥ ६२ ॥
श्रुते दृष्टेऽपि वा भोग्ये यस्मिन्कस्मिंश्च वस्तुनि ।
समीचीनत्वधीत्यागात्कामो नोदेति कर्हिचित् ॥ ६३ ॥
कामस्य बीजं सङ्कल्पः सङ्कल्पादेव जायते ।
बीजे नष्टेऽङ्कुर इव तस्मिन्नष्टे विनश्यति ॥ ६४ ॥
न कोऽपि सम्यक्त्वधिया विनैव
भोग्यं नरः कामयितुं समर्थः ।
यतस्ततः कामजयेच्छुरेतां
सम्यक्त्वबुद्धिं विषये निहन्यात् ॥ ६५ ॥
भोग्ये नरः कामजयेच्छुरेतां
सुखत्वबुद्धिं विषये निहन्यात् ।
यावत्सुखत्वभ्रमधीः पदार्थे
तावन्न जेतुं प्रभवेद्धि कामम् ॥ ६६ ॥
सङ्कल्पानुदये हेतुर्यथाभूतार्थदर्शनम् ।
अनर्थचिन्तनं चाभ्यां नावकाशोऽस्य विद्यते ॥ ६७ ॥
रत्ने यदि शिलाबुद्धिर्जायते वा भयं ततः ।
समीचीनत्वधीर्नैति नोपादेयत्वधीरपि ॥ ६८ ॥
यथार्थदर्शनं वस्तुन्यनर्थस्यापि चिन्तनम् ।
सङ्कल्पस्यापि कामस्य तद्वधोपाय इष्यते ॥ ६९ ॥
धनं भयनिबन्धनं सततदुःखसंवर्धनं
प्रचण्डतरकर्दनं स्फुटितबन्धुसंवर्धनम् ।
विशिष्टगुणबाधनं कृपणधीसमाराधनं
न मुक्तिगतिसाधनं भवति नापि हृच्छोधनम् ॥ ७० ॥
राज्ञो भयं चोरभयं प्रमादा -
द्भयं तथा ज्ञातिभयं च वस्तुतः ।
धनं भयग्रस्तमनर्थमूलं
यतः सतां नैव सुखाय कल्पते ॥ ७१ ॥
आर्जने रक्षणे दाने व्यये वापि च वस्तुतः ।
दुःखमेव सदा नॄणां न धनं सुखसाधनम् ॥ ७२ ॥
सतामपि पदार्थस्य लाभाल्लोभः प्रवर्धते ।
विवेको लुप्यते लोभात्तस्मिंल्लुप्ते विनश्यति ॥ ७३ ॥
दहत्यलाभे निःस्वत्वं लाभे लोभो दहत्यमुम् ।
तस्मात्सन्तापकं वित्तं कस्य सौख्यं प्रयच्छति ॥ ७४ ॥
भोगेन मत्तता जन्तोर्दानेन पुनरुद्भवः ।
वृथैवोभयथा वित्तं नास्त्येव गतिरन्यथा ॥ ७५ ॥
धनेन मदवृद्धिः स्यान्मदेन स्मृतिनाशनम् ।
स्मृतिनाशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ७६ ॥
सुखयति धनमेवेत्यन्तराशापिशाच्या
दृढतरमुपगूढो मूढलोको जडात्मा ।
निवसति तदुपान्ते सन्ततं प्रेक्षमाणो
व्रजति तदपि पश्चात्प्राणमेतस्य हृत्वा ॥ ७७ ॥
सम्पन्नोऽन्धवदेव किञ्चिदपरं नो वीक्षते चक्षुषा
सद्भिर्वर्जितमार्ग एव चरति प्रोत्सारितो बालिशैः ।
तस्मिन्नेव मुहुः स्खलन्प्रतिपदं गत्वान्धकूपे पत -
त्यस्यान्धत्वनिवर्तकौषधमिदं दारिद्र्यमेवाञ्जनम् ॥ ७८ ॥
लोभः क्रोधश्च डम्भश्च मदो मत्सर एव च ।
वर्धते वित्तसम्प्राप्त्या कथं तच्चित्तशोधनम् ॥ ७९ ॥
अलाभाद्द्विगुणं दुःखं वित्तस्य व्ययसम्भवे ।
ततोऽपि त्रिगुणं दुःखं दुर्व्यये विदुषामपि ॥ ८० ॥
नित्याहितेन वित्तेन
भयचिन्तानपायिना ।
चित्तस्वास्थ्यं कुतो जन्तो -
र्गृहस्थेनाहिना यथा ॥ ८१ ॥
कान्तारे विजने वने जनपदे सेतौ निरीतौ च वा
चोरैर्वापि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा ।
निःस्वः स्वस्थतया सुखेन वसति ह्याद्रीयमाणो जनैः
क्लिश्नात्येव धनी सदाकुलमतिर्भीतश्च पुत्रादपि ॥ ८२ ॥
तस्मादनर्थस्य निदानमर्थः
पुमर्थसिद्धिर्न भवत्यनेन ।
ततो वनान्ते निवसन्ति सन्तः
संन्यस्य सर्वं प्रतिकूलमर्थम् ॥ ८३ ॥
श्रद्धाभक्तिमतीं सतीं गुणवतीं पुत्राञ्श्रुतान्सम्मता -
नक्षय्यं वसुधानुभोगविभवैः श्रीसुन्दरं मन्दिरम् ।
सर्वं नश्वरमित्यवेत्य कवयः श्रुत्युक्तिभिर्युक्तिभिः
संन्यस्यन्त्यपरे तु तत्सुखमिति भ्राम्यन्ति दुःखार्णवे ॥ ८४ ॥
सुखमिति मलराशौ ये रमन्तेऽत्र गेहे
क्रिमय इव कलत्रक्षेत्रपुत्रानुषक्त्या ।
सुरपद इव तेषां नैव मोक्षप्रसङ्ग -
स्त्वपि तु निरयगर्भावासदुःखप्रवाहः ॥ ८५ ॥
येषामाशा निराशा स्या -
द्दारापत्यधनादिषु ।
तेषां सिध्यति नान्येषां
मोक्षाशाभिमुखी गतिः ॥ ८६ ॥
सत्कर्मक्षयपाप्मनां श्रुतिमतां सिद्धात्मनां धीमतां
नित्यानित्यपदार्थशोधनमिदं युक्त्या मुहुः कुर्वताम् ।
तस्मादुत्थमहाविरक्त्यसिमतां मोक्षैककाङ्क्षावतां
धन्यानां सुलभं स्त्रियादिविषयेष्वाशालताच्छेदनम् ॥ ८७ ॥
संसारमृत्योर्बलिनः प्रवेष्टुं
द्वाराणि तु त्रीणि महान्ति लोके ।
कान्ता च जिह्वा कनकं च तानि
रुणद्धि यस्तस्य भयं न मृत्योः ॥ ८८ ॥
मुक्तिश्रीनगरस्य दुर्जयतरं द्वारं यदस्त्यादिमं
तस्य द्वे अररे धनं च युवती ताभ्यां पिनद्धं दृढम् ।
कामाख्यार्गलदारुणा बलवता द्वारं तदेतत्त्रयं
धीरो यस्तु भिनत्ति सोऽर्हति सुखं भोक्तुं विमुक्तिश्रियः ॥ ८९ ॥
आरूढस्य विवेकाश्वं तीव्रवैराग्यखड्गिनः ।
तितिक्षावर्मयुक्तस्य प्रतियोगी न दृश्यते ॥ ९० ॥
विवेकजां तीव्रविरक्तिमेव मुक्तेर्निदानं निगदन्ति सन्तः ।
तस्माद्विवेकी विरतिं मुमुक्षुः सम्पादयेत्तां प्रथमं प्रयत्नात् ॥ ९१ ॥
पुमानजातनिर्वेदो देहबन्धं जिहासितुम् ।
न हि शक्नोति निर्वेदो बन्धभेदो महानसौ ॥ ९२ ॥
वैराग्यरहिता एव यमालय इवालये ।
क्लिश्नन्ति त्रिविधैस्तापैर्मोहिता अपि पण्डिताः ॥ ९३ ॥
शमो दमस्तितिक्षोपरतिः श्रद्धा ततः परम् ।
समाधानमिति प्रोक्तं षडेवैते शमादयः ॥ ९४ ॥
एकवृत्त्यैव मनसः स्वलक्ष्ये नियतस्थितिः ।
शम इत्युच्यते सद्भिः शमलक्षणवेदिभिः ॥ ९५ ॥
उत्तमो मध्यमश्चैव जघन्य इति च त्रिधा ।
निरूपितो विपश्चिद्भिः तत्तल्लक्षणवेदिभिः ॥ ९६ ॥
स्वविकारं परित्यज्य वस्तुमात्रतया स्थितिः ।
मनसः सोत्तमा शान्तिर्ब्रह्मनिर्वाणलक्षणा ॥ ९७ ॥
प्रत्यक्प्रत्ययसन्तानप्रवाहकरणं धियः ।
यदेषा मध्यमा शान्तिः शुद्धसत्त्वैकलक्षणा ॥ ९८ ॥
विषयव्यापृतिं त्यक्त्वा श्रवणैकमनस्थितिः ।
मनसश्चेतरा शान्तिर्मिश्रसत्त्वैकलक्षणा ॥ ९९ ॥
प्राच्योदीच्याङ्गसद्भावे शमः सिध्यति नान्यथा ।
तीव्रा विरक्तिः प्राच्याङ्गमुदीच्याङ्गं दमादयः ॥ १०० ॥
कामः क्रोधश्च लोभश्च मदो मोहश्च मत्सरः ।
न जिताः षडिमे येन तस्य शान्तिर्न सिध्यति ॥ १०१ ॥
शब्दादिविषयेभ्यो यो विषवन्न निवर्तते ।
तीव्रमोक्षेच्छया भिक्षोस्तस्य शान्तिर्न सिध्यति ॥ १०२ ॥
येन नाराधितो देवो यस्य नो गुर्वनुग्रहः ।
न वश्यं हृदयं यस्य तस्य शान्तिर्न सिध्यति ॥ १०३ ॥
मनःप्रसादसिद्ध्यर्थं साधनं श्रूयतां बुधैः ।
मनःप्रसादो यत्सत्त्वे यदभावे न सिध्यति ॥ १०४ ॥
ब्रह्मचर्यमहिंसा च दया भूतेष्ववक्रता ।
विषयेष्वतिवैतृष्ण्यं शौचं दम्भविवर्जनम् ॥ १०५ ॥
सत्यं निर्ममता स्थैर्यमभिमानविसर्जनम् ।
ईश्वरध्यानपरता ब्रह्मविद्भिः सहस्थितिः ॥ १०६ ॥
ज्ञानशास्त्रैकपरता समता सुखदुःखयोः ।
मानानासक्तिरेकान्तशीलता च मुमुक्षुता ॥ १०७ ॥
यस्यैतद्विद्यते सर्वं तस्य चित्तं प्रसीदति ।
न त्वेतद्धर्मशून्यस्य प्रकारान्तरकोटिभिः ॥ १०८ ॥
स्मरणं दर्शनं स्त्रीणां गुणकर्मानुकीर्तनम् ।
समीचीनत्वधीस्तासु प्रीतिः सम्भाषणं मिथः ॥ १०९ ॥
सहवासश्च संसर्गोऽष्टधा मैथुनं विदुः ।
एतद्विलक्षणं ब्रह्मचर्यं चित्तप्रसादकम् ॥ ११० ॥
अहिंसा वाङ्मनःकायैः प्राणिमात्राप्रपीडनम् ।
स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा ॥ १११ ॥
अनुकम्पा दया सैव प्रोक्ता वेदान्तवेदिभिः ।
करणत्रितयेष्वेकरूपतावक्रता मता ॥ ११२ ॥
ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु ।
यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ११३ ॥
बाह्यमाभ्यन्तरं चेति द्विविधं शौचमुच्यते ।
मृज्जलाभ्यां कृतं शौचं बाह्यं शारीरकं स्मृतम् ॥ ११४ ॥
अज्ञानदूरीकरणं मानसं शौचमान्तरम् ।
अन्तःशौचे स्थिते सम्यग्बाह्यं नावश्यकं नृणाम् ॥ ११५ ॥
ध्यानपूजादिकं लोके द्रष्टर्येव करोति यः ।
पारमार्थिकधीहीनः स दम्भाचार उच्यते ॥ ११६ ॥
पुंसस्तथानाचरणमदम्भित्वं विदुर्बुधा ः ।
यत्स्वेन दृष्टं सम्यक्च श्रुतं तस्यैव भाषणम् ॥ ११७ ॥
सत्यमित्युच्यते ब्रह्म सत्यमित्यभिभाषणम् ।
देहादिषु स्वकीयत्वदृढबुद्धिविसर्जनम् ॥ ११८ ॥
निर्ममत्वं स्मृतं येन कैवल्यं लभते बुधः ।
गुरुवेदान्तवचनैर्निश्चितार्थे दृढस्थितिः ॥ ११९ ॥
तदेकवृत्त्या तत्स्थैर्यं नैश्चल्यं न तु वर्ष्मणः ।
विद्यैश्वर्यतपोरूपकुलवर्णाश्रमादिभिः ॥ १२० ॥
सञ्जाताहङ्कृतित्यागस्त्वभिमानविसर्जनम् ।
त्रिभिश्च करणैः सम्यग्हित्वा वैषयिकीं क्रियाम् ॥ १२१ ॥
स्वात्मैकचिन्तनं यत्तदीश्वरध्यानमीरितम् ।
छायेव सर्वदा वासो ब्रह्मविद्भिः सह स्थितिः ॥ १२२ ॥
यद्यदुक्तं ज्ञानशास्त्रे श्रवणादिकमेषु यः ।
निरतः कर्मधीहीनः ज्ञाननिष्ठः स एव हि ॥ १२३ ॥
धनकान्ताज्वरादीनां प्राप्तकाले सुखादिभिः ।
विकारहीनतैव स्यात्सुखदुःखसमानता ॥ १२४ ॥
श्रेष्ठं पूज्यं विदित्वा मां मानयन्तु जना भुवि ।
इत्यासक्त्या विहीनत्वं मानानासक्तिरुच्यते ॥ १२५ ॥
सच्चिन्तनस्य सम्बाधो विघ्नोऽयं निर्जने ततः ।
स्थेयमित्येक एवास्ति चेत्सैवैकान्तशीलता ॥ १२६ ॥
संसारबन्धनिर्मुक्तिः कदा झटिति मे भवेत् ।
इति या सुदृढा बुद्धिरीरिता सा मुमुक्षुता ॥ १२७ ॥
ब्रह्मचर्यादिभिर्धर्मैर्बुद्धेर्दोषनिवृत्तये ।
दण्डनं दम इत्याहुर्दमशब्दार्थकोविदाः ॥ १२८ ॥
तत्तद्वृत्तिनिरोधेन बाह्येन्द्रियविनिग्रहः ।
योगिनो दम इत्याहुर्मनसः शान्तिसाधनम् ॥ १२९ ॥
इन्द्रियेष्विन्द्रियार्थेषु प्रवृत्तेषु यदृच्छया ।
अनुधावति तान्येव मनो वायुमिवानलः ॥ १३० ॥
इन्द्रियेषु निरुद्धेषु त्यक्त्वा वेगं मनः स्वयम् ।
सत्त्वभावमुपादत्ते प्रसादस्तेन जायते ॥ १३१ ॥
प्रसन्ने सति चित्तेऽस्य
मुक्तिः सिध्यति नान्यथा ।
मनःप्रसादस्य निदानमेव
निरोधनं यत्सकलेन्द्रियाणाम् ।
बाह्येन्द्रिये साधु निरुध्यमाने
बाह्यार्थभोगो मनसो वियुज्यते ॥ १३२ ॥
तेन स्वदौष्ट्यं परिमुच्य चित्तं
शनैः शनैः शान्तिमुपाददाति ।
चित्तस्य बाह्यार्थविमोक्षमेव
मोक्षं विदुर्मोक्षणलक्षणज्ञाः ॥ १३३ ॥
दमं विना साधु मनःप्रसाद -
हेतुं न विद्मः सुकरं मुमुक्षोः ।
दमेन चित्तं निजदोषजातं
विसृज्य शान्तिं समुपैति शीघ्रम् ॥ १३४ ॥
प्राणायामाद्भवति मनसो निश्चलत्वं प्रसादो
यस्याप्यस्य प्रतिनियतदिग्देशकालाद्यवेक्ष्य ।
सम्यग्दृष्ट्या क्वचिदपि तया नो दमो हन्यते त -
त्कुर्याद्धीमान्दममनलसश्चित्तशान्त्यै प्रयत्नात् ॥ १३५ ॥
सर्वेन्द्रियाणां गतिनिग्रहेण
भोग्येषु दोषाद्यवमर्शनेन ।
ईशप्रसादाच्च गुरोः प्रसादा -
च्छान्तिं समायात्यचिरेण चित्तम् ॥ १३६ ॥
आध्यात्मिकादि यद्दुःखं प्राप्तं प्रारब्धवेगतः ।
अचिन्तया तत्सहनं तितिक्षेति निगद्यते ॥ १३७ ॥
रक्षा तितिक्षासदृशी मुमुक्षो -
र्न विद्यतेऽसौ पविना न भिद्यते ।
यामेव धीराः कवचीव विघ्ना -
न्सर्वांस्तृणीकृत्य जयन्ति मायाम् ॥ १३८ ॥
क्षमावतामेव हि योगसिद्धिः
स्वाराज्यलक्ष्मीसुखभोगसिद्धिः ।
क्षमाविहीना निपतन्ति विघ्नै -
र्वातैर्हताः पर्णचया इव द्रुमात् ॥ १३९ ॥
तितिक्षया तपो दानं यज्ञस्तीर्थं व्रतं श्रुतम् ।
भूतिः स्वर्गोऽपवर्गश्च प्राप्यते तत्तदर्थिभिः ॥ १४० ॥
ब्रह्मचर्यमहिंसा च साधूनामप्यगर्हणम् ।
पराक्षेपादिसहनं तितिक्षोरेव सिध्यति ॥ १४१ ॥
साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम् ।
यत्र विघ्नाः पलायन्ते दैविका अपि भौतिकाः ॥ १४२ ॥
तितिक्षोरेव विघ्नेभ्यस्त्वनिवर्तितचेतसः ।
सिध्यन्ति सिद्धयः सर्वा अणिमाद्याः समृद्धयः ॥ १४३ ॥
तस्मान्मुमुक्षोरधिका तितिक्षा
सम्पादनीयेप्सितकार्यसिद्ध्यै ।
तीव्रा मुमुक्षा च महत्युपेक्षा
चोभे तितिक्षासहकारिकारणम् ॥ १४४ ॥
तत्तत्कालसमागतामयततेः शान्त्यै प्रवृत्तो यदि
स्यात्तत्तत्परिहारकौषधरतस्तच्चिन्तने तत्परः ।
तद्भिक्षुः श्रवणादिधर्मरहितो भूत्वा मृतश्चेत्ततः
किं सिद्धं फलमाप्नुयादुभयथा भ्रष्टो भवेत्स्वार्थतः ॥ १४५ ॥
योगमभ्यस्यतो भिक्षोर्योगाच्चलितचेतसः ।
प्राप्य पुण्यकृतांल्लोकानित्यादि प्राह केशवः ॥ १४६ ॥
न तु कृत्वैव संन्यासं तूष्णीमेव मृतस्य हि ।
पुण्यलोकगतिं ब्रूते भगवान्न्यासमात्रतः ॥ १४७ ॥
न च संन्यसनादेव सिद्धिं समधिगच्छति ।
इत्यनुष्ठेयसन्त्यागात्सिद्ध्यभावमुवाच च ॥ १४८ ॥
तस्मात्तितिक्षया सोढ्वा तत्तद्दुःखमुपागतम् ।
कुर्याच्छक्त्यनुरूपेण श्रवणादि शनैः शनैः ॥ १४९ ॥
प्रयोजनं तितिक्षायाः साधितायाः प्रयत्नतः ।
प्राप्तदुःखासहिष्णुत्वे न किञ्चिदपि दृश्यते ॥ १५० ॥
साधनत्वेन दृष्टानां सर्वेषामपि कर्मणाम् ।
विधिना यः परित्यागः स संन्यासः सतां मतः ॥ १५१ ॥
उपरमयति कर्माणीत्युपरतिशब्देन कथ्यते न्यासः ।
न्यासेन हि सर्वेषां श्रुत्या प्रोक्तो विकर्मणां त्यागः ॥ १५२ ॥
कर्मणा साध्यमानस्यानित्यत्वं श्रूयते यतः ।
कर्मणानेन किं नित्यफलेप्सोः परमार्थिनः ॥ १५३ ॥
उत्पाद्यमाप्यं संस्कार्यं विकार्यं परिगण्यते ।
चतुर्विधं कर्मसाध्यं फलं नान्यदितः परम् ॥ १५४ ॥
नैतदन्यतरं ब्रह्म कदा भवितुमर्हति ।
स्वतःसिद्धं सर्वदाप्तं शुद्धं निर्मलमक्रियम् ॥ १५५ ॥
न चास्य कश्चिज्जनितेत्यागमेन निषिध्यते ।
कारणं ब्रह्म तत्तस्माद्ब्रह्म नोत्पाद्यमिष्यते ॥ १५६ ॥
आप्त्राप्ययोस्तु भेदश्चेदाप्त्रा चाप्यमवाप्यते ।
आप्तृस्वरूपमेवैतद्ब्रह्म नाप्यं कदाचन ॥ १५७ ॥
मलिनस्यैव संस्कारो दर्पणादेरिहेष्यते ।
व्योमवन्नित्यशुद्धस्य ब्रह्मणो नैव संस्क्रिया ॥ १५८ ॥
केन दुष्टेन युज्येत वस्तु निर्मलमक्रियम् ।
यद्योगादागतं दोषं संस्कारो विनिवर्तयेत् ॥ १५९ ॥
निर्गुणस्य गुणाधानमपि नैवोपपद्यते ।
केवलो निर्गुणश्चेति नैर्गुण्यं श्रूयते यतः ॥ १६० ॥
सावयवस्य क्षीरादेर्वस्तुनः परिणामिनः ।
येन केन विकारित्वं स्यान्नो निष्कर्मवस्तुनः ॥ १६१ ॥
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।
इत्येव वस्तुनस्तत्त्वं श्रुतियुक्तिव्यवस्थितम् ॥ १६२ ॥
तस्मान्न कर्मसाध्यत्वं ब्रह्मणोऽस्ति कुतश्चन ।
कर्मसाध्यं त्वनित्यं हि ब्रह्म नित्यं सनातनम् ॥ १६३ ॥
देहादिः क्षीयते लोको यथैवं कर्मणा चितः ।
तथैवामुष्मिको लोकः सञ्चितः पुण्यकर्मणा ॥ १६४ ॥
कृतकत्वमनित्यत्वे हेतुर्जागर्ति सर्वदा ।
तस्मादनित्ये स्वर्गादौ पण्डितः को नु मुह्यति ॥ १६५ ॥
जगद्धेतोस्तु नित्यत्वं सर्वेषामपि सम्मतम् ।
जगद्धेतुत्वमस्यैव वावदीति श्रुतिर्मुहुः ॥ १६६ ॥
ऐतदात्म्यमिदं सर्वं तत्सत्यमिति च श्रुतिः ।
अस्यैव नित्यतां ब्रूते जगद्धेतोः सतः स्फुटम् ॥ १६७ ॥
न कर्मणा न प्रजया धनेनेति स्वयं श्रुतिः ।
कर्मणो मोक्षहेतुत्वं साक्षादेव निषेधति ॥ १६८ ॥
प्रत्यग्ब्रह्मविचारपूर्वमुभयोरेकत्वबोधाद्विना
कैवल्यं पुरुषस्य सिध्यति परब्रह्मात्मतालक्षणम् ।
न स्नानैरपि कीर्तनैरपि जपैर्नो कृच्छ्रचान्द्रायणै -
र्नो वाप्यध्वरयज्ञदाननिगमैर्नो मन्त्रतन्त्रैरपि ॥ १६९ ॥
ज्ञानादेव तु कैवल्यमिति श्रुत्या निगद्यते ।
ज्ञानस्य मुक्तिहेतुत्वमन्यव्यावृत्तिपूर्वकम् ॥ १७० ॥
विवेकिनो विरक्तस्य ब्रह्मनित्यत्ववेदिनः ।
तद्भावेच्छोरनित्यार्थे तत्सामग्र्ये कुतो रतिः ॥ १७१ ॥
तस्मादनित्ये स्वर्गादौ साधनत्वेन चोदितम् ।
नित्यं नैमित्तिकं चापि सर्वं कर्म ससाधनम् ॥ १७२ ॥
मुमुक्षुणा परित्याज्यं ब्रह्मभावमभीप्सुना ।
मुमुक्षोरपि कर्मास्तु श्रवणं चापि साधनम् ॥ १७३ ॥
हस्तवद्द्वयमेतस्य स्वकार्यं साधयिष्यति ।
यथा विजृम्भते दीपो ऋजूकरणकर्मणा ॥ १७४ ॥
तथा श्रवणजो बोधः पुंसो विहितकर्मणा ।
अतः सापेक्षितं ज्ञानमथवापि समुच्चयम् ॥ १७५ ॥
मोक्षस्य साधनमिति वदन्ति ब्रह्मवादिनः ।
मुमुक्षोर्युज्यते त्यागः कथं विहितकर्मणः ॥ ।
१७६ ॥
इति शङ्का न कर्तव्या मूढवत्पण्डितोत्तमैः ।
कर्मणः फलमन्यत्तु श्रवणस्य फलं पृथक् ॥ १७७ ॥
वैलक्षण्यं च सामग्र्योश्चोभयत्राधिकारिणोः ।
कामी कर्मण्यधिकृतो निष्कामी श्रवणे मतः ॥ १७८ ॥
अर्थी समर्थ इत्यादि लक्षणं कर्मिणो मतम् ।
परीक्ष्य लोकानित्यादि लक्षणं मोक्षकाङ्क्षिणः ॥ १७९ ॥
मोक्षाधिकारी संन्यासी गृहस्थः किल कर्मणि ।
कर्मणः साधनं भार्यास्रुक्स्रुवादिपरिग्रहः ॥ १८० ॥
नैवान्यसाधनापेक्षा शुश्रूषोस्तु गुरुं विना ।
उपर्युपर्यहङ्कारो वर्धते कर्मणा भृशम् ॥ १८१ ॥
अहङ्कारस्य विच्छित्तिः श्रवणेन प्रतिक्षणम् ।
प्रवर्तकं कर्मशास्त्रं ज्ञानशास्त्रं निवर्तकम् ॥ १८२ ॥
इत्यादिवैपरीत्यं तत्साधने चाधिकारिणोः ।
द्वयोः परस्परापेक्षा विद्यते न कदाचन ॥ १८३ ॥
सामग्र्योश्चोभयोस्तद्वदुभयत्राधिकारिणोः ।
ऊर्ध्वं नयति विज्ञानमधः प्रापयति क्रिया ॥ १८४ ॥
कथमन्योन्यसापेक्षा कथं वापि समुच्चयः ।
यथाग्नेस्तृणकूटस्य तेजसस्तिमिरस्य च ॥ १८५ ॥
सहयोगो न घटते तथैव ज्ञानकर्मणोः ।
किमूपकुर्याज्ज्ञानस्य कर्मस्वप्रतियोगिनः ।
यस्य संनिधिमात्रेण स्वयं न स्फूर्तिमृच्छति ॥ १८६ ॥
कोटीन्धनाद्रिज्वलितोऽपि वह्निरर्कस्य नार्हत्युपकर्तुमीषत् ।
यथा तथा कर्मसहस्रकोटिर्ज्ञानस्य किं नु स्वयमेव लीयते ॥ १८७ ॥
एककर्त्राश्रयौ हस्तौ कर्मण्यधिकृतावुभौ ।
सहयोगस्तयोर्युक्तो न तथा ज्ञानकर्मणोः ॥ १८८ ॥
कर्त्रा कर्तुमकर्तुं वाप्यन्यथा कर्म शक्यते ।
न तथा वस्तुनो ज्ञानं कर्तृतन्त्रं कदाचन ॥ १८९ ॥
यथा वस्तु तथा ज्ञानं प्रमाणेन विजायते ।
नापेक्षते च यत्किञ्चित्कर्म वा युक्तिकौशलम् ॥ १९० ॥
ज्ञानस्य वस्तुतन्त्रत्वे संशयाद्युदयः कथम् ।
अतो न वास्तवं ज्ञानमिति नो शङ्क्यतां बुधैः ॥ १९१ ॥
प्रमाणासौष्ठववृतं संशयादि न वास्तवम् ।
श्रुतिप्रमाणसुष्ठुत्वे ज्ञानं भवति वास्तवम् ॥ १९२ ॥
वस्तु तावत्परं ब्रह्म नित्यं सत्यं ध्रुवं विभु ।
श्रुतिप्रमाणे तज्ज्ञानं स्यादेव निरपेक्षकम् ॥ १९३ ॥
रूपज्ञानं यथा सम्यग्दृष्टौ सत्यां भवेत्तथा ।
श्रुतिप्रमाणे सत्येव ज्ञानं भवति वास्तवम् ॥ १९४ ॥
न कर्म यत्किञ्चिदपेक्षते हि रूपोपलब्धौ पुरुषस्य चक्षुः ।
ज्ञानं तथैव श्रवणादिजन्यं वस्तुप्रकाशे निरपेक्षमेव ॥ १९५ ॥
कर्तृतन्त्रं भवेत्कर्म कर्मतन्त्रं शुभाशुभम् ।
प्रमाणतन्त्रं विज्ञानं मायातन्त्रमिदं जगत् ॥ १९६ ॥
विद्यां चाविद्यां चेति सहोक्तिरियमुपकृता सद्भिः ।
सत्कर्मोपासनयोर्न त्वात्मज्ञानकर्मणोः क्वापि ॥ १९७ ॥
नित्यानित्यपदार्थबोधरहितो यश्चोभयत्र स्रगा -
द्यर्थानामनुभूतिलग्नहृदयो निर्विण्णबुद्धिर्जनः ।
तस्यैवास्य जडस्य कर्म विहितं श्रुत्या विरज्याभितो
मोक्षेच्छोर्न विधीयते तु परमानन्दार्थिनो धीमतः ॥ १९८ ॥
मोक्षेच्छया यदहरेव विरज्यतेऽसौ
न्यासस्तदैव विहितो विदुषो मुमुक्षोः ।
श्रुत्या तयैव परया च ततः सुधीभिः
प्रामाणिकोऽयमिति चेतसि निश्चितव्यः ॥ १९९ ॥
स्वापरोक्षस्य वेदादेः साधनत्वं निषेधति ।
नाहं वेदैर्न तपसेत्यादिना भगवानपि ॥ २०० ॥
प्रवृत्तिश्च निवृत्तिश्च द्वे एते श्रुतिगोचरे ।
प्रवृत्त्या बध्यते जन्तुर्निवृत्त्या तु विमुच्यते ॥ २०१ ॥
यन्न स्वबन्धोऽभिमतो मूढस्यापि क्वचित्ततः ।
निवृत्तिः कर्मसंन्यासः कर्तव्यो मोक्षकाङ्क्षिभिः ॥ २०२ ॥
न ज्ञानकर्मणोर्यस्मात्सहयोगस्तु युज्यते ।
तस्मात्त्याज्यं प्रयत्नेन कर्म ज्ञानेच्छुना ध्रुवम् ॥ २०३ ॥
इष्टसाधनताबुद्ध्या गृहीतस्यापि वस्तुनः ।
विज्ञाय फल्गुतां पश्चात्कः पुनस्तत्प्रतीक्षते ॥ २०४ ॥
उपरतिशब्दार्थो ह्युपरमणं पूर्वदृष्टवृत्तिभ्यः ।
सोऽयं मुख्यो गौणश्चेति च वृत्त्या द्विरूपतां धत्ते ॥ २०५ ॥
वृत्तेर्दृश्यपरित्यागो मुख्यार्थ इति कथ्यते ।
गौणार्थः कर्मसंन्यासः श्रुतेरङ्गतया मतः ॥ २०६ ॥
पुंसः प्रधानसिद्ध्यर्थमङ्गस्याश्रयणं ध्रुवम् ।
कर्तव्यमङ्गहीनं चेत्प्रधानं नैव सिध्यति ॥ २०७ ॥
संन्यसेत्सुविरक्तः सन्निहामुत्रार्थतः सुखात् ।
अविरक्तस्य संन्यासो निष्फलोऽयाज्ययागवत् ॥ २०८ ॥
संन्यस्य तु यतिः कुर्यान्न पूर्वविषयस्मृतिम् ।
तां तां तत्स्मरणे तस्य जुगुप्सा जायते यतः ॥ २०९ ॥
गुरुवेदान्तवाक्येषु बुद्धिर्या निश्चयात्मिका ।
सत्यमित्येव सा श्रद्धा निदानं मुक्तिसिद्धये ॥ २१० ॥
श्रद्धावतामेव सतां पुमर्थः
समीरितः सिध्यति नेतरेषाम् ।
उक्तं सुसूक्ष्मं परमार्थतत्त्वं
श्रद्धत्स्व सोम्येति च वक्ति वेदः ॥ २११ ॥
श्रद्धाविहीनस्य तु न प्रवृत्तिः
प्रवृत्तिशून्यस्य न साध्यसिद्धिः ।
अश्रद्धयैवाभिहताश्च सर्वे
मज्जन्ति संसारमहासमुद्रे ॥ २१२ ॥
दैवे च वेदे च गुरौ च मन्त्रे
तीर्थे महात्मन्यपि भेषजे च ।
श्रद्धा भवत्यस्य यथा यथान्त -
स्तथा तथा सिद्धिरुदेति पुंसाम् ॥ २१३ ॥
अस्तीत्येवोपलब्धव्यं वस्तुसद्भावनिश्चयात् ।
सद्भावनिश्चयस्तस्य श्रद्धया शास्त्रसिद्धया ॥ २१४ ॥
तस्माच्छ्रद्धा सुसम्पाद्या गुरुवेदान्तवाक्ययोः ।
मुमुक्षोः श्रद्दधानस्य फलं सिध्यति नान्यथा ॥ २१५ ॥
यथार्थवादिता पुंसां श्रद्धाजननकारणम् ।
वेदस्येश्वरवाक्यत्वाद्यथार्थत्वे न संशयः ॥ २१६ ॥
मुक्तस्येश्वररूपत्वाद्गुरोर्वागपि तादृशी ।
तस्मात्तद्वाक्ययोः श्रद्धा सतां सिध्यति धीमताम् ॥ २१७ ॥
श्रुत्युक्तार्थावगाहाय विदुषा ज्ञेयवस्तुनि ।
चित्तस्य सम्यगाधानं समाधानमितीर्यते ॥ २१८ ॥
चित्तस्य साध्यैकपरत्वमेव
पुमर्थसिद्धेर्नियमेन कारणम् ।
नैवान्यथा सिध्यति साध्यमीष -
न्मनःप्रमादे विफलः प्रयत्नः ॥ २१९ ॥
चित्तं च दृष्टिं करणं तथान्य -
देकत्र बघ्नाति हि लक्ष्यभेत्ता ।
किञ्चित्प्रमादे सति लक्ष्यभेत्तु -
र्बाणप्रयोगो विफलो यथा तथा ॥ २२० ॥
सिद्धेश्चित्तसमाधानमसाधारणकारणम् ।
यतस्ततो मुमुक्षूणां भवितव्यं सदामुना ॥ २२१ ॥
अत्यन्ततीव्रवैराग्यं फललिप्सा महत्तरा ।
तदेतदुभयं विद्यात्समाधानस्य कारणम् ॥ २२२ ॥
बहिरङ्गं श्रुतिः प्राह ब्रह्मचर्यादि मुक्तये ।
शमादिषट्कमेवैतदन्तरङ्गं विदुर्बुधाः ॥ २२३ ॥
अन्तरङ्गं हि बलवद्बहिरङ्गाद्यतस्ततः ।
शमादिषट्कं जिज्ञासोरवश्यं भाव्यमान्तरम् ॥ २२४ ॥
अन्तरङ्गविहीनस्य कृतश्रवणकोटयः ।
न फलन्ति यथा योद्धुरधीरस्यास्त्रसम्पदः ॥ २२५ ॥
ब्रह्मात्मैकत्वविज्ञानाद्यद्विद्वान्मोक्तुमिच्छति ।
संसारपाशबन्धं तन्मुमुक्षुत्वं निगद्यते ॥ २२६ ॥
साधनानां तु सर्वेषां मुमुक्षा मूलकारणम् ।
अनिच्छोरप्रवृत्तस्य क्व श्रुतिः क्व नु तत्फलम् ॥ २२७ ॥
तीव्रमध्यममन्दातिमन्दभेदाश्चतुर्विधाः ।
मुमुक्षा तत्प्रकारोऽपि कीर्त्यते श्रूयतां बुधैः ॥ २२८ ॥
तापैस्त्रिभिर्नित्यमनेकरूपैः सन्तप्यमानः क्षुभितान्तरात्मा ।
परिग्रहं सर्वमनर्थबुद्ध्या जहाति सा तीव्रतरा मुमुक्षा ॥ २२९ ॥
तापत्रयं तीव्रमवेक्ष्य वस्तु
दृष्ट्वा कलत्रं तनयान्विहातुम् ।
मध्ये द्वयोर्लोडनमात्मनो य -
त्सैषा मता माध्यमिकी मुमुक्षा ॥ २३० ॥
मोक्षस्य कालोऽस्ति किमद्य मे त्वरा
भुक्त्वैव भोगान्कृतसर्वकार्यः ।
मुक्त्यै यतिष्येऽहमथेति बुद्धि -
रेषैव मन्दा कथिता मुमुक्षा ॥ २३१ ॥
मार्गे प्रयातुर्मणिलाभवन्मे
लभेत मोक्षो यदि तर्हि धन्यः ।
इत्याशया मूढधियां मतिर्या
सैषातिमन्दाभिमता मुमुक्षा ॥ २३२ ॥
जन्मानेकसहस्रेषु तपसाराधितेश्वरः ।
तेन निःशेषनिर्धूतहृदयस्थितकल्मषः ॥ २३३ ॥
शास्त्रविद्गुणदोषज्ञो भोग्यमात्रे विनिस्पृहः ।
नित्यानित्यपदार्थज्ञो मुक्तिकामो दृढव्रतः ॥ २३४ ॥
निष्टप्तमग्निना पात्रमुद्वास्य त्वरया यथा ।
जहाति गेहं तद्वच्च तीव्रमोक्षेच्छया द्विजः ॥ २३५ ॥
स एव सद्यस्तरति संसृतिं गुर्वनुग्रहात् ।
यस्तु तीव्रमुमुक्षुः स्यात्स जीवन्नेव मुच्यते ॥ २३६ ॥
जन्मान्तरे मध्यमस्तु तदन्यस्तु युगान्तरे ।
चतुर्थः कल्पकोट्यां वा नैव बन्धाद्विमुच्यते ॥ २३७ ॥
नृजन्म जन्तोरतिदुर्लभं विदु -
स्ततोऽपि पुंस्त्वं च ततो विवेकः ।
लब्ध्वा तदेतत्त्रितयं महात्मा
यतेत मुक्त्यै सहसा विरक्तः ॥ २३८ ॥
पुत्रमित्रकलत्रादिसुखं जन्मनि जन्मनि ।
मर्त्यत्वं पुरुषत्वं च विवेकश्च न लभ्यते ॥ २३९ ॥
लब्ध्वा सुदुर्लभतरं नरजन्म जन्तु -
स्तत्रापि पौरुषमतः सदसद्विवेकम् ।
सम्प्राप्य चैहिकसुखाभिरतो यदि स्या -
द्धिक्तस्य जन्म कुमतेः पुरुषाधमस्य ॥ २४० ॥
खादते मोदते नित्यं शुनकः सूकरः खरः ।
तेषामेषां विशेषः को वृत्तिर्येषां तु तैः समा ॥ २४१ ॥
यावन्नाश्रयते रोगो यावन्नाक्रमते जरा ।
यावन्न धीर्विपर्येति यावन्मृत्युं न पश्यति ॥ २४२ ॥
तावदेव नरः स्वस्थः सारग्रहणतत्परः ।
विवेकी प्रयतेताशु भवबन्धविमुक्तये ॥ २४३ ॥
देवर्षिपितृमर्त्यर्णबन्धमुक्तास्तु कोटिशः ।
भवबन्धविमुक्तस्तु यः कश्चिद्ब्रह्मवित्तमः ॥ २४४ ॥
अन्तर्बन्धेन बद्धस्य किं बहिर्बन्धमोचनैः ।
तदन्तर्बन्धमुक्त्यर्थं क्रियतां कृतिभिः कृतिः ॥ २४५ ॥
कृतिपर्यवसानैव मता तीव्रमुमुक्षुता ।
अन्या तु रञ्जनामात्रा यत्र नो दृश्यते कृतिः ॥ २४६ ॥
गेहादिसर्वमपहाय लघुत्वबुद्ध्या
सौख्येच्छया स्वपतिनानलमाविविक्षोः ।
कान्ताजनस्य नियता सुदृढा त्वरा या
सैषा फलान्तगमने करणं मुमुक्षोः ॥ २४७ ॥
नित्यानित्यविवेकश्च देहक्षणिकतामतिः ।
मृत्योर्भीतिश्च तापश्च मुमुक्षावृद्धिकारणम् ॥ २४८ ॥
शिरो विवेकस्त्वत्यन्तं वैराग्यं वपुरुच्यते ।
शमादयः षडङ्गानि मोक्षेच्छा प्राण इष्यते ॥ २४९ ॥
ईदृशाङ्गसमायुक्तो जिज्ञासुर्युक्तिकोविदः ।
शूरो मृत्युं निहन्त्येव सम्यग्ज्ञानासिना ध्रुवम् ॥ २५० ॥
उक्तसाधनसम्पन्नो जिज्ञासुर्यतिरात्मनः ।
जिज्ञासायै गुरुं गच्छेत्समित्पाणिर्नयोज्ज्वलः ॥ २५१ ॥
श्रोत्रियो ब्रह्मनिष्ठो यः प्रशान्तः समदर्शनः ।
निर्ममो निरहङ्कारो निर्द्वन्द्वो निष्परिग्रहः ॥ २५२ ॥
अनपेक्षः शुचिर्दक्षः करुणामृतसागरः ।
एवंलक्षणसम्पन्नः स गुरुर्ब्रह्मवित्तमः ।
उपासाद्यः प्रयत्नेन जिझासोः स्वार्थसिद्धये ॥ २५३ ॥
जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितो
भक्तैर्वैदिकलक्षणेन विधिना सन्तुष्ट ईशः स्वयम् ।
साक्षाच्छ्रीगुरुरूपमेत्य कृपया दृग्गोचरः सन्प्रभुः
तत्त्वं साधु विबोध्य तारयति तान्संसारदुःखार्णवात् ॥ २५४ ॥
अविद्याहृदयग्रन्थिविमोक्षोऽपि भवेद्यतः ।
तमेव गुरुरित्याहुर्गुरुशब्दार्थवेदिनः ॥ २५५ ॥
शिव एव गुरुः साक्षात् गुरुरेव शिवः स्वयम् ।
उभयोरन्तरं किञ्चिन्न द्रष्टव्यं मुमुक्षुभिः ॥ २५६ ॥
बन्धमुक्तं ब्रह्मनिष्ठं कृतकृत्यं भजेद्गुरुम् ।
यस्य प्रसादात्संसारसागरो गोष्पदायते ॥ २५७ ॥
शुश्रूषया सदा भक्त्या प्रणामैर्विनयोक्तिभिः ।
प्रसन्नं गुरुमासाद्य प्रष्टव्यं ज्ञेयमात्मनः ॥ २५८ ॥
भगवन्करुणासिन्धो भवसिन्धोर्भवांस्तरिः ।
यमाश्रित्याश्रमेणैव परं पारं गता बुधाः ॥ २५९ ॥
जन्मान्तरकृतानन्तपुण्यकर्मफलोदयः ।
अद्य संनिहितो यस्मात्त्वत्कृपापात्रमस्म्यहम् ॥ २६० ॥
सम्प्रीतिमक्ष्णोर्वदनप्रसाद -
मानन्दमन्तःकरणस्य सद्यः ।
विलोकनं ब्रह्मविदस्तनोति
छिनत्ति मोहं सुगतिं व्यनक्ति ॥ २६१ ॥
हुताशनानां शशिनामिनाना -
मप्यर्बुदं वापि न यन्निहन्तुम् ।
शक्नोति यद्ध्वान्तमनन्तमान्तरं
हन्त्यात्मवेत्ता सकृदीक्षणेन ॥ २६२ ॥
दुष्पारे भवसागरे जनिमृतव्याध्यादिदुःखोत्कटे
घोरे पुत्रकलत्रमित्रबहुलग्राहाकरे भीकरे ।
कर्मोत्तुङ्गतरङ्गभङ्गनिकरैराकृष्यमाणो मुहुः
यातायातगतिभ्रमेण शरणं किञ्चिन्न पश्याम्यहम् ॥ २६३ ॥
केन वा पुण्यशेषेण तव पादाम्बुजद्वयम् ।
दृष्टवानस्मि मामार्तं मृत्योस्त्राहि दयादृशा ॥ २६४ ॥
वदन्तमेवं तं शिष्यं दृष्ट्यैव दयया गुरुः ।
दद्यादभयमेतस्मै मा भैष्टेति मुहुर्मुहुः ॥ २६५ ॥
विद्वन्मृत्युभयं जहीहि भवतो नास्त्येव मृत्युः क्वचि -
न्नित्यस्य द्वयवर्जितस्य परमानन्दात्मनो ब्रह्मणः ।
भ्रान्त्या किञ्चिदवेक्ष्य भीतमनसा मिथ्या त्वया कथ्यते
मां त्राहीति हि सुप्तवत्प्रलपनं शून्यात्मकं ते मृषा ॥ २६६ ॥
निद्रागाढतमोवृतः किल जनः स्वप्ने भुजङ्गादिना
ग्रस्तं स्वं समवेक्ष्य यत्प्रलपति त्रासाद्धतोऽस्मीत्यलम् ।
आप्तेन प्रतिबोधितः करतलेनाताड्य पृष्टः स्वयं
किञ्चिन्नेति वदत्यमुष्य वचनं स्यात्तत्किमर्थं वद ॥ २६७ ॥
रज्जोस्तु तत्त्वमनवेक्ष्य गृहीतसर्प -
भावः पुमानयमहिर्वसतीति मोहात् ।
आक्रोशति प्रतिबिभेति च कम्पते त -
न्मिथ्यैव नात्र भुजगोऽस्ति विचार्यमाणे ॥ २६८ ॥
तद्वत्त्वयाप्यात्मन उक्तमेत -
ज्जन्माप्ययव्याधिजरादिदुःखम् ।
मृषैव सर्वं भ्रमकल्पितं ते
सम्यग्विचार्यात्मनि मुञ्च भीतिम् ॥ २६९ ॥
भवाननात्मनो धर्मानात्मन्यारोप्य शोचति ।
तदज्ञानकृतं सर्वं भयं त्यक्त्वा सुखी भव ॥ २७० ॥
शिष्यः -
श्रीमद्भिरुक्तं सकलं मृषेति
दृष्टान्त एव ह्युपपद्यते तत् ।
दार्ष्टान्तिके नैव भवादिदुःखं
प्रत्यक्षतः सर्वजनप्रसिद्धम् ॥ २७१ ॥
प्रत्यक्षेणानुभूतार्थः कथं मिथ्यात्वमर्हति ।
चक्षुषो विषयं कुम्भं कथं मिथ्या करोम्यहम् ॥ २७२ ॥
विद्यमानस्य मिथ्यात्वं कथं नु घटते प्रभो ।
प्रत्यक्षं खलु सर्वेषां प्रमाणं प्रस्फुटार्थकम् ॥ २७३ ॥
मर्त्यस्य मम जन्मादिदुःखभाजोऽल्पजीविनः ।
ब्रह्मत्वमपि नित्यत्वं परमानन्दता कथम् ॥ २७४ ॥
क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः ।
आत्मन्यनात्मधर्माणामारोपः क्रियते कथम् ॥ २७५ ॥
किमज्ञानं तदुत्पन्नभयत्यागोऽपि वा कथम् ।
किमु ज्ञानं तदुत्पन्नसुखप्राप्तिश्च वा कथम् ॥ २७६ ॥
सर्वमेतद्यथापूर्वं करामलकवत्स्फुटम् ।
प्रतिपादय मे स्वामिन् श्रीगुरो करुणानिधे ॥ २७७ ॥
श्रीगुरुः -
धन्यः कृतार्थस्त्वमहो विवेकः
शिवप्रसादस्तव विद्यते महान् ।
विसृज्य तु प्राकृतलोकमार्गं
ब्रह्मावगन्तुं यतसे यतस्त्वम् ॥ २७८ ॥
शिवप्रसादेन विना न सिद्धिः
शिवप्रसादेन विना न बुद्धिः ।
शिवप्रसादेन विना न युक्तिः
शिवप्रसादेन विना न मुक्तिः ॥ २७९ ॥
यस्य प्रसादेन विमुक्तसङ्गाः
शुकादयः संसृतिबन्धमुक्ताः ।
तस्य प्रसादो बहुजन्मलभ्यो
भक्त्यैकगम्यो भवमुक्तिहेतुः ॥ २८० ॥
विवेको जन्तूनां प्रभवति जनिष्वेव बहुषु
प्रसादादेवैशाद्बहुसुकृतपाकोदयवशात् ।
यतस्तस्मादेव त्वमपि परमार्थावगमने
कृतारम्भः पुंसामिदमिह विवेकस्य तु फलम् ॥ २८१ ॥
मर्त्यत्वसिद्धेरपि पुंस्त्वसिद्धे -
र्विप्रत्वसिद्धेश्च विवेकसिद्धेः ।
वदन्ति मुख्यं फलमेव मोक्षं
व्यर्थं समस्तं यदि चेन्न मोक्षः ॥ २८२ ॥
प्रश्नः समीचीनतरस्तवायं
यदात्मतत्त्वावगमे प्रवृत्तिः ।
ततस्तवैतत्सकलं समूलं
निवेदयिष्यामि मुदा शृणुष्व ॥ २८३ ॥
मर्त्यत्वं त्वयि कल्पितं भ्रमवशात्तेनैव जन्मादयः
तत्सम्भावितमेव दुःखमपि ते नो वस्तुतस्तन्मृषा ।
निद्रामोहवशादुपागतसुखं दुःखं च किं नु त्वया
सत्यत्वेन विलोकितं क्वचिदपि ब्रूहि प्रबोधागमे ॥ २८४ ॥
नाशेषलोकैरनुभूयमानः
प्रत्यक्षतोऽयं सकलप्रपञ्चः ।
कथं मृषा स्यादिति शङ्कनीयं
विचारशून्येन विमुह्यता त्वया ॥ २८५ ॥
दिवान्धदृष्टेस्तु दिवान्धकारः
प्रत्यक्षसिद्धोऽपि स किं यथार्थः ।
तद्वद्भ्रमेणावगतः पदार्थो
भ्रान्तस्य सत्यः सुमतेर्मृषैव ॥ २८६ ॥
घटोऽयमित्यत्र घटाभिधानः
प्रत्यक्षतः कश्चिदुदेति दृष्टेः ।
विचार्यमाणे स तु नास्ति तत्र
मृदस्ति तद्भावविलक्षणा सा ॥ २८७ ॥
प्रादेशमात्रः परिदृश्यतेऽर्कः
शास्त्रेण सन्दर्शितलक्षयोजनः ।
मानान्तरेण क्वचिदेति बाधां
प्रत्यक्षमप्यत्र हि न व्यवस्था ॥ २८८ ॥
तस्मात्त्वयीदं भ्रमतः प्रतीतं
मृषैव नो सत्यमवेहि साक्षात् ।
ब्रह्म त्वमेवासि सुखस्वरुपं
त्वत्तो न भिन्नं विचिनुष्व बुद्धौ ॥ २८९ ॥
लोकान्तरे वात्र गुहान्तरे वा
तीर्थान्तरे कर्मपरम्परान्तरे ।
शास्त्रान्तरे नास्त्यनुपश्यतामिह
स्वयं परं ब्रह्म विचार्यमाणे ॥ २९० ॥
तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु पश्यति ।
गोपः कक्षगतं छागं यथा कूपेषु दुर्मतिः ॥ २९१ ॥
स्वमात्मानं परं मत्वा परमात्मानमन्यथा ।
विमृग्यते पुनः स्वात्मा बहिः कोशेषु पण्डितैः ॥ २९२ ॥
विस्मृत्य वस्तुनस्तत्त्वमध्यारोप्य च वस्तुनि ।
अवस्तुतां च तद्धर्मान्मुधा शोचति नान्यथा ॥ २९३ ॥
आत्मानात्मविवेकं ते वक्ष्यामि शृणु सादरम् ।
यस्य श्रवणमात्रेण मुच्यतेऽनात्मबन्धनात् ॥ २९४ ॥
इत्युक्त्वाभिमुखीकृत्य शिष्यं करुणया गुरुः ।
अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चयन् ॥ २९५ ॥
सम्यक्प्राबोधयत्तत्त्वं शास्त्रदृष्टेन वर्त्मना ।
सर्वेषामुपकाराय तत्प्रकारोऽत्र दर्श्यते ॥ २९६ ॥
वस्तुन्यवस्त्वारोपो यः सोऽध्यारोप इतीर्यते ।
असर्पभूते रज्ज्वादौ सर्पत्वारोपणं यथा ॥ २९७ ॥
वस्तु तावत्परं ब्रह्म सत्यज्ञानादिलक्षणम् ।
इदमारोपितं यत्र भाति खे नीलतादिवत् ॥ २९८ ॥
तत्कारणं यदज्ञानं सकार्यं सद्विलक्षणम् ।
अवस्त्वित्युच्यते सद्भिर्यस्य बाधा प्रदृश्यते ॥ २९९ ॥
अवस्तु तत्प्रमाणैर्यद्बाध्यते शुक्तिरौप्यवत् ।
न बाध्यते यत्तद्वस्तु त्रिषु कालेषु शुक्तिवत् ॥ ३०० ॥
शुक्तेर्बाधा न खल्वस्ति रजतस्य यथा तथा ।
अवस्तुसंज्ञितं यत्तज्जगदध्यासकारणम् ॥ ३०१ ॥
सदसद्भ्यामनिर्वाच्यमज्ञानं त्रिगुणात्मकम् ।
वस्तुतत्त्वावबोधैकबाध्यं तद्भावलक्षणम् ॥ ३०२ ॥
मिथ्यासम्बन्धतस्तत्र ब्रह्मण्याश्रित्य तिष्ठति ।
मणौ शक्तिर्यथा तद्वन्नैतदाश्रयदूषकम् ॥ ३०३ ॥
सद्भावे लिङ्गमेतस्य कार्यमेतच्चराचरम् ।
मानं श्रुतिः स्मृतिश्चाज्ञोऽहमित्यनुभवोऽपि च ॥ ३०४ ॥
अज्ञानं प्रकृतिः शक्तिरविद्येति निगद्यते ।
तदेतत्सन्न भवति नासद्वा शुक्तिरौप्यवत् ॥ ३०५ ॥
सतो भिन्नमभिन्नं वा न दीपस्य प्रभा यथा ।
न सावयवमन्यद्वा बीजस्याङ्कुरवत्क्वचित् ॥ ३०६ ॥
अत एतदनिर्वाच्यमित्येव कवयो विदुः ।
समष्टिव्यष्टिरूपेण द्विधाज्ञानं निगद्यते ॥ ३०७ ॥
नानात्वेन प्रतीतानामज्ञानानामभेदतः ।
एकत्वेन समष्टिः स्याद्भूरुहाणां वनं यथा ॥ ३०८ ॥
इयं समष्टिरुत्कृष्टा सत्त्वांशोत्कर्षतः पुरा ।
मायेति कथ्यते तज्ज्ञैः शुद्धसत्त्वैकलक्षणा ॥ ३०९ ॥
मायोपहितचैतन्यं साभासं सत्त्वबृंहितम् ।
सर्वज्ञत्वादिगुणकं सृष्टिस्थित्यन्तकारणम् ॥ ३१० ॥
अव्याकृतं तदव्यक्तमीश इत्यपि गीयते ।
सर्वशक्तिगुणोपेतः सर्वज्ञानावभासकः ॥ ३११ ॥
स्वतन्त्रः सत्यसङ्कल्पः सत्यकामः स ईश्वरः ।
तस्यैतस्य महाविष्णोर्महाशक्तेर्महीयसः ॥ ३१२ ॥
सर्वज्ञत्वेश्वरत्वादिकारणत्वान्मनीषिणः ।
कारणं वपुरित्याहुः समष्टिं सत्त्वबृंहितम् ॥ ३१३ ॥
आनन्दप्रचुरत्वेन साधकत्वेन कोशवत् ।
सैषानन्दमयः कोश इतीशस्य निगद्यते ॥ ३१४ ॥
सर्वोपरमहेतुत्वात्सुषुप्तिस्थानमिष्यते ।
प्राकृतः प्रलयो यत्र श्राव्यते श्रुतिभिर्मुहुः ॥ ३१५ ॥
अज्ञानं व्यष्ट्यभिप्रायादनेकत्वेन भिद्यते ।
अज्ञानवृत्तयो नाना तत्तद्गुणविलक्षणाः ॥ ३१६ ॥
वनस्य व्यष्ट्यभिप्रायाद्भूरुहा इत्यनेकता ।
यथा तथैवाज्ञानस्य व्यष्टितः स्यादनेकता ॥ ३१७ ॥
व्यष्टिर्मलिनसत्वैषा रजसा तमसा युता ।
ततो निकृष्टा भवति योपाधिः प्रत्यगात्मनः ॥ ३१८ ॥
चैतन्यं व्यष्ट्यवच्छिन्नं प्रत्यगात्मेति गीयते ।
साभासं व्यष्ट्युपहितं सत्तादात्म्येन तद्गुणैः ॥ ३१९ ॥
अभिभूतः स एवात्मा जीव इत्यभिधीयते ।
किञ्चिज्ज्ञत्वानीश्वरत्वसंसारित्वादिधर्मवान् ॥ ३२० ॥
अस्य व्यष्टिरहङ्कारकारणत्वेन कारणम् ।
वपुस्तत्राभिमान्यात्मा प्राज्ञ इत्युच्यते बुधैः ॥ ३२१ ॥
प्राज्ञत्वमस्यैकाज्ञानभासकत्वेन सम्मतम् ।
व्यष्टेर्निकृष्टत्वेनास्य नानेकाज्ञानभासकम् ॥ ३२२ ॥
स्वरूपाच्छादकत्वेनाप्यानन्दप्रचुरत्वतः ।
कारणं वपुरानन्दमयः कोश इतीर्यते ॥ ३२३ ॥
अस्यावस्था सुषुप्तिः स्याद्यत्रानन्दः प्रकृष्यते ।
एषोऽहं सुखमस्वाप्सं न तु किञ्चिदवेदिषम् ॥ ३२४ ॥
इत्यानन्दसमुत्कर्षः प्रबुद्धेषु प्रदृश्यते ।
समष्टेरपि च व्यष्टेरुभयोर्वनवृक्षवत् ॥ ३२५ ॥
अभेद एव नो भेदो जात्येकत्वेन वस्तुतः ।
अभेद एव ज्ञातव्यस्तथेशप्राज्ञयोरपि ॥ ३२६ ॥
सत्युपाध्योरभिन्नत्वे क्व भेदस्तद्विशिष्टयोः ।
एकीभावे तरङ्गाब्ध्योः को भेदः प्रतिबिम्बयोः ॥ ३२७ ॥
अज्ञानतदवच्छिन्नाभासयोरुभयोरपि ।
आधारं शुद्धचैतन्यं यत्तत्तुर्यमितीर्यते ॥ ३२८ ॥
एतदेवाविविक्तं सदुपाधिभ्यां च तद्गुणैः ।
महावाक्यस्य वाच्यार्थो विविक्तं लक्ष्य इष्यते ॥ ३२९ ॥
अनन्तशक्तिसम्पन्नो मायोपाधिक ईश्वरः ।
ईक्षामात्रेण सृजति विश्वमेतच्चराचरम् ॥ ३३० ॥
अद्वितीयस्वमात्रोऽसौ निरुपादान ईश्वरः ।
स्वयमेव कथं सर्वं सृजतीति न शङ्क्यताम् ॥ ३३१ ॥
निमित्तमप्युपादानं स्वयमेव भवन्प्रभुः ।
चराचरात्मकं विश्वं सृजत्यवति लुम्पति ॥ ३३२ ॥
स्वप्राधान्येन जगतो निमित्तमपि कारणम् ।
उपादानं ततोपाधिप्राधान्येन भवत्ययम् ॥ ३३३ ॥
यथालूता निमित्तं च स्वप्रधानतया भवेत् ।
स्वशरीरप्रधानत्वेनोपादानं तथेश्वरः ॥ ३३४ ॥
तमःप्रधानप्रकृतिविशिष्टात्परमात्मनः ।
अभूत्सकाशादाकाशमाकाशाद्वायुरुच्यते ॥ ३३५ ॥
वायोरग्निस्तथैवाग्नेरापोऽद्भ्यः पृथिवी क्रमात् ।
शक्तेस्तमःप्रधानत्वं तत्कार्ये जाड्यदर्शनात् ॥ ३३६ ॥