विवेकचूडामणिः
श्रीमच्छङ्करभगवत्पादाचार्यैः प्रणीतः
शृङ्गगिरिजगद्गुरुश्रीश्रीचन्द्रशेखरभारतीमहास्वामिभिः अनुगृहीतया व्याख्यया सनाथः
१. गुरुनमस्कारः
॥ श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिचरणारविन्दाभ्यां नमः ॥
सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् ।
गोविन्दं परमानन्दं सद्गुरुं प्रणतोस्म्यहम् ॥१॥