अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः

श्रीमच्छङ्करभगवत्पादाचार्यैः प्रणीतः

शृङ्गगिरिजगद्गुरुश्रीश्रीचन्द्रशेखरभारतीमहास्वामिभिः अनुगृहीतया व्याख्यया सनाथः

प्रास्ताविकम्

लोका­न­वि­द्या­न्ध­त­म­सात् उद्धर्तुमेव कृतावतारो भगवान् वासुदेवः प्रप­न्ना­या­र्जु­नाय ‘अध्यात्मविद्या विद्यानाम्’ इत्य­ध्या­त्म­वि­द्या­मेव सक­ल­वि­द्या­व­रिष्ठां प्रत्यपादयत् ।

सा चाध्यात्मविद्या वेद­शि­रो­भि­रू­प­नि­षद्भिः प्रतिपत्तव्या । तत्र सन्दिहानानां पुरुषाणां सन्देहाः वैया­सि­क­शा­री­र­क­मी­मां­सा­नि­र्धा­रि­त­न्या­यै­रेव परिहर्तव्याः । उपनिषदां सारसङ्ग्रहभूता भगवद्गीता । उपनिषदः ब्रह्मसूत्राणि भगवद्गीता इत्येतत्त्रयं भगवान् शङ्करः पर­म­हं­स­प­रि­व्रा­ज­क­रू­प­धृक् प्रसन्नगम्भीरैः पदनिगुम्भैः व्याख्याय औप­नि­ष­द­मा­त्म­तत्त्वं स्फुटं प्राचीकशत् । उप­नि­ष­दा­द्य­र्थ­प­रि­शी­ल­नेन समेषामेव आत्म­त­त्त्वा­व­ग­मनं दुश्शकमिति मन्वानः श्रीश­ङ्क­रा­चार्यः सुलभावगाहान् बहून् विवे­क­चू­डा­म­ण्या­दीन् प्रबन्धान् प्राणैषीत् । विवे­क­चू­डा­म­णि­ना­मायं प्रबन्धः तेषु चूडामणिरिव प्रकाशमानः सर्वत्र प्रचुरप्रचारः समुपलभ्यते । दुरू­ह­म­प्या­त्म­तत्त्वं करतलामलकवत् तत्र स्फुटीभवति । उप­नि­ष­द्भा­ष्या­दिषु दुर्ल­भ­प्र­वे­शा­ना­मपि अत्र प्रवेशः सुलभः ।

एतादृशस्य ग्रन्थरत्नस्य यदि काचित् प्रामाणिकी व्याख्यापि स्यात् तर्हि हेम्नः परमामोद इति परिकलय्य अस्म­दा­चा­र्य­पादाः स्फुट­प्र­ति­प­त्तये गभीरावगाहाय च व्याख्यां काञ्चन व्यरचयन् । व्याख्यायाः उत्तमत्वविषये नास्माभिः किञ्चिदपि वक्तव्यमस्ति ।

श्रीच­न्द्र­शे­ख­र­भा­र­तीति प्रथि­त­प्रा­त­स्म­र­णी­य­ना­म­धेयाः अस्म­दा­चा­र्य­पादाः कृत-तपश्चर्याः सर्व­त­न्त्र­स्व­तन्त्राः शास्त्रो­प­दि­ष्टा­र्था­नु­ष्ठा­न­नि­ष्ठा­ग­रिष्ठाः अप­रो­क्षी­कृ­ता­त्म­तत्त्वाः जीवन्मुक्ता अभू­व­न्नि­त्ये­त­देव व्याख्यायाः उत्क­र्ष­बो­ध­ना­या­लम् । व्याख्यायाः अपरिपूर्तिः किञ्चिदिव मनस्तोदमावहति । व्याख्यापूरणाय आचार्यपादान् कदाचिद्वयं प्रार्थयाम । ‘वक्तव्या अत्रैव सङ्गृहीताः निदि­ध्या­स­न­म­न्तरा नाधुनान्यत्र चित्तं व्यापृणोति’ इति आशयमाविरकुर्वन् । तेने­य­म­प­रि­पूर्तिः न न्यूनतामावहतीति अस्माकं मतिः ।

एत­द्ग्र­न्थ­मु­द्र­ण­वि­षये विशेषतः दर्शितश्रद्धान् विहितसेवांश्च श्री एस्. वेङ्क­टे­श्व­रा­र्यान् (चीफ् कास्ट् अकौन्ट्स् आफीसर्, भारताधिशासनम्) तथा मुद्र­ण­सं­शो­ध­ना­दिषु बद्धादरान् पण्डि­त­रा­ज­श्री­रा­म­च­न्द्र­शा­स्त्रि­णश्च भगवानुमाजानिः श्रेयांसि वितीर्य परिपालयतु ।

ग्रन्थमिमं सम्यगधीत्य आत्म­त­त्त्व­म­धि­गत्य सर्वेऽपि लोकाः कृतकृत्या भूयासुः इत्याशास्महे ।

अभि­न­व­वि­द्या­तीर्थः
शृङ्ग­गि­रि­ज­ग­द्गुरु श्रीच­न्द्र­शे­ख­र­भा­रती-
महास्वामिनां करकमलसञ्जातः