अद्वैतशारदा

विवेकचूडामणिः

० विभागः

यत्रैष जगदाभासो दर्पणान्तः पुरं यथा ।
तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥ २९२ ॥

२९२

यत्सत्यभूतं निजरूपमाद्यं
चिद­द्व­या­न­न्द­म­रू­प­म­क्रि­यम् ।
तदेत्य मिथ्या­व­पु­रु­त्सृ­जैत -
च्छैलू­ष­व­द्वे­ष­मु­पा­त्त­मा­त्मनः ॥ २९३ ॥

२९३

सर्वात्मना दृश्यमिदं मृषैव
नैवाहमर्थः क्षणि­क­त्व­द­र्श­नात् ।
जानाम्यहं सर्वमिति प्रतीतिः
कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥ २९४ ॥

२९४

अह­म्प­दा­र्थ­स्त्व­ह­मा­दि­साक्षी
नित्यं सुषुप्तावपि भावदर्शनात् ।
ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं
तत्प्रत्यगात्मा सदसद्विलक्षणः ॥ २९५ ॥

२९५

विकारिणां सर्वविकारवेत्ता
नित्योऽविकारो भवितुं समर्हति ।
मनो­र­थ­स्व­प्न­सु­षु­प्तिषु स्फुटं
पुनः पुन­र्दृ­ष्ट­म­स­त्त्व­मे­तयोः ॥ २९६ ॥

२९६

अतोऽभिमानं त्यज मांसपिण्डे
पिण्डा­भि­मा­नि­न्यपि बुद्धिकल्पिते ।
काल­त्र­या­बा­ध्य­म­ख­ण्ड­बोधं
ज्ञात्वा स्वमा­त्मा­न­मु­पैहि शान्तिम् ॥ २९७ ॥

२९७

त्यजाभिमानं कुलगोत्रनाम -
रूपा­श्र­मे­ष्वा­र्द्र­श­वा­श्रि­तेषु ।
लिङ्गस्य धर्मानपि कर्तृतादीं -
स्त्यक्त्वा भवा­ख­ण्ड­सु­ख­स्व­रूपः ॥ २९८ ॥

२९८

सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः ।
तेषामेषां मूलं प्रथमविकारो भवत्यहङ्कारः ॥ २९९ ॥

२९९

याव­त्स्या­त्स्वस्य सम्ब­न्धोऽ­ह­ङ्का­रेण दुरात्मना ।
तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ॥ ३०० ॥

३००

अह­ङ्का­र­ग्र­हा­न्मुक्तः स्वरूपमुपपद्यते ।
चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयम्प्रभः ॥ ३०१ ॥

३०१

यो वा पुरैषोऽहमिति प्रतीतो
बुद्ध्या विक्लृ­प्त­स्त­म­सा­ति­मू­ढया ।
तस्यैव निःशेषतया विनाशे
ब्रह्मात्मभावः प्रतिबन्धशून्यः ॥ ३०२ ॥

३०२

ब्रह्मा­न­न्द­नि­धि­र्म­हा­ब­ल­व­ता­ह­ङ्का­र­घो­रा­हिना
संवेष्ट्यात्मनि रक्ष्यते गुण­म­यै­श्च­ण्डै­स्त्रि­भि­र्म­स्तकैः ।
विज्ञा­ना­ख्य­म­हा­सिना द्युतिमता विच्छिद्य शीर्षत्रयं
निर्मू­ल्या­हि­मिमं निधिं सुखकरं धीरोऽनुभोक्तुं क्षमः ॥ ३०३ ॥

३०३

यावद्वा यत्कि­ञ्चि­द्वि­ष­दो­ष­स्फू­र्ति­रस्ति चेद्देहे ।
कथमारोग्याय भवे­त्त­द्व­द­ह­न्तापि योगिनो मुक्त्यै ॥ ३०४ ॥

३०४

अह­मोऽ­त्य­न्त­नि­वृत्त्या तत्कृ­त­ना­ना­वि­क­ल्प­सं­हृत्या ।
प्रत्य­क्त­त्त्व­वि­वे­का­द­य­म­ह­म­स्मीति विन्दते तत्त्वम् ॥ ३०५ ॥

३०५

अह­ङ्क­र्त­र्य­स्मि­न्न­ह­मिति मतिं मुञ्च सहसा
विका­रा­त्म­न्या­त्म­प्र­ति­फ­ल­जुषि स्वस्थितिमुषि ।
यद­ध्या­सा­त्प्राप्ता जनिमृतिजरा दुःखबहुला
प्रती­च­श्चि­न्मू­र्ते­स्तव सुखतनोः संसृतिरियम् ॥ ३०६ ॥

३०६

सदैकरूपस्य चिदात्मनो विभो -
रान­न्द­मू­र्ते­र­न­व­द्य­कीर्तेः ।
नैवान्यथा क्वाप्य­वि­का­रि­णस्ते
विना­ह­म­ध्या­स­म­मुष्य संसृतिः ॥ ३०७ ॥

३०७

तस्मा­द­ह­ङ्का­र­मिमं स्वशत्रुं
भोक्तुर्गले कण्ट­क­व­त्प्र­ती­तम् ।
विच्छिद्य विज्ञानमहासिना स्फुटं
भुङ्क्ष्वा­त्म­सा­म्रा­ज्य­सुखं यथेष्टम् ॥ ३०८ ॥

३०८

ततोऽ­ह­मा­दे­र्वि­नि­वर्त्य वृत्तिं
सन्त्यक्तरागः परमार्थलाभात् ।
तूष्णीं समा­स्स्वा­त्म­सु­खा­नु­भूत्या
पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥ ३०९ ॥

३०९

समूलकृत्तोऽपि महानहं पुन -
र्व्युल्लेखितः स्याद्यदि चेतसा क्षणम् ।
सञ्जीव्य विक्षेपशतं करोति
नभस्वता प्रावृषि वारिदो यथा ॥ ३१० ॥

३१०

निगृह्य शत्रोरहमोऽवकाशः
क्वचिन्न देयो विषयानुचिन्तया ।
स एव सञ्जीवनहेतुरस्य
प्रक्षी­ण­ज­म्बी­र­त­रो­रि­वाम्बु ॥ ३११ ॥

३११

देहात्मना संस्थित एव कामी
विलक्षणः कामयिता कथं स्यात् ।
अतोऽ­र्थ­स­न्धा­न­प­र­त्व­मेव
भेदप्रसक्त्या भवबन्धहेतुः ॥ ३१२ ॥

३१२

कार्य­प्र­व­र्ध­ना­द्बी­ज­प्र­वृद्धिः परिदृश्यते ।
कार्य­ना­शा­द्बी­ज­ना­श­स्त­स्मा­त्कार्यं निरोधयेत् ॥ ३१३ ॥

३१३

वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना ।
वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥ ३१४ ॥

३१४

संसा­र­ब­न्ध­वि­च्छित्त्यै तद्द्वयं प्रदहेद्यतिः ।
वास­ना­वृ­द्धि­रे­ताभ्यां चिन्तया क्रियया बहिः ॥ ३१५ ॥

३१५

ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः ।
त्रयाणां च क्षयोपायः सर्वावस्थासु सर्वदा ॥ ३१६ ॥

३१६

सर्वत्र सर्वतः सर्वं ब्रह्म­मा­त्रा­व­लो­क­नम् ।
सद्भा­व­वा­स­ना­दा­र्ढ्या­त्त­त्त्रयं लयमश्नुते ॥ ३१७ ॥

३१७

क्रियानाशे भवे­च्चि­न्ता­ना­शोऽ­स्मा­द्वा­स­ना­क्षयः ।
वासनाप्रक्षयो मोक्षः स जीव­न्मु­क्ति­रि­ष्यते ॥ ३१८ ॥

३१८

सद्वा­स­ना­स्फू­र्ति­वि­जृ­म्भणे सति
ह्यसौ विलीना त्वहमादिवासना ।
अति­प्र­कृ­ष्टा­प्य­रु­ण­प्र­भायां
विलीयते साधु यथा तमिस्रा ॥ ३१९ ॥

३१९

तम­स्त­मः­का­र्य­म­न­र्थ­जालं
न दृश्यते सत्युदिते दिनेशे ।
तथा­द्व­या­न­न्द­र­सा­नु­भूतौ
नैवास्ति बन्धो न च दुःखगन्धः ॥ ३२० ॥

३२०

दृश्यं प्रतीतं प्रवि­ला­प­य­न्स्वयं
सन्मा­त्र­मा­न­न्द­घनं विभावयन् ।
समाहितः सन्बहिरन्तरं वा
कालं नयेथाः सति कर्मबन्धे ॥ ३२१ ॥

३२१

प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन ।
प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः ॥ ३२२ ॥

३२२

न प्रमा­दा­द­न­र्थोऽन्यो ज्ञानिनः स्वस्वरूपतः ।
ततो मोह­स्त­तोऽ­ह­न्धी­स्ततो बन्धस्ततो व्यथा ॥ ३२३ ॥

३२३

विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः ।
विक्षेपयति धीदोषैर्योषा जारमिव प्रियम् ॥ ३२४ ॥

३२४

यथाऽपकृष्टं शैवालं क्षणमात्रं न तिष्ठति ।
आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥ ३२५ ॥

३२५

लक्ष्यच्युतं चेद्यदि चित्तमीष -
द्बहिर्मुखं सन्नि­प­ते­त्त­त­स्ततः ।
प्रमादतः प्रच्यु­त­के­लि­क­न्दुकः
सोपानपङ्क्तौ पतितो यथा तथा ॥ ३२६ ॥

३२६

विष­ये­ष्वा­वि­श­च्चेतः सङ्कल्पयति तद्गुणान् ।
सम्य­क्स­ङ्क­ल्प­ना­त्कामः कामात्पुंसः प्रवर्तनम् ॥ ३२७ ॥

३२७

ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः ।
पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते ।
सङ्कल्पं वर्ज­ये­त्त­स्मा­त्स­र्वा­न­र्थस्य कारणम्
अपथ्यानि हि वस्तूनि व्याधिग्रस्तो यथोत्सृजेत् ॥ ३२८ ॥

३२८

अतः प्रमादान्न परोऽस्ति मृत्यु -
र्विवेकिनो ब्रह्मविदः समाधौ ।
समाहितः सिद्धिमुपैति सम्य -
क्समाहितात्मा भव सावधानः ॥ ३२९ ॥

३२९

जीवतो यस्य कैवल्यं विदेहे च स केवलः ।
यत्कि­ञ्चि­त्प­श्यतो भेदं भयं ब्रूते यजुःश्रुतिः ॥ ३३० ॥

३३०

यदा कदा वापि विपश्चिदेष
ब्रह्म­ण्य­न­न्तेऽ­प्य­णु­मा­त्र­भे­दम् ।
पश्यत्यथामुष्य भयं तदेव
यदीक्षितं भिन्नतया प्रमादात् ॥ ३३१ ॥

३३१

श्रुति­स्मृ­ति­न्या­य­श­तै­र्नि­षिद्धे
दृश्येऽत्र यः स्वात्ममतिं करोति ।
उपैति दुःखोपरि दुःखजातं
निषिद्धकर्ता स मलिम्लुचो यथा ॥ ३३२ ॥

३३२

सत्या­भि­स­न्धा­न­रतो विमुक्तो
मह­त्त्व­मा­त्मी­य­मु­पैति नित्यम् ।
मिथ्या­भि­स­न्धा­न­र­तस्तु नश्ये -
द्दृष्टं तदे­त­द्य­द­चो­र­चो­रयोः ॥ ३३३ ॥

३३३

यतिरसदनुसन्धिं बन्धहेतुं विहाय
स्वय­म­य­म­ह­म­स्मी­त्या­त्म­दृ­ष्ट्यैव तिष्ठेत् ।
सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या
हरति पर­म­वि­द्या­का­र्य­दुःखं प्रतीतम् ॥ ३३४ ॥

३३४

बाह्यानुसन्धिः परिवर्धयेत्फलं
दुर्वासनामेव ततस्ततोऽधिकाम् ।
ज्ञात्वा विवेकैः परिहृत्य बाह्यं
स्वात्मा­नु­सन्धिं विदधीत नित्यम् ॥ ३३५ ॥

३३५

बाह्ये निरुद्धे मनसः प्रसन्नता
मनःप्रसादे परमात्मदर्शनम् ।
तस्मिन्सुदृष्टे भवबन्धनाशो
बहिर्निरोधः पदवी विमुक्तेः ॥ ३३६ ॥

३३६

कः पण्डितः सन्सदसद्विवेकी
श्रुतिप्रमाणः परमार्थदर्शी ।
जानन्हि कुर्या­द­स­तोऽ­व­लम्बं
स्वपातहेतोः शिशु­व­न्मु­मुक्षुः ॥ ३३७ ॥

३३७

देहा­दि­सं­स­क्ति­मतो न मुक्ति -
र्मुक्तस्य देहा­द्य­भि­म­त्य­भावः ।
सुप्तस्य नो जागरणं न जाग्रतः
स्वप्न­स्त­यो­र्भि­न्न­गु­णा­श्र­य­त्वात् ॥ ३३८ ॥

३३८

अन्तर्बहिः स्वं स्थिरजङ्गमेषु
ज्ञाना­त्म­ना­धा­र­तया विलोक्य ।
त्यक्ता­खि­लो­पा­धि­र­ख­ण्ड­रूपः
पूर्णात्मना यः स्थित एष मुक्तः ॥ ३३९ ॥

३३९

सर्वात्मना बन्ध­वि­मु­क्ति­हेतुः
सर्वात्मभावान्न परोऽस्ति कश्चित् ।
दृश्याग्रहे सत्युपपद्यतेऽसौ
सर्वा­त्म­भा­वोऽस्य सदात्मनिष्ठया ॥ ३४० ॥

३४०

दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो
बाह्या­र्था­नु­भ­व­प्र­स­क्त­म­न­स­स्त­त्त­त्क्रियां कुर्वतः ।
संन्य­स्ता­खि­ल­ध­र्म­क­र्म­वि­ष­यै­र्नि­त्या­त्म­नि­ष्ठा­परै -
स्तत्त्वज्ञैः करणीयमात्मनि सदा­न­न्दे­च्छु­भि­र्य­त्नतः ॥ ३४१ ॥

३४१

सार्वा­त्म्य­सि­द्धये भिक्षोः कृतश्रवणकर्मणः ।
समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः ॥ ३४२ ॥

३४२

आरूढशक्तेरहमो विनाशः
कर्तुं न शक्यः सहसापि पण्डितैः ।
ये निर्वि­क­ल्पा­ख्य­स­मा­धि­नि­श्चला -
स्तान­न्त­रा­न­न्त­भवा हि वासनाः ॥ ३४३ ॥

३४३

अहम्बुद्ध्यैव मोहिन्या योज­यि­त्वा­वृ­ते­र्ब­लात् ।
विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥ ३४४ ॥

३४४

विक्षे­प­श­क्ति­वि­जयो विषमो विधातुं
निःशे­ष­मा­व­र­ण­श­क्ति­नि­वृ­त्त्य­भावे ।
दृग्दृश्ययोः स्फुट­प­यो­ज­ल­व­द्वि­भागे
नश्ये­त्त­दा­व­र­ण­मा­त्मनि च स्वभावात् ।
निःसंशयेन भवति प्रतिबन्धशून्यो
निक्षेपणं न हि तदा यदि चेन्मृषार्थे ॥ ३४५ ॥

३४५

सम्यग्विवेकः स्फुटबोधजन्यो
विभज्य दृग्दृ­श्य­प­दा­र्थ­त­त्त्वम् ।
छिनत्ति मायाकृतमोहबन्धं
यस्मा­द्वि­मु­क्तस्य पुनर्न संसृतिः ॥ ३४६ ॥

३४६

परा­व­रै­क­त्व­वि­वे­क­वह्नि -
र्दह­त्य­वि­द्या­ग­हनं ह्यशेषम् ।
किं स्यात्पु­नः­सं­स­र­णस्य बीज -
मद्वैतभावं समुपेयुषोऽस्य ॥ ३४७ ॥

३४७

आवरणस्य निवृत्तिर्भवति च सम्य­क्प­दा­र्थ­द­र्श­नतः ।
मिथ्या­ज्ञा­न­वि­ना­श­स्त­द्व­द्वि­क्षे­प­ज­नि­त­दुः­ख­नि­वृत्तिः ॥ ३४८ ॥

३४८

एतत्त्रितयं दृष्टं सम्य­ग्र­ज्जु­स्व­रू­प­वि­ज्ञा­नात् ।
तस्मा­द्व­स्तु­स­तत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा ॥ ३४९ ॥

३४९

अयोऽग्नियोगादिव सत्समन्वया -
न्मात्रादिरूपेण विजृम्भते धीः ।
तत्का­र्य­मे­त­त्त्रि­तयं यतो मृषा
दृष्टं भ्रम­स्व­प्न­म­नो­र­थेषु ॥ ३५० ॥

३५०

ततो विकाराः प्रकृतेरहंमुखा
देहावसाना विषयाश्च सर्वे ।
क्षणेऽ­न्य­था­भा­विन एष आत्मा
नोदेति नाप्येति कदापि नान्यथा ॥ ३५१ ॥

३५१

नित्या­द्व­या­ख­ण्ड­चि­दे­क­रूपो
बुद्ध्या­दि­साक्षी सदसद्विलक्षणः ।
अह­म्प­द­प्र­त्य­य­ल­क्षि­तार्थः
प्रत्य­क्स­दा­न­न्द­घनः परात्मा ॥ ३५२ ॥

३५२

इत्थं विप­श्चि­त्स­द­स­द्वि­भज्य
निश्चित्य तत्त्वं निजबोधदृष्ट्या ।
ज्ञात्वा स्वमा­त्मा­न­म­ख­ण्ड­बोधं
तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥ ३५३ ॥

३५३

अज्ञा­न­हृ­द­य­ग्र­न्थे­र्निः­शे­ष­वि­ल­य­स्तदा ।
समाधिनाविकल्पेन यदा­द्वै­ता­त्म­द­र्श­नम् ॥ ३५४ ॥

३५४

त्वमहमिदमितीयं कल्पना बुद्धिदोषा -
त्प्रभवति परमात्मन्यद्वये निर्विशेषे ।
प्रविलसति समाधावस्य सर्वो विकल्पो
विल­य­न­मु­प­ग­च्छे­द्व­स्तु­त­त्त्वा­व­धृत्या ॥ ३५५ ॥

३५५

शान्तो दान्तः परमुपरतः क्षान्तियुक्तः समाधिं
कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् ।
तेना­वि­द्या­ति­मि­र­ज­नि­ता­न्साधु दग्ध्वा विकल्पा -
न्ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥ ३५६ ॥

३५६

समाहिता ये प्रविलाप्य बाह्यं
श्रोत्रादि चेतः स्वमहं चिदात्मनि ।
त एव मुक्ता भवपाशबन्धै -
र्नान्ये तु पारो­क्ष्य­क­था­भि­धा­यिनः ॥ ३५७ ॥

३५७

उपा­धि­भे­दा­त्स्व­य­मेव भिद्यते
चोपाध्यपोहे स्वयमेव केवलः ।
तस्मा­दु­पा­धे­र्वि­ल­याय विद्वा -
न्वसे­त्स­दा­क­ल्प­स­मा­धि­नि­ष्ठया ॥ ३५८ ॥

३५८

सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया ।
कीटको भ्रमरं ध्याय­न्भ्र­म­र­त्वाय कल्पते ॥ ३५९ ॥

३५९

क्रिया­न्त­रा­स­क्ति­म­पास्य कीटको
ध्यायन्यथालिं ह्यलिभावमृच्छति ।
तथैव योगी परमात्मतत्त्वं
ध्यात्वा समायाति तदेकनिष्ठया ॥ ३६० ॥

३६०

अतीव सूक्ष्मं परमात्मतत्त्वं
न स्थूलदृष्ट्या प्रति­प­त्तु­म­र्हति ।
समा­धि­ना­त्य­न्त­सु­सू­क्ष्म­वृत्त्या
ज्ञात­व्य­मा­र्यै­र­ति­शु­द्ध­बु­द्धिभिः ॥ ३६१ ॥

३६१

यथा सुवर्णं पुटपाकशोधितं
त्यक्त्वा मलं स्वात्मगुणं समृच्छति ।
तथा मनः सत्त्व­र­ज­स्त­मो­मलं
ध्यानेन सन्त्यज्य समेति तत्त्वम् ॥ ३६२ ॥

३६२

निर­न्त­रा­भ्या­स­व­शा­त्त­दित्थं
पक्वं मनो ब्रह्मणि लीयते यदा ।
तदा समाधिः स विकल्पवर्जितः
स्वतोऽ­द्व­या­न­न्द­र­सा­नु­भा­वकः ॥ ३६३ ॥

३६३

समाधिनानेन समस्तवासना -
ग्रन्थे­र्वि­ना­शोऽ­खि­ल­क­र्म­नाशः ।
अन्तर्बहिः सर्वत एव सर्वदा
स्वरू­प­वि­स्फू­र्ति­र­य­त्नतः स्यात् ॥ ३६४ ॥

३६४

श्रुतेः शतगुणं विद्यान्मननं मननादपि ।
निदिध्यासं लक्षगुणमनन्तं निर्विकल्पकम् ॥ ३६५ ॥

३६५

निर्वि­क­ल्प­क­स­मा­धिना स्फुटं
ब्रह्म­त­त्त्व­म­व­ग­म्यते ध्रुवम् ।
नान्यथा चलतया मनोगतेः
प्रत्य­या­न्त­र­वि­मि­श्रितं भवेत् ॥ ३६६ ॥

३६६

अतः समाधत्स्व यतेन्द्रियः सदा
निरन्तरं शान्तमनाः प्रतीचि ।
विध्वंसय ध्वान्त­म­ना­द्य­वि­द्यया
कृतं सदेकत्वविलोकनेन ॥ ३६७ ॥

३६७

योगस्य प्रथमं द्वारं वाङ्नि­रो­धोऽ­प­रि­ग्रहः ।
निराशा च निरीहा च नित्य­मे­का­न्त­शी­लता ॥ ३६८ ॥

३६८

एका­न्त­स्थि­ति­रि­न्द्रि­यो­प­र­मणे हेतुर्दमश्चेतसः
संरोधे करणं शमेन विलयं यायादहंवासना ।
तेना­न­न्द­र­सा­नु­भू­ति­र­चला ब्राह्मी सदा योगिन -
स्तस्मा­च्चि­त्त­नि­रोध एव सततं कार्यः प्रयत्नान्मुनेः ॥ ३६९ ॥

३६९

वाचं नियच्छात्मनि तं नियच्छ
बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि ।
तं चापि पूर्णात्मनि निर्विकल्पे
विलाप्य शान्तिं परमां भजस्व ॥ ३७० ॥

३७०

देह­प्रा­णे­न्द्रि­य­म­नो­बु­द्ध्या­दि­भि­रु­पा­धिभिः ।
यैर्यैर्वृत्तेः समा­यो­ग­स्त­त्त­द्भा­वोऽस्य योगिनः ॥ ३७१ ॥

३७१

तन्निवृत्त्या मुनेः सम्य­क्स­र्वो­प­र­मणं सुखम् ।
सन्दृश्यते सदा­न­न्द­र­सा­नु­भ­व­वि­प्लवः ॥ ३७२ ॥

३७२

अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते ।
त्यज­त्य­न्त­र्ब­हिः­सङ्गं विरक्तस्तु मुमुक्षया ॥ ३७३ ॥

३७३

बहिस्तु विषयैः सङ्ग­स्त­था­न्त­र­ह­मा­दिभिः ।
विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः ॥ ३७४ ॥

३७४

वैराग्यबोधौ पुरुषस्य पक्षिव -
त्पक्षौ विजानीहि विचक्षण त्वम् ।
विमु­क्ति­सौ­धा­ग्र­त­ला­धि­रो­हणं
ताभ्यां विना नान्यतरेण सिध्यति ॥ ३७५ ॥

३७५

अत्य­न्त­वै­रा­ग्य­वतः समाधिः
समाहितस्यैव दृढप्रबोधः ।
प्रबु­द्ध­त­त्त्वस्य हि बन्धमुक्ति -
र्मुक्तात्मनो नित्य­सु­खा­नु­भूतिः ॥ ३७६ ॥

३७६

वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मन -
स्तच्चे­च्छु­द्ध­त­रा­त्म­बो­ध­स­हितं स्वारा­ज्य­सा­म्रा­ज्य­धुक् ।
एत­द्द्वा­र­म­ज­स्र­मु­क्ति­यु­व­ते­र्य­स्मा­त्त्व­म­स्मा­त्परं
सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ॥ ३७७ ॥

३७७

आशां छिन्धि विषोपमेषु विषयेष्वेषैव मृत्योः सृति -
स्त्यक्त्वा जाति­कु­ला­श्र­मे­ष्व­भि­मतिं मुञ्चा­ति­दू­रा­त्क्रियाः ।
देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि
त्वं द्रष्टा­स्य­म­लोऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः ॥ ३७८ ॥

३७८

लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं
स्वस्थाने विनिवेश्य निश्च­ल­त­नु­श्चो­पेक्ष्य देहस्थितिम् ।
ब्रह्मा­त्मै­क्य­मु­पेत्य तन्मयतया चाख­ण्ड­वृ­त्त्या­निशं
ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भ्रमैः ॥ ३७९ ॥

३७९

अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् ।
चिन्त­या­त्मा­न­मा­न­न्द­रूपं यन्मुक्तिकारणम् ॥ ३८० ॥

३८०

एष स्वय­ञ्ज्यो­ति­र­शे­ष­साक्षी
विज्ञानकोशे विलसत्यजस्रम् ।
लक्ष्यं विधा­यै­न­म­स­द्वि­ल­क्षण -
मख­ण्ड­वृ­त्त्या­त्म­त­या­नु­भा­वय ॥ ३८१ ॥

३८१

एतमच्छिन्नया वृत्त्या प्रत्य­या­न्त­र­शू­न्यया ।
उल्ले­ख­य­न्वि­जा­नी­या­त्स्व­स्व­रू­प­तया स्फुटम् ॥ ३८२ ॥

३८२

अत्रात्मत्वं दृढी­कु­र्व­न्न­ह­मा­दिषु सन्त्यजन् ।
उदासीनतया तेषु तिष्ठे­द्घ­ट­प­टा­दि­वत् ॥ ३८३ ॥

३८३

विशु­द्ध­म­न्तः­क­रणं स्वरूपे
निवेश्य साक्षि­ण्य­व­बो­ध­मात्रे ।
शनैः शनै­र्नि­श्च­ल­ता­मु­पा­नय -
न्पूर्ण­त्व­मे­वा­नु­वि­लो­क­ये­त्ततः ॥ ३८४ ॥

३८४

देहे­न्द्रि­य­प्रा­ण­म­नो­ह­मा­दिभिः
स्वाज्ञा­न­क्लृ­प्तै­र­खि­लै­रु­पा­धिभिः ।
विमु­क्त­मा­त्मा­न­म­ख­ण्ड­रूपं
पूर्णं महा­का­श­मि­वा­व­लो­क­येत् ॥ ३८५ ॥

३८५

घट­क­ल­श­कु­सू­ल­सू­चि­मुख्यै -
र्गग­न­मु­पा­धि­श­तै­र्वि­मु­क्त­मे­कम् ।
भवति न विविधं तथैव शुद्धं
पर­म­ह­मा­दि­वि­मु­क्त­मे­क­मेव ॥ ३८६ ॥

३८६

ब्रह्मा­दि­स्त­म्ब­प­र्यन्ता मृषामात्रा उपाधयः ।
ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥ ३८७ ॥

३८७

यत्र भ्रान्त्या कल्पितं यद्विवेके
तत्तन्मात्रं नैव तस्मा­द्वि­भि­न्नम् ।
भ्रान्तेर्नाशे भ्रान्ति­दृ­ष्टा­हि­तत्त्वं
रज्जु­स्त­द्व­द्वि­श्व­मा­त्म­स्व­रू­पम् ॥ ३८८ ॥

३८८

स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः ।
स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किञ्चन ॥ ३८९ ॥

३८९

अन्तः स्वयं चापि बहिः स्वयं च
स्वयं पुर­स्ता­त्स्व­य­मेव पश्चात् ।
स्वयं ह्यवाच्यां स्वय­म­प्यु­दीच्यां
तथो­प­रि­ष्टा­त्स्व­य­म­प्य­ध­स्तात् ॥ ३९० ॥

३९०

तर­ङ्ग­फे­न­भ्र­म­बु­द्बु­दादि सर्वं स्वरूपेण जलं यथा तथा ।
चिदेव देहा­द्य­ह­म­न्त­मे­त­त्सर्वं चिदेवैकरसं विशुद्धम् ॥ ३९१ ॥

३९१

सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः
सतोऽ­न्य­न्ना­स्त्येव प्रकृतिपरसीम्नि स्थितवतः ।
पृथक्किं मृत्स्नायाः कल­श­घ­ट­कु­म्भा­द्य­व­गतं
वदत्येष भ्रान्त­स्त्व­म­ह­मिति मायामदिरया ॥ ३९२ ॥

३९२

क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः ।
ब्रवीति द्वैतराहित्यं मिथ्या­ध्या­स­नि­वृ­त्तये ॥ ३९३ ॥

३९३

आका­श­व­न्नि­र्म­ल­नि­र्वि­कल्प -
निःसी­म­निः­स्प­न्द­न­नि­र्वि­का­रम् ।
अन्त­र्ब­हिः­शू­न्य­म­न­न्य­म­द्वयं
स्वयं परं ब्रह्म किमस्ति बोध्यम् ॥ ३९४ ॥

३९४

वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं
ब्रह्मै­त­ज्ज­ग­दा­प­राणु सकलं ब्रह्माद्वितीयं श्रुतेः ।
ब्रह्मैवाहमिति प्रबुद्धमतयः सन्त्य­क्त­बाह्याः स्फुटं
ब्रह्मीभूय वसन्ति सन्त­त­चि­दा­न­न्दा­त्म­नैव ध्रुवम् ॥ ३९५ ॥

३९५

जहि मल­म­य­को­शेऽ­ह­न्धि­यो­त्था­पि­ताशां
प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् ।
निगमगदितकीर्तिं नित्य­मा­न­न्द­मूर्तिं
स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥ ३९६ ॥

३९६

शवाकारं यावद्भजति मनुजस्तावदशुचिः
परेभ्यः स्यात्क्लेशो जन­न­म­र­ण­व्या­धि­नि­रयाः ।
यदात्मानं शुद्धं कलयति शिवाकारमचलं
तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥ ३९७ ॥

३९७

स्वात्म­न्या­रो­पि­ता­शे­षा­भा­स­व­स्तु­नि­रा­सतः ।
स्वयमेव परं ब्रह्म पूर्ण­म­द्व­य­म­क्रि­यम् ॥ ३९८ ॥

३९८

समाहितायां सति चित्तवृत्तौ
परात्मनि ब्रह्मणि निर्विकल्पे ।
न दृश्यते कश्चिदयं विकल्पः
प्रजल्पमात्रः परिशिष्यते ततः ॥ ३९९ ॥

३९९

असत्कल्पो विकल्पोऽयं विश्व­मि­त्ये­क­व­स्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ ४०० ॥

४००

द्रष्टृ­द­र्श­न­दृ­श्या­दि­भा­व­शू­न्यै­क­व­स्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ ४०१ ॥

४०१

कल्पार्णव इवा­त्य­न्त­प­रि­पू­र्णै­क­व­स्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ ४०२ ॥

४०२

तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् ।
अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥ ४०३ ॥

४०३

एकात्मके परे तत्त्वे भेदवार्ता कथं भवेत् ।
सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥ ४०४ ॥

४०४

न ह्यस्ति विश्वं परतत्त्वबोधा -
त्सदात्मनि ब्रह्मणि निर्विकल्पे ।
कालत्रये नाप्यहिरीक्षितो गुणे
न ह्यम्बु­बि­न्दु­र्मृ­ग­तृ­ष्णि­का­याम् ॥ ४०५ ॥

४०५

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।
इति ब्रूते श्रुतिः साक्षा­त्सु­षु­प्ता­व­नु­भू­यते ॥ ४०६ ॥

४०६

अन­न्य­त्व­म­धि­ष्ठा­ना­दा­रो­प्यस्य निरीक्षितम् ।
पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः ॥ ४०७ ॥

४०७

चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन ।
अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥ ४०८ ॥

४०८

किमपि सततबोधं केवलानन्दरूपं
निरुपममतिवेलं नित्यमुक्तं निरीहम् ।
निरवधि गगनाभं निष्कलं निर्विकल्पं
हृदि कलयति विद्वान्ब्रह्म पूर्णं समाधौ ॥ ४०९ ॥

४०९

प्रकृ­ति­वि­कृ­ति­शून्यं भावनातीतभावं
समरसमसमानं मानसम्बन्धदूरम् ।
निगमवचनसिद्धं नित्य­म­स्म­त्प्र­सिद्धं
हृदि कलयति विद्वान्ब्रह्म पूर्णं समाधौ ॥ ४१० ॥

४१०

अज­र­म­म­र­म­स्ता­भा­स­व­स्तु­स्व­रूपं
स्तिमि­त­स­लि­ल­रा­शि­प्र­ख्य­मा­ख्या­वि­ही­नम् ।
शमितगुणविकारं शाश्वतं शान्तमेकं
हृदि कलयति विद्वान्ब्रह्म पूर्णं समाधौ ॥ ४११ ॥

४११

समाहितान्तःकरणः स्वरूपे
विलो­क­या­त्मा­न­म­ख­ण्ड­वै­भ­वम् ।
विच्छिन्द्धि बन्धं भवगन्धगन्धिलं
यत्नेन पुंस्त्वं सफलीकुरुष्व ॥ ४१२ ॥

४१२

सर्वो­पा­धि­वि­नि­र्मुक्तं सच्चि­दा­न­न्द­म­द्व­यम् ।
भाव­या­त्मा­न­मा­त्मस्थं न भूयः कल्पसेऽध्वने ॥ ४१३ ॥

४१३

छायेव पुंसः परिदृश्यमान -
माभासरूपेण फलानुभूत्या ।
शरी­र­मा­रा­च्छ­व­व­न्नि­रस्तं
पुनर्न सन्धत्त इदं महात्मा ॥ ४१४ ॥

४१४

सत­त­वि­म­ल­बो­धा­न­न्द­रूपं समेत्य
त्यज जड­म­ल­रू­पो­पा­धि­मेतं सुदूरे ।
अथ पुनरपि नैव स्मर्यतां वान्तवस्तु
स्मरणविषयभूतं कल्पते कुत्सनाय ॥ ४१५ ॥

४१५

समू­ल­मे­त­त्प­रि­दह्य वह्नौ
सदात्मनि ब्रह्मणि निर्विकल्पे ।
ततः स्वयं नित्य­वि­शु­द्ध­बोधा -
नन्दात्मना तिष्ठति विद्वरिष्ठः ॥ ४१६ ॥

४१६

प्रार­ब्ध­सू­त्र­ग्र­थितं शरीरं
प्रयातु वा तिष्ठतु गोरिव स्रक् ।
न तत्पुनः पश्यति तत्त्ववेत्ता -
नन्दात्मनि ब्रह्मणि लीनवृत्तिः ॥ ४१७ ॥

४१७

अख­ण्डा­न­न्द­मा­त्मानं विज्ञाय स्वस्वरूपतः ।
किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित् ॥ ४१८ ॥

४१८

संसिद्धस्य फलं त्वेत­ज्जी­व­न्मु­क्तस्य योगिनः ।
बहिरन्तः सदा­न­न्द­र­सा­स्वा­द­न­मा­त्मनि ॥ ४१९ ॥

४१९

वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् ।
स्वान­न्दा­नु­भ­वा­च्छा­न्ति­रे­षै­वो­प­रतेः फलम् ॥ ४२० ॥

४२०

यद्यु­त्त­रो­त्त­रा­भावः पूर्वपूर्वं तु निष्फलम् ।
निवृत्तिः परमा तृप्ति­रा­न­न्दोऽ­नु­पमः स्वतः ॥ ४२१ ॥

४२१

दृष्ट­दुः­खे­ष्व­नु­द्वेगो विद्यायाः प्रस्तुतं फलम् ।
यत्कृतं भ्रान्तिवेलायां नानाकर्म जुगुप्सितम् ।
पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति ॥ ४२२ ॥

४२२

विद्याफलं स्यादसतो निवृत्तिः
प्रवृ­त्ति­र­ज्ञा­न­फलं तदीक्षितम् ।
तज्ज्ञा­ज्ञ­यो­र्य­न्मृ­ग­तृ­ष्णि­कादौ
नो चेद्विदो दृष्टफलं किमस्मात् ॥ ४२३ ॥

४२३

अज्ञा­न­हृ­द­य­ग्र­न्थे­र्वि­नाशो यद्यशेषतः ।
अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः ॥ ४२४ ॥

४२४

वासनानुदयो भोग्ये वैराग्यस्य तदावधिः ।
अहम्भावोदयाभावो बोधस्य परमावधिः ।
लीन­वृ­त्ते­र­नु­त्प­त्ति­र्म­र्या­दो­प­र­तेस्तु सा ॥ ४२५ ॥

४२५

ब्रह्माकारतया सदा स्थिततया निर्मु­क्त­बा­ह्या­र्थधी -
रन्या­वे­दि­त­भो­ग्य­भो­ग­क­लनो निद्रा­लु­व­द्बा­ल­वत् ।
स्वप्ना­लो­कि­त­लो­क­व­ज्ज­ग­दिदं पश्य­न्क्व­चि­ल्ल­ब्धधी -
रास्ते कश्चि­द­न­न्त­पु­ण्य­फ­ल­भु­ग्धन्यः स मान्यो भुवि ॥ ४२६ ॥

४२६

स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते ।
ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ॥ ४२७ ॥

४२७

ब्रह्मात्मनोः शोधि­त­यो­रे­क­भा­वा­व­गा­हिनी ।
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ।
सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४२८ ॥

४२८

यस्य स्थिता भवेत्प्रज्ञा यस्यानन्दो निरन्तरः ।
प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥ ४२९ ॥

४२९

लीनधीरपि जागर्ति यो जाग्र­द्ध­र्म­व­र्जितः ।
बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ॥ ४३० ॥

४३०

शान्तसंसारकलनः कलावानपि निष्कलः ।
यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त इष्यते ॥ ४३१ ॥

४३१

वर्तमानेऽपि देहेऽ­स्मिं­श्छा­या­व­द­नु­व­र्तिनि ।
अहन्ताममताभावो जीवन्मुक्तस्य लक्षणम् ॥ ४३२ ॥

४३२

अतीताननुसन्धानं भविष्यदविचारणम् ।
औदासीन्यमपि प्राप्ते जीवन्मुक्तस्य लक्षणम् ॥ ४३३ ॥

४३३

गुण­दो­ष­वि­शि­ष्टेऽ­स्मि­न्स्व­भा­वेन विलक्षणे ।
सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥ ४३४ ॥

४३४

इष्टा­नि­ष्टा­र्थ­स­म्प्राप्तौ समदर्शितयात्मनि ।
उभ­य­त्रा­वि­का­रित्वं जीवन्मुक्तस्य लक्षणम् ॥ ४३५ ॥

४३५

ब्रह्मा­न­न्द­र­सा­स्वा­दा­स­क्त­चि­त्त­तया यतेः ।
अन्त­र्ब­हि­र­वि­ज्ञानं जीवन्मुक्तस्य लक्षणम् ॥ ४३६ ॥

४३६

देहेन्द्रियादौ कर्तव्ये ममा­ह­म्भा­व­व­र्जितः ।
औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्त इष्यते ॥ ४३७ ॥

४३७

विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् ।
भव­ब­न्ध­वि­नि­र्मुक्तः स जीवन्मुक्त इष्यते ॥ ४३८ ॥

४३८

देहे­न्द्रि­ये­ष्व­ह­म्भाव इद­म्भा­व­स्त­द­न्यके ।
यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥ ४३९ ॥

४३९

न प्रत्य­ग्ब्र­ह्म­णो­र्भेदं कदापि ब्रह्मसर्गयोः ।
प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥ ४४० ॥

४४०

साधुभिः पूज्य­मा­नेऽ­स्मि­न्पी­ड्य­मा­नेऽपि दुर्जनैः ।
समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४४१ ॥

४४१

यत्र प्रविष्टा विषयाः परेरिता
नदीप्रवाहा इव वारिराशौ ।
लिनन्ति सन्मात्रतया न विक्रिया -
मुत्पादयन्त्येष यतिर्विमुक्तः ॥ ४४२ ॥

४४२

विज्ञा­त­ब्र­ह्म­त­त्त्वस्य यथापूर्वं न संसृतिः ।
अस्ति चेन्न स विज्ञा­त­ब्र­ह्म­भावो बहिर्मुखः ॥ ४४३ ॥

४४३

प्राची­न­वा­स­ना­वे­गा­दसौ संसरतीति चेत् ।
न सदे­क­त्व­वि­ज्ञा­ना­न्म­न्दी­भ­वति वासना ॥ ४४४ ॥

४४४

अत्य­न्त­का­मु­क­स्यापि वृत्तिः कुण्ठति मातरि ।
तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥ ४४५ ॥

४४५

निदि­ध्या­स­न­शी­लस्य बाह्यप्रत्यय ईक्ष्यते ।
ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥ ४४६ ॥

४४६

सुखाद्यनुभवो याव­त्ता­व­त्प्रा­र­ब्ध­मि­ष्यते ।
फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् ॥ ४४७ ॥

४४७

अहं ब्रह्मेति विज्ञा­ना­त्क­ल्प­को­टि­श­ता­र्जि­तम् ।
सञ्चितं विलयं याति प्रबो­धा­त्स्व­प्न­क­र्म­वत् ॥ ४४८ ॥

४४८

यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् ।
सुप्तोत्थितस्य किं तत्स्या­त्स्व­र्गाय नरकाय वा ॥ ४४९ ॥

४४९

स्वम­स­ङ्ग­मु­दा­सीनं परिज्ञाय नभो यथा ।
न श्लिष्यते यतिः किञ्चि­त्क­दा­चि­द्भा­वि­क­र्मभिः ॥ ४५० ॥

४५०

न नभो घटयोगेन सुरागन्धेन लिप्यते ।
तथा­त्मो­पा­धि­यो­गेन तद्धर्मैर्नैव लिप्यते ॥ ४५१ ॥

४५१

ज्ञानो­द­या­त्पु­रा­रब्धं कर्म ज्ञानान्न नश्यति ।
अदत्त्वा स्वफलं लक्ष्य­मु­द्दि­श्यो­त्सृ­ष्ट­बा­ण­वत् ॥ ४५२ ॥

४५२

व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ ।
न तिष्ठति च्छिनत्त्येव लक्ष्यं वेगेन निर्भरम् ॥ ४५३ ॥

४५३

प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः
सम्य­ग्ज्ञा­न­हु­ता­श­नेन विलयः प्राक्स­ञ्चि­ता­गा­मि­नाम् ।
ब्रह्मा­त्मै­क्य­म­वेक्ष्य तन्मयतया ये सर्वदा संस्थिता -
स्तेषां तत्त्रितयं न हि क्वचिदपि ब्रह्मैव ते निर्गुणम् ॥ ४५४ ॥

४५४

उपा­धि­ता­दा­त्म्य­वि­ही­न­के­वल -
ब्रह्मा­त्म­नै­वा­त्मनि तिष्ठतो मुनेः ।
प्रार­ब्ध­स­द्भा­व­कथा न युक्ता
स्वप्ना­र्थ­स­म्ब­न्ध­क­थेव जाग्रतः ॥ ४५५ ॥

४५५

न हि प्रबुद्धः प्रतिभासदेहे
देहोपयोगिन्यपि च प्रपञ्चे ।
करोत्यहन्तां ममतामिदन्तां
किं तु स्वयं तिष्ठति जागरेण ॥ ४५६ ॥

४५६

न तस्य मिथ्या­र्थ­स­म­र्थ­नेच्छा
न सङ्ग्र­ह­स्त­ज्ज­ग­तोऽपि दृष्टः ।
तत्रा­नु­वृ­त्ति­र्यदि चेन्मृषार्थे
न निद्रया मुक्त इतीष्यते ध्रुवम् ॥ ४५७ ॥

४५७

तद्वत्परे ब्रह्मणि वर्तमानः
सदात्मना तिष्ठति नान्यदीक्षते ।
स्मृतिर्यथा स्वप्न­वि­लो­कि­तार्थे
तथा विदः प्राशनमोचनादौ ॥ ४५८ ॥

४५८

कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् ।
नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥ ४५९ ॥

४५९

अजो नित्य इति ब्रूते श्रुतिरेषा त्वमोघवाक् ।
तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥ ४६० ॥

४६०

प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः ।
देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ।
शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि ॥ ४६१ ॥

४६१

अध्यस्तस्य कुतः सत्त्व­म­स­त्त्वस्य कुतो जनिः ।
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥ ४६२ ॥

४६२

ज्ञाने­ना­ज्ञा­न­का­र्यस्य समूलस्य लयो यदि ।
तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् ।
समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ॥ ४६३ ॥

४६३

न तु देहा­दि­स­त्य­त्व­बो­ध­नाय विपश्चिताम् ।
यतः श्रुतेरभिप्रायः परमार्थैकगोचरः ॥ ४६४ ॥

४६४

परि­पू­र्ण­म­ना­द्य­न्त­म­प्र­मे­य­म­वि­क्रि­यम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६५ ॥

४६५

सद्घनं चिद्घनं नित्य­मा­न­न्द­घ­न­म­क्रि­यम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६६ ॥

४६६

प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६७ ॥

४६७

अहे­य­म­नु­पा­दे­य­म­ना­धे­य­म­ना­श्र­यम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६८ ॥

४६८

निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६९ ॥

४६९

अनिरूप्यस्वरूपं यन्म­नो­वा­चा­म­गो­च­रम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४७० ॥

४७०

सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४७१ ॥

४७१

निरस्तरागा निरपास्तभोगाः
शान्ताः सुदान्ता यतयो महान्तः ।
विज्ञाय तत्त्वं परमेतदन्ते
प्राप्ताः परां निर्वृ­ति­मा­त्म­यो­गात् ॥ ४७२ ॥

४७२

भवानपीदं परतत्त्वमात्मनः
स्वरूपमानन्दघनं निचाय्य ।
विधूय मोहं स्वम­नः­प्र­क­ल्पितं
मुक्तः कृतार्थो भवतु प्रबुद्धः ॥ ४७३ ॥

४७३

समाधिना साधु विनिश्चलात्मना
पश्यात्मतत्त्वं स्फुटबोधचक्षुषा ।
निःसंशयं सम्य­ग­वे­क्षि­तश्चे -
च्छ्रुतः पदार्थो न पुनर्विकल्पते ॥ ४७४ ॥

४७४

स्वस्या­वि­द्या­ब­न्ध­स­म्ब­न्ध­मोक्षा -
त्सत्य­ज्ञा­ना­न­न्द­रू­पा­त्म­लब्धौ ।
शास्त्रं युक्ति­र्दे­शि­कोक्तिः प्रमाणं
चान्तःसिद्धा स्वानुभूतिः प्रमाणम् ॥ ४७५ ॥

४७५

बन्धो मोक्षश्च तृप्तिश्च चिन्ता­रो­ग्य­क्षु­धा­दयः ।
स्वेनैव वेद्या यज्ज्ञानं परे­षा­मा­नु­मा­नि­कम् ॥ ४७६ ॥

४७६

तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा ।
प्रज्ञयैव तरे­द्वि­द्वा­नी­श्व­रा­नु­गृ­ही­तया ॥ ४७७ ॥

४७७

स्वानुभूत्या स्वयं ज्ञात्वा स्वमा­त्मा­न­म­ख­ण्डि­तम् ।
संसिद्धः सुसुखं तिष्ठे­न्नि­र्वि­क­ल्पा­त्म­ना­त्मनि ॥ ४७८ ॥

४७८

वेदा­न्त­सि­द्धा­न्त­नि­रु­क्ति­रेषा
ब्रह्मैव जीवः सकलं जगच्च ।
अख­ण्ड­रू­प­स्थि­ति­रेव मोक्षो
ब्रह्माद्वितीयं श्रुतयः प्रमाणम् ॥ ४७९ ॥

४७९

इति गुरु­व­च­ना­च्छ्रु­ति­प्र­माणा -
त्परमवगम्य सत­त्त्व­मा­त्म­युक्त्या ।
प्रशमितकरणः समाहितात्मा
क्वचि­द­च­ला­कृ­ति­रा­त्म­नि­ष्ठि­तोऽ­भूत् ॥ ४८० ॥

४८०

कञ्चित्कालं समाधाय परे ब्रह्मणि मानसम् ।
व्युत्थाय परमानन्दादिदं वचनमब्रवीत् ॥ ४८१ ॥

४८१

बुद्धिर्विनष्टा गलिता प्रवृत्ति -
र्ब्रह्मा­त्म­नो­रे­क­त­या­धि­गत्या ।
इदं न जानेऽप्यनिदं न जाने
किं वा कियद्वा सुखमस्य पारम् ॥ ४८२ ॥

४८२

वाचा वक्तुमशक्यमेव मनसा मन्तुं न वास्वाद्यते
स्वान­न्दा­मृ­त­पू­र­पू­रि­त­प­र­ब्र­ह्मा­म्बु­धे­र्वै­भ­वम् ।
अम्भो­रा­शि­वि­शी­र्ण­वा­र्षि­क­शि­ला­भावं भजन्मे मनो
यस्यांशांशलवे विली­न­म­धु­ना­न­न्दा­त्मना निर्वृतम् ॥ ४८३ ॥

४८३

क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् ।
अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥ ४८४ ॥

४८४

किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् ।
अख­ण्डा­न­न्द­पी­यू­ष­पूर्णे ब्रह्ममहार्णवे ॥ ४८५ ॥

४८५

न किञ्चिदत्र पश्यामि न शृणोमि न वेद्म्यहम् ।
स्वात्मनैव सदा­न­न्द­रू­पे­णास्मि विलक्षणः ॥ ४८६ ॥

४८६

नमो नमस्ते गुरवे महात्मने
विमुक्तसङ्गाय सदुत्तमाय ।
नित्या­द्व­या­न­न्द­र­स­स्व­रू­पिणे
भूम्ने सदा­पा­र­द­या­म्बु­धाम्ने ॥ ४८७ ॥

४८७

यत्क­टा­क्ष­श­शि­सा­न्द्र­च­न्द्रिका -
पात­धू­त­भ­व­ता­प­ज­श्रमः ।
प्राप्त­वा­न­ह­म­ख­ण्ड­वै­भवा -
नन्द­मा­त्म­प­द­म­क्षयं क्षणात् ॥ ४८८ ॥

४८८

धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् ।
नित्या­न­न्द­स्व­रू­पोऽहं पूर्णोऽहं त्वदनुग्रहात् ॥ ४८९ ॥

४८९

अस­ङ्गोऽ­ह­म­न­ङ्गोऽ­ह­म­लि­ङ्गोऽ­ह­म­भ­ङ्गुरः ।
प्रशा­न्तोऽ­ह­म­न­न्तोऽ­ह­म­ता­न्तोऽहं चिरन्तनः ॥ ४९० ॥

४९०

अक­र्ता­ह­म­भो­क्ता­ह­म­वि­का­रोऽ­ह­म­क्रियः ।
शुद्ध­बो­ध­स्व­रू­पोऽहं केवलोऽहं सदाशिवः ॥ ४९१ ॥

४९१

द्रष्टुः श्रोतुर्वक्तुः कर्तु­र्भो­क्तु­र्वि­भिन्न एवाहम् ।
नित्य­नि­र­न्त­र­नि­ष्क्रि­य­निः­सी­मा­स­ङ्ग­पू­र्ण­बो­धात्मा ॥ ४९२ ॥

४९२

नाहमिदं नाह­म­दोऽ­प्यु­भ­यो­र­व­भा­सकं परं शुद्धम् ।
बाह्या­भ्य­न्त­र­शून्यं पूर्णं ब्रह्मा­द्वि­ती­य­मे­वा­हम् ॥ ४९३ ॥

४९३

निरु­प­म­म­ना­दि­तत्त्वं त्वमहमिदमद इति कल्पनादूरम् ।
नित्यानन्दैकरसं सत्यं ब्रह्मा­द्वि­ती­य­मे­वा­हम् ॥ ४९४ ॥

४९४

नारायणोऽहं नरकान्तकोऽहं
पुरान्तकोऽहं पुरुषोऽहमीशः ।
अख­ण्ड­बो­धोऽ­ह­म­शे­ष­साक्षी
निरीश्वरोऽहं निरहं च निर्ममः ॥ ४९५ ॥

४९५

सर्वेषु भूतेष्वहमेव संस्थितो
ज्ञात्रा­त्म­ना­न्त­र्ब­हि­रा­श्रयः सन् ।
भोक्ता च भोग्यं स्वयमेव सर्वं
तद्य­त्पृ­थ­ग्दृ­ष्ट­मि­द­न्तया पुरा ॥ ४९६ ॥

४९६

मय्य­ख­ण्ड­सु­खा­म्भोधौ बहुधा विश्ववीचयः ।
उत्पद्यन्ते विलीयन्ते माया­मा­रु­त­वि­भ्र­मात् ॥ ४९७ ॥

४९७

स्थूलादिभावा मयि कल्पिता भ्रमा -
दारो­पि­ता­नु­स्फु­र­णेन लोकैः ।
काले यथा कल्पकवत्सरायन -
र्त्वादयो निष्क­ल­नि­र्वि­कल्पे ॥ ४९८ ॥

४९८

आरोपितं नाश्रयदूषकं भवे -
त्कदापि मूढै­र्म­ति­दो­ष­दू­षितैः ।
नार्द्री­क­रो­त्यू­ष­र­भू­मि­भागं
मरी­चि­का­वा­रि­म­हा­प्र­वाहः ॥ ४९९ ॥

४९९

आका­श­व­त्क­ल्प­वि­दू­र­गोऽह -
मादि­त्य­व­द्भा­स्य­वि­ल­क्ष­णोऽ­हम् ।
अहा­र्य­व­न्नि­त्य­वि­नि­श्च­लोऽह -
मम्भो­धि­व­त्पा­र­वि­व­र्जि­तोऽ­हम् ॥ ५०० ॥

५००

न मे देहेन सम्बन्धो मेघेनेव विहायसः ।
अतः कुतो मे तद्धर्मा जाग्र­त्स्व­प्न­सु­षु­प्तयः ॥ ५०१ ॥

५०१

उपाधिरायाति स एव गच्छति
स एव कर्माणि करोति भुङ्क्ते ।
स एव जीवन्म्रियते सदाहं
कुला­द्रि­व­न्नि­श्चल एव संस्थितः ॥ ५०२ ॥

५०२

न मे प्रवृत्तिर्न च मे निवृत्तिः
सदैकरूपस्य निरंशकस्य ।
ऐकात्मको यो निबिडो निरन्तरो
व्योमेव पूर्णः स कथं नु चेष्टते ॥ ५०३ ॥

५०३

पुण्यानि पापानि निरिन्द्रियस्य
निश्चेतसो निर्वि­कृ­ते­र्नि­रा­कृतेः ।
कुतो ममा­ख­ण्ड­सु­खा­नु­भूते -
र्ब्रूते ह्यन­न्वा­ग­त­मि­त्यपि श्रुतिः ॥ ५०४ ॥

५०४

छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुष्ठु वा ।
न स्पृशत्येव यत्कि­ञ्चि­त्पु­रुषं तद्विलक्षणम् ॥ ५०५ ॥

५०५

न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् ।
अविकारमुदासीनं गृहधर्माः प्रदीपवत् ।
देहे­न्द्रि­य­म­नो­धर्मा नैवात्मानं स्पृशन्त्यहो ॥ ५०६ ॥

५०६

रवेर्यथा कर्मणि साक्षिभावो
वह्नेर्यथा वायसि दाहकत्वम् ।
रज्जो­र्य­था­रो­पि­त­व­स्तु­सङ्ग -
स्तथैव कूटस्थचिदात्मनो मे ॥ ५०७ ॥

५०७

कर्तापि वा कारयितापि नाहं
भोक्तापि वा भोजयितापि नाहम् ।
द्रष्टापि वा दर्शयितापि नाहं
सोऽहं स्वय­ञ्ज्यो­ति­र­नी­दृ­गात्मा ॥ ५०८ ॥

५०८

चलत्युपाधौ प्रतिबिम्बलौल्य -
मौपाधिकं मूढधियो नयन्ति ।
स्वबिम्बभूतं रवि­व­द्वि­नि­ष्क्रियं
कर्तास्मि भोक्तास्मि हतोऽस्मि हेति ॥ ५०९ ॥

५०९

जले वापि स्थले वापि लुठत्वेष जडात्मकः ।
नाहं विलिप्ये तद्ध­र्मै­र्घ­ट­ध­र्मै­र्नभो यथा ॥ ५१० ॥

५१०

कर्तृ­त्व­भो­क्तृ­त्व­ख­ल­त्व­म­त्तता -
जड­त्व­ब­द्ध­त्व­वि­मु­क्त­ता­दयः ।
बुद्धेर्विकल्पा न तु सन्ति वस्तुतः
स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये ॥ ५११ ॥

५११

सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि ।
तैः किं मेऽसङ्गचितेर्न ह्यम्बु­द­ड­म्ब­रोऽ­म्बरं स्पृशति ॥ ५१२ ॥

५१२

अव्यक्तादि स्थूलपर्यन्तमेत -
द्विश्वं यत्राभासमात्रं प्रतीतम् ।
व्योमप्रख्यं सूक्ष्म­मा­द्य­न्त­हीनं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१३ ॥

५१३

सर्वाधारं सर्व­व­स्तु­प्र­काशं
सर्वाकारं सर्वगं सर्वशून्यम् ।
नित्यं शुद्धं निश्चलं निर्विकल्पं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१४ ॥

५१४

यस्मि­न्न­स्ता­शे­ष­मा­या­वि­शेषं
प्रत्यग्रूपं प्रत्य­या­ग­म्य­मा­नम् ।
सत्य­ज्ञा­ना­न­न्त­मा­न­न्द­रूपं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१५ ॥

५१५

निष्क्रि­योऽ­स्म्य­वि­का­रोऽस्मि
निष्कलोऽस्मि निराकृतिः ।
निर्वि­क­ल्पोऽस्मि नित्योऽस्मि
निरालम्बोऽस्मि निर्द्वयः ॥ ५१६ ॥

५१६

सर्वात्मकोऽहं सर्वोऽहं सर्वा­ती­तोऽ­ह­म­द्वयः ।
केव­ला­ख­ण्ड­बो­धोऽ­ह­मा­न­न्दोऽहं निरन्तरः ॥ ५१७ ॥

५१७

स्वारा­ज्य­सा­म्रा­ज्य­वि­भू­ति­रेषा
भव­त्कृ­पा­श्री­म­हि­त­प्र­सा­दात् ।
प्राप्ता मया श्रीगुरवे महात्मने
नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥ ५१८ ॥

५१८

महास्वप्ने माया­कृ­त­ज­नि­ज­रा­मृ­त्यु­ग­हने
भ्रमन्तं क्लिश्यन्तं बहु­ल­त­र­ता­पै­र­नु­क­लम् ।
अह­ङ्का­र­व्या­घ्र­व्य­थि­त­मि­म­म­त्य­न्त­कृ­पया
प्रबोध्य प्रस्वा­पा­त्प­र­म­वि­त­वा­न्मा­मसि गुरो ॥ ५१९ ॥

५१९

नमस्तस्मै सदेकस्मै नमश्चिन्महसे मुहुः ।
यदे­त­द्वि­श्व­रू­पेण राजते गुरुराज ते ॥ ५२० ॥

५२०

इति नतमवलोक्य शिष्यवर्यं
समधिगतात्मसुखं प्रबु­द्ध­त­त्त्वम् ।
प्रमुदितहृदयः स देशिकेन्द्रः
पुनरिदमाह वचः परं महात्मा ॥ ५२१ ॥

५२१

ब्रह्म­प्र­त्य­य­स­न्त­ति­र्ज­ग­दतो ब्रह्मैव सत्सर्वतः
पश्या­ध्या­त्म­दृशा प्रशान्तमनसा सर्वा­स्व­व­स्था­स्वपि ।
रूपा­द­न्य­द­वे­क्षितुं किम­भि­त­श्च­क्षु­ष्मतां विद्यते
तद्व­द्ब्र­ह्म­विदः सतः किमपरं बुद्धे­र्वि­हा­रा­स्प­दम् ॥ ५२२ ॥

५२२

कस्तां परा­न­न्द­र­सा­नु­भूति -
मुत्सृज्य शून्येषु रमेत विद्वान् ।
चन्द्रे महाह्लादिनि दीप्यमाने
चित्रे­न्दु­मा­लो­क­यितुं क इच्छेत् ॥ ५२३ ॥

५२३

अस­त्प­दा­र्था­नु­भवे न किञ्चि -
न्न ह्यस्ति तृप्तिर्न च दुःखहानिः ।
तद­द्व­या­न­न्द­र­सा­नु­भूत्या
तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ॥ ५२४ ॥

५२४

स्वमेव सर्वतः पश्यन्मन्यमानः स्वमद्वयम् ।
स्वान­न्द­म­नु­भु­ञ्जानः कालं नय महामते ॥ ५२५ ॥

५२५

अखण्डबोधात्मनि निर्विकल्पे
विकल्पनं व्योम्नि पुरः प्रकल्पनम् ।
तद­द्व­या­न­न्द­म­या­त्मना सदा
शान्तिं परामेत्य भजस्व मौनम् ॥ ५२६ ॥

५२६

तूष्णीमवस्था परमोपशान्ति -
र्बुद्धे­र­स­त्क­ल्प­वि­क­ल्प­हेतोः ।
ब्रह्मात्मना ब्रह्मविदो महात्मनो
यत्रा­द्व­या­न­न्द­सुखं निरन्तरम् ॥ ५२७ ॥

५२७

नास्ति निर्वा­स­ना­न्मौ­ना­त्परं सुखकृदुत्तमम् ।
विज्ञा­ता­त्म­स्व­रू­पस्य स्वान­न्द­र­स­पा­यिनः ॥ ५२८ ॥

५२८

गच्छं­स्ति­ष्ठ­न्नु­प­वि­श­ञ्श­यानो वान्यथापि वा ।
यथेच्छया वसे­द्वि­द्वा­ना­त्मा­रामः सदा मुनिः ॥ ५२९ ॥

५२९

न देश­का­ला­स­न­दि­ग्य­मादि -
लक्ष्या­द्य­पेक्षा प्रति­ब­द्ध­वृत्तेः ।
संसि­द्ध­त­त्त्वस्य महात्मनोऽस्ति
स्ववेदने का नियमाद्यवस्था ॥ ५३० ॥

५३०

घटोऽयमिति विज्ञातुं नियमः कोऽन्वपेक्ष्यते ।
विना प्रमा­ण­सु­ष्ठुत्वं यस्मिन्सति पदार्थधीः ॥ ५३१ ॥

५३१

अयमात्मा नित्यसिद्धः प्रमाणे सति भासते ।
न देशं नापि वा कालं न शुद्धिं वाप्यपेक्षते ॥ ५३२ ॥

५३२

देव­द­त्तोऽ­ह­मि­त्ये­त­द्वि­ज्ञानं निरपेक्षकम् ।
तद्व­द्ब्र­ह्म­वि­दोऽ­प्यस्य ब्रह्माहमिति वेदनम् ॥ ५३३ ॥

५३३

भानुनेव जगत्सर्वं भासते यस्य तेजसा ।
अना­त्म­क­म­स­त्तुच्छं किं नु तस्यावभासकम् ॥ ५३४ ॥

५३४

वेद­शा­स्त्र­पु­रा­णानि भूतानि सकलान्यपि ।
येनार्थवन्ति तं किं नु विज्ञातारं प्रकाशयेत् ॥ ५३५ ॥

५३५

एष स्वय­ञ्ज्यो­ति­र­न­न्त­शक्ति -
रात्माप्रमेयः सकलानुभूतिः ।
यमेव विज्ञाय विमुक्तबन्धो
जयत्ययं ब्रह्म­वि­दु­त्त­मो­त्तमः ॥ ५३६ ॥

५३६

न खिद्यते नो विषयैः प्रमोदते
न सज्जते नापि विरज्यते च ।
स्वस्मिन्सदा क्रीडति नन्दति स्वयं
निर­न्त­रा­न­न्द­र­सेन तृप्तः ॥ ५३७ ॥

५३७

क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि ।
तथैव विद्वान्रमते निर्ममो निरहं सुखी ॥ ५३८ ॥

५३८

चिन्ता­शू­न्य­म­दै­न्य­भै­क्ष­म­शनं पानं सरिद्वारिषु
स्वातन्त्र्येण निरङ्कुशा स्थिति­र­भी­र्निद्रा श्मशाने वने ।
वस्त्रं क्षाल­न­शो­ष­णा­दि­र­हितं दिग्वास्तु शय्या मही
सञ्चारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि ॥ ५३९ ॥

५३९

विमानमालम्ब्य शरीरमेतत्
भुन­क्त्य­शे­षा­न्वि­ष­या­नु­प­स्थि­तान् ।
परेच्छया बालवदात्मवेत्ता
योऽव्य­क्त­लि­ङ्गोऽ­न­नु­ष­क्त­बाह्यः ॥ ५४० ॥

५४०

दिगम्बरो वापि च साम्बरो वा
त्वगम्बरो वापि चिदम्बरस्थः ।
उन्मत्तवद्वापि च बालवद्वा
पिशाचवद्वापि चरत्यवन्याम् ॥ ५४१ ॥

५४१

कामान्नी कामरूपी संश्चरत्येकचरो मुनिः ।
स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः ॥ ५४२ ॥

५४२

क्वचिन्मूढो विद्वा­न्क्व­चि­दपि महाराजविभवः
क्वचिद्भ्रान्तः सौम्यः क्वचि­द­ज­ग­रा­चा­र­क­लितः ।
क्वचि­त्पा­त्री­भूतः क्वचिदवमतः क्वाप्यविदित -
श्चरत्येवं प्राज्ञः सत­त­प­र­मा­न­न्द­सु­खितः ॥ ५४३ ॥

५४३

निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः ।
नित्य­तृ­प्तोऽ­प्य­भु­ञ्जा­नोऽ­प्य­समः समदर्शनः ॥ ५४४ ॥

५४४

अपि कुर्व­न्न­कु­र्वा­ण­श्चा­भोक्ता फलभोग्यपि ।
शरी­र्य­प्य­श­री­र्येष परिच्छिन्नोऽपि सर्वगः ॥ ५४५ ॥

५४५

अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् ।
प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे ॥ ५४६ ॥

५४६

स्थूला­दि­स­म्ब­न्ध­व­तोऽ­भि­मा­निनः
सुखं च दुःखं च शुभाशुभे च ।
विध्वस्तबन्धस्य सदात्मनो मुनेः
कुतः शुभं वाप्यशुभं फलं वा ॥ ५४७ ॥

५४७

तमसा ग्रस्त­व­द्भा­ना­द­ग्र­स्तोऽपि रविर्जनैः ।
ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तुलक्षणम् ॥ ५४८ ॥

५४८

तद्व­द्दे­हा­दि­ब­न्धेभ्यो विमुक्तं ब्रह्मवित्तमम् ।
पश्यन्ति देहिवन्मूढाः शरी­रा­भा­स­द­र्श­नात् ॥ ५४९ ॥

५४९

अहि­नि­र्ल्व­य­नी­वायं मुक्तदेहस्तु तिष्ठति ।
इत­स्त­त­श्चा­ल्य­मानो यत्कि­ञ्चि­त्प्रा­ण­वा­युना ॥ ५५० ॥

५५०

स्रोतसा नीयते दारु यथा निम्नो­न्न­त­स्थ­लम् ।
दैवेन नीयते देहो यथा­का­लो­प­भु­क्तिषु ॥ ५५१ ॥

५५१

प्रार­ब्ध­क­र्म­प­रि­क­ल्पि­त­वा­स­नाभिः
संसारिवच्चरति भुक्तिषु मुक्तदेहः ।
सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं
चक्रस्य मूलमिव कल्प­वि­क­ल्प­शून्यः ॥ ५५२ ॥

५५२

नैवेन्द्रियाणि विषयेषु नियुङ्क्त एष
नैवापयुङ्क्त उप­द­र्श­न­ल­क्ष­णस्थः ।
नैव क्रिया­फ­ल­म­पी­ष­द­पे­क्षते स
स्वान­न्द­सा­न्द्र­र­स­पा­न­सु­म­त्त­चित्तः ॥ ५५३ ॥

५५३

लक्ष्या­ल­क्ष्य­गतिं त्यक्त्वा यस्ति­ष्ठे­त्के­व­ला­त्मना ।
शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ ५५४ ॥

५५४

जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ।
उपा­धि­ना­शा­द्ब्र­ह्मैव सद्ब्र­ह्मा­प्येति निर्द्वयम् ॥ ५५५ ॥

५५५

शैलूषो वेष­स­द्भा­वा­भा­व­योश्च यथा पुमान् ।
तथैव ब्रह्म­वि­च्छ्रेष्ठः सदा ब्रह्मैव नापरः ॥ ५५६ ॥

५५६

यत्र क्वापि विशीर्णं पर्णमिव तरोर्वपुः पतनात् ।
ब्रह्मीभूतस्य यतेः प्रागेव हि तच्चिदग्निना दग्धम् ॥ ५५७ ॥

५५७

सदात्मनि ब्रह्मणि तिष्ठतो मुनेः
पूर्णा­द्व­या­न­न्द­म­या­त्मना सदा ।
न देश­का­ला­द्यु­चि­त­प्र­तीक्षा
त्वङ्मां­स­वि­ट्पि­ण्ड­वि­स­र्ज­नाय ॥ ५५८ ॥

५५८

देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः ।
अवि­द्या­हृ­द­य­ग्र­न्थि­मोक्षो मोक्षो यतस्ततः ॥ ५५९ ॥

५५९

कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे ।
पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् ॥ ५६० ॥

५६०

पत्रस्य पुष्पस्य फलस्य नाशव -
द्देहे­न्द्रि­य­प्रा­ण­धियां विनाशः ।
नैवात्मनः स्वस्य सदात्मकस्या -
नन्दा­कृ­ते­र्वृ­क्ष­व­दास्त एषः ॥ ५६१ ॥

५६१

प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम् ।
अनू­द्यौ­पा­धि­क­स्यैव कथयन्ति विनाशनम् ॥ ५६२ ॥

५६२

अविनाशी वा अरेयमात्मेति श्रुतिरात्मनः ।
प्रब्र­वी­त्य­वि­ना­शित्वं विनश्यत्सु विकारिषु ॥ ५६३ ॥

५६३

पाषा­ण­वृ­क्ष­तृ­ण­धा­न्य­क­टा­म्ब­राद्या
दग्धा भवन्ति हि मृदेव यथा तथैव ।
देहे­न्द्रि­या­सु­म­न­आदि समस्तदृश्यं
ज्ञाना­ग्नि­द­ग्ध­मु­प­याति परात्मभावम् ॥ ५६४ ॥

५६४

विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि ।
तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ॥ ५६५ ॥

५६५

घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् ।
तथैवोपाधिविलये ब्रह्मैव ब्रह्म­वि­त्स्व­यम् ॥ ५६६ ॥

५६६

क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले ।
संयुक्तमेकतां याति तथा­त्म­न्या­त्म­वि­न्मुनिः ॥ ५६७ ॥

५६७

एवं विदेहकैवल्यं सन्मा­त्र­त्व­म­ख­ण्डि­तम् ।
ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः ॥ ५६८ ॥

५६८

सदा­त्मै­क­त्व­वि­ज्ञा­न­द­ग्धा­वि­द्या­दि­व­र्ष्मणः ।
अमुष्य ब्रह्म­भू­त­त्वा­द्ब्र­ह्मणः कुत उद्भवः ॥ ५६९ ॥

५६९

मायाकॢप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः ।
यथा रज्जौ निष्क्रियायां सर्पा­भा­स­वि­नि­र्गमौ ॥ ५७० ॥

५७०

आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे ।
नावृ­ति­र्ब्र­ह्मणः काचि­द­न्या­भा­वा­द­ना­वृ­तम् ।
यद्य­स्त्य­द्वै­त­हानिः स्याद्द्वैतं नो सहते श्रुतिः ॥ ५७१ ॥

५७१

बन्धश्च मोक्षश्च मृषैव मूढा
बुद्धेर्गुणं वस्तुनि कल्पयन्ति ।
दृगावृतिं मेघकृतां यथा रवौ
यतोऽ­द्व­या­स­ङ्ग­चि­दे­क­म­क्ष­रम् ॥ ५७२ ॥

५७२

अस्तीति प्रत्ययो यश्च
यश्च नास्तीति वस्तुनि ।
बुद्धेरेव गुणावेतौ
न तु नित्यस्य वस्तुनः ॥ ५७३ ॥

५७३

अतस्तौ मायया कॢप्तौ बन्धमोक्षौ न चात्मनि
निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने ।
अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ॥ ५७४ ॥

५७४

न निरोधो न चोत्पत्ति -
र्न बन्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त
इत्येषा परमार्थता ॥ ५७५ ॥

५७५

सक­ल­नि­ग­म­चू­डा­स्वा­न्त­सि­द्धा­न्त­गुह्यं
परमिदमतिगुह्यं दर्शितं ते मयाद्य ।
अपगतकलिदोषः काम­नि­र्मु­क्त­बुद्धि -
स्तद­तु­ल­म­स­कृत्त्वं भावयेदं मुमुक्षुः ॥ ५७६ ॥

५७६

इति श्रुत्वा गुरोर्वाक्यं
प्रश्रयेण कृतानतिः ।
स तेन समनुज्ञातो
ययौ निर्मुक्तबन्धनः ॥ ५७७ ॥

५७७

गुरुरेष सदानन्द -
सिन्धौ निर्मग्नमानसः ।
पावयन्वसुधां सर्वां
विचचार निरन्तरः ॥ ५७८ ॥

५७८

इत्याचार्यस्य शिष्यस्य
संवा­दे­ना­त्म­ल­क्ष­णम् ।
निरूपितं मुमुक्षूणां
सुखबोधोपपत्तये ॥ ५७९ ॥

५७९

हित­मि­द­मु­प­दे­श­मा­द्रि­यन्तां
विहि­त­नि­र­स्त­स­म­स्त­चि­त्त­दोषाः ।
भवसुखविरताः प्रशान्तचित्ताः
श्रुतिरसिका यतयो मुमुक्षवो ये ॥ ५८० ॥

५८०

संसाराध्वनि ताप­भा­नु­कि­र­ण­प्रो­द्भू­त­दा­ह­व्यथा -
खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् ।
अत्या­स­न्न­सु­धा­म्बुधिं सुखकरं ब्रह्माद्वयं दर्शय -
न्त्येषा शङ्करभारती विजयते निर्वा­ण­स­न्दा­यिनी ॥ ५८१ ॥

५८१

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ विवेकचूडामणिः समाप्तः ॥