अद्वैतशारदा

विवेकचूडामणिः

० विभागः

सर्व­वे­दा­न्त­सि­द्धा­न्त­गो­चरं तमगोचरम् ।
गोविन्दं परमानन्दं मद्गुरुं प्रणतोऽस्म्यहम् ॥ १ ॥

जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता
तस्मा­द्वै­दि­क­ध­र्म­मा­र्ग­प­रता विद्व­त्त्व­म­स्मा­त्प­रम् ।
आत्मा­ना­त्म­वि­वे­चनं स्वनुभवो ब्रह्मात्मना संस्थिति -
र्मुक्तिर्नो शतकोटिजन्मसु कृतैः पुण्यैर्विना लभ्यते ॥ २ ॥

दुर्लभं त्रय­मे­वै­त­द्दे­वा­नु­ग्र­ह­हे­तु­कम् ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥ ३ ॥

लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं
तत्रापि पुंस्त्वं श्रुति­पा­र­द­र्श­नम् ।
यः स्वात्ममुक्त्यै न यतेत मूढधीः
स आत्महा स्वं विनि­ह­न्त्य­स­द्ग्र­हात् ॥ ४ ॥

इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।
दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥ ५ ॥

पठन्तु शास्त्राणि यजन्तु देवा -
न्कुर्वन्तु कर्माणि भजन्तु देवताः ।
आत्मैक्यबोधेन विना विमुक्ति -
र्न सिध्यति ब्रह्म­श­ता­न्त­रेऽपि ॥ ६ ॥

अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः ।
ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥ ७ ॥

अतो विमुक्त्यै प्रयतेत विद्वा -
न्संन्य­स्त­बा­ह्या­र्थ­सु­ख­स्पृहः सन् ।
सन्तं महान्तं समुपेत्य देशिकं
तेनो­प­दि­ष्टा­र्थ­स­मा­हि­तात्मा ॥ ८ ॥

उद्ध­रे­दा­त्म­ना­त्मानं मग्नं संसारवारिधौ ।
योगा­रू­ढ­त्व­मा­साद्य सम्य­ग्द­र्श­न­नि­ष्ठया ॥ ९ ॥

संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये ।
यत्यतां पण्डि­तै­र्धी­रै­रा­त्मा­भ्यास उपस्थितैः ॥ १० ॥

१०

चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये ।
वस्तु­सि­द्धि­र्वि­चा­रेण न किञ्चि­त्क­र्म­को­टिभिः ॥ ११ ॥

११

सम्यग्विचारतः सिद्धा रज्जु­त­त्त्वा­व­धा­रणा ।
भ्रान्त्यो­दि­त­म­हा­स­र्प­भ­व­दुः­ख­वि­ना­शनी ॥ १२ ॥

१२

अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः ।
न स्नानेन न दानेन प्राणायामशतेन वा ॥ १३ ॥

१३

अधि­का­रि­ण­मा­शास्ते फल­सि­द्धि­र्वि­शे­षतः ।
उपाया देशकालाद्याः सन्त्य­स्मि­न्स­ह­का­रिणः ॥ १४ ॥

१४

अतो विचारः कर्तव्यो जिज्ञा­सो­रा­त्म­व­स्तुनः ।
समासाद्य दयासिन्धुं गुरुं ब्रह्म­वि­दु­त्त­मम् ॥ १५ ॥

१५

मेधावी पुरुषो विद्वा­नू­हा­पो­ह­वि­च­क्षणः ।
अधि­का­र्या­त्म­वि­द्या­या­मु­क्त­ल­क्ष­ण­ल­क्षितः ॥ १६ ॥

१६

विवेकिनो विरक्तस्य शमादिगुणशालिनः ।
मुमुक्षोरेव हि ब्रह्म­जि­ज्ञा­सा­यो­ग्यता मता ॥ १७ ॥

१७

साधनान्यत्र चत्वारि कथितानि मनीषिभिः ।
येषु सत्स्वेव सन्निष्ठा यदभावे न सिध्यति ॥ १८ ॥

१८

आदौ नित्या­नि­त्य­व­स्तु­वि­वेकः परिगण्यते ।
इहा­मु­त्र­फ­ल­भो­ग­वि­रा­ग­स्त­द­न­न्त­रम् ॥ १९ ॥

१९

शमा­दि­ष­ट्क­स­म्प­त्ति­र्मु­मु­क्षु­त्व­मिति स्फुटम् ।
ब्रह्म सत्यं जग­न्मि­थ्ये­त्ये­वं­रूपो विनिश्चयः ॥ २० ॥

२०

सोऽयं नित्या­नि­त्य­व­स्तु­वि­वेकः समुदाहृतः ।
तद्वैराग्यं जुगुप्सा या दर्श­न­श्र­व­णा­दिभिः ॥ २१ ॥

२१

देहा­दि­ब्र­ह्म­प­र्यन्ते ह्यनित्ये भोग्यवस्तुनि ।
विरज्य विष­य­व्रा­ता­द्दो­ष­दृष्ट्या मुहुर्मुहुः ॥ २२ ॥

२२

स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ।
विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके ॥ २३ ॥

२३

उभ­ये­षा­मि­न्द्रि­याणां स दमः परकीर्तितः ।
बाह्यानालम्बनं वृत्ते­रे­षो­प­र­ति­रु­त्तमा ॥ २४ ॥

२४

सहनं सर्व­दुः­खा­ना­म­प्र­ती­का­र­पू­र्व­कम् ।
चिन्ता­वि­ला­प­र­हितं सा तितिक्षा निगद्यते ॥ २५ ॥

२५

शास्त्रस्य गुरुवाक्यस्य सत्य­बु­द्ध्या­व­धा­रणा ।
सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥ २६ ॥

२६

सम्यगास्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा ।
तत्स­मा­धा­न­मि­त्युक्तं न तु चित्तस्य लालनम् ॥ २७ ॥

२७

अह­ङ्का­रा­दि­दे­हा­न्ता­न्ब­न्धा­न­ज्ञा­न­क­ल्पि­तान् ।
स्वस्व­रू­पा­व­बो­धेन मोक्तुमिच्छा मुमुक्षुता ॥ २८ ॥

२८

मन्दमध्यमरूपापि वैराग्येण शमादिना ।
प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ॥ २९ ॥

२९

वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते ।
तस्मि­न्ने­वा­र्थ­वन्तः स्युः फलवन्तः शमादयः ॥ ३० ॥

३०

एतयोर्मन्दता यत्र विर­क्त­त्व­मु­मु­क्षयोः ।
मरौ सलिलवत्तत्र शमा­दे­र्भा­न­मा­त्रता ॥ ३१ ॥

३१

मोक्ष­का­र­ण­सा­मग्र्यां भक्तिरेव गरीयसी ।
स्वस्व­रू­पा­नु­स­न्धानं भक्ति­रि­त्य­भि­धी­यते ॥ ३२ ॥

३२

स्वात्म­त­त्त्वा­नु­स­न्धानं भक्तिरित्यपरे जगुः ।
उक्त­सा­ध­न­स­म्प­न्न­स्त­त्त्व­जि­ज्ञा­सु­रा­त्मनः ॥ ३३ ॥

३३

उपसीदेद्गुरुं प्राज्ञं यस्मा­द्ब­न्ध­वि­मो­क्ष­णम् ।
श्रोत्रि­योऽ­वृ­जि­नोऽ­का­म­हतो यो ब्रह्मवित्तमः ॥ ३४ ॥

३४

ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः ।
अहे­तु­क­द­या­सि­न्धु­र्ब­न्धु­रा­न­मतां सताम् ॥ ३५ ॥

३५

तमाराध्य गुरुं भक्त्या प्रह्वः प्रश्रयसेवनैः ।
प्रसन्नं तमनुप्राप्य पृच्छे­ज्ज्ञा­त­व्य­मा­त्मनः ॥ ३६ ॥

३६

स्वामिन्नमस्ते नतलोकबन्धो
कारुण्यसिन्धो पतितं भवाब्धौ ।
मामु­द्ध­रा­त्मी­य­क­टा­क्ष­दृष्ट्या
ऋज्व्या­ति­का­रु­ण्य­सु­धा­भि­वृष्ट्या ॥ ३७ ॥

३७

दुर्वा­र­सं­सा­र­द­वा­ग्नि­तप्तं
दोधूयमानं दुरदृष्टवातैः ।
भीतं प्रपन्नं परिपाहि मृत्योः
शरण्यमन्यं यदहं न जाने ॥ ३८ ॥

३८

शान्ता महान्तो निवसन्ति सन्तो
वसन्तवल्लोकहितं चरन्तः ।
तीर्णाः स्वयं भीमभवार्णवं जना -
नहेतुनान्यानपि तारयन्तः ॥ ३९ ॥

३९

अयं स्वभावः स्वत एव यत्पर -
श्रमापनोदप्रवणं महात्मनाम् ।
सुधांशुरेष स्वयमर्ककर्कश -
प्रभा­भि­त­प्ता­म­वति क्षितिं किल ॥ ४० ॥

४०

ब्रह्मा­न­न्द­र­सा­नु­भू­ति­क­लितैः पूतैः सुशीतैः सितै -
र्युष्म­द्वा­क्क­ल­शो­ज्झितैः श्रुति­सु­खै­र्वा­क्या­मृतैः सेचय ।
सन्तप्तं भव­ता­प­दा­व­द­ह­न­ज्वा­ला­भि­रेनं प्रभो
धन्यास्ते भव­दी­क्ष­ण­क्ष­ण­गतेः पात्रीकृताः स्वीकृताः ॥ ४१ ॥

४१

कथं तरेयं भवसिन्धुमेतं
का वा गतिर्मे कतमोऽस्त्युपायः ।
जाने न किञ्चित्कृपयाव मां प्रभो
संसा­र­दुः­ख­क्ष­ति­मा­त­नुष्व ॥ ४२ ॥

४२

तथा वदन्तं शरणागतं स्वं
संसा­र­दा­वा­न­ल­ता­प­त­प्तम् ।
निरीक्ष्य कारु­ण्य­र­सा­र्द्र­दृष्ट्या
दद्यादभीतिं सहसा महात्मा ॥ ४३ ॥

४३

विद्वान्स तस्मा उपसत्तिमीयुषे
मुमुक्षवे साधु यथोक्तकारिणे ।
प्रशान्तचित्ताय शमान्विताय
तत्त्वोपदेशं कृपयैव कुर्यात् ॥ ४४ ॥

४४

मा भैष्ट विद्वंस्तव नास्त्यपायः
संसा­र­सि­न्धो­स्त­र­णेऽ­स्त्यु­पायः ।
येनैव याता यतयोऽस्य पारं
तमेव मार्गं तव निर्दिशामि ॥ ४५ ॥

४५

अस्त्युपायो महा­न्क­श्चि­त्सं­सा­र­भ­य­ना­शनः ।
तेन तीर्त्वा भवाम्भोधिं पर­मा­न­न्द­मा­प्स्यसि ॥ ४६ ॥

४६

वेदा­न्ता­र्थ­वि­चा­रेण जायते ज्ञानमुत्तमम् ।
तेना­त्य­न्ति­क­सं­सा­र­दुः­ख­नाशो भवत्यलम् ॥ ४७ ॥

४७

श्रद्धा­भ­क्ति­ध्या­न­यो­गा­न्मु­मुक्षो -
र्मुक्ते­र्हे­तू­न्वक्ति साक्षा­च्छ्रु­तेर्गीः ।
यो वा एतेष्वेव तिष्ठत्यमुष्य
मोक्षोऽ­वि­द्या­क­ल्पि­ता­द्दे­ह­ब­न्धात् ॥ ४८ ॥

४८

अज्ञा­न­यो­गा­त्प­र­मा­त्म­न­स्तव
ह्यना­त्म­ब­न्ध­स्तत एव संसृतिः ।
तयो­र्वि­वे­को­दि­त­बो­ध­वह्नि -
रज्ञानकार्यं प्रदहेत्समूलम् ॥ ४९ ॥

४९

शिष्य उवाच -

कृपया श्रूयतां स्वामिन् प्रश्नोऽयं क्रियते मया ।
यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ॥ ५० ॥

५०

को नाम बन्धः कथमेष आगतः
कथं प्रतिष्ठास्य कथं विमोक्षः ।
कोऽसावनात्मा परमः क आत्मा
तयोर्विवेकः कथमेतदुच्यताम् ॥ ५१ ॥

५१

श्रीगुरुरुवाच -

धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया ।
यद­वि­द्या­ब­न्ध­मुक्त्या ब्रह्मी­भ­वि­तु­मि­च्छसि ॥ ५२ ॥

५२

ऋणमोचनकर्तारः पितुः सन्ति सुतादयः ।
बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥ ५३ ॥

५३

मस्त­क­न्य­स्त­भा­रा­दे­र्दुः­ख­म­न्यै­र्नि­वा­र्यते ।
क्षुधा­दि­कृ­त­दुःखं तु विना स्वेन न केनचित् ॥ ५४ ॥

५४

पथ्यमौषधसेवा च क्रियते येन रोगिणा ।
आरो­ग्य­सि­द्धि­र्दृ­ष्टास्य नान्या­नु­ष्ठि­त­क­र्मणा ॥ ५५ ॥

५५

वस्तुस्वरूपं स्फुटबोधचक्षुषा
स्वेनैव वेद्यं न तु पण्डितेन ।
चन्द्रस्वरूपं निजचक्षुषैव
ज्ञात­व्य­म­न्यै­र­व­ग­म्यते किम् ॥ ५६ ॥

५६

अवि­द्या­का­म­क­र्मा­दि­पा­श­बन्धं विमोचितुम् ।
कः शक्नु­या­द्वि­ना­त्मानं कल्पकोटिशतैरपि ॥ ५७ ॥

५७

न योगेन न साङ्ख्येन कर्मणा नो न विद्यया ।
ब्रह्मा­त्मै­क­त्व­बो­धेन मोक्षः सिध्यति नान्यथा ॥ ५८ ॥

५८

वीणाया रूपसौन्दर्यं तन्त्री­वा­द­न­सौ­ष्ठ­वम् ।
प्रजा­र­ञ्ज­न­मात्रं तन्न साम्राज्याय कल्पते ॥ ५९ ॥

५९

वाग्वैखरी शब्दझरी शास्त्र­व्या­ख्या­न­कौ­श­लम् ।
वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये ॥ ६० ॥

६०

अविज्ञाते परे तत्त्वे शास्त्रा­धी­तिस्तु निष्फला ।
विज्ञातेऽपि परे तत्त्वे शास्त्रा­धी­तिस्तु निष्फला ॥ ६१ ॥

६१

शब्दजालं महारण्यं चित्त­भ्र­म­ण­का­र­णम् ।
अतः प्रय­त्ना­ज्ज्ञा­तव्यं तत्त्व­ज्ञा­त्त­त्त्व­मा­त्मनः ॥ ६२ ॥

६२

अज्ञा­न­स­र्प­द­ष्टस्य ब्रह्मज्ञानौषधं विना ।
किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः ॥ ६३ ॥

६३

न गच्छति विना पानं व्याधि­रौ­ष­ध­श­ब्दतः ।
विना­प­रो­क्षा­नु­भवं ब्रह्मशब्दैर्न मुच्यते ॥ ६४ ॥

६४

अकृत्वा दृश्य­वि­ल­य­म­ज्ञात्वा तत्त्वमात्मनः ।
बाह्यशब्दैः कुतो मुक्ति­रु­क्ति­मा­त्र­फ­लै­र्नृ­णाम् ॥ ६५ ॥

६५

अकृत्वा शत्रु­सं­हा­र­म­ग­त्वा­खि­ल­भू­श्रि­यम् ।
राजाहमिति शब्दान्नो राजा भवितुमर्हति ॥ ६६ ॥

६६

आप्तोक्तिं खननं तथो­प­रि­शि­ला­पा­क­र्षणं स्वीकृतिं
निक्षेपः समपेक्षते न हि बहिः शब्दैस्तु निर्गच्छति ।
तद्व­द्ब्र­ह्म­वि­दो­प­दे­श­म­न­न­ध्या­ना­दि­भि­र्ल­भ्यते
माया­का­र्य­ति­रो­हितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥ ६७ ॥

६७

तस्मा­त्स­र्व­प्र­य­त्नेन भवबन्धविमुक्तये ।
स्वैरेव यत्नः कर्तव्यो रोगादेरिव पण्डितैः ॥ ६८ ॥

६८

यस्त्वयाद्य कृतः प्रश्नो वरीयान् शास्त्रविन्मतः ।
सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥ ६९ ॥

६९

शृणुष्वावहितो विद्वन् यन्मया समुदीर्यते ।
तदे­त­च्छ्र­व­णा­त्सद्यो भव­ब­न्धा­द्वि­मो­क्ष्यसे ॥ ७० ॥

७०

मोक्षस्य हेतुः प्रथमो निगद्यते
वैरा­ग्य­म­त्य­न्त­म­नि­त्य­व­स्तुषु ।
ततः शमश्चापि दमस्तितिक्षा
न्यासः प्रस­क्ता­खि­ल­क­र्मणां भृशम् ॥ ७१ ॥

७१

ततः श्रुतिस्तन्मननं सतत्त्व -
ध्यानं चिरं नित्यनिरन्तरं मुनेः ।
ततोऽविकल्पं परमेत्य विद्वा -
निहैव निर्वाणसुखं समृच्छति ॥ ७२ ॥

७२

यद्बोद्धव्यं तवे­दा­नी­मा­त्मा­ना­त्म­वि­वे­च­नम् ।
तदुच्यते मया सम्य­क्छ्रु­त्वा­त्म­न्य­व­धा­रय ॥ ७३ ॥

७३

मज्जा­स्थि­मे­दः­प­ल­र­क्त­च­र्म­त्व­गा­ह्व­यै­र्धा­तु­भि­रे­भि­र­न्वि­तम् ।
पादो­रु­व­क्षो­भु­ज­पृ­ष्ठ­म­स्त­कै­र­ङ्गै­रु­पा­ङ्गै­रु­प­यु­क्त­मे­तत् ॥ ७४ ॥

७४

अहं ममेति प्रथितं शरीरं
मोहास्पदं स्थूलमितीर्यते बुधैः ।
नभो­न­भ­स्व­द्द­ह­ना­म्बु­भू­मयः सूक्ष्माणी भूतानि भवन्ति तानि ॥ ७५ ॥

७५

पर­स्प­रां­शै­र्मि­लि­तानि भूत्वा
स्थूलानि च स्थूलशरीरहेतवः ।
मात्रास्तदीया विषया भवन्ति
शब्दादयः पञ्च सुखाय भोक्तुः ॥ ७६ ॥

७६

य एषु मूढा विषयेषु बद्धा
रागोरुपाशेन सुदुर्दमेन ।
आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः
स्वकर्मदूतेन जवेन नीताः ॥ ७७ ॥

७७

शब्दादिभिः पञ्चभिरेव पञ्च
पञ्चत्वमापुः स्वगुणेन बद्धाः ।
कुर­ङ्ग­मा­त­ङ्ग­प­त­ङ्ग­मीन -
भृङ्गा नरः पञ्चभिरञ्चितः किम् ॥ ७८ ॥

७८

दोषेण तीव्रो विषयः कृष्ण­स­र्प­वि­षा­दपि ।
विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ॥ ७९ ॥

७९

विष­या­शा­म­हा­पा­शाद्यो विमुक्तः सुदुस्त्यजात् ।
स एव कल्पते मुक्त्यै नान्यः षट्‍छा­स्त्र­वे­द्यपि ॥ ८० ॥

८०

आपातवैराग्यवतो मुमुक्षू -
न्भवाब्धिपारं प्रति­या­तु­मु­द्य­तान् ।
आशाग्रहो मज्जयतेऽन्तराले
निगृह्य कण्ठे विनिवर्त्य वेगात् ॥ ८१ ॥

८१

विषयाख्यग्रहो येन सुविरक्त्यसिना हतः ।
स गच्छति भवाम्बोधेः पारं प्रत्यूहवर्जितः ॥ ८२ ॥

८२

विषमविषयमार्गे गच्छ­तोऽ­न­च्छ­बुद्धेः
प्रतिपदमभिघातो मृत्युरप्येष सिद्धः ।
हित­सु­ज­न­गु­रूक्त्या गच्छतः स्वस्य युक्त्या
प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ॥ ८३ ॥

८३

मोक्षस्य काङ्क्षा यदि वै तवास्ति
त्यजा­ति­दू­रा­द्वि­ष­या­न्विषं यथा ।
पीयू­ष­व­त्तो­ष­द­या­क्ष­मा­र्जव -
प्रशा­न्ति­दा­न्ती­र्भज नित्यमादरात् ॥ ८४ ॥

८४

अनुक्षणं यत्परिहृत्य कृत्य -
मना­द्य­वि­द्या­कृ­त­ब­न्ध­मो­क्ष­णम् ।
देहः परार्थोऽयममुष्य पोषणे
यः सज्जते स स्वमनेन हन्ति ॥ ८५ ॥

८५

शरीरपोषणार्थी सन्य आत्मानं दिदृक्षते ।
ग्राहं दारुधिया धृत्वा नदीं तर्तुं स इच्छति ॥ ८६ ॥

८६

मोह एव महा­मृ­त्यु­र्मु­मु­क्षो­र्व­पु­रा­दिषु ।
मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥ ८७ ॥

८७

मोहं जहि महामृत्युं देहदारसुतादिषु ।
यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् ॥ ८८ ॥

८८

त्वङ्मां­स­रु­धि­र­स्ना­यु­मे­दो­म­ज्जा­स्थि­स­ङ्कु­लम् ।
पूर्णं मूत्र­पु­री­षाभ्यां स्थूलं निन्द्यमिदं वपुः ॥ ८९ ॥

८९

पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा ।
समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः ।
अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ॥ ९० ॥

९०

बाह्येन्द्रियैः स्थूल­प­दा­र्थ­सेवां
स्रक्च­न्द­न­स्त्र्या­दि­वि­चि­त्र­रू­पाम् ।
करोति जीवः स्वयमेतदात्मना
तस्मा­त्प्र­श­स्ति­र्व­पु­षोऽस्य जागरे ॥ ९१ ॥

९१

सर्वोऽपि बाह्यः संसारः पुरुषस्य यदाश्रयः ।
विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ॥ ९२ ॥

९२

स्थूलस्य सम्भवजरामरणानि धर्माः
स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः ।
वर्णा­श्र­मा­दि­नि­यमा बहुधामयाः स्युः पूजा­व­मा­न­ब­हु­मा­न­मुखा विशेषाः ॥ ९३ ॥

९३

बुद्धी­न्द्रि­याणि श्रवणं त्वगक्षि
घ्राणं च जिह्वा विषयावबोधनात् ।
वाक्पाणिपादा गुदमप्युपस्थं
कर्मेन्द्रियाणि प्रवणानि कर्मसु ॥ ९४ ॥

९४

निग­द्य­तेऽ­न्तः­क­रणं मनो धी -
रह­ङ्कृ­ति­श्चि­त्त­मिति स्ववृत्तिभिः ।
मनस्तु सङ्क­ल्प­वि­क­ल्प­ना­दिभि -
र्बुद्धिः पदा­र्था­ध्य­व­सा­य­ध­र्मतः ॥ ९५ ॥

९५

अत्रा­भि­मा­ना­द­ह­मि­त्य­ह­ङ्कृतिः ।
स्वार्था­नु­स­न्धा­न­गु­णेन चित्तम् ॥ ९६ ॥

९६

प्राणा­पा­न­व्या­नो­दा­न­स­माना भवत्यसौ प्राणः ।
स्वयमेव वृत्ति­भे­दा­द्वि­कृ­ते­र्भे­दा­त्सु­व­र्ण­स­लि­ल­मिव ॥ ९७ ॥

९७

वागादिपञ्च श्रवणादिपञ्च
प्राणा­दि­प­ञ्चा­भ्र­मु­खाणि पञ्च ।
बुद्ध्या­द्य­वि­द्यापि च कामकर्मणी
पुर्यष्टकं सूक्ष्म­श­री­र­माहुः ॥ ९८ ॥

९८

इदं शरीरं शृणु सूक्ष्मसंज्ञितं
लिङ्गं त्वप­ञ्ची­कृ­त­भू­त­स­म्भ­वम् ।
सवासनं कर्मफलानुभावकं
स्वाज्ञा­न­तोऽ­ना­दि­रु­पा­धि­रा­त्मनः ॥ ९९ ॥

९९

स्वप्नो भवत्यस्य विभक्त्यवस्था
स्वमात्रशेषेण विभाति यत्र ।
स्वप्ने तु बुद्धिः स्वयमेव जाग्र -
त्काली­न­ना­ना­वि­ध­वा­स­नाभिः ।
कर्त्रादिभावं प्रतिपद्य राजते
यत्र स्वयञ्ज्योतिरयं परात्मा ॥ १०० ॥

१००

धीमा­त्र­को­पा­धि­र­शे­ष­साक्षी
न लिप्यते तत्कृतकर्मलेपैः ।
यस्मादसङ्गस्तत एव कर्मभि -
र्न लिप्यते किञ्चिदुपाधिना कृतैः ॥ १०१ ॥

१०१

सर्व­व्या­पृ­ति­क­रणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः ।
वास्यादिकमिव तक्ष्ण­स्ते­नै­वात्मा भवत्यसङ्गोऽयम् ॥ १०२ ॥

१०२

अन्ध­त्व­म­न्द­त्व­प­टु­त्व­धर्माः
सौगु­ण्य­वै­गु­ण्य­व­शाद्धि चक्षुषः ।
बाधि­र्य­मू­क­त्व­मु­खा­स्त­थैव
श्रोत्रादिधर्मा न तु वेत्तुरात्मनः ॥ १०३ ॥

१०३

उच्छ्वा­स­निः­श्वा­स­वि­जृ­म्भ­ण­क्षुत् -
प्रस्प­न्द­ना­द्यु­त्क्र­म­णा­दिकाः क्रियाः ।
प्राणादिकर्माणि वदन्ति तज्ज्ञाः
प्राणस्य धर्मावशनापिपासे ॥ १०४ ॥

१०४

अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि ।
अहमित्यभिमानेन तिष्ठ­त्या­भा­स­ते­जसा ॥ १०५ ॥

१०५

अहङ्कारः स विज्ञेयः कर्ता भोक्ता­भि­मा­न्य­यम् ।
सत्त्वा­दि­गु­ण­यो­गे­ना­व­स्था­त्रि­त­य­म­श्नुते ॥ १०६ ॥

१०६

विष­या­णा­मा­नु­कूल्ये सुखी दुःखी विपर्यये ।
सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ॥ १०७ ॥

१०७

आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः ।
स्वत एव हि सर्वेषामात्मा प्रियतमो यतः ॥ १०८ ॥

१०८

तत आत्मा सदानन्दो नास्य दुःखं कदाचन ।
यत्सुषुप्तौ निर्विषय आत्मा­न­न्दोऽ­नु­भू­यते ।
श्रुतिः प्रत्य­क्ष­मै­ति­ह्य­म­नु­मानं च जाग्रति ॥ १०९ ॥

१०९

अव्यक्तनाम्नी परमेशशक्ति -
रनाद्यविद्या त्रिगुणात्मिका परा ।
कार्यानुमेया सुधियैव माया
यया जगत्सर्वमिदं प्रसूयते ॥ ११० ॥

११०

सन्ना­प्य­स­न्ना­प्यु­भ­या­त्मिका नो
भिन्ना­प्य­भि­न्ना­प्यु­भ­या­त्मिका नो ।
साङ्गा­प्य­न­ङ्गा­प्यु­भ­या­त्मिका नो
महा­द्भु­ता­नि­र्व­च­नी­य­रूपा ॥ १११ ॥

१११

शुद्धा­द्व­य­ब्र­ह्म­वि­बो­ध­नाश्या
सर्पभ्रमो रज्जुविवेकतो यथा ।
रजस्तमः सत्त्वमिति प्रसिद्धा
गुणास्तदीयाः प्रथितैः स्वकार्यैः ॥ ११२ ॥

११२

विक्षेपशक्ती रजसः क्रियात्मिका
यतः प्रवृत्तिः प्रसृता पुराणी ।
रागादयोऽस्याः प्रभवन्ति नित्यं
दुःखादयो ये मनसो विकाराः ॥ ११३ ॥

११३

कामः क्रोधो लोभदम्भाव्यसूया -
हङ्का­रे­र्ष्या­म­त्स­रा­द्यास्तु घोराः ।
धर्मा एते राजसाः पुम्प्रवृत्ति -
र्यस्मा­दे­त­त्त­द्रजो बन्धहेतुः ॥ ११४ ॥

११४

एषावृतिर्नाम तमोगुणस्य
शक्तिर्यया वस्त्व­व­भा­स­तेऽ­न्यथा ।
सैषा निदानं पुरुषस्य संसृते -
र्विक्षेपशक्तेः प्रसरस्य हेतुः ॥ ११५ ॥

११५

प्रज्ञावानपि पण्डितोऽपि चतु­रोऽ­प्य­त्य­न्त­सू­क्ष्मा­र्थदृ -
ग्व्यालीढस्तमसा न वेत्ति बहुधा सम्बोधितोऽपि स्फुटम् ।
भ्रान्त्या­रो­पि­त­मेव साधु कलयत्यालम्बते तद्गुणान्
हन्तासौ प्रबला दुरन्ततमसः शक्ति­र्म­ह­त्या­वृतिः ॥ ११६ ॥

११६

अभावना वा विपरीतभावना
सम्भावना विप्र­ति­प­त्ति­रस्याः ।
संसर्गयुक्तं न विमुञ्चति ध्रुवं
विक्षेपशक्तिः क्षपयत्यजस्रम् ॥ ११७ ॥

११७

अज्ञा­न­मा­ल­स्य­ज­ड­त्व­निद्रा -
प्रमा­द­मू­ढ­त्व­मु­खा­स्त­मो­गुणाः ।
एतैः प्रयुक्तो न हि वेत्ति किञ्चि -
न्निद्रा­लु­व­त्स्त­म्भ­व­देव तिष्ठति ॥ ११८ ॥

११८

सत्त्वं विशुद्धं जलवत्तथापि
ताभ्यां मिलित्वा सरणाय कल्पते ।
यत्रात्मबिम्बः प्रतिबिम्बितः स -
न्प्रकाशयत्यर्क इवाखिलं जडम् ॥ ११९ ॥

११९

मिश्रस्य सत्त्वस्य भवन्ति धर्मा -
स्त्वमानिताद्या नियमा यमाद्याः ।
श्रद्धा च भक्तिश्च मुमुक्षुता च
दैवी च सम्प­त्ति­र­स­न्नि­वृत्तिः ॥ १२० ॥

१२०

विशु­द्ध­स­त्त्वस्य गुणाः प्रसादः
स्वात्मानुभूतिः परमा प्रशान्तिः ।
तृप्तिः प्रहर्षः परमात्मनिष्ठा
यया सदानन्दरसं समृच्छति ॥ १२१ ॥

१२१

अव्य­क्त­मे­त­त्त्रि­गु­णै­र्नि­रुक्तं
तत्कारणं नाम शरीरमात्मनः ।
सुषुप्तिरेतस्य विभक्त्यवस्था
प्रली­न­स­र्वे­न्द्रि­य­बु­द्धि­वृत्तिः ॥ १२२ ॥

१२२

सर्व­प्र­का­र­प्र­मि­ति­प्र­शान्ति -
र्बीजा­त्म­ना­व­स्थि­ति­रेव बुद्धेः ।
सुषु­प्ति­र­त्रास्य किल प्रतीतिः
किञ्चिन्न वेद्मीति जगत्प्रसिद्धेः ॥ १२३ ॥

१२३

देहे­न्द्रि­य­प्रा­ण­म­नोऽ­ह­मा­दयः
सर्वे विकारा विषयाः सुखादयः ।
व्योमा­दि­भू­ता­न्य­खिलं च विश्व -
मव्य­क्त­प­र्य­न्त­मिदं ह्यनात्मा ॥ १२४ ॥

१२४

माया मायाकार्यं सर्वं महदादि देहपर्यन्तम् ।
अस­दि­द­म­ना­त्म­तत्त्वं विद्धि त्वं मरु­म­री­चि­का­क­ल्पम् ॥ १२५ ॥

१२५

अथ ते सम्प्रवक्ष्यामि स्वरूपं परमात्मनः ।
यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते ॥ १२६ ॥

१२६

अस्ति कश्चित्स्वयं नित्य­म­हं­प्र­त्य­य­ल­म्बनः ।
अव­स्था­त्र­य­साक्षी सन्प­ञ्च­को­श­वि­ल­क्षणः ॥ १२७ ॥

१२७

यो विजानाति सकलं जाग्र­त्स्व­प्न­सु­षु­प्तिषु ।
बुद्धि­त­द्वृ­त्ति­स­द्भा­व­म­भा­व­म­ह­मि­त्य­यम् ॥ १२८ ॥

१२८

यः पश्यति स्वयं सर्वं यं न पश्यति किञ्चन ।
यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् ॥ १२९ ॥

१२९

येन विश्वमिदं व्याप्तं यं न व्याप्नोति किञ्चन ।
अभारूपमिदं सर्वं यं भान्त­म­नु­भा­त्य­यम् ॥ १३० ॥

१३०

यस्य संनिधिमात्रेण देहे­न्द्रि­य­म­नो­धियः ।
विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव ॥ १३१ ॥

१३१

अह­ङ्का­रा­दि­दे­हान्ता विषयाश्च सुखादयः ।
वेद्यन्ते घटवद्येन नित्य­बो­ध­स्व­रू­पिणा ॥ १३२ ॥

१३२

एषोऽन्तरात्मा पुरुषः पुराणो
निर­न्त­रा­ख­ण्ड­सु­खा­नु­भूतिः ।
सदैकरूपः प्रतिबोधमात्रो
येनेषिता वागसवश्चरन्ति ॥ १३३ ॥

१३३

अत्रैव सत्त्वात्मनि धीगुहाया -
मव्याकृताकाश उरुप्रकाशः ।
आकाश उच्चै­र­वि­व­त्प्र­का­शते
स्वतेजसा विश्वमिदं प्रकाशयन् ॥ १३४ ॥

१३४

ज्ञाता मनो­ह­ङ्कृ­ति­वि­क्रि­याणां
देहे­न्द्रि­य­प्रा­ण­कृ­त­क्रि­या­णाम् ।
अयोग्निवत्ताननु वर्तमानो
न चेष्टते नो विकरोति किञ्चन ॥ १३५ ॥

१३५

न जायते नो म्रियते न वर्धते
न क्षीयते नो विकरोति नित्यः ।
विलीयमानेऽपि वपुष्यमुष्मि -
न्न लीयते कुम्भ इवाम्बरं स्वयम् ॥ १३६ ॥

१३६

प्रकृ­ति­वि­कृ­ति­भिन्नः शुद्धबोधस्वभावः
सदसदिदमशेषं भास­य­न्नि­र्वि­शेषः ।
विलसति परमात्मा जाग्र­दा­दि­ष्व­वस्था -
स्वहमहमिति साक्षा­त्सा­क्षि­रू­पेण बुद्धेः ॥ १३७ ॥

१३७

नियमितमनसामुं त्वं स्वमात्मानमात्म -
न्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् ।
जनि­म­र­ण­त­र­ङ्गा­पा­र­सं­सा­र­सिन्धुं
प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ॥ १३८ ॥

१३८

अत्रा­ना­त्म­न्य­ह­मिति मतिर्बन्ध एषोऽस्य पुंसः
प्राप्तोऽ­ज्ञा­ना­ज्ज­न­न­म­र­ण­क्ले­श­स­म्पा­त­हेतुः ।
येनैवायं वपु­रि­द­म­स­त्स­त्य­मि­त्या­त्म­बुद्ध्या
पुष्य­त्यु­क्ष­त्य­वति विषयैस्तन्तुभिः कोशकृद्वत् ॥ १३९ ॥

१३९

अत­स्मिं­स्त­द्बुद्धिः प्रभवति विमूढस्य तमसा
विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा ।
ततोऽनर्थव्रातो निपतति समादातुरधिक -
स्ततो योऽसद्ग्राहः स हि भवति बन्धः शृणु सखे ॥ १४० ॥

१४०

अख­ण्ड­नि­त्या­द्व­य­बो­ध­शक्त्या
स्फुर­न्त­मा­त्मा­न­म­न­न्त­वै­भ­वम् ।
समा­वृ­णो­त्या­वृ­ति­श­क्ति­रेषा
तमोमयी राहु­रि­वा­र्क­बि­म्बम् ॥ १४१ ॥

१४१

तिरोभूते स्वात्म­न्य­म­ल­त­र­ते­जो­वति पुमा -
ननात्मानं मोहादहमिति शरीरं कलयति ।
ततः काम­क्रो­ध­प्र­भृ­ति­भि­रमुं बन्धकगुणैः
परं विक्षेपाख्या रजस उरु­श­क्ति­र्व्य­थ­यति ॥ १४२ ॥

१४२

महा­मो­ह­ग्रा­ह­ग्र­स­न­ग­लि­ता­त्मा­व­ग­मनो
धियो नानावस्थाः स्वय­म­भि­न­यं­स्त­द्गु­ण­तया ।
अपारे संसारे विषयविषपूरे जलनिधौ
निम­ज्ज्यो­न्म­ज्ज्यायं भ्रमति कुमतिः कुत्सितगतिः ॥ १४३ ॥

१४३

भानु­प्र­भा­स­ञ्ज­नि­ता­भ्र­पङ्क्ति -
र्भानुं तिरोधाय यथा विजृम्भते ।
आत्मो­दि­ता­ह­ङ्कृ­ति­रा­त्म­तत्त्वं
तथा तिरोधाय विजृम्भते स्वयम् ॥ १४४ ॥

१४४

कबलितदिननाथे दुर्दिने सान्द्रमेघै -
र्व्यथयति हिम­झ­ञ्झा­वा­यु­रुग्रो यथैतान् ।
अवि­र­त­त­म­सा­त्म­न्या­वृते मूढबुद्धिं
क्षपयति बहु­दुः­खै­स्ती­व्र­वि­क्षे­प­शक्तिः ॥ १४५ ॥

१४५

एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः ।
याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्ययम् ॥ १४६ ॥

१४६

बीजं संसृतिभूमिजस्य तु तमो देहा­त्म­धी­र­ङ्कुरो
रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोऽसवः शाखिकाः ।
अग्रा­णी­न्द्रि­य­सं­ह­तिश्च विषयाः पुष्पाणि दुःखं फलं
नाना­क­र्म­स­मु­द्भवं बहुविधं भोक्तात्र जीवः खगः ॥ १४७ ॥

१४७

अज्ञा­न­मू­लोऽ­य­म­ना­त्म­बन्धो
नैस­र्गि­कोऽ­ना­दि­र­नन्त ईरितः ।
जन्मा­प्य­य­व्या­धि­ज­रा­दि­दुःख -
प्रवाहतापं जनयत्यमुष्य ॥ १४८ ॥

१४८

नास्त्रैर्न शस्त्रैरनिलेन वह्निना
च्छेत्तुं न शक्यो न च कर्मकोटिभिः ।
विवे­क­वि­ज्ञा­न­म­हा­सिना विना
धातुः प्रसादेन शितेन मञ्जुना ॥ १४९ ॥

१४९

श्रुति­प्र­मा­णै­क­मतेः स्वधर्म -
निष्ठा तयै­वा­त्म­वि­शु­द्धि­रस्य ।
विशुद्धबुद्धेः परमात्मवेदनं
तेनैव संसारसमूलनाशः ॥ १५० ॥

१५०

कोशै­र­न्न­म­याद्यैः पञ्चभिरात्मा न संवृतो भाति ।
निज­श­क्ति­स­मु­त्पन्नैः शैव­ल­प­ट­लै­रि­वाम्बु वापीस्थम् ॥ १५१ ॥

१५१

तच्छैवालापनये सम्यक्सलिलं प्रतीयते शुद्धम् ।
तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः ॥ १५२ ॥

१५२

पञ्चानामपि कोशानामपवादे विभात्ययं शुद्धः ।
नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयञ्ज्योतिः ॥ १५३ ॥

१५३

आत्मा­ना­त्म­वि­वेकः कर्तव्यो बन्धमुक्तये विदुषा ।
तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम् ॥ १५४ ॥

१५४

मुञ्जादिषीकामिव दृश्यवर्गा -
त्प्रत्य­ञ्च­मा­त्मा­न­म­स­ङ्ग­म­क्रि­यम् ।
विविच्य तत्र प्रविलाप्य सर्वं
तदात्मना तिष्ठति यः स मुक्तः ॥ १५५ ॥

१५५

देहोऽ­य­म­न्न­भ­व­नोऽ­न्न­म­यस्तु कोशो
ह्यन्नेन जीवति विनश्यति तद्विहीनः ।
त्वक्च­र्म­मां­स­रु­धि­रा­स्थि­पु­री­ष­राशि -
र्नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥ १५६ ॥

१५६

पूर्वं जनेरपि मृतेरथ नायमस्ति
जात­क्ष­ण­क्ष­ण­गु­णोऽ­नि­य­त­स्व­भावः ।
नैको जडश्च घट­व­त्प­रि­दृ­श्य­मानः स्वात्मा कथं भवति भावविकारवेत्ता ॥ १५७ ॥

१५७

पाणि­पा­दा­दि­मा­न्देहो नात्मा व्यङ्गेऽपि जीवनात् ।
तत्त­च्छ­क्ते­र­ना­शाच्च न नियम्यो नियामकः ॥ १५८ ॥

१५८

देह­त­द्ध­र्म­त­त्क­र्म­त­द­व­स्था­दि­सा­क्षिणः ।
सत एव स्वतः सिद्धं तद्वै­ल­क्ष­ण्य­मा­त्मनः ॥ १५९ ॥

१५९

शल्य­रा­शि­र्मां­स­लिप्तो मल­पू­र्णोऽ­ति­क­श्मलः ।
कथं भवेदयं वेत्ता स्वय­मे­त­द्वि­ल­क्षणः ॥ १६० ॥

१६०

त्वङ्मां­स­मे­दो­स्थि­पु­री­ष­राशा -
वहंमतिं मूढजनः करोति ।
विलक्षणं वेत्ति विचारशीलो
निजस्वरूपं परमार्थभूतम् ॥ १६१ ॥

१६१

देहोऽहमित्येव जडस्य बुद्धि -
र्देहे च जीवे विदु­ष­स्त्व­हन्धीः ।
विवेकविज्ञानवतो महात्मनो
ब्रह्माहमित्येव मतिः सदात्मनि ॥ १६२ ॥

१६२

अत्रात्मबुद्धिं त्यज मूढबुद्धे
त्वङ्मां­स­मे­दो­स्थि­पु­री­ष­राशौ ।
सर्वात्मनि ब्रह्मणि निर्विकल्पे
कुरुष्व शान्तिं परमां भजस्व ॥ १६३ ॥

१६३

देहे­न्द्रि­या­दा­व­सति भ्रमोदितां
विद्वानहन्तां न जहाति यावत् ।
तावन्न तस्यास्ति विमुक्तिवार्ता -
प्यस्त्वेष वेदा­न्त­न­या­न्त­दर्शी ॥ १६४ ॥

१६४

छायाशरीरे प्रति­बि­म्ब­गात्रे
यत्स्वप्नदेहे हृदि कल्पिताङ्गे ।
यथा­त्म­बु­द्धि­स्तव नास्ति काचि -
ज्जीवच्छरीरे च तथैव मास्तु ॥ १६५ ॥

१६५

देहात्मधीरेव नृणामसद्धियां
जन्मा­दि­दुः­ख­प्र­भ­वस्य बीजम् ।
यतस्ततस्त्वं जहि तां प्रयत्ना -
त्त्यक्ते तु चित्ते न पुनर्भवाशा ॥ १६६ ॥

१६६

कर्मेन्द्रियैः पञ्च­भि­र­ञ्चि­तोऽयं
प्राणो भवे­त्प्रा­ण­म­यस्तु कोशः ।
येना­त्म­वा­न­न्न­म­योऽ­नु­पूर्णः
प्रवर्ततेऽसौ सकलक्रियासु ॥ १६७ ॥

१६७

नैवात्मापि प्राणमयो वायुविकारो
गन्तागन्ता वायु­व­द­न्त­र्ब­हि­रेषः ।
यस्मा­त्कि­ञ्चि­त्क्वापि न वेत्ती­ष्ट­म­निष्टं
स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः ॥ १६८ ॥

१६८

ज्ञाने­न्द्रि­याणि च मनश्च मनोमयः स्या -
त्कोशो ममाहमिति वस्तु­वि­क­ल्प­हेतुः ।
संज्ञा­दि­भे­द­क­ल­ना­क­लितो बलीयां -
स्तत्पू­र्व­को­श­म­नु­पूर्य विजृम्भते यः ॥ १६९ ॥

१६९

पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः
प्रचीयमानो विषयाज्यधारया ।
जाज्वल्यमानो बहुवासनेन्धनै -
र्मनो­म­योऽ­ग्नि­र्द­हति प्रपञ्चम् ॥ १७० ॥

१७०

न ह्यस्त्यविद्या मनसोऽतिरिक्ता
मनो ह्यविद्या भवबन्धहेतुः ।
तस्मिन्विनष्टे सकलं विनष्टं
विजृ­म्भि­तेऽ­स्मि­न्स­कलं विजृम्भते ॥ १७१ ॥

१७१

स्वप्नेऽ­र्थ­शून्ये सृजति स्वशक्त्या
भोक्त्रादि विश्वं मन एव सर्वम् ।
तथैव जाग्रत्यपि नो विशेष -
स्तत्स­र्व­मे­त­न्म­नसो विजृम्भणम् ॥ १७२ ॥

१७२

सुषुप्तिकाले मनसि प्रलीने
नैवास्ति किञ्चि­त्स­क­ल­प्र­सिद्धेः ।
अतो मनःकल्पित एव पुंसः
संसार एतस्य न वस्तुतोऽस्ति ॥ १७३ ॥

१७३

वायुनानीयते मेघः पुनस्तेनैव लीयते ।
मनसा कल्प्यते बन्धो मोक्षस्तेनैव कल्प्यते ॥ १७४ ॥

१७४

देहादिसर्वविषये परिकल्प्य रागं
बध्नाति तेन पुरुषं पशुवद्गुणेन ।
वैरस्यमत्र विषवत्सुविधाय पश्चा -
देनं विमोचयति तन्मन एव बन्धात् ॥ १७५ ॥

१७५

तस्मान्मनः कारणमस्य जन्तो -
र्बन्धस्य मोक्षस्य च वा विधाने ।
बन्धस्य हेतुर्मलिनं रजोगुणै -
र्मोक्षस्य शुद्धं विरजस्तमस्कम् ॥ १७६ ॥

१७६

विवे­क­वै­रा­ग्य­गु­णा­ति­रेका -
च्छुद्ध­त्व­मा­साद्य मनो विमुक्त्यै ।
भवत्यतो बुद्धिमतो मुमुक्षो -
स्ताभ्यां दृढाभ्यां भवितव्यमग्रे ॥ १७७ ॥

१७७

मनो नाम महाव्याघ्रो विषयारण्यभूमिषु ।
चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥ १७८ ॥

१७८

मनः प्रसूते विषयानशेषा -
न्स्थूलात्मना सूक्ष्मतया च भोक्तुः ।
शरी­र­व­र्णा­श्र­म­जा­ति­भेदा -
न्गुण­क्रि­या­हे­तु­फ­लानि नित्यम् ॥ १७९ ॥

१७९

अस­ङ्ग­चि­द्रू­प­ममुं विमोह्य
देहे­न्द्रि­य­प्रा­ण­गु­णै­र्नि­बध्य ।
अहं ममेति भ्रमयत्यजस्रं
मनः स्वकृत्येषु फलोपभुक्तिषु ॥ १८० ॥

१८०

अध्या­स­दो­षा­त्पु­रु­षस्य संसृति -
रध्या­स­ब­न्ध­स्त्व­मु­नैव कल्पितः ।
रज­स्त­मो­दो­ष­व­तोऽ­वि­वे­किनो
जन्मादिदुःखस्य निदानमेतत् ॥ १८१ ॥

१८१

अतः प्राहु­र्म­नोऽ­विद्यां पण्डि­ता­स्त­त्त्व­द­र्शिनः ।
येनैव भ्राम्यते विश्वं वायु­ने­वा­भ्र­म­ण्ड­लम् ॥ १८२ ॥

१८२

तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा ।
विशुद्धे सति चैत­स्मि­न्मुक्तिः करफलायते ॥ १८३ ॥

१८३

मोक्षैकसक्त्या विषयेषु रागं
निर्मूल्य संन्यस्य च सर्वकर्म ।
सच्छ्रद्धया यः श्रवणादिनिष्ठो
रजः स्वभावं स धुनोति बुद्धेः ॥ १८४ ॥

१८४

मनोमयो नापि भवेत्परात्मा
ह्याद्य­न्त­व­त्त्वा­त्प­रि­णा­मि­भा­वात् ।
दुःखा­त्म­क­त्वा­द्वि­ष­य­त्व­हेतो -
र्द्रष्टा हि दृश्यात्मतया न दृष्टः ॥ १८५ ॥

१८५

बुद्धि­र्बु­द्धी­न्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः ।
विज्ञानमयकोशः स्यात्पुंसः संसारकारणम् ॥ १८६ ॥

१८६

अनु­व्र­ज­च्चि­त्प्र­ति­बि­म्ब­शक्ति -
र्विज्ञानसंज्ञः प्रकृतेर्विकारः ।
ज्ञान­क्रि­या­वा­न­ह­मि­त्य­जस्रं
देहे­न्द्रि­या­दि­ष्व­भि­म­न्यते भृशम् ॥ १८७ ॥

१८७

अना­दि­का­लोऽ­य­म­हं­स्व­भावो
जीवः सम­स्त­व्य­व­हा­र­वोढा ।
करोति कर्मा­ण्य­नु­पू­र्व­वा­सनः
पुण्या­न्य­पु­ण्यानि च तत्फलानि ॥ १८८ ॥

१८८

भुङ्क्ते विचित्रास्वपि योनिषु व्रज -
न्नायाति निर्यात्यध ऊर्ध्वमेषः ।
अस्यैव विज्ञानमयस्य जाग्र -
त्स्वप्ना­द्य­वस्थाः सुखदुःखभोगः ॥ १८९ ॥

१८९

देहा­दि­नि­ष्ठा­श्र­म­ध­र्म­कर्म -
गुणाभिमानः सततं ममेति ।
विज्ञा­न­को­शोऽ­य­म­ति­प्र­काशः
प्रकृ­ष्ट­सा­न्नि­ध्य­व­शा­त्प­रा­त्मनः ।
अतो भवत्येष उपाधिरस्य
यदात्मधीः संसरति भ्रमेण ॥ १९० ॥

१९०

योऽयं विज्ञानमयः प्राणेषु हृदि स्फुर­त्स्व­य­ञ्ज्योतिः ।
कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥ १९१ ॥

१९१

स्वयं परिच्छेदमुपेत्य बुद्धे -
स्तादा­त्म्य­दो­षेण परं मृषात्मनः ।
सर्वात्मकः सन्नपि वीक्षते स्वयं
स्वतः पृथक्त्वेन मृदो घटानिव ॥ १९२ ॥

१९२

उपा­धि­स­म्ब­न्ध­व­शा­त्प­रात्मा -
प्युपा­धि­ध­र्मा­न­नु­भाति तद्गुणः ।
अयो­वि­का­रा­न­वि­का­रि­व­ह्निव -
त्सदैकरूपोऽपि परः स्वभावात् ॥ १९३ ॥

१९३

शिष्य उवाच -

भ्रमेणाप्यन्यथा वास्तु जीवभावः परात्मनः ।
तदु­पा­धे­र­ना­दि­त्वा­न्ना­ना­दे­र्नाश इष्यते ॥ १९४ ॥

१९४

अतोऽस्य जीवभावोऽपि नित्यो भवति संसृतिः ।
न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद ॥ १९५ ॥

१९५

श्रीगुरुरुवाच -

सम्यक्पृष्टं त्वया विद्वन् सावधानेन तच्छृणु ।
प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना ॥ १९६ ॥

१९६

भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः ।
न घटे­ता­र्थ­स­म्बन्धो नभसो नीलतादिवत् ॥ १९७ ॥

१९७

स्वस्य द्रष्टु­र्नि­र्गु­ण­स्या­क्रि­यस्य
प्रत्य­ग्बो­धा­न­न्द­रू­पस्य बुद्धेः ।
भ्रान्त्या प्राप्तो जीवभावो न सत्यो
मोहापाये नास्त्यवस्तु स्वभावात् ॥ १९८ ॥

१९८

याव­द्भ्रा­न्ति­स्ता­व­दे­वास्य सत्ता
मिथ्या­ज्ञा­नो­ज्जृ­म्भि­तस्य प्रमादात् ।
रज्ज्वां सर्पो भ्रान्तिकालीन एव
भ्रान्तेर्नाशे नैव सर्पोऽस्ति तद्वत् ॥ १९९ ॥

१९९

अना­दि­त्व­म­वि­द्यायाः कार्यस्यापि तथेष्यते ।
उत्पन्नायां तु विद्या­या­मा­वि­द्य­क­म­ना­द्यपि ॥ २०० ॥

२००

प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति ।
अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् ॥ २०१ ॥

२०१

अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः ।
यद्बु­द्ध्यु­पा­धि­स­म्ब­न्धा­त्प­रि­क­ल्पि­त­मा­त्मनि ॥ २०२ ॥

२०२

जीवत्वं न ततोऽन्यत्तु स्वरूपेण विलक्षणम् ।
सम्बन्धः स्वात्मनो बुद्ध्या मिथ्या­ज्ञा­न­पु­रः­सरः ॥ २०३ ॥

२०३

विनि­वृ­त्ति­र्भ­वे­त्तस्य सम्यग्ज्ञानेन नान्यथा ।
ब्रह्मा­त्मै­क­त्व­वि­ज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् ॥ २०४ ॥

२०४

तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति ।
ततो विवेकः कर्तव्यः प्रत्य­गा­त्मा­स­दा­त्मनोः ॥ २०५ ॥

२०५

जलं पङ्कवदस्पष्टं पङ्कापाये जलं स्फुटम् ।
यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः ॥ २०६ ॥

२०६

असन्निवृत्तौ तु सदात्मनः स्फुट -
प्रतीतिरेतस्य भवेत्प्रतीचः ।
ततो निरासः करणीय एवा -
सदात्मनः साध्व­ह­मा­दि­व­स्तुनः ॥ २०७ ॥

२०७

अतो नायं परात्मा स्याद्वि­ज्ञा­न­म­य­श­ब्द­भाक् ।
विका­रि­त्वा­ज्ज­ड­त्वाच्च परि­च्छि­न्न­त्व­हे­तुतः ।
दृश्य­त्वा­द्व्य­भि­चा­रि­त्वा­न्ना­नित्यो नित्य इष्यते ॥ २०८ ॥

२०८

आन­न्द­प्र­ति­बि­म्ब­चु­म्बि­त­त­नु­र्वृ­त्ति­स्त­मो­जृ­म्भिता
स्यादानन्दमयः प्रियादिगुणकः स्वेष्टा­र्थ­ला­भो­दयः ।
पुण्यस्यानुभवे विभाति कृति­ना­मा­न­न्द­रूपः स्वयं
भूत्वा नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ॥ २०९ ॥

२०९

आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा ।
स्वप्न­जा­ग­र­यो­री­ष­दि­ष्ट­स­न्द­र्श­ना­दिना ॥ २१० ॥

२१०

नैवायमानन्दमयः परात्मा
सोपा­धि­क­त्वा­त्प्र­कृ­ते­र्वि­का­रात् ।
कार्यत्वहेतोः सुकृतक्रियाया
विका­र­स­ङ्घा­त­स­मा­हि­त­त्वात् ॥ २११ ॥

२११

पञ्चानामपि कोशानां निषेधे युक्तितः कृते ।
तन्निषेधावधिः साक्षी बोध­रू­पोऽ­व­शि­ष्यते ॥ २१२ ॥

२१२

योऽयमात्मा स्वयञ्ज्योतिः पञ्चकोशविलक्षणः ।
अव­स्था­त्र­य­साक्षी सन्निर्विकारो निरञ्जनः ।
सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥ २१३ ॥

२१३

शिष्य उवाच -

मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु ।
सर्वाभावं विना किञ्चिन्न पश्याम्यत्र हे गुरो ।
विज्ञेयं किमु वस्त्वस्ति स्वात्मनात्र विपश्चिता ॥ २१४ ॥

२१४

श्रीगुरुरुवाच -

सत्यमुक्तं त्वया विद्वन् निपुणोऽसि विचारणे ।
अह­मा­दि­वि­का­रास्ते तदभावोऽयमप्यथ ॥ २१५ ॥

२१५

सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते ।
तमात्मानं वेदितारं विद्धि बुद्ध्या सुसूक्ष्मया ॥ २१६ ॥

२१६

तत्साक्षिकं भवे­त्त­त्त­द्य­द्य­द्ये­ना­नु­भू­यते ।
कस्या­प्य­न­नु­भू­तार्थे साक्षित्वं नोपयुज्यते ॥ २१७ ॥

२१७

असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते ।
अतः परं स्वयं साक्षा­त्प्र­त्य­गात्मा न चेतरः ॥ २१८ ॥

२१८

जाग्र­त्स्व­प्न­सु­षु­प्तिषु स्फुटतरं योऽसौ समुज्जृम्भते
प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नेकधा ।
नाना­का­र­वि­का­र­भा­जिन इमा­न्प­श्य­न्न­ह­न्धी­मुखा -
न्नित्या­न­न्द­चि­दा­त्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥ २१९ ॥

२१९

घटोदके बिम्बि­त­म­र्क­बिम्ब -
मालोक्य मूढो रविमेव मन्यते ।
तथा चिदा­भा­स­मु­पा­धि­संस्थं
भ्रान्त्या­ह­मि­त्येव जडोऽभिमन्यते ॥ २२० ॥

२२०

घटं जलं तद्गतमर्कबिम्बं
विहाय सर्वं दिवि वीक्ष्यतेऽर्कः ।
तट­स्थि­त­स्त­त्त्रि­त­या­व­भा­सकः
स्वयम्प्रकाशो विदुषा यथा तथा ॥ २२१ ॥

२२१

देहं धियं चित्प्र­ति­बि­म्ब­मेतं
विसृज्य बुद्धौ निहितं गुहायाम् ।
द्रष्टा­र­मा­त्मा­न­म­ख­ण्ड­बोधं
सर्वप्रकाशं सदसद्विलक्षणम् ॥ २२२ ॥

२२२

नित्यं विभुं सर्वगतं सुसूक्ष्म -
मन्तर्बहिः शून्य­म­न­न्य­मा­त्मनः ।
विज्ञाय सम्यङ्निजरूपमेत -
त्पुमा­न्वि­पाप्मा विरजा विमृत्युः ॥ २२३ ॥

२२३

विशोक आनन्दघनो विपश्चि -
त्स्वयं कुतश्चिन्न बिभेति कश्चित् ।
नान्योऽस्ति पन्था भवबन्धमुक्ते -
र्विना स्वतत्त्वावगमं मुमुक्षोः ॥ २२४ ॥

२२४

ब्रह्मा­भि­न्न­त्व­वि­ज्ञानं भवमोक्षस्य कारणम् ।
येना­द्वि­ती­य­मा­नन्दं ब्रह्म सम्पद्यते बुधः ॥ २२५ ॥

२२५

ब्रह्मभूतस्तु संसृत्यै विद्वा­न्ना­व­र्तते पुनः ।
विज्ञातव्यमतः सम्य­ग्ब्र­ह्मा­भि­न्न­त्व­मा­त्मनः ॥ २२६ ॥

२२६

सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतः सिद्धम् ।
नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति ॥ २२७ ॥

२२७

सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् ।
न ह्यन्यदस्ति किञ्चि­त्स­म्य­क्प­र­त­त्त्व­बो­ध­सु­द­शा­याम् ॥ २२८ ॥

२२८

यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् ।
तत्सर्वं ब्रह्मैव प्रत्य­स्ता­शे­ष­भा­व­ना­दो­षम् ॥ २२९ ॥

२२९

मृत्का­र्य­भू­तोऽपि मृदो न भिन्नः
कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् ।
न कुम्भरूपं पृथगस्ति कुम्भः
कुतो मृषा­क­ल्पि­त­ना­म­मात्रः ॥ २३० ॥

२३०

केनापि मृद्भिन्नतया स्वरूपं
घटस्य सन्दर्शयितुं न शक्यते ।
अतो घटः कल्पित एव मोहा -
न्मृदेव सत्यं परमार्थभूतम् ॥ २३१ ॥

२३१

सद्ब्रह्मकार्यं सकलं सदेव
सन्मात्रमेतन्न ततोऽन्यदस्ति ।
अस्तीति यो वक्ति न तस्य मोहो
विनिर्गतो निद्रि­त­व­त्प्र­जल्पः ॥ २३२ ॥

२३२

ब्रह्मैवेदं विश्वमित्येव वाणी
श्रौती ब्रूतेऽ­थ­र्व­निष्ठा वरिष्ठा ।
तस्मात्सर्वं ब्रह्ममात्रं हि विश्वं
नाधि­ष्ठा­ना­द्भि­न्न­ता­रो­पि­तस्य ॥ २३३ ॥

२३३

सत्यं यदि स्याज्ज­ग­दे­त­दा­त्मनो -
ऽन­न्त­त्व­हा­नि­र्नि­ग­मा­प्र­मा­णता ।
अस­त्य­वा­दि­त्व­म­पी­शितुः स्या -
न्नैतत्त्रयं साधु हितं महात्मनाम् ॥ २३४ ॥

२३४

ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः ।
न च मत्स्थानि भूतानीत्येवमेव व्यचीकथत् ॥ २३५ ॥

२३५

यदि सत्यं भवेद्विश्वं सुषु­प्ता­वु­प­ल­भ्य­ताम् ।
यन्नोपलभ्यते किञ्चि­द­तोऽ­स­त्स्व­प्न­व­न्मृषा ॥ २३६ ॥

२३६

अतः पृथङ्नास्ति जगत्परात्मनः
पृथ­क्प्र­ती­तिस्तु मृषा गुणादिवत् ।
आरोपितस्यास्ति किमर्थवत्ता -
धिष्ठानमाभाति तथा भ्रमेण ॥ २३७ ॥

२३७

भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं
ब्रह्मैव तत्तद्रजतं हि शुक्तिः ।
इदन्तया ब्रह्म सदैव रूप्यते
त्वारोपितं ब्रह्मणि नाममात्रम् ॥ २३८ ॥

२३८

अतः परं ब्रह्म सदद्वितीयं
विशु­द्ध­वि­ज्ञा­न­घनं निरञ्जनम् ।
प्रशा­न्त­मा­द्य­न्त­वि­ही­न­म­क्रियं
निर­न्त­रा­न­न्द­र­स­स्व­रू­पम् ॥ २३९ ॥

२३९

निर­स्त­मा­या­कृ­त­स­र्व­भेदं
नित्यं ध्रुवं निष्कलमप्रमेयम् ।
अरू­प­म­व्य­क्त­म­ना­ख्य­म­व्ययं
ज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥ २४० ॥

२४०

ज्ञातृ­ज्ञे­य­ज्ञा­न­शू­न्य­म­नन्तं निर्विकल्पकम् ।
केव­ला­ख­ण्ड­चि­न्मात्रं परं तत्त्वं विदुर्बुधाः ॥ २४१ ॥

२४१

अहेयमनुपादेयं मनोवाचामगोचरम् ।
अप्र­मे­य­म­ना­द्यन्तं ब्रह्म पूर्णं महन्महः ॥ २४२ ॥

२४२

तत्त्व­म्प­दा­भ्या­म­भि­धी­य­मा­नयो -
र्ब्रह्मात्मनोः शोधि­त­यो­र्य­दि­त्थम् ।
श्रुत्या तयो­स्त­त्त्व­म­सीति सम्य -
गेकत्वमेव प्रतिपाद्यते मुहुः ॥ २४३ ॥

२४३

ऐक्यं तयो­र्ल­क्षि­त­योर्न वाच्ययो -
र्निग­द्य­तेऽ­न्यो­न्य­वि­रु­द्ध­ध­र्मिणोः ।
खद्योतभान्वोरिव राजभृत्ययोः
कूपाम्बुराश्योः परमाणुमेर्वोः ॥ २४४ ॥

२४४

तयो­र्वि­रो­धोऽ­य­मु­पा­धि­क­ल्पितो
न वास्तवः कश्चिदुपाधिरेषः ।
ईशस्य माया महदादिकारणं
जीवस्य कार्यं शृणु पञ्च कोशाः ॥ २४५ ॥

२४५

एतावुपाधी परजीवयोस्तयोः
सम्यङ् निरासे न परो न जीवः ।
राज्यं नरेन्द्रस्य भटस्य खेटक -
स्तयोरपोहे न भटो न राजा ॥ २४६ ॥

२४६

अथात आदेश इति श्रुतिः स्वयं
निषेधति ब्रह्मणि कल्पितं द्वयम् ।
श्रुति­प्र­मा­णा­नु­गृ­ही­त­युक्त्या
तयोर्निरासः करणीय एवम् ॥ २४७ ॥

२४७

नेदं नेदं कल्पितत्वान्न सत्यं
रज्जौ दृष्ट­व्या­ल­व­त्स्व­प्न­वच्च ।
इत्थं दृश्यं साधु युक्त्या व्यपोह्य
ज्ञेयः पश्चा­दे­क­भा­व­स्त­योर्यः ॥ २४८ ॥

२४८

ततस्तु तौ लक्षणया सुलक्ष्यौ
तयो­र­ख­ण्डै­क­र­स­त्व­सि­द्धये ।
नालं जहत्या न तथाजहत्या
किं तूभयार्थैकतयैव भाव्यम् ॥ २४९ ॥

२४९

स देवदत्तोऽयमितीह चैकता
विरु­द्ध­ध­र्मां­श­म­पास्य कथ्यते ।
यथा तथा तत्त्वमसीति वाक्ये
विरु­द्ध­ध­र्मा­नु­भ­यत्र हित्वा ॥ २५० ॥

२५०

संलक्ष्य चिन्मात्रतया सदात्मनो -
रखण्डभावः परिचीयते बुधैः ।
एवं महावाक्यशतेन कथ्यते
ब्रह्मा­त्म­नो­रै­क्य­म­ख­ण्ड­भावः ॥ २५१ ॥

२५१

अस्थू­ल­मि­त्ये­त­द­स­न्नि­रस्य
सिद्धं स्वतो व्योम­व­द­प्र­त­र्क्यम् ।
अतो मृषामात्रमिदं प्रतीतं
जहीहि यत्स्वात्मतया गृहीतम् ।
ब्रह्माहमित्येव विशुद्धबुद्ध्या
विद्धि स्वमा­त्मा­न­म­ख­ण्ड­बो­धम् ॥ २५२ ॥

२५२

मृत्कार्यं सकलं घटादि सततं मृन्मा­त्र­मे­वा­भित -
स्तद्व­त्स­ज्ज­नितं सदात्मकमिदं सन्मा­त्र­मे­वा­खि­लम् ।
यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं
तस्मा­त्त­त्त्व­मसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥ २५३ ॥

२५३

निद्रा­क­ल्पि­त­दे­श­का­ल­वि­ष­य­ज्ञा­त्रादि सर्वं यथा
मिथ्या तद्वदिहापि जाग्रति जग­त्स्वा­ज्ञा­न­का­र्य­त्वतः ।
यस्मादेवमिदं शरी­र­क­र­ण­प्रा­णा­ह­मा­द्य­प्यस -
त्तस्मा­त्त­त्त्व­मसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥ २५४ ॥

२५४

जाति­नी­ति­कु­ल­गो­त्र­दू­रगं
नाम­रू­प­गु­ण­दो­ष­व­र्जि­तम् ।
देश­का­ल­वि­ष­या­ति­वर्ति य -
द्ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५५ ॥

२५५

यत्परं सकलवागगोचरं
गोचरं विमलबोधचक्षुषः ।
शुद्ध­चि­द्घ­न­म­ना­दि­वस्तु य -
द्ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५६ ॥

२५६

षड्भि­रू­र्मि­भि­र­योगि योगिहृ -
द्भावितं न करणैर्विभावितम् ।
बुद्ध्य­वे­द्य­म­न­व­द्य­भूति य -
द्ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५७ ॥

२५७

भ्रान्ति­क­ल्पि­त­ज­ग­त्क­ला­श्रयं
स्वाश्रयं च सदसद्विलक्षणम् ।
निष्कलं निरुपमानमृद्धिम -
द्ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५८ ॥

२५८

जन्म­वृ­द्धि­प­रि­ण­त्य­प­क्षय -
व्याधि­ना­श­न­वि­ही­न­म­व्य­यम् ।
विश्व­सृ­ष्ट्य­व­न­घा­त­का­रणं
ब्रह्म तत्त्वमसि भावयात्मनि ॥ २५९ ॥

२५९

अस्त­भे­द­म­न­पा­स्त­ल­क्षणं
निस्त­र­ङ्ग­ज­ल­रा­शि­नि­श्च­लम् ।
नित्य­मु­क्त­म­वि­भ­क्त­मूर्ति य -
द्ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६० ॥

२६०

एकमेव सदनेककारणं
कार­णा­न्त­र­नि­रा­स­का­र­णम् ।
कार्य­का­र­ण­वि­ल­क्षणं स्वयं
ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६१ ॥

२६१

निर्वि­क­ल्प­क­म­न­ल्प­म­क्षरं
यत्क्ष­रा­क्ष­र­वि­ल­क्षणं परम् ।
नित्यमव्ययसुखं निरञ्जनं
ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६२ ॥

२६२

यद्विभाति सदनेकधा भ्रमा -
न्नाम­रू­प­गु­ण­वि­क्रि­या­त्मना ।
हेम­व­त्स्व­य­म­वि­क्रियं सदा
ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६३ ॥

२६३

यच्चकास्त्यनपरं परात्परं
प्रत्य­गे­क­र­स­मा­त्म­ल­क्ष­णम् ।
सत्य­चि­त्सु­ख­म­न­न्त­म­व्ययं
ब्रह्म तत्त्वमसि भावयात्मनि ॥ २६४ ॥

२६४

उक्त­म­र्थ­मि­म­मा­त्मनि स्वयं
भावय प्रथि­त­यु­क्ति­भि­र्धिया ।
संशयादिरहितं कराम्बुव -
त्तेन तत्त्वनिगमो भविष्यति ॥ २६५ ॥

२६५

स्वं बोधमात्रं परिशुद्धतत्त्वं
विज्ञाय सङ्घे नृपवच्च सैन्ये ।
तदात्मनैवात्मनि सर्वदा स्थितो
विलापय ब्रह्मणि दृश्यजातम् ॥ २६६ ॥

२६६

बुद्धौ गुहायां सदसद्विलक्षणं
ब्रह्मास्ति सत्यं परमद्वितीयम् ।
तदात्मना योऽत्र वसेद्गुहायां
पुनर्न तस्या­ङ्ग­गु­हा­प्र­वेशः ॥ २६७ ॥

२६७

ज्ञाते वस्तुन्यपि बलवती वासनानादिरेषा
कर्ता भोक्ताप्यहमिति दृढा यास्य संसारहेतुः ।
प्रत्य­ग्दृ­ष्ट्या­त्मनि निवसता सापनेया प्रयत्ना -
न्मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥ २६८ ॥

२६८

अहं ममेति यो भावो देहा­क्षा­दा­व­ना­त्मनि ।
अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥ २६९ ॥

२६९

ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धि­त­द्वृ­त्ति­सा­क्षि­णम् ।
सोऽहमित्येव सद्वृ­त्त्या­ना­त्म­न्या­त्म­मतिं जहि ॥ २७० ॥

२७०

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।
शास्त्रा­नु­व­र्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ २७१ ॥

२७१

लोकवासनया जन्तोः शास्त्रवासनयापि च ।
देहवासनया ज्ञानं यथावन्नैव जायते ॥ २७२ ॥

२७२

संसा­र­का­रा­गृ­ह­मो­क्ष­मिच्छो -
रयोमयं पाद­नि­ब­द्ध­शृ­ङ्ख­लम् ।
वदन्ति तज्ज्ञाः पटुवासनात्रयं
योऽस्मा­द्वि­मुक्तः समुपैति मुक्तिम् ॥ २७३ ॥

२७३

जला­दि­स­म्प­र्क­व­शा­त्प्र­भूत -
दुर्ग­न्ध­धू­ता­ग­रु­दि­व्य­वा­सना ।
सङ्घर्षणेनैव विभाति सम्य -
ग्विधूयमाने सति बाह्यगन्धे ॥ २७४ ॥

२७४

अन्तः­श्रि­ता­न­न्त­दु­र­न्त­वा­सना -
धूलीविलिप्ता परमात्मवासना ।
प्रज्ञा­ति­स­ङ्घ­र्ष­णतो विशुद्धा
प्रतीयते चन्द­न­ग­न्ध­व­त्स्फुटा ॥ २७५ ॥

२७५

अना­त्म­वा­स­ना­जा­लै­स्ति­रो­भू­ता­त्म­वा­सना ।
नित्या­त्म­नि­ष्ठया तेषां नाशे भाति स्वयं स्फुटा ॥ २७६ ॥

२७६

यथा यथा प्रत्यगवस्थितं मन -
स्तथा तथा मुञ्चति बाह्यवासनाः ।
निःशेषमोक्षे सति वासनाना -
मात्मानुभूतिः प्रतिबन्धशून्या ॥ २७७ ॥

२७७

स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः ।
वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥ २७८ ॥

२७८

तमो द्वाभ्यां रजः सत्त्वा­त्सत्त्वं शुद्धेन नश्यति ।
तस्मा­त्स­त्त्व­म­व­ष्टभ्य स्वाध्यासापनयं कुरु ॥ २७९ ॥

२७९

प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः ।
धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥ २८० ॥

२८०

नाहं जीवः परं ब्रह्मे­त्य­त­द्व्या­वृ­त्ति­पू­र्व­कम् ।
वासनावेगतः प्राप्त­स्वा­ध्या­सा­प­नयं कुरु ॥ २८१ ॥

२८१

श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वा­त्म्य­मा­त्मनः ।
क्वचिदाभासतः प्राप्त­स्वा­ध्या­सा­प­नयं कुरु ॥ २८२ ॥

२८२

अन्ना­दा­न­वि­स­र्गा­भ्या­मी­ष­न्नास्ति क्रिया मुनेः ।
तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥ २८३ ॥

२८३

तत्त्व­म­स्या­दि­वा­क्यो­त्थ­ब्र­ह्मा­त्मै­क­त्व­बो­धतः ।
ब्रह्म­ण्या­त्म­त्व­दा­र्ढ्याय स्वाध्यासापनयं कुरु ॥ २८४ ॥

२८४

अहम्भावस्य देहेऽ­स्मि­न्निः­शे­ष­वि­ल­या­वधि ।
सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥ २८५ ॥

२८५

प्रती­ति­र्जी­व­ज­गतोः स्वप्नवद्भाति यावता ।
तावन्निरन्तरं विद्वन् स्वाध्यासापनयं कुरु ॥ २८६ ॥

२८६

निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः ।
क्वचिन्नावसरं दत्त्वा चिन्त­या­त्मा­न­मा­त्मनि ॥ २८७ ॥

२८७

माता­पि­त्रो­र्म­लो­द्भूतं मलमांसमयं वपुः ।
त्यक्त्वा चाण्डालवद्दूरं ब्रह्मीभूय कृती भव ॥ २८८ ॥

२८८

घटाकाशं महाकाश इवात्मानं परात्मनि ।
विला­प्या­ख­ण्ड­भा­वेन तूष्णीं भव सदा मुने ॥ २८९ ॥

२८९

स्वप्र­का­श­म­धि­ष्ठानं स्वयम्भूय सदात्मना ।
ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥ २९० ॥

२९०

चिदात्मनि सदानन्दे देहा­रू­ढा­म­ह­न्धि­यम् ।
निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥ २९१ ॥

२९१