विवेकचूडामणिः
श्रीमच्छङ्करभगवत्पादाचार्यैः प्रणीतः
शृङ्गगिरिजगद्गुरुश्रीश्रीचन्द्रशेखरभारतीमहास्वामिभिः अनुगृहीतया व्याख्यया सनाथः
प्रास्ताविकम् – १२. स्थूलशरीरम्
प्रास्ताविकम्
लोकानविद्यान्धतमसात् उद्धर्तुमेव कृतावतारो भगवान् वासुदेवः प्रपन्नायार्जुनाय ‘अध्यात्मविद्या विद्यानाम्’ इत्यध्यात्मविद्यामेव सकलविद्यावरिष्ठां प्रत्यपादयत् ।
सा चाध्यात्मविद्या वेदशिरोभिरूपनिषद्भिः प्रतिपत्तव्या । तत्र सन्दिहानानां पुरुषाणां सन्देहाः वैयासिकशारीरकमीमांसानिर्धारितन्यायैरेव परिहर्तव्याः । उपनिषदां सारसङ्ग्रहभूता भगवद्गीता । उपनिषदः ब्रह्मसूत्राणि भगवद्गीता इत्येतत्त्रयं भगवान् शङ्करः परमहंसपरिव्राजकरूपधृक् प्रसन्नगम्भीरैः पदनिगुम्भैः व्याख्याय औपनिषदमात्मतत्त्वं स्फुटं प्राचीकशत् । उपनिषदाद्यर्थपरिशीलनेन समेषामेव आत्मतत्त्वावगमनं दुश्शकमिति मन्वानः श्रीशङ्कराचार्यः सुलभावगाहान् बहून् विवेकचूडामण्यादीन् प्रबन्धान् प्राणैषीत् । विवेकचूडामणिनामायं प्रबन्धः तेषु चूडामणिरिव प्रकाशमानः सर्वत्र प्रचुरप्रचारः समुपलभ्यते । दुरूहमप्यात्मतत्त्वं करतलामलकवत् तत्र स्फुटीभवति । उपनिषद्भाष्यादिषु दुर्लभप्रवेशानामपि अत्र प्रवेशः सुलभः ।
एतादृशस्य ग्रन्थरत्नस्य यदि काचित् प्रामाणिकी व्याख्यापि स्यात् तर्हि हेम्नः परमामोद इति परिकलय्य अस्मदाचार्यपादाः स्फुटप्रतिपत्तये गभीरावगाहाय च व्याख्यां काञ्चन व्यरचयन् । व्याख्यायाः उत्तमत्वविषये नास्माभिः किञ्चिदपि वक्तव्यमस्ति ।
श्रीचन्द्रशेखरभारतीति प्रथितप्रातस्मरणीयनामधेयाः अस्मदाचार्यपादाः कृत-तपश्चर्याः सर्वतन्त्रस्वतन्त्राः शास्त्रोपदिष्टार्थानुष्ठाननिष्ठागरिष्ठाः अपरोक्षीकृतात्मतत्त्वाः जीवन्मुक्ता अभूवन्नित्येतदेव व्याख्यायाः उत्कर्षबोधनायालम् । व्याख्यायाः अपरिपूर्तिः किञ्चिदिव मनस्तोदमावहति । व्याख्यापूरणाय आचार्यपादान् कदाचिद्वयं प्रार्थयाम । ‘वक्तव्या अत्रैव सङ्गृहीताः निदिध्यासनमन्तरा नाधुनान्यत्र चित्तं व्यापृणोति’ इति आशयमाविरकुर्वन् । तेनेयमपरिपूर्तिः न न्यूनतामावहतीति अस्माकं मतिः ।
एतद्ग्रन्थमुद्रणविषये विशेषतः दर्शितश्रद्धान् विहितसेवांश्च श्री एस्. वेङ्कटेश्वरार्यान् (चीफ् कास्ट् अकौन्ट्स् आफीसर्, भारताधिशासनम्) तथा मुद्रणसंशोधनादिषु बद्धादरान् पण्डितराजश्रीरामचन्द्रशास्त्रिणश्च भगवानुमाजानिः श्रेयांसि वितीर्य परिपालयतु ।
ग्रन्थमिमं सम्यगधीत्य आत्मतत्त्वमधिगत्य सर्वेऽपि लोकाः कृतकृत्या भूयासुः इत्याशास्महे ।
अभिनवविद्यातीर्थः
शृङ्गगिरिजगद्गुरु श्रीचन्द्रशेखरभारती-
महास्वामिनां करकमलसञ्जातः
१. गुरुनमस्कारः
॥ श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिचरणारविन्दाभ्यां नमः ॥
सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् ।
गोविन्दं परमानन्दं सद्गुरुं प्रणतोस्म्यहम् ॥१॥
२. नरजन्मप्रशंसा
जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता
तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात् परम् ।
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः
मुक्तिर्नो शतकोटिजन्मसु कृतैः पुण्यैर्विना लभ्यते ॥२॥
संसारसागरनिमग्नजनोद्दिधीर्षुः
योऽवातरच्छिवनृसिंहगुरुच्छलेन ।
जाड्यान्धकारहरणं करुणासमुद्रं
तं दक्षिणास्यमनिशं हृदि भावयामि ॥
ज्ञानस्वरूपे वाग्देवि भगवत्पादपूजिते ।
चूडामणिं विवेकादिं व्याकुरुष्व मुखान्मम ॥
प्रसन्नानां गभीराणां वचसां देशिकेशितुः ।
भावस्त्वत्कृपया चित्ते भासतां मम शारदे ॥
रत्नगर्भ-गणेशान विघ्नध्वान्त-विभाकर ।
निर्विघ्नं पूरयस्वेमां व्याख्यां कारुण्य-शेवधे ॥
चन्द्रमौलीश्वर विभो ब्रह्मविद्यासमाश्रित ।
स्वानुभूतिं प्रयच्छाशु चिन्मुद्राविलसत्कर ॥
भगवद्गीतासु –
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ (२.११)
इति श्लोकवद्विवेकचूडामणिप्रकरणप्रतिपाद्यकृत्स्नार्थसङ्ग्राहकोऽयं श्लोकः जन्तूनामित्यादिः ॥ आस्तिकस्यैव शास्त्रेऽधिकारात् प्रथमं नरजन्मप्राशस्त्यकथनमुखेन शरीरव्यतिरिक्तात्मास्तित्वं तावद् ध्वनयति – जन्तूनां नरजन्म दुर्लभमिति ।
उक्तं च शारीरकभाष्ये – ‘शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते’(१.१) इति ।
जन्तूनां जननशीलानां प्राणिनां नरजन्म मानुष्यकं दुर्लभमिति । तत्र एकेनैव बहुषु जन्मसु प्राप्तव्येषु किल नरजन्म दुर्लभमिति वक्तुं शक्यं, शरीरसम्बन्धस्यैव जन्मशब्दार्थत्वात् । यदा चैकस्य अनेकशरीरयोगः तदा शरीरव्यतिरिक्तत्वमात्मनः सूचितमेव । प्रसिद्धं खल्वनेकैः कुसुमैः युज्यमानं सूत्रं तेभ्योऽतिरिच्यत इति, अनेकानि वासांसि क्रमेण युगपद्वा परिदधच्छरीरं तेभ्यो भिद्यत इति च । तथा च सुखहेतुशरीरप्राप्तये दुःखहेतुशरीरनिवृत्तये च पुण्ये प्रवृत्तिः पापान्निवृत्तिश्च युज्यत इति विधिनिषेधात्मककर्मशास्त्रे आस्तिकस्यैवाधिकारः । एवं ज्ञानेन सकलकर्मनिर्हरणार्थं मोक्षशास्त्रेऽपि ।
यदि शरीरमेवात्मा स्यात् तस्य प्रत्यक्षसिद्धत्वात् , ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’(बृ.उ. २.४.५) इत्यादिदर्शनसाधनविधानं कथमुपपद्येत ।
शुभैराप्नोति देवत्वं निषिद्धैर्नारकीं तनुम् ।
उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः ॥ (नै.सि. १.४१)
इति चैकस्यैव शुभाशुभमिश्रकर्मभिः विजातीयशरीरलाभं दर्शयति । कथमन्यथा लोकप्रसिद्धं सुखदुःखादिवैचित्र्यमुपपद्यते । यदि कर्मनिरपेक्षः ईश्वर एव कांश्चित् प्राणिनः सुखिनः कांश्चिदन्यादृशांश्च सृजेत् , वैषम्यनैर्घृण्ये भजेत । तथाचेश्वरत्वं हीयेत ।
तदुक्तं – ‘वैषम्यनैर्घृण्ये न सापेक्षत्वात्’(ब्र.सू. २.१.३४) तथाहि दर्शयति, ‘न कर्माविभागादिति चेन्नानादित्वात्’, ‘उपपद्यते चाप्युपलभ्यते च ।’(ब्र.सू. २.१.३५,३६) इति सूत्रैः ईश्वरस्य कर्मसापेक्षत्वं संसारस्यानादित्वं च । धर्मभूतः संसार एव अनादिश्चेत् तदाश्रयस्य संसारिणोऽनादित्वं कैमुतिकन्यायसिद्धम् । तत्सिद्धमात्मनः शरीरव्यतिरिक्तत्वं, शरीरातिरिक्तात्मास्तित्ववाद्येवास्तिक इति । शास्त्रव्यवहारनिदानमास्तिक्यमिति जन्तूनां नरजन्म दुर्लभम् इत्यनेन सूचितम् ।
ततः पुंस्त्वं, स्त्रिया वेदेऽधिकाराभावात् उपनिषदेकसमधिगम्य आत्मा नैव ज्ञातुं शक्यत इत्यभिप्रायः । तत्रापि त्रैवर्णिकानां वेदाधिकारसत्त्वेऽपि क्षत्रियवैश्ययोः राज्यपरिपालनकृष्यादिरूपाणां चित्तविक्षेपहेतुभूतानां बाह्यव्यापाराणां सत्त्वादैदम्पर्येण आत्मविचारः दुर्घट इति –
मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम् ।
बाहुजातोरुजातानां नायं धर्मो विधीयते ॥
इति स्मृत्यनुसारेणैदम्पर्येण ब्रह्मविचारसाधनसंन्यासस्यानवकाशाद् एकस्मिन्नेव जन्मनि ब्रह्माधिगमः तयोर्दुर्लभ इति द्योतनार्थं द्विजत्वं ततः इत्यनुक्त्वा ततो विप्रतेत्युक्तम् ।
ब्राह्मणस्य तु देहोऽयं नोपभोगाय कल्पते ।
इह क्लेशाय महते प्रेत्यानन्तसुखाय च ॥ (व.स्मृ. ६.३)
इति वसिष्ठस्मृत्या वेदविहितप्रवृत्तिनिवृत्तिधर्मानुष्ठानेन एकस्मिन्नेव जन्मनि ब्रह्माधिगन्तुं शक्यं ब्राह्मणेनेति भावः । अत एव तस्माद् वैदिकधर्ममार्गपरतेत्युक्तम् । न केवलं विप्रतया लब्धव्यं लभ्यते, अपि तु तां लब्ध्वा तदुचितधर्मानुष्ठानेनेति भावः । ‘धर्मो विश्वस्य जगतः प्रतिष्ठा ... धर्मेण पापमपनुदति’(म.ना.उ. १७.६) इति श्रुत्या धर्मस्यैव सुखसाधनत्वं दुःखहेतुपापनिवर्तकत्वं, तन्निवृत्त्या दुःखाभावहेतुत्वञ्चेति, ‘सुखं मे भूयात् , दुःखं मे माभूदि’ति सकलजनकामनाविषयसुखदुःखाभावरूपपुरुषार्थसाधनत्वं तस्यैवेति द्योतयितुं ‘धरतीति धर्मः’ ‘ध्रियतेऽनेनेति वा धर्मः’ इति व्युत्पत्त्या जगत्प्रतिष्ठाहेतुत्वं तस्य श्रुतिबोधितं सूचयितुं वैदिककर्ममार्गपरतेत्यनुक्त्वा धर्ममार्गेत्युक्तं वैदिककर्मणः धर्मत्वेऽपि कर्मशब्देन विवक्षितार्थालाभात् । यदि धर्मव्यतिरिक्तं किञ्चित्सुखसाधनं दुःखनिवृत्तिसाधनं च स्यात् तत्साधनसम्पादनेन सर्वो लोकः सर्वदाऽपि सुखी, निवृत्तदुःखश्च स्यादेव । धर्मस्य तु अतीन्द्रियत्वेन शास्त्रैकसमधिगम्यत्वात् जनानां तज्ज्ञानस्य शास्त्रमन्तराऽसम्भवात्साधनालाभात् फलालाभ इति प्रतिपादयितुं शक्यते । तदुक्तं वैदिकेति ।
धर्मस्य लक्षणं, ‘चोदनालक्षणोऽर्थो धर्मः’(पू.मी. १.१.२) इति जैमिनिमहर्षिभिः सूत्रितं यत् वेदप्रमाणकत्वं तद्वैदिकेति विशेषणेन अवगमितम् । न हि वेदं विना प्रमाणान्तरं धर्मविषये पदमाधातुम् ईष्टे, तस्यातीन्द्रियत्वेन प्रत्यक्षस्य तत्राप्रसरात् । अत एव नानुमानं तत्र प्रसरति, प्रत्यक्षमूलकत्वादनुमानप्रवृत्तेः । अत एव वेदव्यतिरिक्तशब्दोऽपि न तं बोधयितुं पारयति प्रत्यक्षादिनाऽवधारितस्यैवार्थस्य लौकिकशब्देन बोधयितुं शक्यत्वात् । स्मृतीनामपि पौरुषेयत्वेन पुरुषाणां भ्रमप्रमादादिसम्भवेन कर्तृदोषनिबन्धनाप्रामाण्यशङ्कायामपौरुषेयतया दोषगन्धानागन्धितश्रुतिमूलकतयैव प्रामाण्यस्य वक्तव्यतया वेदव्यतिरिक्तस्य शब्दस्य धर्मे स्वतोऽप्रमाणत्वात् ।
किञ्च स्मृतिकर्तारो वा अतीन्द्रियं धर्मं कथं व्यजानन् ? योगजसामर्थ्येनेति चेत् , तत्सामर्थ्यं कथं तैः सम्पादितम् ? धर्मानुष्ठानेनेति चेत् , स धर्मः कथं ज्ञातः ? अत एव –
यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै । (श्वे.उ. ६.१८)
इति प्रथमं सृज्यमानस्य हिरण्यगर्भस्यापि ईश्वरानुगृहीतवेदमूलकमेव धर्मज्ञानमिति बोधयति श्रुतिः । किं वक्तव्यमितरेषाम् ! अतः सुष्ठूक्तं वैदिकेति ।
अब्भक्षा वायुभक्षा इतिवद्वेदैकमेयत्वं धर्मस्य बोधयति । अत्र धर्मशब्देन प्रवृत्तिधर्मः निवृत्तिधर्मश्च कथ्येते । उक्तं हि गीताभाष्ये (पीठिकायाम्) – ‘द्विविधो हि वेदोक्तो धर्मः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च’ इति ।
धर्म एव परमं साधनं नित्यसुखावाप्तौ नान्यदपेक्ष्यमस्तीति कर्ममीमांसकाः । तान्कटाक्षयति मार्गेति । तेन परमपुरुषार्थसाधनीभूतब्रह्मसाक्षात्कारसाधनवेदान्तविचारहेतुत्वेन संन्यासरूपनिवृत्तिधर्मस्य तत्साधनवैराग्यहेतुभूतचित्तशुद्धिहेतुत्वेन निष्कामकर्मानुष्ठानरूपप्रवृत्तिधर्मस्य च अपेक्षितत्वं, न तु साक्षान्निरतिशयसुखसाधनत्वं तदुभयस्येति सूचितम् । तदुक्तं भगवता बादरायणेन –
द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः ।
प्रवृत्तिलक्षणो धर्मः निवृत्तिश्च प्रकीर्तितः ॥ इति । (म.भा.शा.प. २४७.६)
तथा च ब्राह्मणेन उपनयनानन्तरम् –
वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां
तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् ।
पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयताम्
आत्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥
सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयताम् ।
शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् ॥
इति सोपानपञ्चकोपदिष्टरीत्या ईश्वरार्पणबुद्ध्या कर्म कुर्वाणेन चित्तं शोधयित्वा विषयेभ्यो विरज्य कर्मभ्यस्समुपरमितव्यमित्येतद्बोधितम् । तदुक्तं मोक्षधर्मेषु –
नैतादृशं ब्राह्मणस्यास्ति वित्तं
यथैकता समता सत्यता च ।
शीलं स्थितिर्दण्डनिधानमार्जवं
ततस्ततश्चोपरतिः क्रियाभ्यः ॥ (म.भा.शा.प. २८३.३८) इति
विद्वत्त्वमस्मात्परम् ।
तत्र प्रवृत्तिधर्मविषये एवं योजना । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा.उ. १.१.१०) इति च्छान्दोग्यश्रुत्या क्रियमाणं कर्म तदङ्गभूतमन्त्रार्थज्ञानपुरस्सरं क्रियते चेत् भूयसे फलायेति बोधितं भवति । तदुक्तं तत्रैव भाष्ये ‘दृष्टं हि लोके वणिक्छबरयोः पद्मरागमणिविक्रये वणिजो विज्ञानाधिक्यात्फलाधिक्यम् इति’(छा.उ. १.१.१०) । निवृत्तिधर्मविषये ‘संन्यस्य श्रवणं कुर्यात्’ इति विधानात् संन्यासोत्तरकालिकवेदान्तवाक्यश्रवणजन्यपरोक्षज्ञानवत्त्वं विद्वत्त्वम् । अस्मात्परमात्मानात्मविवेचनम् । इदं ग्रन्थ एव उत्तरत्र स्पष्टयिष्यते । तेन मननं युक्तिभिः श्रुतार्थदृढीकरणार्थमनुचिन्तनरूपं संशयभावनानिरासकमुक्तं भवति ।
ततः स्वनुभवः, निदिध्यासनपूर्वकब्रह्मसाक्षात्कारः कथितो भवति । अत एव स्वनुभव इत्युक्तम् , विपरीतभावनानिवर्तकनिदिध्यासनाभावे श्रवणमननाभ्यां जायमानानुभवः सौष्ठवं नाश्नुत इति । एतेन शुभेच्छा विचारणा तनुमानसा सत्त्वापत्तिश्चेति ज्ञानभूमिकाचतुष्टयं कथितमासीत् ।
असंसक्तिः पदार्थाभावना तुर्यगा च, ‘ब्रह्मात्मना संस्थितिः मुक्तिः’ इत्यत्र संस्थितिशब्देन वासनाक्षय-मनोनाश-सहकृतस्वनुभवबोधकेन व्यञ्जिताः । तेन सालोक्य-सामीप्य-सारूप्य-सायुज्यानां मुख्यमुक्तित्वाभावश्च सूचितो भवति । सगुणविषयकतया तेषां चतुर्णामपि मिथ्यात्वात् , परिच्छेदत्रयशून्यत्वरूपब्रह्मत्वस्य सगुणेऽसम्भवात् । ब्रह्मात्मना संस्थितिः कल्पितसकलविधोपाधिसम्बन्धविधुरनित्यशुद्धबुद्धमुक्तप्रत्यगभिन्नपरिपूर्णस्वरूपेणावस्थानं कैवल्यमेव मुक्तिः, शतकोटिजन्मसु कृतैः पुण्यैर्विना नो लभ्यते इत्यन्वयः ॥२॥
दुर्लभं त्रयमेवैतद् दैवानुग्रहहेतुकम् ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥३॥
लब्ध्वा कथञ्चित् नरजन्म दुर्लभं
तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् ।
यस्स्वात्ममुक्त्यै न यतेत मूढधीः
स आत्महा स्वं विनिहन्त्यसद्ग्रहात् ॥४॥
इतः कोन्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।
दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥५॥
३. आत्मबोध एव मुक्तिहेतुः
पठन्तु शास्त्राणि यजन्तु देवान्
कुर्वन्तु कर्माणि भजन्तु देवताः ।
आत्मैक्यबोधेन विना विमुक्तिः
न सिद्ध्यति ब्रह्मशतान्तरेऽपि ॥६॥
अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः ।
ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥७॥
यतो बहुजन्मार्जितसुकृतविशेषप्राप्यं मानुषपौरुषादिकम् , यतश्च स्वार्थेऽप्रमत्तेन पुरुषेण भवितव्यम् , यतश्चात्यन्तिकदुःखनिवृत्तिनिरतिशयसुखरूपमोक्षः आत्मैक्यबोधेन विना कर्मकाण्डाध्ययनतदनुष्ठानादिरूपकर्मकलापेन साक्षान्नाविर्भवति, यतश्च श्रुतिरेव साक्षादिममर्थं, ‘अमृतत्वस्य नाशास्ति वित्तेन’(बृ.उ. २.४.२) इति वित्तसाध्यकर्मणः साक्षान्मोक्षोपयोगित्वं प्रत्यक्षेप्सीत् , अतः विमुक्त्यै प्रयतेत विद्वानिति –
४. मुक्त्यर्थो यत्नविशेषः
अतो विमुक्त्यै प्रयतेत विद्वान्
संन्यस्तबाह्यार्थसुखस्पृहः सन् ।
सन्तं महान्तं समुपेत्य देशिकं
तेनोपदिष्टार्थसमाहितात्मा ॥८॥
विद्वानिति नित्यानित्यविवेकी कथितः ।
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ (भ.गी. ५.२२)
इति गीतासु बुधशब्देनार्थस्यास्य सूचितत्वात् । वैषयिकसुखस्य अनित्यत्वं द्योतयति बाह्यार्थेति । अर्थानां बाह्यत्वेन आगन्तुकतया सार्वदिकत्वाभावात् तत्प्रयोज्यसुखाविर्भावस्यापि तादृशत्वमिति । अतो विवेकिना पुरुषधौरेयेण तत्र स्पृहा त्यक्तव्येति प्रयत्नप्रकारं प्रथममाह संन्यस्तबाह्यार्थसुखस्पृहः सन्निति ।
बाह्याश्च ते अर्थाश्च बाह्यार्थाः, तैः सुखं बाह्यार्थसुखम् , तस्मिन् स्पृहा बाह्यार्थसुखस्पृहा संन्यस्ता येन इति ऐहिकामुष्मिकफलभोगविरागः कथितः । तेन श्रुतिस्मृत्युक्तकर्मणां निष्कामानुष्ठानेन नितान्तनिर्मलीकृतस्वान्तत्वमुक्तप्रायम् । अविवेकिनः विषयलम्पटस्य अस्तित्वमपि दुर्लभमिति सूचयति – सन्निति । ‘आचार्यवान्पुरुषो वेद’(छा.उ. ६.१४.२) ‘आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत्’(छा.उ. ४.९.३) इति श्रुतेः अतीन्द्रियस्य आत्मैक्यस्य गुरुं विनाऽधिगन्तुमशक्यत्वात् पूर्वोक्तरीत्या महापुरुषसंश्रयः कर्तव्य इत्याह – सन्तम् इत्यादिना । अस्तीति सन् , तमित्यर्थः। ‘अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुः’(तै.उ. २.६) ‘सदेव सौम्येदमग्र आसीत्’(छा.उ. ६.२.१) ‘यो वै भूमा तदमृतम्’(छा.उ. ७.२४.१) ‘अतोऽन्यदार्तम्’(बृ.उ. ३.४.२) ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ. २.१) ,
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ (भ.गी. २.१६) −
इत्यादिश्रुतिस्मृतिभ्यः कालत्रयाबाध्यत्वरूपास्तित्वस्य ब्रह्मण्येव सत्त्वात् । देशिकस्य तथात्वं, ‘ब्रह्मविद्ब्रह्मैव भवति’(मु.उ. ३.२.९) इति श्रुत्या तदभिन्नत्वात् । तेन असद्भ्योऽनात्मभ्यः सुतरां निवृत्ताभिमानत्वरूपा ब्रह्मनिष्ठा सूचिता भवति । ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’(मु.उ. १.२.१२) , ‘अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान्ह्यतर्क्यमणुप्रमाणात्’(क.उ. २.८) इत्यादिश्रुतिभ्यः तादृशादेव गुरोः संशयभावनादिविरहितशुद्धात्मबोधस्य सम्भवात् ।
युक्तं ह्येतत् – लोकेऽप्यस्माभिरदृष्टो मार्गः दृष्टतन्मार्गैः किल बोधनीयः, स्वयमेव कथञ्चिल्लब्धोऽपि, संशयः दृष्टतत्त्वैः किल निरसनीयो भवति । तत्र शुकजनकसंवादः प्रमाणम् । जन्मान्तरकृतसुकृतपरिपाकवशात् स्वयं ज्ञातज्ञेयोऽपि पित्रानुशिष्टोऽपि महानुभविनो जनकस्य वैदेहस्य वचनात्किल ब्रह्मणि विश्रान्तमानसोऽभूच्छुक इति हि वासिष्ठादौ स्मर्यते । तथा च सद्रूपब्रह्माभिन्नत्वात् सद्रूपत्वं देशिकस्य । अत एव महत्त्वम् । विवेचितकोशपञ्चकत्वात् अपरिच्छिन्नत्वम् । यद्वा – शास्त्रोक्तसमस्तसद्गुणमण्डितत्वम् । वक्ष्यते हि –
श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः ।
ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः ।
अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् ॥ (श्लो. ३४-३५)
इत्यादिगुणजातम् ।
शिष्येभ्यो ज्ञानं दिशतीति देशिकः, तं समुपेत्य यथाविधि उपसद्य तेन गुरुणा उपदिष्टो योऽर्थः ब्रह्मरूपः तत्प्राप्तिप्रकाररूपश्च, तत्रैव सम्यगाहितः आत्मा अन्तःकरणं येन तादृशः सन् विमुक्त्यै प्रयतेत इत्यनेन मुक्तीच्छां विना तत्र प्रयत्नासम्भवात् मुमुक्षुत्वं ध्वनितम् । उपदिष्टार्थसमाहितात्मेत्यनेन सततं ब्रह्मसमाहितमानसत्वस्य सर्वकर्मसंन्यासं विनाऽसम्भवाद्विवेकिना विरक्तेन स्वरूपतः सकलकर्मसंन्यासपुरस्सरं ब्रह्मनिष्ठं गुरुमुपसद्य सर्वदा ब्रह्मविचारः कर्तव्य इत्युक्तं भवति ॥८॥
सङ्ग्रहेणोक्तमर्थं सप्तभिः श्लोकैः विवृणोति । तत्र मुक्त्यर्थं क्रियमाणप्रयत्नस्य सम्यग्दर्शननिष्ठान्तत्वात् , मोक्षसाक्षात्साधनं सम्यग्दर्शननिष्ठां तत्र मुख्यहेतुं परवैराग्यापरपर्यायं योगारूढत्वं चाह अनेन श्लोकेन –
उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ ।
योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥९॥
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ (भ.गी. ६.४)
इति भगवद्वचनात् । परवैराग्यपुरस्सरसम्यग्दर्शननिष्ठैव संसाराब्धिपतितात्मोद्धरणे हेतुरिति भावः ।
क्लेशादिपञ्चकतरङ्गयुतं भ्रमाढ्यं
दारात्मजाप्तधनबन्धुझषाभियुक्तम् ।
और्वानलाभनिजरोषमनङ्गजालं
संसारसागरमतीत्य हरिं व्रजामि ॥ (अ.रा.यु. १०.६१)
संसारसागरविशालकरालकालनक्रग्रहग्रसितनिग्रहविग्रहस्य । व्यग्रस्य रागनिचयोर्मिनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ (नृ.क.स्तो. ९)
इत्यादिरीत्या अविद्यातद्विलासरूपस्य संसारस्य सम्यग्ज्ञानं विना दुस्तरत्वाद् वारिधित्वेन रूपणम् । न ह्यनात्मानं देहमात्मत्वेन मन्वानस्य तस्मिन् जायमाने म्रियमाणे वा तद्गतधर्मः स्वस्मिन्नास्तीति विज्ञातुं शक्यं, क्षुत्पिपासायुते वा प्राणे, सुखिनि दुःखिनि वाऽन्तःकरणे । एवमविद्यास्मितारागद्वेषाभिनिवेशानां सन्ततत्वात् क्लेशादिपञ्चकस्य तरङ्गतया रूपणम् , भ्रम एव भ्रमः अतस्मिंस्तद्बुद्धिरेव आवर्तः इत्यादि स्पष्टम् । अनाद्यविद्यावशात् ‘अज्ञः कर्ता मनुष्योऽहम्’ इत्यादिरीत्या स्थूलसूक्ष्मकारणशरीरेषु अनात्मसु अहमिति स्वरूपाप्राप्त्या स्थितिरेव संसारवारिधिमग्नत्वमसङ्गसच्चिदानन्दरूपस्यात्मनः । तत्रापि सुषुप्तौ संसाराननुभवात् अविवेकिमनोरूपोपाधिमूलकत्वमेव वक्तव्यं संसारस्य । श्रूयते हि –
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ इति । (ब्र.बिं. २)
अतः विवेचनशून्यस्य मनसः शरीरादिसंसक्तत्वम् आत्मनः संसारवारिधिमग्नत्वम् ।
अतः श्रवणमननादिशास्त्रीयसंस्कारसंस्कृतं मनो यदा भवति तदा भ्रमशून्यम् आत्मयाथात्म्यज्ञानावाप्त्या भवतीति, अविवेकिमनः शास्त्रजन्यविवेकवता मनसा उद्धरेत् अनात्मभ्योऽपनयेत् । तथा च तस्मिन् पराङ्मुखत्वस्वाभाव्यात् बाह्येषु शरीरादिषु सक्ते वस्तुतोऽसङ्गस्यापि लोहितस्फटिकवत् संसक्तस्येव भासमानस्य आत्मनः उपाधेरनात्मसम्बन्धाभावे प्रत्यङ्मुखतयाऽऽत्ममात्रसंस्थत्वे च आत्मा उद्धृत इव भवतीति भावः । संसारवारिधौ मग्नमात्मानं योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया आत्मना उद्धरेदित्यन्वयः ॥ ९॥
योगारूढत्वं विशदयन्नेव श्रवणमनननिदिध्यासनानि संन्यासोत्तरकालिकानि सम्यग्दर्शननिष्ठावाप्तिसाधनानि तावदाह संन्यस्येत्यादिना –
संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये ।
यत्यतां पण्डितैर्धीरैः आत्माभ्यास उपस्थितैः ॥ १०॥
सर्वकर्माणि संन्यस्य कर्मकाण्डोक्तानि स्वरूपतोऽपि परित्यज्य भवबन्धविमुक्तये सांसारिकबन्धनिवृत्तिहेतुभूतसम्यग्दर्शननिष्ठायै, पण्डितैः आत्मविषयकपरोक्षज्ञानवद्भिः, धीरैः वशीकृतबुद्धिभिः –
पराञ्चि खानि व्यतृणत् स्वयम्भूः
तस्मात् पराङ् पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षत्
आवृत्तचक्षुरमृतत्वमिच्छन् ॥ (क.उ. ४.१)
इति श्रुतेः । धियं रातीति धीरः, प्रधानभूतां कार्यकरणसङ्घातमध्ये बुद्धिं वशयतीत्युक्ते इतरेन्द्रियजयः अर्थसिद्धः । एतेन शान्त्याद्युपेतत्वं सूचितं भवति । अत एव आत्माभ्यासे –
तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।
एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥ (पं.द. ७.१०६)
इत्यभियुक्तोक्तिरीत्या अनन्यव्यापारतया श्रुतार्थमननतत्कथनपरस्परप्रबोधनरूपज्ञानकाण्डोक्तव्यापारेषूपस्थितैर्वर्तमानैः, विजातीयप्रत्ययातिरस्कृतसजातीयप्रत्ययप्रवाहरूपनिदिध्यासनानुष्ठानेन यत्यतामित्यन्वयः । एतादृशस्य पुंसः सर्वसङ्कल्पसंन्यासेन परवैराग्यापरपर्यायं योगारूढत्वं सिद्धमेव मन्तव्यम् ॥१०॥
ननु ‘यावज्जीवमग्निहोत्रं जुहुयात्’(पू.मी. ६.२.७) ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’(आप.श्रौ. ३.१४.११) ‘अहरहस्सन्ध्यामुपासीत’(श.ब्रा.) , ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’(ई.उ. २) इत्यादिश्रुतिभिः यावज्जीवं कर्मणः कर्तव्यत्वेन चोदितत्वात् सर्वकर्मसंन्यासे श्रुत्युल्लङ्घनं प्रसज्येतेति चेत् , तासां श्रुतीनाम् अशुद्धचित्तविषयत्वात् । अत एव, ‘एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नरे’(ई.उ. २) इतीशावास्यमन्त्रेण नरे नरमात्राभिमानिनि त्वयि इतः कर्मकरणात् अन्यथा अन्यो मार्गः कर्मलेपाभावप्रयोजकः नास्तीत्युक्तम् ।
‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ... संन्यासयोगाद्यतयःशुद्धसत्वाः’(म.ना.उ. १०.५) ॥
प्लवा ह्येते अदृढा यज्ञरूपा
अष्टादशोक्तमवरं येषु कर्म ।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा
जरामृत्युं ते पुनरेवापि यन्ति ॥ (मु.उ १.२.७)
‘किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे’(ऐ.उ. २.३.६) इत्यादिना कर्मसंन्यासस्यापि विहितत्वान्निन्दितत्वाच्च कर्मणः ॥ ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’(बृ.उ. ४.४.२२) , ‘योगिनः कर्म कुर्वन्ति संङ्गं त्यक्त्वाऽऽत्मशुद्धये’(भ.गी. ५.११) इत्यादिश्रुतिस्मृत्यर्थपर्यालोचनया विविदिषासाधनत्वं चित्तशुद्धिद्वारा तेषामवसीयते, न तु सार्वदिकत्वम् । तथा सति, ‘यदहरेव विरजेत् तदहरेव प्रव्रजेत्’(जा.उ. ४.४) इत्यादिसंन्यासविधायकवाक्यव्याकोपापत्तेः, कर्मनिन्दानुपपत्तेश्च । ‘अत एव चाग्नीन्धनाद्यनपेक्षा’, ‘सर्वापेक्षा च यज्ञादि श्रुतेरश्ववत्’(ब्र.सू. ३.४.२५, २६) इति च सूत्राभ्यामयमेवार्थो भण्यते । परमपुरुषार्थभूतमोक्षार्थत्वं नास्ति कर्मणां, चित्तशुद्धिद्वारा ज्ञानबहिरङ्गत्वम् इति तदिदमाह चित्तस्येति –
५. वस्तुविचारः कर्तव्यः
चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये ।
वस्तुसिद्धिर्विचारेण न किञ्चित्कर्मकोटिभिः ॥११॥
स्पष्टोऽर्थः ।
विचारस्य वस्तूपलब्धिहेतुत्वं दृष्टान्तेन विशदयति सम्यगिति –
सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा ।
भ्रान्त्योदितमहासर्पभवदुःखविनाशिनी ॥१२॥
मन्दान्धकारे पतितां रज्जुं सर्पं मन्वानः पुरुषः बिभ्यत् दीपानयनेन सम्यग्विचार्य वस्तुतत्त्वं बुद्ध्वा भयकम्पादिदुःखं जहातीति प्रसिद्धम् । तत्र रज्ज्वां भ्रान्त्या उदितः यो महासर्पः, तद्भवं तत्प्रत्ययजन्यं यद्दुःखं, तद्विनाशिनी सम्यग्विचारजन्या रज्जुतत्त्वावधृतिः । तद्वत् भ्रान्त्या जातं यद्भवदुःखं जन्ममरणप्रयोज्यदुःखं, तद्विनाशिनी सम्यग्विचारप्रयोज्या तत्त्वावधारणा आत्मयाथात्म्यावधृतिः ब्रह्मसाक्षात्कारः इति सर्वांशे प्रकृतोपयोग्ययं दृष्टान्तः ॥१२॥
आप्तोक्त्यनुसारेण क्रियमाणविचारस्यैव अर्थनिश्चयहेतुत्वम् नान्यस्य कर्मण इत्याह अर्थस्येति −
अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः ।
न स्नानेन न दानेन प्राणायामशतेन वा ॥१३॥
अज्ञानदोषवशात् स्वयं भ्रान्तस्य पुरुषस्य आप्तोक्तिरूपावलम्बनाभावे भयकम्पाद्यनर्थमनुभवतः स्वतो विचारे प्रवृत्तेः दुर्लभत्वात् विचारे हितोक्तिर्हेतूकृता । हितत्वं च यथार्थवक्तृत्वम् । यदि भ्रान्तः पुरुषः हितोक्त्यनुसारेण विचारमविधाय स्नानं वा दानं वा प्राणायामशतं वा कर्म कुर्यात् भ्रमनिवर्तकापरोक्षप्रमाया अभावे, अनर्थप्रयोजकभ्रमानिवृत्तेः कथं निवृत्तानर्थो भवेदिति भावः । विचारश्च अर्थयाथात्म्यनिश्चयानुकूलो मानसो व्यापारः । तथा च हितोक्तिसहकृतविचारस्यैव अर्थप्रमाहेतुत्वं भ्रमस्थले प्रत्यक्षसिद्धम् । तथा सति प्रकृतेऽपि श्रुत्याचार्योपदेशानुसारेण आत्मविचारं कृत्वा तद्याथात्म्यमपरोक्षीकृत्य अनात्माध्यासरूपसंसारादात्मानं मोचयेदित्युपदेशः ॥१३॥
तत्तत्कर्मणि समर्थस्यैव तत्तत्कर्मफलभोक्तृत्वसम्भवात् असर्मथस्य तदयोगात् बाह्यदेशकालादेः सहकारित्वमात्रम् , आन्तरसामर्थ्यस्यैव फलदायकत्वमित्याह – अधिकारिणमिति −
अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः ।
उपाया देशकालाद्याः सन्त्यस्यां सहकारिणः ॥१४॥
कर्मणां तावद्दृष्टार्थत्वात् , ‘यदाहवनीये जुहोति’(तै.ब्रा. १.१.१०) , ‘अश्वस्य पदे जुहोति’(तै.ब्रा. ३.८.९) , ‘प्राचीनप्रवणे वैश्वदेवेन यजेत’(मै.सं. १.१०.७) वैश्वदेवेन यजेत’ , ‘सायं जुहोति’(मै.सं. १.८.७) , ‘प्रातर्जुहोति’(तै.ब्रा. २.१.३) , ‘वसन्ते वसन्ते ज्योतिषा यजेत’(आप.श्रौ.सू. १०.२.५) , ‘वसन्ते ब्राह्मणोऽग्नीनादधीत’(तै.सं. २.२.३.२) इत्यादि शास्त्रानुसारेण देशकालयोरपि असाधारणकारणत्वम् अङ्गीकर्तव्यम् ।
यद्यपि ज्ञानस्यापि,
यथाऽदर्शे तथाऽत्मनि यथा स्वप्ने तथा पितृलोके ।
यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥
(क.उ. ६.५)
इह चेदवेदीदथ सत्यमस्ति
न चेदिहावेदीन्महती विनष्टिः । (के.उ. २.५)
इत्यादि श्रुत्यनुसारेण मनुष्यलोकब्रह्मलोकयोरेव ज्ञानभूमित्वं प्रतीयते, एवं
ऋणत्रयमपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ (म.स्मृ. ६.३५)
‘ब्रह्मचर्यं समाप्य गृही भवेत् , गृहाद्वनी भूत्वा प्रव्रजेत्’(जा.उ. ४) इत्यादि प्रमाणानुसारेण ब्रह्मज्ञानान्तरङ्गभूतसंन्यासस्यापि कालो विधीयत इव प्रतिभाति । अथापि अशुद्धचित्तो राक्षसराजो विरोचनः ब्रह्मलोकं गतोऽपि परमगुरुणा परमेष्ठिना उपदिष्टोऽपि नैवाग्रहीदात्मानम् ।
संसारमेव निस्सारं दृष्ट्वा सारदिदृक्षया ।
प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः ॥ (ना.प.उ. ३.१५) इति ।
‘यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्’(जा.उ. ४.४) इत्यादिप्रमाणैः वक्ष्यमाणवैराग्यादिसाधनचतुष्टयसम्पन्नस्य देशकालौ न विवक्षितौ इत्यभिप्रायेण तयोस्सहकारित्वमुक्तम् ॥ अत एव, ‘विद्वान् संन्यस्तबाह्यार्थसुखस्पृहस्सन्’(श्लो. ८) इति विवेकवैराग्ये ब्रह्मात्मनाऽवस्थानलक्षणमोक्षसाक्षाद्धेतुभूतसम्यग्दर्शननिष्ठार्थं मोक्षसाधनोपदेशकगुरूपसदनपुरस्सरतदुपदिष्टार्थमनस्समाधाने हेतूकृते । एतादृशमनस्समाधानस्य शमदमोपरतितितिक्षाश्रद्धानामभावे असम्भवात् मुक्तीच्छाभावे तदर्थं प्रयत्नासम्भवाच्च, ‘अतो विमुक्त्यै’(श्लो. ८) इत्याद्यः लोके विवेकवैराग्यशमादिषट्कमुमुक्षुत्वानां जिज्ञासा साधारणहेतूनां सूचनं कृतमेव । तथा च ‘तरति शोकमात्मवित्’(छा.उ. ७.१.३) , ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’(मु.उ १.२.१२) इत्यादिश्रुत्यनुसारेण शोकशब्दितबन्धनाशकं सम्यग्ज्ञानं सद्गुरूपदिष्टार्थविचारमन्तरा न केनापि साधनान्तरेणेति । श्लोके अस्यामित्यस्य सिद्धावित्यर्थः ॥१४॥
अतो विचारः कर्तव्यः जिज्ञासोरात्मवस्तुनः ।
समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ॥१५॥
अतः सर्वानर्थनिवर्तकनिर्णयहेतुत्वात् जिज्ञासोः आत्मानं सम्यग्ज्ञातुमिच्छोः पुरुषस्य आत्मवस्तुनः विचारः कर्तव्यः । तत्र इतिकर्तव्यतामाह – दयासिन्धुं स्वयं कृतार्थत्वेन स्वस्य प्रयोजनाभावः सिद्ध एव, इतरेऽपि मा दुःखमनुभूवन्निति करुणायाः समुद्रम् , आधारमित्यर्थः, जलराशिरिव जलानाम् । गुरुम् –
गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः ।
अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते ॥ (गु.गी. १.३४)
इति गुरुगीतोक्तरीत्या स्वोपदेशेन अज्ञानाख्यहार्दान्धकारहारकम् इत्यर्थः । यथान्धकारः प्रपञ्चमावृत्य तज्ज्ञानप्रतिबन्धको भवति एवमज्ञानमात्मानमावृत्य तत्स्पष्टभानप्रतिबन्धकं भवतीत्यन्धकारत्वमज्ञानस्य, अत एव तम इत्यादिशब्दैरभिलापः श्रुतौ ‘तमो ह्यासीत् तमसा गूळ्हमग्रे’(ऋ. ८.७.१७) इत्यादौ । एतद्विशेषणद्वयं यत्र सम्भवति तमाह – ब्रह्मविदुत्तममिति । ब्रह्म विदन्तीति ब्रह्मविदः तेषामुत्तमं स्थितप्रज्ञमित्यर्थः । अत्र श्रुतयः पूर्वमुदाहृताः । तत्समासादनं च −
‘तमाराघ्य गुरुं भक्त्या प्रह्वः प्रश्रयसेवनैः’(श्लो. ३६) इति वक्ष्यमाणरीत्या, ‘तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया’(४.३४) इति गीतोक्तरीत्या च तस्य स्वात्माभिमुखीकरणमिति ‘अतो विमुक्त्यै’ इत्यष्टमश्लोकस्य इयद्भिः श्लोकैः विवृतिः कृता ॥१५॥
६. आत्मविद्याधिकारी
मेधावी पुरुषो विद्वान् ऊहापोहविचक्षणः ।
अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः ॥१६॥
‘अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः’(श्लो. १४) इत्युक्तमधिकारिणं प्रकृते कथयति मेधावीत्यादिना – ‘धीर्धारणावती मेधा’(अ.को. १.५.२) इति कोशात् श्रुतार्थधारणक्षमबुद्धिमानुच्यते मेधाऽस्यास्तीति व्युत्पत्त्या ‘मेधावी’शब्देन, विद्वानिति अधीतकाव्यकोशव्याकरणः उच्यते । ऊहापोहविचक्षणः − एतेन तर्कमीमांसासंस्कृतबुद्धित्वं गम्यते । पदवाक्यप्रमाणज्ञ इति यावत् । उक्तलक्षणलक्षित इति अष्टमश्लोकादारभ्य पञ्चदशश्लोकमध्यपातिश्लोकैः समासव्यासाभ्यां सूचितविवेकवैराग्यशमादिषट्कमुमुक्षुत्वरूपसाधनचतुष्टयसम्पन्न इत्यर्थः । आत्मविद्यायामधिकारी आत्मविद्याफलं मोक्षमनुभवितुमर्हतीत्यर्थः ॥१६॥
उक्तानि लक्षणानि स्फुटप्रतिपत्तये क्रोडीकृत्याह − विवेकिन इति । यद्वा – उक्तं लक्षणं जिज्ञासुत्वम् , ‘अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः’(श्लो. १५) इत्यत्र जिज्ञासुरेव मेधावित्वादिविशेषणविशिष्टः आत्मविद्याफलभाक् । इदानीं जिज्ञासायां कस्याधिकार इति चेत् , पूर्वमष्टमश्लोके विद्वान्संन्यस्तबाह्यार्थसुखस्पृहस्सन् उपदिष्टार्थसमाहितात्मा इति, दशमश्लोके धीरैः इति शब्दसूचितस्य साधनचतुष्टयसम्पत्तिविशिष्टस्य इत्याह विवेकिन इति –
७. साधनचतुष्टयसम्पत्तिः
विवेकिनो विरक्तस्य शमादिगुणशालिनः ।
मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ॥१७॥
विवेकादिस्वरूपं स्पष्टयिष्यते मूल एवोपरिष्टात् (श्लो. १९) । ज्ञातुमिच्छा जिज्ञासा, ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा तत्रावगति पर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म । अखण्डाकारवृत्तिप्रतिफलितं चैतन्यं जिज्ञासापदलक्ष्यमाणविचारस्य फलम् । सामान्यतो ब्रह्मज्ञानस्य विचारात्पूर्वमपि सत्त्वात् एतादृशमिष्टं सम्पादनीयं चेत् ,
दद्यान्नावसरं किञ्चित् कामादीनां मनागपि ।
आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया ॥
इत्युक्तरीत्या सार्वदिकवेदान्तविचार आवश्यकः ।
देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् ।
आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते ॥ (व.उ. २.१५)
इत्युक्तज्ञानं जनयितुं स एव समर्थः ॥१७॥
एतादृशविचारजननी या इच्छा तत्र योग्यता विवेकादिसाधनयुतस्यैव नान्यस्येत्येवकारबोधितमर्थमन्वयेन व्यतिरेकेण च स्पष्टयति – साधनानीति −
साधनान्यत्र चत्वारि कथितानि मनीषीभिः ।
येषु सत्स्वेव सन्निष्ठा यदभावे न सिद्ध्यति ॥१८॥
लोके यस्य तावत् कार्यत्वेनाभिमतसमानाधिकरणात्यन्ताभावप्रतियोगित्वं स्वसमानाधिकरणात्यन्ताभावप्रतियोगिकार्यत्वाभिमतकत्वं वा तस्य तत्कारणत्वं न सम्भवति । यथा पटसमानाधिकरणात्यन्ताभावप्रतियोगिनी मृत् , मृत्समानाधिकरणात्यान्ताभावप्रतियोगिपटवती वा सा पटकारणत्वं नाश्नुते । अपि तु मृत्सत्त्वे घटसत्त्वं, मृदभावे घटाभाव इत्यन्वयव्यतिरेकसहचारग्रहवशात् घटकारणत्वं भजते । एवं विवेकादिचतुष्टयसत्त्व एव सति ब्रह्मणि नितरां स्थितिप्रयोजकब्रह्मजिज्ञासायाः सम्भवात् तदभावे चासम्भवात् अन्वयव्यतिरेकसहचारग्रहाधीना तेषां विवेकादीनां सन्निष्ठापरपर्यायफलपर्यन्तब्रह्मजिज्ञासाकारणत्वावगतिः इत्युक्तम् । मनीषिभिः कथितानीति − तत्र मनीषित्वं च श्रुतितात्पर्यज्ञानवत्त्वम् । श्रुत्यवलम्बनाभावे एतादृशाधिकारिविशेषणानां दुर्ज्ञानत्वात् । तादृशाश्च मनीषिणः बादरायणप्रभृतयः । ते किल ‘अथातो ब्रह्मजिज्ञासा’(ब्र.सू. १.१.१) इति सूत्रघटकाथशब्देन साधनचतुष्टयसम्पत्त्यानन्तर्यं सूत्रयन्तः ब्रह्मजिज्ञासाधिकारिणमेवंविधं सूत्रयामासुः इति शारीरकमीमांसाद्याधिकरणतृतीयवर्णकभाष्यादर्थतोऽवगम्यते । एतादृशविशेषणलम्भकश्रुतयस्तु ‘यत्कृतकं तदनित्यम्’ इति न्यायवती ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा.उ. ८.१.६) , ‘यो वै भूमा तदमृतम् अतोऽन्यदार्तम्’(छा.उ. ७.२४.१) , ‘न जायते म्रियते वा विपश्चित्’(क.उ. २.१८) इत्यादिश्रुतिः आत्मनः नित्यत्वम् अनात्मनः अनित्यत्वं च बोधयतीति विवेकलम्भिका । ‘परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन’(मु.उ. १.२.१२) , ‘न वा अरे पत्युः कामाये’यारभ्य ‘आत्मनस्तु कामाय सर्वम्प्रियं भवति’(बृ.उ. २.४.५) इत्यन्ता श्रुतिः अनात्ममात्रे वैराग्यप्रतिपादिका । ‘शान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वाऽऽत्मन्येवात्मानं पश्येत्’(बृ.उ. ४.४.२३) इति श्रुतिः शमादिषट्कं बोधयति । ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) इति श्रुतिः मोक्षस्य नित्यत्वं वदन्ती तत्रेच्छामादधाति । उपनिषदामर्थवादत्वं वदतां कर्ममीमांसकानां मते एतासां स्वार्थे तात्पर्यं नास्तीत्येव ज्ञानसम्भवात् ‘ब्रह्मजिज्ञासितव्यं, तत्र च एतादृशविशेषण विशिष्टोऽधिकारीति’ ज्ञानस्य दुर्लभत्वात् मनीषिभिः कथितानीत्युक्तम् । तथा च प्रमाणान्तरानधिगतकालत्रयाबाध्यपरमपुरुषार्थस्वरूपब्रह्मप्रतिपादकत्वादुपनिषदां तात्त्विकप्रामाण्यस्यात्रैव सम्भवात् तत्तद्वाक्यसमर्पितविवेकादिविशिष्टस्यैव ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’(छा.उ. ८.७.१) इत्यादिवाक्यविहितजिज्ञासायोग्यतेति सर्वं चतुरस्रम् ॥१८॥
तत्र विवेकिनो विरक्तस्येत्यादिना (श्लो. १७) कथितं विवेकादिकं क्रमतो निर्दिशति आदावित्यादिना –
आदौ नित्यानित्यवस्तुविवेकः परिगण्यते ।
इहामुत्रफलभोगविरागस्तदनन्तरम् ॥१९॥
शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम् ।
१९विवेकादीनां मध्ये पूर्वपूर्वस्य उत्तरोत्तरहेतुत्वात् क्रमः समाश्रितः । इदं नित्यम् इदमनित्यमिति जानानः किल अनित्याद्विरज्येत । अतः नित्यानित्यवस्तुविवेकाभावे वैराग्यं दुस्सम्पादम् इति विवेकस्य वैराग्यहेतुत्वम् । वैराग्यवत एव पुरुषस्य अन्तर्बहिरिन्द्रियनिरोधरूपशान्तिदान्ती । तत्रापि निरुद्धान्तःकरणस्यैव बहिरिन्द्रियनिरोधरूपदमः, मनस्सम्बन्धाभावे इतरेषामिन्द्रियाणामकिञ्चित्करत्वात् । तर्हि शमे सति दमस्य स्वतस्सिद्धत्वात् किमिति तस्य साधनकोटिप्रविष्टत्वमिति चेत् , ‘इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः’(२.६०) इति गीतोक्तरीत्या बाह्येन्द्रियनिरोधाभावे शमस्य दृढत्वाभावात् । जितेन्द्रियस्यैव उपरमशब्दितसंन्यासः, तस्यैव शीतोष्णादिद्वन्द्वसहिष्णुत्वरूपा तितिक्षा, तस्यैव बाह्यविक्षेपाभावात् ब्रह्मण्यैदम्पर्येणावस्थानलक्षणं समाधानम् , एतादृशगुणविशिष्टस्यैव ‘ब्रह्मैकमस्ति जगन्मिथ्या’ इत्युपदिश्यमानगुरुवेदान्तवाक्यविश्वासरूपश्रद्धा इति शमादिषट्कमध्येऽपि पूर्वापरीभावे कारणं सुवचम् । एतादृशः किल पुरुषधौरेयः मोक्षादन्यन्न कामयते, तत्र विलम्बं च न सहत इति तीव्रमुमुक्षावान् भवितुमर्हति इत्यभिप्रायेण आदौ नित्यानित्येत्याद्याह । तदनन्तरम् इहामुत्रफलभोगविराग इति च । तेन विवेकानन्तर्यस्य वैराग्ये कथनेन ‘तदुदितः स हि यो यदनन्तरः’(नै.च. ४.३) इति न्यायेन विवेककार्यत्वं वैराग्ये उक्तप्रायम् । तदनन्तरमिति उत्तरत्राप्यनुषज्यते वैराग्यानन्तरं शमादिसम्पत्तिः, तदनन्तरं मुमुक्षुत्वमिति ॥१९॥
उक्तसाधनानि विवृणोति – ब्रह्मेत्यादिना −
ब्रह्म सत्यं जगन्मिथ्येत्येवं रूपो विनिश्चयः ॥२०॥
२०सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः ॥२० – १/२॥
२०ब्रह्म नित्यं जगदनित्यमिति निश्चयसत्त्वेऽपि दृढं वैराग्यं न सम्भवति, अनित्यसुखस्यापि प्रायः काम्यमानत्वात् । जगन्मिथ्येत्युक्ते मिथ्याभूतार्थः केनापि न काम्यते । न हि स्वाप्निकं राज्यं कामयन्ते राज्यकामयितारः । अतः वैराग्यस्य नियतमुत्पत्तये ब्रह्म नित्यं जगदनित्यमित्यनुक्त्वा ब्रह्म सत्यं जगन्मिथ्येत्याह । विनिश्चय इति विशेषेण निश्चय इत्यर्थकेन निश्चयेऽप्रामाण्यज्ञानानास्कन्दितत्वमुक्तं भवति । सोऽयमिति, सः विवेकिन इत्यत्र विवेकिविशेषणत्वेनोक्तः, अयम् आदौ नित्यानित्यवस्तुविवेक इत्युक्तः इत्यर्थः । अस्यैव ऐहिकामुष्मिकफलभोगविरागहेतुत्वं नियतमिति समुदाहृत इत्यत्र समित्युपसर्गेण द्योतितम् ॥२०-१/२॥
विवेकं निरूप्य वैराग्यं निरूपयति तद्वैराग्यमिति –
तद्वैराग्यं जुगुप्सा या दर्शनश्रवणादिभिः । २१ ।
२१देहादिब्रह्मपर्यन्ते ह्यनित्ये भोग्यवस्तुनि ॥ २१-१/२॥
२१ऐहिकदेहादिभोग्यवस्तुनः दर्शनेन, आमुष्मिकदिव्यदेहादिभोग्यवस्तुनः श्रवणेन, आदिपदेन दृष्टजातीयस्य श्रुतजातीयस्य अनुमानेन । अनुभूयमानशरीरप्रभृति ब्राह्ममानेन शतवर्षजीविचतुर्दशभुवनाधिपत्यावच्छेदकहिरण्यगर्भशरीरपर्यन्तं सर्वस्मिन् भोग्यवस्तुनि अनित्ये मिथ्याभूते या जुगुप्सा, कदापीदृशपदार्थसम्बन्धो माभूदिति, काकविष्ठायामिवासह्यबुद्धिः तद्वैराग्यम् । ‘शैत्यं हि यत्सा प्रकृतिर्जलस्य’(र.वं. ५.५४) इतिवद्विधेयप्राधान्यात् नपुंसकनिर्देशः तदिति ।
स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् ।
वैराग्यकारणं तस्य किमन्यदुपदिश्यताम् ॥ (मुक्ति.उ. २.६६)
सततं प्रवाह्यमानैर्वृषभैरश्वैः खरैर्गजैर्महिषैः ।
हा कष्टं क्षुत्क्षामैः श्रान्तैर्नो शक्यते वक्तुम् ॥ (प्रबो.सुधा. १.१८)
‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा.उ. ८.१.६) , ‘भूम्नोऽन्यदार्तम्’(बृ.उ. ३.४.२, छां.उ. ७.२४) , ‘क्षीणे पुण्ये मर्त्यलोकं विशन्ति’(भ.गी. ९.२१) , ‘आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोर्जुन’(भ.गी. ८.१६) सूतसंहितायां यज्ञवैभवखण्डे सप्तदशोऽध्यायः, सर्ववेदान्तसिद्धान्तसारसङ्ग्रहस्थाः ‘कुक्षौ स्वमातुर्मलमूत्रमध्ये’(श्लो. २७) इत्यादिना −
पुण्यक्षये पुण्यकृतो नभस्थैः
निपात्यमानान् शिथिलीकृताङ्गान् ।
नक्षत्ररूपेण दिवश्च्युतांस्तान्
विचार्य को वा विरतिं न याति ॥
‘यत्रास्ति लोके गतितारतम्यम्’ इत्यन्ताश्च (श्लो. ३९) श्लोकाः वैराग्यविषयेऽनुसन्धेयाः । मानुषदेहादेः रोगाद्युपप्लुतत्वं, पश्वादीनामत्यन्तपारतन्त्र्यं मूकत्वादि, देवानां राक्षसादिपीडितत्वं, शब्दादीनां विषयाणां बहुविधानर्थप्रदत्वं कुरङ्गादिदृष्टान्तैः अनुसन्दधानस्य सर्वत्रानात्मसु जुगुप्सा सुलभेति भावः । एतच्च ‘शब्दादिभिः पञ्चभिरेव’(श्लो. ७८) इत्यादिना स्वयमुत्तरत्र स्पष्टयिष्यते ।
यद्यपि ‘अपाम सोमममृता अभूम’(ऋ. ६.४.११) ‘अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवति’(श.ब्रा. २.६.३.१) इति श्रुत्यवलोकनेन कर्मफलस्यापि नित्यत्वं प्रतीयते । अथापि ‘यत्कृतकं तदनित्यम्’ इति न्यायसहकृत – ‘तद्यथेह कर्मचित’(छा.उ. ८.१.६) इत्यादिश्रुत्यनुसारेण अमृताक्षय्यपदयोः सङ्कुचितार्थकत्वस्यावश्यंवक्तव्यत्वात् न दोषः । उक्तं हि –
‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते’ । (वि.पु. २.८.९७) इति ॥२१-१/२॥
शमस्वरूपं ब्रवीति विरज्येति −
विरज्य विषयव्रातात् दोषदृष्ट्या मुहुर्मुहुः ।
स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ॥२२-१/२॥
आद्यन्तवत्त्वबहुवित्तव्ययायाससाध्यत्वपरिणतिविरसत्वादिदोषान् पुनःपुनः विषयेषु पश्यतः पुरुषस्य तत्र वैराग्यं नियतमिति विषयदोषदर्शनं वैराग्यहेतुरिति । तस्मिंश्च वैराग्ये सति मनस्स्वलक्ष्ये सगुणे निर्गुणे वा नियतमवतिष्ठमानं निश्चलं निर्विकारं भवतीति मनोनियतावस्थारूपशमस्य वैराग्यजन्यत्वमाह विरज्येति । तत्र ल्यपा उत्तरकालिकत्वस्य बोधनात् वैराग्यजन्यत्वं बोधितं भवति ॥ २२-१/२॥
दमं निरूपयति विषयेभ्य इति −
विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके ।
उभयेषामिन्द्रयाणां स दमः परिकीर्तितः ॥२३-१/२॥
मनसः विषयविचारसामर्थ्यसत्त्वात् स्वत एव विरज्येत्युक्तम् । बाह्येन्द्रियाणां श्रोत्रादीनां ज्ञानकरणानां, वागादीनां कर्मकरणानां च स्वतस्तत्र सामर्थ्याभावात् प्रग्रहस्थानीयेन मनसा अश्वस्थानीयानां बहिरिन्द्रियाणां शब्दादिरूपविषममार्गेभ्यः परावर्त्य पराङ्मुखीकृत्य स्वस्वगोलके कर्णशष्कुलीवदनादिदेशेषु स्थापनम् उपरतव्यापारता सम्पादनं यत् स दमः परिकीर्तितः । मन आदीनां प्रग्रहादिरूपत्वं कठोपनिषद्युक्तम् −
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । (१.३.३,४) इति ।
मार्गानित्यर्थः ॥२३ १/२॥
दमरूपबहिरिन्द्रियनिग्रहसाध्यामुपरतिमाह बाह्येति −
बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा ॥ २४॥
२४तटाकोदकस्य तटाकच्छिद्रद्वारा निर्गत्य यथा क्षेत्राद्यात्मना परिणामः, एवमन्तस्थस्य मनसः श्रोत्रादिच्छिद्रद्वारा बहिरागत्य शब्दादिविषयाकारेण परिणामरूपा वृत्तिर्जायते । निगृहीतेषु च बहिरिन्द्रियेषु अन्तस्थं मनः न बाह्याकारेण परिणमत इति भावः ॥२४॥
यदा बाह्यं नालम्बते चित्तं तदा शीतोष्णादिद्वन्द्वस्य अप्रतीयमानत्वात् कर्मकालादिवशात् तत्प्रसक्तावपि तत्सहनरूपा तितिक्षा सिद्ध्यतीत्याह − सहनमिति −
सहनं सर्वदुःखानामप्रतीकारपूर्वकम् ।
चिन्ताविलापरहितं सा तितिक्षा निगद्यते ॥२५॥
कम्बलव्यजनादिभिः शैत्यौष्ण्यादिदुःखप्रतीकारः लोकसिद्धः । तादृशसामग्र्यभावे किमस्माभिर्दीनैः करणीयमिति चिन्ता, प्रलापश्च । विचारसाधनतितिक्षायास्तथात्वं व्यावर्तयति अप्रतीकारपूर्वकं चिन्ताविलापरहितं यत्सहनं सा तितिक्षेति । दुःखानां दुःखहेतुशीतोष्णादीनामित्यर्थः । चिन्ताविलापादिसहितस्य मनसः विचारस्य दूरापास्तत्वादिति भावः ॥२५॥
इदानीं वस्तूपलब्ध्यसाधारणकारणं श्रद्धां निरूपयति − शास्त्रस्येति −
शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्याऽवधारणा ।
सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥२६॥
लोकेऽपि आप्तवाक्ये विश्वासाभावे नैव तदनुसारेण प्रवर्तते पुरुषः विचारादौ । किमुतातीन्द्रिये शास्त्रार्थे, अतः सा परमकारणम् । उक्तं हि गीतायाम् −
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ इति । (९.३)
यस्तावत् शान्तो दान्त उपरतस्तितिक्षुश्च स एव ‘ब्रह्मैकमेव सत्यं तदेव त्वम् अन्यत्सर्वं मिथ्या’ इति गुरुणा वेदान्तैश्च बोध्यमानं वस्तु विश्वसिति इदमेवमेवेति । नान्यस्तादृशसाधनहीनः इति श्रद्धा तदनन्तरं परिगणिता गुरुवेदान्तवाक्यविषयिणी ।
शास्त्रं तत्त्वमस्यादिशास्त्रं गुरुवाक्यं तदनुसारि ‘नासि त्वं संसारी, किन्तु नित्यशुद्धबुद्धमुक्तस्वभावं परं ब्रह्मैव, अन्यत्सर्वं मिथ्या’ इत्यादि वाक्यं तस्य सत्यम् अबाधितार्थबोधकम् इति बुद्ध्या, अवधारणा दृढविश्वासः, यया वस्तूपलभ्यते सा श्रद्धा इति सद्भिः कथितेत्यन्वयः ॥२६॥
एतादृशश्रद्धावत एव समाधानं सम्यक्सिद्ध्यतीति तदनन्तरं समाधानं निरूपयति − सम्यगिति −
सम्यगास्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा ।
तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् ॥२७॥
यद्यपि स्वलक्ष्ये नियतावस्थारूपशमापेक्षया भेदो न लक्ष्यते ईदृशे समाधाने, तथापि ‘मुहुर्मुहुः दोषदृष्ट्या विषयेभ्यो विरज्य स्वलक्ष्ये नियतावस्था’ इत्यनेन,
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतत् आत्मन्येव वशं नयेत् ॥ (६.२६)
इति गीतोक्तरीत्या शमावस्थायां प्रयत्नविशेषोऽपेक्ष्यते सङ्कल्पविकल्पात्मकस्य मनसः स्थिरीकरणे ।
अत एवात्र अध्यवसायात्मिकायाः बुद्धेः शुद्धे ब्रह्मणि सम्यगास्थापनं सर्वदा इत्यनेन सङ्कल्पविकल्पविनिर्मुक्तत्वमन्तःकरणस्य प्रकृते कथितं भवति । अत एव मनःशब्दं विहाय निर्णयात्मकवृत्तिमद्बुद्धिशब्दः प्रायोजि । तत्रापि शुद्धे ब्रह्मणीति निर्गुणं कथ्यते सर्वोपाधिविनिर्मुक्तम् । शमनिरूपणावसरे ‘स्वलक्ष्ये नियतावस्थे’त्यनेन सगुणे नियतावस्थानेऽपि शान्तत्वं मनसो वक्तुं शक्यम् । शम इति साधनं कथ्यते, समाधानं तस्य फलं तस्यैव परिपाक इति यावत् । लोके बालका विशेषतो रुदन्ति चेत् तदिष्टं दत्वा समादधते जनाः, तद्वत् मनसो यथेष्टं विषयमार्गसञ्चरणं न समाधानमित्याह न तु चित्तस्य लालनमिति । यद्वा –
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ।
पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥
अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ।
स्वमनः पुरुषार्थेन बलेन बलिनां वर ॥
अशुभाच्चालितं याति शुभं तस्मादपीतरत् ।
जन्तोश्चित्तं तु शिशुवत् तस्मात्तच्चालयेद् बलात् ॥
समतासान्त्वनेनाशु न द्रागिति शनैः शनैः ।
पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम् ॥ (यो.वा. २.९.३०-३३)
इति वासिष्ठरीत्या चालनं लालनं वा शमादिसाधनत्वेन पूर्वमपेक्ष्यते । न तु फलीभूतसमाधानावस्थायां, तदाभ्यासं विनापि शमादिसम्पादनकाले कृतप्रयत्नेनैव क्षीणबाह्यवासनस्य मनसः सगुणात्प्रच्यावनमात्रस्य निर्गुणे स्थापयितुमपेक्षितत्वात् इति ॥२७॥
एतादृशसाधनगणमण्डितस्यैव मुमुक्षुत्वं सम्भवति नान्यस्येति इदानीं मुमुक्षुत्वमाह अहङ्कारादीति –
अहङ्कारादिदेहान्तान् बन्धानज्ञानकल्पितान् ।
स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ॥२८॥
अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि ।
अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥
अहङ्कारः स विज्ञेयः ... (श्लो. १०५, १०६)
इत्युक्त्या चित्प्रतिफलनोपेतमन्तःकरणम् अहङ्कारः । यद्वा भोक्ता जीवोऽहङ्कारः आनन्दमयकोशनामा, स्वात्मनिरूपणे –
सुप्तिगतैस्सुखलेशैरभिमनुते सुखीभवामीति ।
आनन्दकोशनामा सोऽहङ्कारः कथं भवेदात्मा ॥ (स्वा.नि. १.१३)
इत्युक्तत्वात् । तस्याप्यज्ञानकल्पितत्वं मनोरूपोपाधिवशाद्विकारत्वं च गौणं वक्तुं शक्यम् । तथा च आनन्दकोशप्रभृतिविज्ञानमयमनोमयप्राणमयान्नमयान्तान् बन्धान् स्वरूपसाक्षात्कारात्प्रागात्मत्वेन मन्यमानान् स्वस्वरूपावबोधेन मोक्तुं पुनस्तत्र यथाऽहन्ता न स्यात् तथा त्यक्तुं बाधितुमित्यर्थः । या इच्छा सा मुमुक्षुता । स्वस्वरूपावबोधे हि ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुत्या स्वव्यतिरिक्तस्य कस्यापि भानाभावेन कोशपञ्चकात्मकबन्धनिवृत्तिरत्यन्तमिति भावः ॥२८॥
इयं तावत् मुमुक्षुता त्रिविधा मन्दा मध्यमा प्रवृद्धा चेति । मोक्षस्य नित्यसुखरूपत्वेऽपि सांसारिकवासनावासितान्तःकरणानां मोक्षेच्छैव दुर्लभा । अध्यात्मशास्त्रश्रवणकाले जाता सा न कार्यमादधाति । यदा पुरुषः श्रवणानन्तरजातविवेकेन विषयेषु सांसारिकेषु दोषान् दर्शं दर्शं तत्र वैराग्यं लब्ध्वा विधिवत्संन्यस्य सर्वकर्माणि, विचारार्थं गुरूपसदनादौ प्रवर्तते तदा अध्यात्मशास्त्रश्रवणकाले जाता तात्कालिक्येव मुमुक्षुता मन्देति नामार्हैव मध्यमत्वं प्राप्नोति । यथा यथा तीव्रं वैराग्यं मनश्चोपशान्तं समाधित्सति गुरुश्चास्मिन्प्रसीदति ‘क्षिप्रमयं तरतु भवाब्धिमिति’ तदा पुरुषः नित्यसुखरूपमोक्षादन्यन्न कामयते तत्र विलम्बं च न सहत इति प्रवृद्धमुमुक्षुः मुख्याधिकारी भूत्वा क्षिप्रं लभते फलमित्याह − मन्देति −
मन्दमध्यमरूपाऽपि वैराग्येण शमादिना ।
प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ॥२९॥
इत्थं च मुमुक्षाया मोक्षेच्छारूपत्वेऽपि यदा सा प्रवृद्धा तदैव फलं प्रसूत इत्यनेन तत्प्रवृद्ध्यर्थं विषयवैराग्यशमादिषट्कगुरुप्रसादलाभार्थं प्रयत्नः कर्तव्यः पुरुषेणेत्युक्तं भवति ॥२९॥
साधनचतुष्टयमध्ये द्वितीयतुरीयसत्त्वे सर्वं तत्रास्ति नान्यथेत्याह वैराग्यमिति –
वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते ।
तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ॥३०॥
अर्थवन्तश्शमादय इत्यत्र शमादय इत्यस्य शमादिशब्दा इत्यर्थः । तस्मिन्पुरुषे शमादयस्सन्तीति व्यवहारस्सार्थक इति भावः । अयं शान्तो दान्तः इत्यादिशब्दभाक् तीव्रवैराग्यवान् तीव्रमुमुक्षुतावांश्चेत्यर्थः, तीव्रमुमुक्षुत्वस्यैव शमादिफलत्वात् । यदि तीव्रमुमुक्षुत्वं तदा साधनं विना फलालाभात्कार्यात्कारणमनुमीयत इति शमादिमत्त्वं तस्य सुवचम् । एवं शमादिसाधनं तीव्रवैराग्यं यदा तस्मिन् ज्ञायते, साधने सति फलावश्यम्भावात् शमादिमत्त्वं तस्मिन्नवर्जनीयम् । इत्थं च शमादिसाधने सति तीव्रवैराग्ये शमादिफले च तीव्रमुमुक्षुत्वे स्वसाधनफलमध्यवर्ति स्वयं निरपवादमिति भावः । तीव्रवैराग्ये शमादिशब्दाः अर्थवन्तः, तीव्रमुमुक्षुत्वे शमादयः फलवन्तः इति विभागः । शमादीनाम् इतरान्तःकरणनिष्ठानां दुर्ज्ञानत्वात् कारणकार्याभ्यामवगन्तव्यत्वमुक्तम् । स्वयमपि पुरुषेण शान्त्यादिकं समपादीति कथं ज्ञेयमित्युक्तौ पुष्कलकारणे तीव्रवैराग्ये विशिष्टफले तीव्रमुमुक्षुत्वे च सति तथेति स्वस्मिन् परस्मिंश्च कारणकार्ये ज्ञापके इति भावः ।
काकस्य विष्ठावदसह्यबुद्धिर्भोग्येषु सा तीव्रविरक्तिरिष्यते ।
विरक्तितीव्रत्वनिदानमाहुर्भोग्येषु दोषेक्षणमेव सन्तः ॥ (स.सं. २४)
इति वैराग्ये तीव्रत्वं तत्साधनं च कथितं सर्ववेदान्तसिद्धान्तसारसङ्ग्रहे । मुमुक्षुत्वे तीव्रत्वं प्रवृद्धत्वमेव । तत्तु प्रागभिहितम् ॥३०॥
एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः ।
मरौ सलिलवत्तत्र शमादेर्भानमात्रता ॥३१॥
यत्र यस्मिन्पुरुषे एतयोः विरक्तत्वमुमुक्षयोः मन्दता तात्कालिकत्वं मरौ सलिलवत् निदाघसमये मरुभूमौ चण्डकिरणसम्पर्के दूरस्थस्य तत्र जलमस्तीति भ्रान्तिर्भवति न जललाभः तत्र नैव पिपासानिवृत्तिः, प्रत्युत श्रान्तस्य तत्र जलधिया जलार्थं गमनेन श्रमाधिक्यमेव, तद्वत्तीव्रवैराग्यमुमुक्षत्वयोरभावे मरुसलिलवत् शमादेस्तत्र भानमात्रता न शमादिफलं तस्य, नापीतरैः शान्त इत्यादिशब्दैर्व्यवह्रियते च इति भावः ॥३१॥
एवं सर्वेषां वेदान्तानामद्वितीयब्रह्मणि प्रत्यगभिन्ने नित्यशुद्धबुद्धमुक्तस्वभावे तात्पर्यनिर्णयानुकूलव्यापाररूपश्रवणात्मकब्रह्मविचाराधिकारिणो विशेषणानि विवेकादीनि निरूप्य आत्मसाक्षात्कारसाक्षात्साधनं भक्तिं पूर्वोक्तविचारसाध्यामाह – मोक्षेति −
मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी ।
स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥३२॥
स्वस्वरूपानुसन्धानमिति निदिध्यासनमुच्यते । तस्यैव साक्षात्कारं प्रति साक्षात्साधनत्वात् । श्रुत्याचार्योपदेशेन ‘स आत्मा तत्त्वमसि’(छा.उ. ६.८.७, ६.१६.१३) इति श्रुतः योऽर्थः तव स्वरूपं ब्रह्म तदेव त्वमिति, तदनुसन्धानं तद्भावनाधारा विजातीयप्रत्ययातिरस्कृतसजातीयप्रत्ययप्रवाहरूपा साक्षात्कारे असाधारणं कारणमिति भावः । शमादीनां विचारद्वारकनिदिध्यासनद्वारा कारणत्वं ज्ञाने, अस्य तु साक्षादिति भावः । अत एव मोक्षस्य कारणम् अभिव्यञ्जकं यज्ज्ञानं तत्सामग्र्यां तत्साधनसमुदायमध्ये भक्तिरेव गरीयसी साक्षात्कारणत्वादित्युक्तम् । सा च सामग्री विवेकादिनिदिध्यासनान्ता ॥३२॥
अपरेषां मतमाह −
स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः ॥३२-१/२॥
३२स्वात्मनः स्वस्य जीवस्य तत्त्वानुसन्धानम् । तस्य भावस्तत्त्वं तत्पदवाच्यार्थत्वं परमात्मत्वमित्यर्थः । तस्यानुसन्धानं, वास्तविकभेदसत्त्वेऽपि अभेदेनोपासनम् अहङ्ग्रहोपासनमिति यावत् । तत् भक्तिरिति अपरे जगुः इति भेदबुद्धिपुरस्सरायाः भ्रान्तिरूपाया अस्याः मुख्यभक्तित्वं नास्तीति सूचितम् ॥३२-१/२॥
पूर्वोक्तसाधनसम्पन्नस्य कृत्यमाह – उक्तेति –
उक्तसाधनसम्पन्नः तत्त्वजिज्ञासुरात्मनः ।
उपसीदेद्गुरुं प्राज्ञं यस्माद्बन्धविमोक्षणम् ॥३३-१/२॥
उक्तसाधनसम्पन्नः उक्तानि विचारसाधनत्वेन कथितानि यानि विवेकादीनि साधनानि तैः सम्पन्नः युक्तः, पुमानिति शेषः । आत्मनः स्वस्य तत्त्वं ज्ञातुमिच्छुः स्वयाथात्म्यज्ञानकामः उपसीदेत् शरणं गच्छेत् , कम् ? गुरुमुपदेशकम् । कीदृशम् ? प्राज्ञं, प्रकृष्टा निरतिशया ज्ञा अवगतिः प्रज्ञा ब्रह्मसाक्षात्कारः,
ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी ।
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ॥ (श्लो. ४२८)
इति वक्ष्यमाणत्वात् । सास्यास्तीति प्रज्ञः स एव प्राज्ञः, तं ब्रह्मनिष्ठमित्यर्थः । तेन स्वस्य फलमाह । यस्माद्यादृशगुरोः सकाशात् , बन्धविमोक्षणं बन्धस्य अज्ञानकल्पितस्य अहङ्कारादिदेहान्तस्य विमोक्षणं विशेषेण परित्यागः इति । तादृशगुरूपसदने तदुपदेशजन्यस्वयाथात्म्यज्ञानेन बन्धनिवृत्तिरूपमोक्षः सिद्ध्यति इति भावः ॥३३-१/२॥
तादृशं गुरुं लक्षयति, श्रोत्रिय इत्यादिना –
८. गुरूपसत्तिः
श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः ।
ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः ॥३४-१/२॥
‘श्रोत्रियश्छन्दोऽधीत’(पा.सू. ५.२.८५) इति पाणिनिनाऽनुशिष्टत्वात् अधीतोपनिषत्क इत्यर्थः । उपनिषदमधीत्य कृततदर्थविचारस्यैव साक्षात्कारहेतुत्वात् । अवृजिनः निष्पाप इत्यर्थः ।
नाविरतो दुश्चरितात् नाशान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ (क.उ. २.२४)
इति श्रुतेः । तत्र कारणमाह अकामहत इति । कामेन विषयाशया हतः कामहतः अभासितस्वस्वरूप इत्यर्थः । न कामहतः अकामहतः यस्तावत्स्वरूपम् आनन्दं न जानाति स एव बहिरानन्दोऽस्तीति तं प्राप्तुं कदाचित्पापमपि कुर्यात् । अस्य तावत् ब्रह्मवित्तमस्य साक्षात्क्रियमाणस्वरूपानन्दत्वात् −
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्स्य परं दृष्ट्वा निवर्तते ॥ (२.५९)
इति गीतोक्तरीत्या निवृत्तरागत्वरूपाकामहतत्वं सिध्यत्येवेति निष्पापत्वं तस्मिन् । कामस्यैव पापहेतुत्वात् । तदुक्तम् गीतासु –
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिछन्नपि वार्ष्णेय बलादिव नियोजितः ॥ (३.३६)
इत्यर्जुनेन पृष्टो भगवानाह −
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ (३.३७) इत्यादि ।
ब्रह्मण्युपरतः ब्रह्मणि विलीनमनस्कः अत एव निरिन्धन अनल इव शान्तः, यथा इन्धनाभावे अग्निः शान्तः ज्वालाशून्यः भाति तथा अनालम्बितबाह्यवृत्तित्वात् शान्तः निर्गुणे ब्रह्मणि परिनिष्ठितचित्तत्वात् शान्तः निर्विकार इत्यर्थः । अत्र श्रोत्रियत्वादीनां विशेषणानां व्यावर्तकत्वं नास्ति, ब्रह्मवित्तमे अश्रोत्रियत्वस्य पापस्य कामहतत्वस्य च असम्भावितत्वात् , किन्तु वस्तुसत्तया तेषां तादृशगुरुज्ञापकत्वं सम्भवतीति स्वरूपलक्षणत्वमेव मन्तव्यम् ॥३४ – १/२॥
अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् ॥३५॥
३५न विद्यते हेतुर्यस्याः सा अहेतुकी तादृशी या दया परदुःखप्रहाणेच्छा तस्याः सिन्धुः आश्रय इत्यर्थः । इतरस्य दयालोरपि दया अन्यत्र दुःखदर्शनेन स्वस्यापि जातदुःखत्वात् । तन्निरासार्थमहेतुकेति । अस्य तु ज्ञानमहिम्ना स्वतो वा परतो वा दुःखाप्रसक्तेः केवलं जनास्तरन्तु संसारवार्धिमिति इच्छा परं व्युत्थानकाले इति भावः । बन्धुः दुःखहारक इत्यर्थः । केषाम् ? आनमतां सतां प्रह्वीभवतां सत्पुरुषाणामित्यनेन शिष्यस्य लक्षणं परिज्ञायैव ते उपदिशन्तीति सूचितम् । श्रूयते किल तत्र ‘नासूयकायानृजवे शठाय’, ‘इदमशिष्याय नो देयम्’ इत्यादि । स्मर्यते च गीतायाम् −
इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ (१८.३७)
इदमुपसदनं समीपगमनम् ॥३५॥
तदनन्तरकर्तव्यं करुणया शिष्यायोपदिशति भगवान् भाष्यकारः – तमिति −
तमाराध्य गुरुं भक्त्या प्रह्वः प्रश्रयसेवनैः ।
प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ॥३६॥
भक्तिः पूज्येष्वनुरागः मानसधर्मः, तया प्रह्वः तद्व्यञ्जकाकारविशिष्टः नम्रकायः बद्धाञ्जलिपुटः, प्रश्रयसेवनैः प्रश्रयश्च सेवनानि च प्रश्रयसेवनानि तैरित्यर्थः । तत्र प्रश्रयः विनीतवाक्त्वं सेवनानि साष्टाङ्गनमस्कारतत्पादसंवहनतदुक्तकरणादीनि तैस्तमाराध्य संसेव्य, ऋज्व्या तया सेवया प्रसन्नं स्वाभिमुखं तम् अनुप्राप्य यथासमयनिर्देशं तत्सन्निधौ यथाविधि स्थित्वा आत्मनः ज्ञातव्यं यज्जिज्ञासितम् आत्मयाथात्म्यविषये तत्पृच्छेत् । भक्त्या प्रह्वः प्रश्रयसेवनैराराध्य इत्यनेन आराधयितुः मनसि वचसि काये च शुद्धत्वरूपत्रिकरणशुद्धिरुक्ता ॥३६॥
भक्तिपुरस्सरवाचिकाराधनप्रकारं दयया दर्शयति भगवान् जिज्ञासुभ्यः । ‘स्वामिन्नमस्ते’ इत्यादिना ‘तथा वदन्तम्’(श्लो. ४३) इत्यन्तम् –
स्वामिन्नमस्ते नतलोकबन्धो
कारुण्यसिन्धो पतितं भवाब्धौ ।
मामुद्धरात्मीयकटाक्षदृष्ट्या
ऋज्व्याऽतिकारुण्यसुधाभिवृष्ट्या ॥३७॥
नतलोकबन्धो नतानां कृतनतीनां लोकानां जनानां बन्धुः दुःखमोचकः तस्य सम्बुद्धौ नतलोकबन्धो, स्वामिन् प्रभो, ते तुभ्यं नमः, प्रह्वीभावः अस्त्विति शेषः । यतस्त्वं नतलोकदुःखमोचकः अतस्त्वां दुःखमुक्त्यै नमामीति भावः । तत्र हेतुमाह कारुण्यसिन्धो इति सम्बोधनेन । विवृतमेतत् अहेतुकदयासिन्धुरित्यत्र । स्वकीयं दुःखं निवेदयति भवाब्धौ पतितं जन्मजरारोगमरणानर्थसङ्कुले संसारसमुद्रे पतितमित्यर्थः । इदानीं तन्निवृत्तिं प्रार्थयते मामुद्धरेति । जन्मादिबन्धनिर्मुक्तं कुर्वित्यर्थः । तत्र साधनं याचते आत्मीयकटाक्षदृष्ट्येति । स्वकीयलोचनप्रान्तेनेत्यर्थः । ब्रह्मसाक्षात्कारनिर्धूतसकलमलस्य भवतः पवित्रकटाक्षपाते सकलपापनिर्मुक्तोऽहं संसारसागरं तरामीति भावः । उक्तं हि −
यस्यानुभवपर्यन्ता बुद्धिः (त)सत्त्वे प्रवर्तते ।
तद्दृष्टिगोचरास्सर्वे मुच्यन्ते सर्वकिल्बिषैः ॥ (सू.सं. २.२०.४४) इति ।
एतेन शिष्येण गुरोस्साक्षात्पुरः न स्थेयमिति विनयप्रकारो दर्शितो भवति । किञ्च सम्पूर्णावलोकनं कटाक्षपात एव अतस्तत्कामये इत्यपि भावः । नित्यशुद्धब्रह्मानन्दमग्नस्य मनसः चक्षुःप्रान्तद्वारा पूर्णतया मयि पाते सर्वथाऽपि पूतः दुःखविमुक्तो भवेयमहमिति भावः । यद्वा आत्मीयकटाक्षदृष्ट्या स्वकीयसानुग्रहवीक्षणेनेत्यर्थः । ऋज्व्या स्वभावसरलया, तद्विशेषेण यथा लोके अगाधजलपतितः ऋज्वीं रज्जुं यष्टिं वा अवलम्ब्य उद्धृतो भवति तथाऽहं भवत्कटाक्षं दीर्घदीर्घमवलम्ब्य संसाराब्धेरुद्धृतो भवामीति भावः व्यञ्जितः । सूर्यमण्डलाद्वा दीपाद्वा किरणाः पुञ्जीभूय रज्जुवद्यथा निष्क्रामन्ति तथा चक्षुषोऽपि तेजस्त्वात् निष्क्रान्ता रश्मयः एतस्मिन् सङ्क्रान्ताः ब्रह्मनिष्ठमनस्संयुक्तत्वादेनमुद्धरन्तीति भावः । अतिकारुण्यसुधाभिवृष्ट्या अत्यन्तं कारुण्यम् अतिकारुण्यं तदेव सुधा, सकलतापहारकत्वात् सुधेति रूप्यते । सुधा नामामृतं, तस्याः अभितो वृष्टिः यस्यां दृष्ट्यां सा अतिकारुण्यसुधाभिवृष्टिः तया अतिकारुण्यसुधाभिवृष्ट्या । अमृताभिवर्षणेन पुरुषः जरामरणादिवर्जितो भवतीति प्रसिद्धम् । युद्धे मृता वानरा इन्द्रकारितामृतवर्षणेन उज्जीविता इति रामायणे प्रसिद्धम् । तादृशामृतस्यैव तथात्वे ब्रह्मनिष्ठानुकम्पामृतवर्षणदृष्टिः असङ्कुचितजरामरणादिवर्जितत्वं दास्यतीति भावः ॥३७॥
स्वोद्धरणे विलम्बमसहिष्णुः स्वकीयतीव्रमुमुक्षुत्वं प्रकटीकरोति दुर्वारेति –
दुर्वारसंसारदवाग्नितप्तं
दोधूयमानं दुरदृष्टवातैः ।
भीतं प्रपन्नं परिपाहि मृत्योः
शरण्यमन्यं यदहं न जाने ॥३८॥
संसार एव दवाग्निः सर्वशो व्याप्य तापहेतुत्वात् वनानलः, सः भवदीयसदुपदेशजनितज्ञानं विना न वारयितुं शक्य इति दुर्वारः वारयितुं स्वयमशक्य इत्यर्थः । दुर्वारश्चासौ संसारदवाग्निः तेन तप्तं दग्धं, वनानलस्य वातसहितत्वे बहुव्याप्यतापकत्वं प्रसिद्धम् । तथा दुरदृष्टवातैः दुरदृष्टानि पापानि तान्येव वाताः प्रतिकूलवायवः तैः दोधूयमानं मुहुर्मुहुः कम्प्यमानम् , अनुकूलश्चेद्वातः एनमन्यत्र नयेत् , प्रतिकूलस्तु वातः अग्नौ पातयति अग्निं वा अस्मिन् । एवं दवाग्नितप्तस्य अमृतवर्षणे तापमोक्षो भवतीत्यभिप्रायेण पूर्वं दृष्टेः अतिकारुण्यसुधाभिवृष्ट्येति विशेषणं दत्तम् । तत्र बहुव्रीहिमकृत्वा दृष्ट्या करणेन अतिकारुण्यसुधाभिवृष्ट्या सुधाभिवर्षणेन इत्यपि वक्तुं शक्यते । तेन दवाग्नितप्तं मां मृत्योः परिपाहीत्यन्वयः । इत्थं च स्वकीयकटाक्षदृष्ट्या ऋज्व्या मामुद्धरेति पूर्वमन्वयः । तया अतिकारुण्यसुधाभिवर्षणेन संसारदवाग्नितप्तं मां मृत्योः परिपाहीत्युत्तरत्रान्वयः । मृत्योर्भीतं, प्रपन्नं शरणागतं, मां मृत्योः परिपाहीत्युभयत्रान्वयः । भवदनुग्रहादात्मज्ञाने सति मम शरीरोत्क्रमणरूपमरणं न सम्भवतीति भावः । ‘न तस्य प्राणा उत्क्रामन्ति अत्रैव समवनीयन्ते’(बृ.उ. ४.४.६) इति श्रुतेः । तथा च ‘ध्रुवं जन्म मृतस्य च’(भ.गी. २.२७) इत्युक्तत्वात् मरणाभावे जन्माभावस्य सिद्धत्वात् जन्ममरणप्रवाहरूपसंसारात् मुक्तो भवामि भवदनुग्रहे इति भावः । स्वस्यानन्यशरणत्वं गुर्वाभिमुख्याय प्रकटयति शरण्यमन्यं यदहं न जाने इति । भवदन्यं शरण्यं मद्रक्षकं यत् यस्मात् अहं न जाने । अतोऽनन्यशरणोऽयं नोदासितव्य इति भावः ॥३८॥
श्लोकद्वयेन भवादृशां सत्पुरुषाणाम् अस्मासु करुणा निर्व्याजैवेत्याह − शान्ता इति −
शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः ।
तीर्णास्स्वयं भीमभवार्णवं जनानहेतुनाऽन्यानपि तारयन्तः ॥३९॥
अयं स्वभावस्स्वत एव यत्परश्रमापनोदप्रवणं महात्मनाम् ।
सुधांशुरेष स्वयमर्क-कर्कश-प्रभाभितप्तामवति क्षितिं किल ॥४०॥
वर्षासु वृष्टिबाधा, ग्रीष्मे तापः, शरदि प्रारम्भे सुखं, न मासद्वये, कार्तिकान्तिमभागस्य यमदंष्ट्रात्वकीर्तनात्, हेमन्तशिशिरयोश्शैत्यं, सुगन्धिकुसुमाकरः वसन्तर्तुः कार्त्स्न्येन लोकस्य सुखं जनयतीति वसन्तवदित्युक्तं तदा वर्षतापशैत्यरोगादीनामभावात् । स ऋतुः यथा सुखमेव जनयति तथा लोकस्य सुखमेव तन्वानाः शान्ताः निर्विकारमनस्काः अत एव महान्तः, अपरिच्छिन्नब्रह्मसाक्षात्कारवन्तः, अत एव तादृशसद्ब्रह्माभेदेन सन्तः ‘ब्रह्मविद् ब्रह्मैव भवती’ति (मु.उ ३.२.९) श्रुतेः, स्वयं भीमः भयङ्करः यः भवार्णवः संसारसागरः तं तीर्णाः असंसारिण इत्यर्थः । स्वस्य आप्तकामत्वेन प्रयोजनाभावात् अहेतुना हेतुं विना, अन्यानपि तारयन्तः भवाम्भोधिमग्नानिति भावः । हेतुं विना कथं तेषां तत्तारणे प्रवृत्तिः निर्निमित्तप्रवृत्त्याभावात् इति शङ्कायामाह − अयं स्वभावः इत्यादिना । नहि स्वभावे कारणं गवेषणीयम् । नहि शर्करायां माधुर्यं किं निमित्तमिति प्रश्नो युज्यते तत्र तस्य स्वाभाविकत्वादित्यभिप्रायः । परश्रमापनोदप्रवणं परेषां यश्श्रमः दुःखं तस्यापनोदः निवारणं तत्र प्रवणं भावप्रधानो निर्देशः प्रवणभावः प्रवणता सक्तता वैयग्र्यमित्यर्थः । इति यत् अयं स्वभावः महात्मनां स्वत एव । परप्रेरणादिकं तत्र नापेक्ष्यत इत्यर्थः । तत्र दृष्टान्तमाह सुधांशुरित्यादिना । अर्क-कर्कश-प्रभाभितप्ताम् अर्कस्य सूर्यस्य या कर्कशा तीक्ष्णा प्रभा प्रकाशः तया अभितः तप्तां क्षितिं भूमिं, सुधांशुः अमृतकिरणश्चन्द्रः एषः प्रसिद्धः समीपवर्ती, स्वयं पराप्रेरितः अवति रक्षति, किलेति प्रसिद्धौ ॥४०॥
एवं विनीतवेषेण तदनुसारिण्या वाचा तदभिव्यञ्जितभक्त्या च आर्तः अनन्यशरणोऽयं सर्वथा रक्षणीय इत्यभिप्रायेण स्वाभिमुखं स्वात्मानं सानुग्रहानुकम्पामृत-वर्षिकटाक्षैः पावयन्तं देशिकोत्तमं स्वबन्धमोचकोपदेशाय धैर्येण प्रार्थयते − ब्रह्मानन्देत्यादिना −
ब्रह्मानन्दरसानुभूतिकलितैः पूतैः सुशीतैः सितैः
युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय ।
सन्तप्तं भवतापदावदहनज्वालाभिरेनं प्रभो
धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः ॥४१॥
हे प्रभो सर्वशक्त, भवदीक्षणक्षणगतेः भवतां यदीक्षणं दयार्द्रविलोकनं, तस्य क्षणगतेः क्षणप्राप्तेः, पात्रीकृताः आस्पदीभूताः, यद्वा भवतां यदीक्षणं नयनं तस्य क्षणगतेः क्षणसंयोगस्य पात्रीकृताः आश्रयीभूताः क्षणमात्रं वा भवन्नेत्रपातलक्ष्या इति यावत् । अत एव स्वीकृताः आत्मीयत्वेन कृताः ये पुरुषाः ते धन्याः कृतार्थाः । तस्मादहमपि भवत्कटाक्षेण पातिततमाः पाविततमश्च धन्योऽस्मि । अतिक्षिप्रं सांसारिकाग्नितापं शिशमयिषुः एवं प्रार्थये इति सूचयति । ‘श्रेयसि केन तृप्यते’ इति न्यायेन कटाक्षपात्रं मां स्वीकृतं भवतापदावदहनज्वालाभिः भवस्य तापः भवतापः, संसारशोकः स एव दावदहनः वनाग्निः, तज्ज्वालाभिः सन्तप्तम् अत्यन्तदग्धम् , एनं पुरोवर्तिनं, मां ब्रह्मानन्द एव रस इव आस्वद्यत इति रसः, तदनुभूतिकलितैः तदनुभवमिश्रैः, अत एव पूतैः सकलकल्मषहारकत्वेन पवित्रैः ‘न हि ज्ञानेन सदृशं पवित्रमिह विद्यते’(भ.गी. ४.३८) इति स्मृतेः । तादृशज्ञानवत् वाक्यानां सकलपापापहारकज्ञानोपदेशरूपत्वेन पूतत्वम् । सुशीतैः आन्तराणाम् आध्यात्मिकाधिदैविकाधिभौतिक तापानां नाशकत्वात् । सितैः रजस्तमोमार्गनिवर्तनद्वारा सत्त्वमार्गैकप्रापकत्वेन निर्मलैः । युष्मद्वाक्कलशोज्झितैः युष्माकं वाक् युष्मद्वाक्, वागिन्द्रियं तत्स्थानं मुखं वा स एव कलशः घटः ततो निर्गलन्ति वाक्यामृतानीति, तेन उज्झितैः विसृष्टैः, श्रुतिसुखैः कर्णानन्ददायकैः, वाक्यामृतैः वाक्यान्येवामृतानि तैरित्यर्थः । सेचय मां सिञ्चेत्यर्थः । स्वार्थे णिच् । पूतत्वं सुशीतत्वं सितत्वं कलशोज्झितत्वं वाक्येष्वमृते चाविशिष्टमिति वाक्यान्यमृतत्वेन रूपितानि । पूतत्वे हेतुः ब्रह्मानन्दरसानुभूतिकलितैरिति, श्रुतिसुखैरिति श्रवणकालेऽपि आनन्दकरैरित्यनेन तदर्थमनुसन्धाय यद्यनुभव उत्पद्येत तादात्विकः आनन्दः किमु वक्तव्य इति भावः ॥४१॥
पूर्वं भीतं प्रपन्नम् इत्यत्रोक्तां भीतिं स्पष्टयति सहसा स्वस्मिन्ननुग्रहसिध्यर्थम् − कथमित्यादिना −
कथं तरेयं भवसिन्धुमेतं
का वा गतिर्मे कतमोऽस्त्युपायः ।
जाने न किञ्चित्कृपयाव मां प्रभो
संसारदुःखक्षतिमातनुष्व ॥४२॥
एतं बहुविधदुर्वारदुःखजालजटिलं भवसिन्धुं कथं तरेयम् । एवमेव यदि वर्तेय मे का वा गतिः ? मया किं तावत्प्राप्यम् ? सर्वथा दुःखमेवेति भावः । अतः कतमोस्त्युपायः एतद्भवसिन्धुतरणे को वोपायोऽस्ति ? अहं तावत् किञ्चिदपि न जाने । मामव एवं भीतं परिपाहि । अवनं स्पष्टम् प्रार्थयते संसारदुःखक्षतिमातनुष्वेति । सांसारिकशोकं समूलघातं जहीत्यर्थः ॥४२॥
इदानीं गुरोः कर्तव्यमुपदिशति, तथेत्यादिना, श्लोकद्वयेन −
तथा वदन्तं शरणागतं स्वं संसारदावानलतापतप्तम् ।
निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यादभीतिं सहसा महात्मा ॥४३॥
९. मार्गोपदेशः
विद्वान्स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधुयथोक्तकारिणे ।
प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात् ॥४४॥
तथा वदन्तमित्युक्त्या वाग्व्यापारेण तदीयाधिकारस्य आन्तरस्य सम्यग्ज्ञातुं शक्यत्वात् अधिकारिणं ज्ञात्वैव अभयदानोपदेशादिकं गुरुभिः कर्तव्यमिति द्योतितम् । संसारदावानलतापतप्तं, स्वं स्वात्मानं शरणागतं रक्षकत्वेन मत्वा प्राप्तं, कारुण्यरसार्द्रदृष्ट्या निरीक्ष्य, महात्मा अक्षुद्रबुद्धिः, गुरुः सहसाऽभीतिं दद्यादित्यनेन भीताः सहसा भीत्या मोचनीया इति व्यञ्जितम् । अभयदानेन निवृत्तभीतेरेव पुरुषस्य उपदिष्टार्थग्रहणादौ सामर्थ्यं सम्भवतीति भावः । भीतस्य भयं शक्तेन बहुकालं न स्थापनीयम् इति च सहसेत्युक्तम् ॥४३॥
भीतस्याभयदानं प्रथमतः कर्तव्यमित्युक्त्वा अधिकारानुसारेण उपदेशः अनन्तरकालिक इति बोधयति विद्वानित्यादिना − स विद्वान् ब्रह्मवित्तमो देशिकः, उपसत्तिमीयुषे विधिवत्समीपं गताय मुमुक्षवे मोक्षं कामयमानाय, साधुयथोक्तकारिणे सम्यग्विहितानुष्ठात्रे । एतेन शिष्टत्वमुक्तम् । ‘नाविरतो दुश्चरितात् नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्’(क.उ. १.२.२४) इत्युक्तत्वात् । श्रोत्रियत्वम् अवृजिनत्वं मोक्षकामव्यतिरिक्तकामशून्यत्वं च शिष्ये अवेक्षणीयमिति भावः । प्रशान्तचित्ताय देहादिब्रह्मपर्यन्तभोग्यवस्तुनो विरज्य, स्वलक्ष्ये नियतावस्थितमनस्काय, शमान्विताय निगृहीत-बहिरिन्द्रियाय, एतेन शमादिषट्कमुक्तम् अधिकारिविशेषणम् । तस्मै वैराग्यादिगुणगणमण्डिताय, तत्त्वोपदेशं कृपया तदीयदुःखप्रहाणेच्छया आप्तकामस्य स्पृहान्तराभावात् कुर्यादेवेत्येवकारो भिन्नक्रमः । अधिकारिणि लब्धे नोदासितव्यं, पात्रे दत्ता ब्रह्मविद्या लोकानुग्रहार्थं प्रतिष्ठिता भवतीति भावः । इत्थं च सर्वानर्थ-हेतुभूताविद्यानिवर्तक-ब्रह्मविद्यापारम्पर्याविच्छेदः स्वशिष्यमोचनं च उपदेशस्य फलम् । तत्र गुरुशिष्यसंवादरूपेण प्रकरणप्रणयनं सुलभतया तत्त्वस्य श्रोतृबुद्ध्यारोहाय । अत एव किलाख्यात्याख्यायिकां तत्र तत्र श्रुतिरपि । तेन गुरुलक्षणं शिष्यलक्षणं प्रष्टव्याद्यंशाः सर्वे अनायासेन अस्माभिः ज्ञातुं शक्यन्ते इति ॥४४॥
परमकारुणिको गुरुः शिष्येण ‘कथं तरेयं भवसिन्धुमेतम्’ इत्यादिना दर्शितां भीतिं झटिति निनाशयिषुराह − माभैष्टेति −
माभैष्ट विद्वंस्तव नास्त्यपायः संसारसिन्धोस्तरणेऽस्त्युपायः ।
येनैव याता यतयोऽस्य पारं तमेव मार्गं तव निर्दिशामि ॥४५॥
हे विद्वन् ! भवान् माभैष्ट, भवतो भयं माभूदिति सहसा अभीतिर्दत्ता । विद्वन्निति सम्बोधयन् विवेकादिकं सम्पाद्य गुरुकरुणां विना दुःखतरणं न भवतीति मां प्राप्तस्त्वं ज्ञातव्यं जानीष एव इति सूचयति, तादृशस्य तव साधुयथोक्तकारिणः नास्त्यपायः ‘न हि कल्याणकृत्कश्चित् दुर्गतिं तात गच्छति’(भ.गी. ६.४०) इति स्मृतेः । अतः कथं तरेयम् , का वा गतिरिति मैव भैषीरित्यर्थः । एवं मा भैष्ट तव कल्याणकर्तुः अपायो नास्तीति तमाश्वास्य कतमोऽस्त्युपायः इत्यस्य उत्तरमाह संसारसिन्धोस्तरणेऽस्त्युपाय इति । तत्र सम्यग्विश्वासोत्पत्त्यर्थं तमुपायं सप्रमाणं कथयति । येनैव मार्गेण अस्य संसारसिन्धोः पारम् अन्तं यतयः प्रयत्नशीलाः संन्यासिनः, याताः तमेव मार्गं तव निर्दिशामि उपदिशामीत्यर्थः ॥४५॥
तादृशमार्गशुश्रूषायामौत्कट्यसिद्ध्यर्थं पुनरपि सामान्यरूपेणैव उपायं निर्दिशति − अस्तीति −
अस्त्युपायो महान्कश्चित् संसारभयनाशनः ।
तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि ॥४६॥
संसारभयनाशनः महान् बह्वायाससाध्यसाधनसाध्यः कश्चिदुपायोऽस्ति, तेन वक्ष्यमाणोपायेन भवाम्भोधिं दुस्तरं संसारसागरं तीर्त्वा तन्मूलभूताम् अविद्यां भङ्क्त्वा परमानन्दं निरवधिकं शाश्वतं सन्तोषम् , आप्स्यसि लप्स्यसे इत्यर्थः । तेन दुःखनिवृत्तिरेव त्वया काम्यते मयोपदेक्ष्यमाणोपायेन तु दुःखमप्यत्यन्तं निवर्तते, नित्यनिरतिशयानन्दाविर्भावश्च तव भवतीति शिष्यः अत्यन्तमाप्यायित इति भावः ॥४६॥
तमुपायं विशेषतो निर्दिशति − वेदान्तेति −
वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् ।
तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु ॥४७॥
वेदानामन्ताः वेदान्ताः उपनिषदः तासां योऽर्थः तद्विचारेण, उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गैः प्रतिपाद्यमानः सजातीयविजातीयस्वगतभेदरहितः नित्यशुद्धबुद्धमुक्तस्वभावः परमात्मा तस्य विचारेण तन्निर्णयानुकूलमानसव्यापारेण, उत्तमं ज्ञानं संशयभावनाद्यशबलितं ज्ञानं निर्णयः जायते । तेन निर्णयेन आत्यन्तिकसंसारदुःखनाशः स्वसमानाधिकरणदुःखप्रागभावासमानकालिकः दुःखनाशः, अनु तन्निर्णयानुपदं भवति भविष्यतीत्यर्थः ॥४७॥
इदानीं तादृशनिर्णयासाधारणहेतूनाह − श्रद्धेत्यादिना −
श्रद्धाभक्तिध्यानयोगान् मुमुक्षो
र्मुक्तेर्हेतून् वक्ति साक्षात् श्रुतेर्गीः ।
यो वा एतेष्वेव तिष्ठत्यमुष्य
मोक्षोऽविद्याकल्पिताद्देहबन्धात् ॥४८॥
तत्र श्रद्धा − गुरुवेदान्तवाक्यविश्वासः शास्त्रस्य गुरुवाक्यस्येत्यादिना लक्षिता । भक्तिः स्वस्वरूपानुसन्धानं निदिध्यासनम् । ध्यानं, ‘तत्र प्रत्ययैकतानता ध्यानम्’(यो.सू. ३.२) इति सूत्रितं ‘सम्यगास्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा’ इति लक्षितं समाधानम् । योगः ‘योगश्चित्तवृत्तिनिरोधः’(यो.सू. १.२) इति सूत्रितः । तत्र श्रद्धा सर्वत्र हेतुः । भक्तिध्यानयोगानां मध्ये उत्तरोत्तरस्य पूर्वपूर्वहेतुत्वम् । चित्तवृत्तिनिरोधे समाधानस्य तस्मिन् श्रुताचार्योपदेशमनु स्वस्वरूपानुसन्धानरूपनिदिध्यासनस्य सम्भवात् । यद्वा ध्यै चिन्तायामिति धातोः युक्तिभिरनुचिन्तनरूपं मननं निदिध्यासनसाक्षात्कारणमुच्यते ध्यानशब्देन, ज्ञानप्रतिबन्धकसकलदुरितनिवर्तकं सगुणध्यानं वा । अत्रोभयत्रापि चित्तबाह्यवृत्तिनिरोधरूपयोगस्य हेतुत्वम् अस्त्येव । यद्वा युज्यते सम्बध्यते आत्मसाक्षात्कारेणानेनेति योगः, भक्तिश्चासौ योगः, ध्यानं च तद्योगः इति भक्तियोगः ध्यानयोगः इति वा सम्बन्धः । मुमुक्षोः पुरुषस्य मुक्तेः बन्धनिवृत्तेः, हेतून् श्रुतेर्गीः ‘श्रद्धाभक्ति-ध्यान-योगादवेहि’(कै.उ.२) इति कैवल्योपनिषत् , साक्षाद्वक्ति प्रत्यक्षश्रुतिरित्यर्थः । यद्वा मुक्तेः मुक्तिहेतुज्ञानस्य साक्षाद्धेतून् साक्षात्कारणानीति अवेहीति पदघटिता श्रुतिः वक्ति इति वा अन्वयः । यो वै पुरुषः एतेष्वेव श्रद्धाभक्ति-ध्यानयोगेषु तिष्ठति, श्रद्धालुः भक्तिमान् ध्याता योगी च सदा भवति, अमुष्य अदश्शब्दप्रयोगेण तादृशाधिकारिणः दुर्लभत्वं सूचयति ‘अदसस्तु विप्रकृष्टम्’ इत्युक्तेः । तस्य अविद्याकल्पितात् अज्ञानमूलकात् देहबन्धात् अहङ्कारादिदेहबन्धात् , मोक्षः निवृत्तिः सिध्यत्येवेति शेषः । यो वा इत्यत्र वै इत्यवधारणे, स अन्ते सम्बन्धनीयः । एतेष्वेवेत्यत्र अवधारणम् उक्तसाधनान्यनिष्ठत्वं वारयति ॥४८॥
इदानीं गुरुः सङ्ग्रहेण शिष्यं प्रति संसृतिहेतुं तन्निदानं तन्निवृत्त्युपायं च सकारणमुपदिशति − अज्ञानयोगादिति −
अज्ञानयोगात्परमात्मनस्तव
ह्यनात्मबन्धस्तत एव संसृतिः ।
तयोर्विवेकोदितबोधवह्निः
अज्ञानकार्यं प्रदहेत्समूलम् ॥४९॥
परमात्मनस्तव अज्ञानयोगात् अनाद्यविद्यासम्बन्धात् , अनात्मबन्धः अनात्मसु स्थूलसूक्ष्मकारणशरीरेष्वात्मत्वबुद्धिः । तत एव जन्मजरामरणसुखदुःखजडत्वादिधर्माध्यासरूपा संसृतिः । तयोः आत्मानात्मनोः विवेकोदितबोधवह्निः विवेकः भेदज्ञानं तेन उदितो जातः बोधवह्निः साक्षात्काररूपाग्निः समूलम् अज्ञानरूपबीजोपेतम् अज्ञानकार्यम् अहङ्कारादिदेहान्तबन्धं तत्प्रयोज्यजन्मजरामरणादिरूपसंसारं च प्रदहेत् प्रकर्षेण भस्मीकुर्यादित्यर्थः । तथा च संसृतिकारणम् अनात्मबन्धः, तत्र कारणं तवाज्ञानयोगः, तन्निवृत्त्युपायः परमात्मबोधः तत्र कारणम् आत्मानात्मविवेकः इति सङ्ग्रहेणोक्तम् । तेन वेदान्तविचारजन्योत्तमज्ञानस्य संसारदुःखनाशकत्वविषये उपपत्तिः प्रदर्शिता आज्ञानिकस्य बन्धस्य ज्ञानादेव निवृत्तिः नान्यत इति ॥४९॥
इत्थं गुरुमुखारविन्दनिर्गलितवाक्सुधास्यन्दानन्दितः शिष्यः तन्मुखकलशनिरर्गलनिर्गलद्वाक्यपीयूषपारावारे गाढं मिमङ्क्षुः स्वकीयसकलसन्देहभञ्जनाय तं प्रष्टुं विनयेन प्रार्थयते ।
शिष्य उवाच –
कृपया श्रूयतां स्वामिन् प्रश्नोऽयं क्रियते मया ।
यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ॥५०॥
एतेन गुरुसन्निधावनिवेद्य प्रश्नो न कर्तव्य इति शिष्यधर्मो बोधितः । यस्य उत्तरं यदुत्तरम् । तत्र प्रश्नोऽयं क्रियते मयेति अनुक्त्वा, प्रथमं कृपया श्रूयतामिति प्रार्थनोत्तरं तदुक्त्या गुरोः स्वस्मिन् दयाभिवृद्धये मानसमार्दवं क्षिप्रजिज्ञासुत्वं च सूचितम् । भवन्मुखात् श्रुत्वेत्यनेन स्वस्य अनन्यशरणत्वं गमितम् ॥५०॥
पृच्छति को नामेति −
को नाम बन्धः कथमेष आगतः
कथं प्रतिष्ठास्य कथं विमोक्षः ।
कोऽसावनात्मा परमः क आत्मा
तयोर्विवेकः कथमेतदुच्यताम् ॥५१॥
प्रथमं बन्धस्वरूपं पृच्छति को नाम बन्ध इति, तस्मिन् ज्ञाते तन्निवृत्तिः युक्तेन उपायेन सुकरेति । तत्र कारणं पृच्छति कथमेष आगत इति, तस्य स्थितौ हेतुं पृच्छति कथं प्रतिष्ठास्येति, अस्य बन्धस्य प्रतिष्ठा चिरकालं स्थितिः, कथं कुतः, केन हेतुनेति यावत् । विमोक्षः निवृत्तिः । गुरुणा परमात्मनस्तवानात्मबन्ध इत्युक्तत्वात् , कोऽसावनात्मा परम आत्मा कः । तयोर्विवेकोदितेत्युक्तत्वात् , तयोः अनात्मपरमात्मनोः विवेकः भेदग्रहः कथं जायते, एतत्सर्वम् उच्यतां दयया विस्तरेण उच्यतामिति भावः । यद्यपि श्रीचरणसङ्ग्रहोक्त्या परमात्मनो मे अज्ञानयोगात् अनात्मबन्ध इत्युक्त्या, कथमेष आगत इति किञ्चिज्ज्ञातमिव, तयोर्विवेकोदितबोधवह्निरज्ञानकार्यं समूलं प्रदहेदित्यनेन कथं विमोक्ष इत्यपि किञ्चिज्ज्ञातमिव, अथापि केवलं शब्दमात्रश्रवणेन किञ्चिज्ज्ञातार्थस्यापि विस्तरेण तन्निराकाङ्क्षनिर्णयार्थं बन्धस्वरूपस्य तत्स्थितिहेतोः आत्मानात्मविवेकस्य च सुतरामज्ञातत्वात् एतत्सर्वं सम्यक्छ्रावयित्वा कृतार्थयितव्यः दीनदीनोऽयं जनः इति भावः ॥५१॥
अनया प्रश्नवैखर्या पूर्वज्ञातत्रिकरणशुध्या च ब्रह्मविद्यायामुत्तमाधिकारिणं मत्वा ब्रह्मविचारे झटिति तस्य प्रवेशार्थं श्लाघते । ब्रह्मविदुत्तमेन महात्मना श्लाघितः स्वमनोगतं सकलं दुःखं दूरिकृत्य विचारोत्कमनाः ऐदम्पर्येण परमात्मानं विचार्य झटिति कृतार्थः स्यादिति भावः ।
श्री गुरुरुवाच ।
श्रीयुतश्चासौ गुरुश्च श्रीगुरुः, ‘ऋचस्सामानि यजूंषि, सा हि श्रीरमृता सताम्’(तै.ब्रा. १.२.१) इति श्रुत्या ऋगादीनां शब्दरूपाणामेव अमृतसम्पद्रूपत्वे सकलवेदान्तान् तत्प्रतिपाद्यमर्थं च साक्षात्कृतवतो गुरोः श्रीमत्वे किं वक्तव्यम् ? सूर्यादिसकलतेजोभानहेतुभूतब्रह्मतेजसा सम्पन्न इत्यर्थः । तादृशःशिष्यान्तरान्धकारनिरोधकः श्रीगुरुः शिष्येण पृष्टस्य उत्तरमुवाच ।
आदौ तन्मनोविकासार्थं श्लाघते − धन्योऽसीति −
धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया ।
यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि ॥५२॥
धन्यः धनार्हः,
न खलु धनत्वं जातिः यस्य यदिष्टं तदेव तस्य धनम् ।
तत्तदिव पामराणामाकिञ्चन्यं धनं विदुषाम् ॥ (वैरा.शत. ४३)
इत्युक्तरीत्या विद्वद्भिः धनत्वेन सम्मतवैराग्यादिभाग्यभागसीत्यर्थः । तत्र हेतुः कृतकृत्योऽसीति, शास्त्रविहितकर्मानुष्ठानेन शुद्धचित्तोऽसीत्यर्थः, तदभावे संसारे वैराग्यानुत्पत्तेः । कृतानि कृत्यानि शास्त्रविहितानि येन स्ववर्णाश्रमोचितानि कर्माणि साध्वनुष्ठाय चित्तं संशोध्य जाततीव्रवैराग्यः मुमुक्षुरसि । त्वया एतादृशेन ते कुलं वंशः, सर्वोऽपि पावितं पवित्रीकृतः । उक्तं हि –
कुलं पवित्रं जननी कृतार्था
विश्वम्भरा पुण्यवती च तेन ।
अपारसच्चित्सुखसागरेऽस्मिन्
लीनं परे ब्रह्मणि यस्य चेतः ॥ (सूत.सं. २.२०.४५) इति ।
स्नातं तेन समस्ततीर्थसलिले सर्वापि दत्तावनी
यज्ञानां च सहस्रमिष्टमखिला देवाश्च सम्पूजिताः ।
संसाराच्च समुद्धृताः स्वपितरस्त्रैलोक्यपूज्योऽप्यसौ
यस्य ब्रह्मविचारणे क्षणमपि स्थैर्यं मनः प्राप्नुयात् ॥
इति च । यद्यपीदानीं तस्य ज्ञानं न जातम् , अथापि गुरूपदेशश्रवणसमनन्तरमेव उत्तमाधिकारित्वात् स जातज्ञानो भवति । ‘परिपक्वमतेः सकृत् श्रुतं जनयेदात्मधियं श्रुतेर्वचः’ इति माधवीयशङ्करविजये (१०.९५) श्रीमदाचार्योक्तेः । ‘अत्यन्तवैराग्यवतः समाधिः’(श्लो. ३७६) इत्यत्रैव वक्ष्यमाणत्वाच्च । क्षिप्रमेव ब्रह्मविलीनमनस्को भूत्वा कुलं भुवं च पावयिष्यतीति भावः ।
न विषयभोगो भाग्यं योग्यं खलु यत्र जन्तुमात्रमपि ।
ब्रह्मेन्द्ररुद्रमृग्यं भाग्यं विषयेषु वैराग्यम् ॥
इति वैराग्यभाग्यवत्त्वेन महापुण्यशालित्वात् इदानीमपि तस्य वंशपावयितृत्वमस्त्येव । तत्र हेतुं स्पष्टयति यद्यस्मात् कारणात् अविद्याबन्धमुक्त्या अविद्याप्रयोज्याहङ्कारादिदेहान्तबन्धपरित्यागेन, ब्रह्मीभवितुं ब्रह्मस्वरूपेणैव वर्तितुम् इच्छसि तस्मादिति अनेन तीव्रवैराग्यानन्तरकालिकतीव्रमुमुक्षा उक्ता । एतादृशः अस्मिन्नेव जन्मनि परं ब्रह्म साक्षात्कृत्य कुलं जगच्च पवित्रयिष्यतीत्यभिप्रायः ।
ननु ब्रह्मीभवितुमित्यत्र ‘अभूततद्भावे च्विः’(५.४.५४ पा. सूत्रे वार्तिकम्) इत्यनुशासनानुसारेण अभूतः पूर्वमस्थितः ब्रह्मभावः पश्चाद्भविष्यतीति प्रतीयते, तर्हि ब्रह्मभावस्य आगन्तुकत्वात् तद्रूपस्य मोक्षस्याप्यनित्यत्वमिति चेन्न, यद्यपि ब्रह्मैव जीवरूपेण वर्तते इति सर्वदा ब्रह्मभाव इष्ट एव वर्तते, अथापि इदानीमज्ञातत्वात् अज्ञातत्वज्ञातत्वकृतविशेषमाश्रित्य ब्रह्मीभवितुमिति च्विप्रत्ययप्रयोग इति मन्तव्यम् । इदानीमज्ञानवशात् अब्रह्मरूपेण ब्रह्मण एव सतः स्थितिः, ज्ञानानन्तरं तु ब्रह्मात्मनैवावस्थानमित्याशयः । एतेन ब्रह्मभावस्यागन्तुकत्वशङ्का परास्ता ॥५२॥
तत्र प्रथमतः सर्वेषां भवबन्धविमुक्त्यर्थं प्रवृत्तिसिद्धये तस्याः विमुक्तेः स्वस्वमात्रलभ्यत्वं लोकानुजिघृक्षया उपदिशति गुरुः, तत्र जना उदासीना भूत्वा ईश्वरानुग्रहलब्धं जन्म व्यर्थयित्वा दुःखपरम्परां मानुभूवन्नित्यभिप्रायेण − ऋणमोचनेति −
ऋणमोचनकर्तारः पितुः सन्ति सुतादयः ।
बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥५३॥
लोके तावत् पुत्रपौत्रादयः पितुः ऋणमोचनकर्तारः सन्ति । ऋणात् शास्त्रीयात् लौकिकाद्वा मोचयन्ति पुत्रप्राप्त्या तद्वाक्यानुपालनेन अर्थसमर्पणेन वा । बन्धमोचनकर्ता तु अनात्माहङ्कारादिदेहान्तबन्धमोचयिता तु स्वस्मादन्यो न कश्चन, स्वस्य अन्तःकरणाद्यनात्मनि वर्तमानाध्यासः स्वेनैव निवर्तनीयः नान्यस्तत्र प्रभुरित्यर्थः ॥५३॥
स्वीयतद्विषयकप्रत्यक्षप्रमाया एव स्वीयतद्विषयकप्रत्यक्षभ्रमनिवर्तकत्वात् । यदि पिता मन्दान्धकारे पतितां रज्जुं सर्पं मत्वा बिभेति, तत्पुत्रः तां रज्जुं साक्षात्कुर्वन्नपि पितुः साक्षात्कारमन्तरा न तद्भयं निवर्तयितुमीष्टे, तद्वत् स्वानुभवसिद्धो बन्धः स्वेनैव निवर्तनीयः नान्येनेत्यमुमर्थं बहुभिर्दृष्टान्तैः द्रढयन्त्याचार्याः, दृढनिश्चितैतदर्थाः सहसा प्रवर्तन्तां जनाः स्वबन्धमुक्तय इति । मस्तकेति –
मस्तकन्यस्तभारादेः दुःखमन्यैर्निवार्यते ।
क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥५४॥
मस्तके न्यस्तः भारः यस्य, आदिपदेन शृङ्खलादिनिगडितकरचरणादिः तस्य दुःखम् अन्यैर्निवार्यते भाराधस्स्थापनादिना शृङ्खलादिमोचनेन वा । क्षुधादिकृतदुःखं स्वेन विना केनचिदन्येन न निवार्यत इत्यर्थः । नह्यन्यस्मिन् पुत्रादौ भुञ्जाने वारि पिबति वा पितुः क्षुत्पिपासानिवृत्तिर्दृष्टा ॥५४॥
दृष्टान्तान्तरमाह − पथ्यमिति –
पथ्यमौषधसेवा च क्रियते येन रोगिणा ।
आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्ठितकर्मणा ॥५५॥
येन रोगिणा पथ्यं सेव्यते औषधसेवा च क्रियते तस्यैवारोग्यसिद्धिः दृष्टा । अन्येन पथ्यमौषधसेवा च क्रियते चेत् अन्यदीयरोगनिवृत्तिःन दृष्टेत्यर्थः । पथ्यमौषधसेवा चेति द्वयकथनेन दृढतरसाधनचतुष्टयसम्पत्तिः वेदान्तश्रवणं च ज्ञानहेतुरिति व्यञ्जितम् ॥५५॥
वस्तुस्वरूपं स्फुटबोधचक्षुषा
स्वेनैव वेद्यं न तु पण्डितेन ।
चन्द्रस्वरूपं निजचक्षुषैव
ज्ञातव्यमन्यैरवगम्यते किम् ॥५६॥
स्फुटः निर्मलः संशयत्वाद्यनास्कन्दितः यो बोधः श्रवणमनननिदिध्यासनजातः साक्षात्कारः तेन वस्तुस्वरूपम् आत्मरूपवस्तुयाथात्म्यं परमात्माभिन्नत्वमिति यावत् । स्वेनैव वेद्यं विषयीकर्तव्यं न तु स्वभिन्नेन केनचित्पण्डितेन वेद्यम् । शुकवामदेवादयः परं ब्रह्म साक्षात्कृत्य मुक्ता बभूवुः । तेन इतरेषां किं जातमिति भावः । तत्रानुरूपं दृष्टान्तमाह तापवारकाह्लादजनकचन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यम् । अन्यैः चक्षुर्हीनैः अवगम्यते किम् ? यद्वा चक्षुष्मद्भिरप्यन्यैः स्वभिन्नैरवगम्यते चेत् एतदीयतापं हरति वा एतमाह्लादयति वा चन्द्रस्वरूपम् ? तद्वदित्यर्थः ॥५६॥
लोकप्रसिद्धपाशादिबन्धम् अन्यो मोचयितुं शक्नुयात् नानादिसिद्धबन्धमित्याह − अविद्येति –
अविद्याकामकर्मादिपाशबन्धं विमोचितुम् ।
कः शक्नुयाद्विनाऽऽत्मानं कल्पकोटिशतैरपि ॥५७॥
पूर्वपूर्वस्य उत्तरोत्तरहेतुत्वं, स्वस्वरूपाज्ञानात् बाह्येषु कामः, ततः कर्मणि प्रवृत्तिः, नहि लब्धसाक्षात्काराः किञ्चित् कामयन्ते ‘कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति कामाः’(मु.उ. ३.२.२) ‘रसोप्यस्य परं दृष्ट्वा निवर्तते’(भ.गी. २.५९) इत्यादिश्रुतिस्मृतिभ्यः । कामाभावे कर्म कुतः ?
‘यद्यद्धि कुरुते जन्तुः तत्तत्कामस्य’(म.स्मृ. २.४) इति स्मृतेः । तथा च अज्ञानाशाधर्माधर्मरूपपाशप्रयुक्तं बन्धम् अनात्माध्यासं विमोचितुम् , आत्मसाक्षात्कारेण विना त्यक्तुं, कल्पकोटिशतैरपि कल्पानां कोटयः तेषां शतानि तैरपि आत्मानं विना को वा शक्नुयादित्यर्थः । अतीतानन्तरश्लोकोक्तरीत्या स्वस्वरूपस्य स्वेनैव साक्षात्कर्तव्यत्वात् तं विना अज्ञानानिवृत्तौ कामकर्मादेः नैव निवृत्तिरिति भावः । आदिपदेन जन्मजरामरणसुखदुःखादिपरिग्रहः ॥५७॥
इदानीं ‘पठन्तु शास्त्राणि’(श्लो. ६) इत्यत्रोक्तरीत्या गुरुशिष्यसंवादरूपेऽस्मिन् ग्रन्थे ‘तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’(श्वे.उ. ३.८) (वा.सं. ३१.१८) ‘ज्ञानादेव तु कैवल्यम्’ इत्यादि श्रुत्यनुसारेण ब्रह्मात्मैकत्वबोधव्यतिरिक्तस्य मोक्षहेतुत्वं व्यासेधति − न योगेनेति –
न योगेन न साङ्ख्येन कर्मणा नो न विद्यया ।
ब्रह्मात्मैकत्वबोधेन मोक्षः सिद्ध्यति नान्यथा ॥ ५८॥
मोक्षः ब्रह्मस्वरूपेणावस्थानलक्षणमोक्षः, ब्रह्मात्मैकत्वबोधेन ब्रह्म च आत्मा च ब्रह्मात्मानौ तयोरेकत्वमभेदः तद्बोधः तत्साक्षात्कारः तेन सिद्ध्यति अभिव्यज्यते । नान्यथा अन्येन प्रकारेण न सिध्यतीत्यर्थः । तदेव विशदयति, योगेन मोक्षो न सिद्ध्यति, योगशास्त्रजन्यज्ञानेन भेदविषयेण, चित्तवृत्तिनिरोधरूपयोगेन वा मोक्षो न भवतीत्यर्थः । एवं साङ्ख्येन कपिलमहर्षिप्रणीतसाङ्ख्यशास्त्रजन्यज्ञानेन वा नानात्मविषयेण मोक्षो न सिद्ध्यति । कर्मणा पूर्वकाण्डविहितयज्ञादिकर्मणा न सिद्ध्यति । न विद्ययेति, उपनिषद्विहितयापि विद्यया सगुणोपासनया कैवल्यरूपमोक्षो न सिध्यतीति । तत्र योगसाङ्ख्यशास्त्रजन्यज्ञानस्य भेदविषयत्वात् , ‘यदाह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति’(तै.उ. २.७) इति अभयप्रापकत्वमेव नास्ति । ‘नास्त्यकृतः कृतेन’(मु.उ. १.२.१२) , ‘अमृतत्वस्य नाशास्ति वित्तेन’(बृ.उ. २.४.२) इत्यादि श्रुतिभ्यः नित्यमोक्षाभिव्यञ्जकत्वं कर्मणः नास्तीत्यवगम्यते । नित्यत्वं च मोक्षस्य ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) इति श्रुत्यावगम्यते, सः ब्रह्मलोकं गतः सगुणोपासकः पुरुषः पुनर्नावर्तते न संसारीभवति, जन्मभाङ् न भवतीत्यर्थः । तत्र कारणं मुक्तत्वमेव । तच्च ब्रह्मस्वरूपेणावस्थानमेव । तथा च ब्रह्मणः ‘यो वै भूमा तदमृतं’(छा.उ. ७.२४.१) ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ. २.१) ‘नित्योऽनित्यानाम्’(क.उ. २.५.१३) इत्यादिश्रुतिशतेभ्यः नित्यत्वेन प्रतीयमानत्वात् तत्स्वरूपमोक्षस्यापि नित्यत्वम् । उक्तं च शास्त्रान्तिमाधिकरणभाष्ये ‘सम्यग्दर्शनविध्वस्ततमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्धैवानावृत्तिः । तदाश्रयणेनैव हि सगुणशरणानामपि अनावृत्तिसिद्धिरिति’ । तेन ब्रह्मलोकं गतानां तत्रैव कृतसाक्षात्काराणां कैवल्यरूपमोक्षः ।
‘ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे’(म.ना.उ. ८.१५)
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ (ब्र.सू.भा. ३.३.३२)
इत्यादिश्रुतिस्मृतिभ्योऽवगम्यते । तत्र परामृतात् वेदान्तविचारजनितोत्कृष्टज्ञानात् इत्यर्थः ।
कृतात्मानः कृतात्मसाक्षात्कारा इत्यर्थः । यथा कण्ठगतमेव चामीकरं कवचादिना तिरोहितमन्विष्यान्विष्य श्रान्तः आप्तवाक्येन, ‘वर्तते किलात्रैव तव कण्ठे कुतो वा भ्राम्यति भवान्’ इत्यनेन बोधितः अप्राप्तमिव प्राप्नोति स्थितस्यैव चामीकरस्य अभिव्यञ्जकं तदाप्तवाक्यजन्यज्ञानम् , एवं सिद्धस्यैव ब्रह्मभावरूपमोक्षस्य अभिव्यञ्जकः तत्त्वमसीत्यादिगुरूपदिश्यमानमहावाक्यजन्यसाक्षात्कार इति न ज्ञानजन्यत्वशङ्का तत्र कार्या । यथा पूर्वमेव कौन्तेयस्सन्नपि कर्णः बाल्यात्प्रभृति राधया पोषितत्वात् स्वात्मानं राधेयं मन्वानः कुन्तीवाक्यादात्मानं कौन्तेयं मेने । न तावता तेन कौन्तेयत्वं नूतनमलम्भि । अपि तु पूर्वमज्ञातं कुन्तीवाक्याज्ज्ञातम् । एवं प्रकृतेऽपि वेदितव्यम् । यथा वा श्रीरामेण ‘आत्मानं मानुषं मन्ये रामं’(वा.रा.यु. १२०.१२) इत्याद्यनुसारेण स्वात्मानं मनुष्यम्मन्येन ‘एकशृङ्गो वराहस्त्वं’(वा.रा.यु. १२०.१४) इत्यादिपरमेष्ठिवाक्यैः महाविष्णुरेव त्वमिति बोधितेन स्वस्वरूपं ज्ञातं न तत्र अविद्यमानं महाविष्णुत्वमागतम् , अपि तु स्थितमभिव्यञ्जि तं तद्वच्चेति ज्ञेयम् । तथा च उत्पाद्याप्यसंस्कार्यविकार्याणामन्यतमस्य कर्मफलत्वं दृष्टं, यथा स्वर्गस्य यागोत्पाद्यत्वं, शब्दराशिरूपवेदस्य अध्ययनाप्यत्वं, व्रीहीणां प्रोक्षणादिसंस्कारसंस्कार्यत्वम् , अवघातादिभिः वैतुष्यसम्पादनद्वारा विकार्यत्वं तेषाम् । तत्र नित्यत्वात् नोत्पाद्यत्वं मोक्षस्य, आत्मस्वरूपत्वादनाप्यत्वं, नित्यशुद्धब्रह्मस्वरूपत्वात् न संस्कार्यत्वं, निर्विकारब्रह्मस्वरूपत्वात् न विकार्यत्वम् । एतत्तु समन्वयसूत्रभाष्ये विस्तरेणोपपादितं भगवत्पादैः । अतः कर्मफलत्वव्यापकोत्पाद्यत्वाद्यन्यतमधर्माभावात् कर्मणा नो सिध्यतीत्यर्थः । ‘विद्यां चाविद्यां च’(ई.उ. ११) ‘विद्यया तदारोहन्ति’(श.ब्रा. १०.५.४.१५) इत्यादौ विद्याशब्दस्य उपासनापरत्वं सिद्ध्यति । अतः विद्यापदस्य आत्मविद्याव्यतिरिक्तापरविद्याऽर्थः । तया ब्रह्मस्वरूपावस्थानलक्षणमोक्षः न साक्षात्सिध्यतीत्यर्थः ॥५८॥
ब्रह्मात्मैकत्वबोधेनैव मोक्षः सिद्ध्यति नान्यथे(श्लो. ५८)त्यमुमर्थं दृष्टान्तेन विशदयति – वीणाया इति −
वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् ।
प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते ॥५९॥
रञ्जनाद्राजा, ‘राजा प्रकृतिरञ्जनात्’(रघु. ४.१२) इत्युक्तानुसारेण कश्चिद्वैणिकः रूपेण जनमनोहरां काञ्चिद्वीणामादाय तत्तन्त्रीः सुष्ठु वादयति चेत् यद्यपि रज्यन्ते प्रजाः सुन्दरवीणादर्शनेन सौष्ठवोपेततत्तन्त्रीवादनेन च । अथापि तद्रञ्जनं न वैणिकस्य साम्राज्याय सम्राड्भावाय कल्पते । तद्वदात्मैक्यबोधेन विना योगशास्त्रादिजन्यज्ञानं वा कर्म वा उपासनं वा न साक्षात्कैवल्याय कल्पत इति भावः । वीणाया रूपसौन्दर्यं सुन्दररूपवत्त्वमिति यावत् । तन्त्र्याः वादने सौष्ठवं वैणिकनिष्ठप्रजारञ्जनमात्रं तत् न साम्राज्याय कल्पत इथ्यर्थः ॥५९॥
केवलं शब्दश्रवणमात्रेण मनोरञ्जकविषये कथयित्वा अर्थतोऽपि ये मनो रञ्जयन्ति तेषामपि पूर्वोक्तज्ञानाभावे नैव मुक्तिरित्याह वाग्वैखरीति –
वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् ।
वैदुष्यं विदुषां तद्वत् भुक्तये न तु मुक्तये ॥६०॥
वाग्वैखरी सरलपदबन्धविशिष्टा वाक्, शब्दझरी निरर्गलनिर्गलन्ती वाक् वाक्प्रयोगचातुर्यं शब्दप्रवाहः, शास्त्रव्याख्यानकौशलं शास्त्रस्य व्याख्यानं –
पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना ॥
आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षणम् । (परा.उ.पु. १८.१७-१८)
इत्युक्तरीत्या शास्त्रार्थकथने कौशलं, प्रावीण्यम् । एतादृशं विदुषां वैदुष्यमपि, तद्वत् वीणावादनादिवद् भुक्तये प्रतिष्ठासम्पादनादिद्वारा भवति । मुक्तये तु न भवति । तत्र पूर्वोक्तसाक्षात्कार एव कारणमिति भावः ॥६०॥
ननु तात्कालिकसुखजनकं वैणिककौशलं क्व, श्रवणानन्तरमपि सम्यगन्तः प्रविश्य आनन्दहेतुभूतं विदुषां वैदुष्यं क्व, अतस्तस्य तद्वदिति वैणिककौशलसाम्यं न वक्तव्यमिति चेत् , अस्त्वेवं तत्रान्तरम् , अथापि आत्मतत्त्वसाक्षात्काराभावे शास्त्राध्ययनं तज्जन्यकौशलं वा यथोक्तफलवन्न भवतीत्याह अविज्ञात इति –
अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला ।
विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥६१॥
परे कालत्रयाबाध्यत्वेन स्वयम्प्रकाशानन्दरूपत्वेन च मिथ्याभूतजडदुःखादि रूपदेहादिमायान्तसकलकार्यकारणापेक्षया उत्कृष्टे, तस्य सर्वस्याधिष्ठानभूते तत्त्वे निर्गुणे ब्रह्मणि, अविज्ञाते असाक्षात्कृते सति, शास्त्राधीतिस्तु अर्थविचारपर्यन्तवेदान्ताध्ययनमपि निष्फला । यदर्थं विचारः शास्त्रविहितः तस्यालाभे निष्फलत्वं तत्र तत्फललाभपर्यन्तं यथोक्तफलशून्यत्वरूपं सिद्धमेवेति भावः । जन्मान्तरकृतसाधनवशात् गर्भस्थेनापि वामदेवेनेव परे तत्त्वे विज्ञाते साक्षात्कृतेऽपि अनन्तरं फलस्य निष्पन्नत्वात् शास्त्राध्ययनादिकं न कार्यमिति भावः ॥६१॥
यथा महारण्यं प्रविष्टः पुरुषः दिशमज्ञात्वा भ्राम्यति मुधा तथा केवलश्ब्दजालात्मकशास्त्रस्यापि विक्षेपहेतुत्वात् तन्निष्ठत्वमपि परित्यज्य परमात्मसाक्षात्कारवतो देशिकात् आत्मयाथात्म्यं साक्षात्कर्तव्यमित्याह शब्दजालमिति –
शब्दजालं महारण्यं चित्तभ्रमणकारणम् ।
अतः प्रयत्नात् ज्ञातव्यं तत्त्वज्ञात्तत्त्वमात्मनः ॥६२॥
उपनिषद्रूपशास्त्रादेव आचार्योपदेशात्तत्त्वस्य ज्ञातव्यत्वेऽपि शास्त्रकोलाहलो नाश्रयणीयः तद्वासनाया अपि ज्ञानप्रतिबन्धकत्वात् । ‘लोकवासनया जन्तोः शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥’(श्लो. २७२) इति वक्ष्यमाणत्वादिति भावः ॥६२॥
ज्ञानमेवाज्ञाननिवर्तकं नान्यदित्याह अज्ञानेति –
अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना ।
किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः ॥६३॥
अज्ञानमेव सर्पः अत्यन्तानर्थकरत्वात् , तेन दष्टस्य आवृतिविक्षेपाभ्यां प्रापितमोहस्य, ब्रह्मज्ञानमेवौषधं ब्रह्मज्ञानौषधं तेन विना, वेदैः ऋगादिवेदैः, शास्त्रैः व्याकरणादिशास्त्रैश्च किमु प्रयोजनम् । मन्त्रैः सप्तकोटिभिः किमु । औषधैः सञ्जीविन्यादिमूलिकाभिर्वा किमु फलं तेषां मध्ये केषामपि अज्ञानसर्पदंशनप्रयोज्यमोहनिवर्तकत्वाभावादिति भावः ॥६३॥
शब्दमात्रस्य मोक्षाहेतुत्वं दृष्टान्तेनाह न गच्छतीति –
न गच्छति विना पानं व्याधिरौषधशब्दतः ।
विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥६४॥
व्याधिः रोगः, पानं विना औषधपानं विना, तद्बोधकात् औषधम् औषधमिति शब्दोच्चारणात् न गच्छति न निवर्तते । तद्वत् अपरोक्षानुभवम् आत्मसाक्षात्कारं विना केवलमुपनिषद्घटकैः ब्रह्मशब्दैः न मुच्यते, निवृत्तबन्धो न भवतीत्यर्थः ॥६४॥
तमेवार्थं तत्त्वज्ञानपरमकारणकथनद्वारा भङ्ग्यन्तरेणाह अकृत्वेत्यादिना –
अकृत्वा दृश्यविलयम् अज्ञात्वा तत्त्वमात्मनः ।
बाह्यशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ॥६५॥
दृश्यविलयं दृश्यस्य शब्दाजन्यवृत्तिविषयस्य चिद्वषयस्य वा, तेन शशशृङ्गादेः ब्रह्मणश्च वारणम् अज्ञानान्तस्य जडस्य सर्वस्य ब्रह्मव्यतिरिक्तस्य, विलयं ब्रह्मणि प्रविलापनमकृत्वा, आत्मनः तत्त्वमज्ञात्वा सजातीयविजातीयस्वगतभेदरहितसर्वाधिष्ठानसत्यस्वयम्प्रकाशानन्दरूपतामज्ञात्वा उक्तिमात्रफलैः उच्चारणमात्रप्रयोजनैः बाह्यशब्दैः आन्तरानुभवं विना उच्चार्यमाणैः ‘अहं ब्रह्मास्मि’(बृ.उ. १.४.१०) इत्यादिशब्दैः नृणां मुक्तिः कुतः, नैव सम्भवतीत्यर्थः । किं शब्दः निषेधार्थकः ॥६५॥
एतेन आत्मतत्त्वज्ञाने समस्तदृश्यप्रविलापनपुरस्सरं ब्रह्ममात्रावशेषणं परमकारणमित्युक्तं व्यतिरेकमुखेन अकृत्वेति, दृश्यप्रविलापने तत्त्वज्ञानं नान्यथेति । एवं तत्त्वज्ञाने मुक्तिः नापरथेति च, मुक्तिहेतुत्वं ज्ञानस्य व्यतिरेकमुखेन कथितम् । तत्रानुरूपं दृष्टान्तमाह अकृत्वेति –
अकृत्वा शत्रुसंहारम् अगत्वाऽखिलभूश्रियम् ।
राजाऽहमिति शब्दान्नो राजा भवितुमर्हति ॥६६॥
स्वकीयराज्यभोगप्रतिबन्धकानां शत्रूणां विलयमकृत्वा अखिलभूश्रियं समस्तपृथ्वीसम्पदम् , अगत्वा अप्राप्य, केवलमहं राजेतिशब्दात् नो राजा भवितुमर्हति राजा भवितुं नो अर्हतीत्यन्वयः । राजत्वे सकलशत्रुविलयपुरस्सरं समस्तभूश्रीप्राप्तिः यथा कारणमेवं सकलदृश्यप्रविलापनपुरस्सरम् आत्मतत्त्वज्ञानं मुक्तावपीति भावः ॥६६॥
केवलबाह्यशब्दैः न मुक्तिः । अतः प्रयत्नात् तत्त्वज्ञात् आत्मनः तत्त्वं ज्ञातव्यमित्यमुमर्थं सदृष्टान्तं विस्तरेण कथयति आप्तोक्तिमिति –
आप्तोक्तिं खननं तथोपरिशिलापाकर्षणं स्वीकृतिं
निक्षेपः समपेक्षते न हि बहिः शब्दैस्तु निर्गच्छति ।
तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते
मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥६७॥
लोके तावत् भूमेरन्तस्स्थापितः निक्षेपः हिरण्यादिनिधिः, प्राप्तव्यश्चेत् तं दृष्टवतां वा, अञ्जनविशेषादिना तं विज्ञाय सत्यं कथयतां वा आप्तानामुक्तिं श्रुत्वा भुवं खनित्वा, तत्र निधेरुपरिवर्तमानाच्छादकशिलायाः अपाकर्षणम् अपसारणं कृत्वा प्राप्तव्यः । न तु निक्षेपः निक्षेप इति शब्दैः बहिः निर्गच्छति । तदिदमुक्तं यन्निक्षेपः हिरण्यादिनिधिः स्वफले आधेये आप्तोक्तिं खननं भुवः तथा उपरिशिलापाकर्षणं तदनन्तरं स्वस्य स्वीकृतिं स्वीकारं च समपेक्षते, बहिश्शब्दैस्तु न निर्गच्छति । तु शब्दोऽवधारणे । नैव निर्गच्छतीति हि लोके प्रसिद्धम् । तद्वत् शिलया भूम्या च आव्रियमाणनिधिरिव, स्वं स्वकीयम् अमलं स्वतश्शुद्धं तत्त्वं याथात्म्यं ब्रह्मेति यावत् , मायाकार्यतिरोहितं मायया अज्ञानेन तत्कार्यैश्च अहङ्कारादिदेहान्तैः कोशैः, तिरोहितं प्रतिबद्धस्फुटभानं ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते, आ समन्तादुपदेशः ओपदेशः ब्रह्मविदः ओपदेशः ब्रह्मविदोपदेशः । यद्वा ब्रह्मविदेति व्यस्तं पदं तृतीयान्तम् , तेन उपदेशे तत्कर्तृत्वं लभ्यते । ब्रह्मवित्कर्तृकोपदेशः श्रवणं, मननं युक्तिभिरनुचिन्तनं, ध्यानं निदिध्यासनम् , आदिपदेन निर्विकल्पसमाधिपरिग्रहः । तैर्लभ्यते साक्षात्क्रियते । अत्र ब्रह्मलाभः साक्षात्कारः स्वानन्यत्वात् अन्यादृशलाभासम्भवात् । कण्ठचामीकरादिलब्धलाभस्थले सर्वत्राप्येवमेव वक्तव्यत्वात् । न दुर्युक्तिभिर्लभ्यते ‘नैषा तर्केण मतिरापनेया’(क.उ. १.२.९) इति श्रुतेः । श्रुत्यनुसारिण्यः युक्तयस्तु अभ्युपेयन्त एव । ‘पण्डितो मेधावी गान्धारानेवोपसम्पद्येत’(छा.उ. ६.१४.१) इति श्रुत्यैव सत्तर्कस्याभ्युपेतत्वात् । दर्शयति किल श्रुतिरेव महामत्स्यादिदृष्टान्तेन असङ्गत्वमात्मनः सुषुप्तौ प्रपञ्चपरित्यागेन सदात्मना सम्पृक्ते निष्प्रपञ्चसदात्मत्वं, कार्यकारणानन्यत्व (ब्र.सू. २.१.१४) न्यायेन मृत्पिण्डादिदृष्टान्तैः एकविज्ञानेन सर्वविज्ञानं प्रपञ्चस्य ब्रह्माव्यतिरेकः, ऊर्णनाभ्यादिदृष्टान्तैः अभिन्ननिमित्तोपादानत्वं, तस्करदृष्टान्तेन सत्याभिसन्धस्य मुक्तिः मिथ्याभिसन्धस्य बन्ध इत्यादियुक्तिजालम् । अतः उक्तं दुर्युक्तिभिरिति ॥६७॥
तस्मात् सर्वप्रयत्नेन भवबन्धविमुक्तये ।
स्वेनैव यत्नः कर्तव्यो रोगादेरिव पण्डितैः ॥६८॥
तस्मादिति । यस्मादेवं स्वीयबन्धः अन्येन निवर्तयितुं न शक्यते, स्वेनापि साधनचतुष्टयसम्पत्तिमता गुरुमुपसद्य तन्मुखतः वेदान्तान् श्रुत्वा तदर्थं मत्वा निदिध्यास्य निर्विकल्पकनिष्ठया ब्रह्मतत्त्वं स्फुटमवगम्य मोक्तव्यं न केवलं बाह्यशब्दादिभिः मुक्तिः सिद्ध्यति तस्मादित्यर्थः । सर्वप्रयत्नेन उक्तश्रवणादिरूपप्रयत्नेन भवबन्धविमुक्तये सांसारिकाविद्यादिदेहान्तबन्धनिवृत्तये स्वैरेव ये तावत् बन्धमनुभवन्ति तैस्स्वैरेव, पण्डितैः बुद्धिमद्भिः, रोगादेः रोगक्षुत्पिपासादेः, विमुक्तये यथा अगदस्वीकाराभ्यवहारजलपानादिकं स्वयं क्रियते, एवं यत्नः कर्तव्यः । विवेकादिसाधनचतुष्टयं स्थिरतमं सम्पाद्य सद्गुरुरुपसदनीय इति भावः । अत्र सर्वप्रयत्नेन, भवबन्धविमुक्तये यत्नः कर्तव्य इति द्विवारमुक्तत्वात् एवमर्थो युक्त इति भाति ॥६८॥
एवं तीव्रमुमुक्षावन्तं शिष्यं प्रशस्य तदीयप्रश्नं श्लाघते यस्त्वयेति –
यस्त्वयाद्य कृतः प्रश्नो वरीयान् शास्त्रसम्मतः ।
सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥६९॥
न केवलं तीव्रमुमुक्षया उत्तमाधिकारित्वं ते, अपि तु मुमुक्षुज्ञेयान्यूनानतिरिक्तविषयान् क्रोडीकृत्य यदप्राक्षीर्मां, तेनापि मेधावित्वविद्वत्त्वोहापोहविचक्षणत्वादि धर्ममण्डितस्त्वं मुमुक्षूणां सर्वेषां ज्ञातव्यमार्गदर्शकोऽसीति महात्मना गुरुणा श्लाघितःभक्तिश्रद्धाभरितमनाः क्षिप्रमुक्तं गृह्णातीत्यभिप्रायेण –
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥
(श्वे.उ. ६.२३) इति श्रुतेः ।
अद्य इदानीं, यः प्रश्नः को नाम बन्ध इत्यादि रूपः कृतः सः वरीयान् अत्यन्तं वरः । तत्र हेतुमाह, शास्त्रविन्मतः, ये तावत् अत्यन्तं शास्त्रविदः तैरेवैवं प्रष्टुं शक्यत इति भावः । तत्र हेतुमाह सूत्रप्राय इति । बन्धमोचकसाक्षात्कारार्थं यावत्प्रष्टव्यं सर्वस्यात्रैव पृष्टत्वात् अल्पाक्षरेण सङ्गृहीतेन शब्देन । शब्दस्तु अल्पाक्षरः ज्ञेयार्थस्सर्वोऽपि अत्र निगूढ इति वदन् सूत्रप्रायत्वं विशदयति निगूढार्थ इति । एतत्प्रकरणग्रन्थस्य उत्तरस्य सर्वस्यापि एतदुत्तररूपत्वात् प्रतिपादनीयार्थस्सर्वोऽप्यत्र बुद्धिमता शिष्येण उपक्षिप्त इति भावः । अत एव मुमुक्षुभिः ज्ञातव्यः, आत्मानात्मविवेकजन्यसाक्षात्कारेण हि सहेतुकबन्धनिवृत्तिरूपमोक्षः उक्तः ‘अज्ञानयोगाद्’(श्लो. ४९) इत्यादिना गुरुणा । सहसा गुरूक्तिं विज्ञाय प्रष्टव्यांशस्य सर्वस्याप्यनवशेषम् अनतिरेकेण पृष्टत्वात् मेधावित्वादिकं शिष्यस्य सम्यगवगम्य गुरुस्तं नितरां श्लाघयामास ॥६९॥
एवं महात्मना श्लाघितं स्वात्मानं धन्यधन्यं मन्वानं शिष्यं स्वोक्तार्थग्रहणाद्यर्थमवधापयति शृणुष्वावहित इति −
शृणुष्वावहितो विद्वन् यन्मया समुदीर्यते ।
तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे ॥७०॥
हे विद्वन् ! मेधावित्वाद्युक्तात्मविद्याधिकारविशिष्ट ! मया यत्समुदीर्यते सङ्ग्रहेण विस्तरेण च सम्यग्ज्ञानाय यदुच्यते, तत् अवहितः विषयान्तरमनस्सञ्चाररहितः, श्रद्धया श्रुणुष्व । एतच्छ्रवणात् यथाविधि मदुक्तवाक्यश्रवणात् सद्यः श्रवणसमनन्तरमेव, आत्मानं साक्षात्कृत्य भवबन्धात् संसारबन्धात् कर्तृत्वभोक्तृत्वजन्मजरामरणादिरूपबन्धाद्विमोक्ष्यसे नितरां मुच्यस इत्यर्थः ॥७०॥
इदानीं तदीयप्रश्नानुसारेण तेन जिज्ञासितमर्थं विवक्षुः प्रथमतः कथं विमोक्ष इत्यस्य प्रश्नस्योत्तरमाह । ननु ‘को नाम बन्धः, कथमेष आगतः, कथं प्रतिष्ठास्य’(श्लो. ५१) इति प्रथमतः कृतप्रश्नत्रयस्य उत्तरमनुक्त्वा तुरीयस्य कथं विमोक्ष इत्यस्य उत्तरकथनमनुचितमिति चेन्न, न ह्यत्यन्तमग्निना दह्यमाने गृहे क्षिप्रं जलसेकादिना अग्निशान्तिमकृत्वा कुत्राग्निः पतितः, कथं पतितः, इति विचारेण कालयापनं युक्तं तथासति निरवशेषं गृहस्य दह्यमानत्वात् । तथा सर्वैरप्यज्ञानिभिः सांसारिकबन्धः अनुभूयत एव तीव्रः, तन्निरासे सहसा यत्न आस्थेयः इत्यभिप्रायेण ज्ञातव्यांशस्य मध्ये –
अनन्तशास्त्रं बहु वेदितव्यम्
अल्पश्च कालो बहवश्च विघ्नाः ।
यत्सारभूतं तदुपासितव्यं
हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥ (उ.गी. ३.१)
इत्यभियुक्तोक्त्या सारभूतमंशं गुरुरादावाह मोक्षस्येत्यादिना, क्षिप्रं मोक्षहेतुं विज्ञाय तल्लाभेन सहसा बन्धान्मुक्तः नित्यानन्दमनुभवत्वित्यभिप्रायेण । किञ्च आत्मानात्मज्ञानं विना बन्धस्वरूपस्य वक्ष्यमाणस्य ज्ञातुमशक्यत्वाच्च, तत्सर्वं पश्चाद्वक्ष्यामीति धिया च प्रथमं कथं विमोक्ष इत्यस्य उत्तरमाह मोक्षस्येत्यादिना –
१०. मोक्षहेतवः
मोक्षस्य हेतुः प्रथमो निगद्यते
वैराग्यमत्यन्तमनित्यवस्तुषु ।
ततश्शमश्चापि दमस्तितिक्षा
न्यासः प्रसक्ताखिलकर्मणां भृशम् ॥७१॥
स्फुटम् ।
ततश्श्रुतिस्तन्मननं सतत्वध्यानं चिरं नित्यनिरन्तरं मुनेः ।
ततोऽविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति ॥७२॥
अनित्यवस्तुषु देहादिब्रह्मपर्यन्तेषु अत्यन्तं वैराग्यं मोक्षस्य प्रथमो हेतुर्निगद्यते, बहुतरविक्षेपहेतुभूताशाशून्यस्यैव मनसः स्वलक्ष्ये नियतावस्थारूपशमादेः सम्भवात् । ततश्शमश्च उक्तलक्षणः । च शब्दः उक्तसमुच्चायकः । अत्र सर्वेषामपि वैराग्यादीनां ज्ञानकालेऽप्यावश्यकत्वात् अन्तरङ्गत्वात् पूर्वापरभावसत्त्वेऽपि कुलालपितृवत् अन्यथासिद्धिशङ्का न कार्या अतः चशब्देन अपि शब्देन च समुच्चयः कथ्यते । तथा दमः तितिक्षा प्रसक्ताखिलकर्मणां वर्णाश्रमविहितत्त्वेन प्रसक्तानां प्राप्तानाम् अखिलानां सर्वेषां कर्मणां वैराग्योत्पत्तिपर्यन्तम् अनुष्ठेयत्वात् , उत्पन्ने च तीव्रवैराग्ये भृशं न्यासः, स्वरूपतोऽपि परित्यागः, पूर्वं चित्तशुद्ध्यपरपर्यायवैराग्यार्थं फलमनभिसन्धाय ईश्वरार्पणबुध्या कर्मणामनुष्ठानम् , इदानीं फलस्य निष्पन्नत्वात् सुतरां तेषां परित्याग इति भावः । ततः सर्वकर्मसंन्यासानन्तरं, श्रुतिः अर्थतः गुरुमुखात् वेदान्तवाक्यश्रवणं, वेदान्तवाक्यार्थनिर्णयानुकूलव्यापारः, तन्मननं श्रुतार्थस्य दार्ढ्याय उपपत्तिभिश्चिन्तनम् ॥७१॥
ततः असम्भावनासंशयभावनयोः श्रवणमननाभ्यां निरस्तयोः, सतत्त्वध्यानं परमार्थतत्त्वस्य ध्यानं, तदपि चिरं कर्तव्यम् , अनात्मस्वात्मत्ववासनायाः अनादिकालप्रवृत्ताया निरासार्थं, चिरं क्रियमाणमपि यदि विच्छिद्य विच्छिद्य क्रियेत विच्छेदकालिकवृत्तिभिः आत्मवृत्तेरभिभूयमानत्वात् निदिध्यासनमेव न सिध्येत् , अतः नित्यनिरन्तरमित्युक्तम् । तेन ‘स तु दीर्घकालनैरन्तर्यसत्कारसेवितो दृढभूमिः’(पा.यो. १.१४) इति योगसूत्रोक्तरीत्या दिवसैर्वा मासैर्वा निदिध्यासनं सिद्ध्यतीति न वाञ्छेत् । तदा विद्यमानाश्चत्वार एव वेदाः तानध्येतुं गतस्य माणवकस्य पञ्च दिवसा अतीताः नाद्याप्यसौ समागत इति मूढवचनानुसार्ययं ध्याता स्यात् । अपि तु संवत्सरैः जन्मभिर्वा आदरपूर्वकं सर्वदा सेवितव्यमिति चिरं, नित्यनिरन्तरम् इति विशेषणम् − ‘अनेकजन्मसंसिद्धस्ततो याति परां गतिम्’(भ.गी. ६.४५) इति स्मृतेः । नित्यमविच्छेदेन बहुकालपर्यन्तं निदिध्यासनं सिद्ध्यति चेत् इहैव जन्मनि ततः परिपक्वान्निदिध्यासनात् अविकल्पं निर्विकल्पकसमाधिं, परं सविकल्पकात्परम् उत्कृष्टम् एत्य प्राप्य, विद्वान् आत्मसाक्षात्कारवान् , निर्वाणसुखं मुक्तिसौख्यं, समृच्छति निरर्गलमनुभवतीत्यर्थः ॥७२॥
अस्मिन्नेव जन्मनि मोक्षं प्राप्तुं वक्तव्यं सङ्ग्रहेणोक्त्वा, विद्वानिहैव निर्वाणसुखं समृच्छतीत्युक्त्या धनी सुखीत्यादौ यथा धनप्रयोज्यत्वं सुखे भासते ‘उद्देश्यविधेयभावस्थले असति बाधके उद्देश्यतावच्छेदकप्रयोज्यत्वं विधेये भासते’ इति लोकसिद्धत्वात् विद्वद्विशेषणभूतविद्याप्रयोज्यत्वस्य निर्वाणसुखे भातत्वेन तस्याश्च विद्याया आत्मानात्मविवेचन जन्यत्वेन तदादौ विशदयति यद्बोद्धव्यमिति –
११. आत्मानात्मविवेचनम्
यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् ।
तदुच्यते मया सम्यक् श्रुत्वाऽऽत्मन्यवधारय ॥७३॥
एतेन ‘कोऽसावनात्मा परमः क आत्मा’(श्लो. ५१) इति प्रश्नोऽप्युत्तरितो भवति । तव इदानीं मोक्षहेतुज्ञानबोधात्प्राक् तद्धेतुत्वेन आत्मानात्मविवेचनम् अयमात्मा अयमनात्मा इति भेदज्ञानानुकूलव्यापारः बोद्धव्यं ज्ञातव्यः, तत्तस्मात्कारणात् मया सम्यक् स उच्यते । तं श्रुत्वा आत्मनि मनसि, अवधारय निश्चिनुहीत्यर्थः ॥७३॥
तत्र अनात्मद्वारैव आत्मनः ज्ञातव्यत्वेन अनात्मनः स्थूलत्वेन प्रथमं ज्ञातुं शक्यत्वेन तस्मिंश्च ज्ञाते सूक्ष्मस्याप्यात्मनः ज्ञानं सुलभं भवतीति प्रथमतोऽनात्मनो निरूपयति ‘अथ ते सम्प्रवक्ष्यामि’(श्लो. १२६) इत्यन्तम् । तत्रादौ सकलबुद्धिगम्यं स्थूलशरीरं निरूपयति अहन्तया विस्पष्टव्यवहारगम्यत्वात् मज्जेत्यादिना –
१२. स्थूलशरीरम्
मज्जाऽस्थि-मेदः-पल-रक्त-चर्मत्वगाह्वयैर्धातुभिरेभिरन्वितम् ।
पादोरुवक्षोभुजपृष्ठमस्तकैरङ्गैरुपाङ्गैरुपयुक्तमेतत् ॥७४॥
अहं ममेति प्रथितं शरीरं
मोहास्पदं स्थूलमितीर्यते बुधैः ।
अशितस्य स्थूलमध्यमसूक्ष्मात्मना परिणममानस्य इति सर्वत्र ज्ञेयम् । तेजसो घृतादेः मध्यमो भागः मज्जा, तस्य स्थविष्ठो भागः अस्थि, तस्य पूर्वपरिणामः मेदः, पलं मांसम् , अशितस्य अन्नस्य मध्यमो भागः, रक्तं लोहितं, पीतानाम् अपां मध्यमो भागः चर्म स्थूलावरणं, त्वक् सूक्ष्मावरणम् , आन्तरान्धातून् नाड्यादींश्च सप्तावरणानि आवृण्वन्ति । तत्र अन्तर्बहिर्भावेन स्थूलसूक्ष्मविभागो ज्ञेयः । मज्जेत्यादिः येषाम् आह्वयः धातूनां तैः सप्तभिः धातुभिः अन्वितं युक्तम् । षडङ्गान्याह पादेत्यादिना, स्पष्टम् । पादोरुवक्षोभुजपृष्ठमस्तकैरङ्गैः, इदं हस्तस्याप्युपलक्षणम् । उपाङ्गैः गुल्फजानुजङ्घादिभिः उपयुक्तं सहितम् , एतत् प्रत्यक्षसिद्धम् । अहं गच्छामि तिष्ठामि लङ्घयामि गृह्णामीत्यादि व्यवहारेण अहन्तास्पदं मम पादः हस्तः मस्तकं शरीरमिति प्रथितं प्रसिद्धं शरीरम् , अनेकविधदोषाश्रयत्वेऽपि अतिप्रेमास्पदत्वेन मोहास्पदम् आत्मत्वभ्रमस्याश्रयः विषयः स्थूलमिति बुधैरीर्यते । अस्य अनेकपदार्थसङ्घातरूपत्वात् संहतानां स्तम्भकुड्यादिरूपेण वर्तमानानां गृहादीनां यथा स्वाम्यर्थत्वम् , एवं परार्थत्वमिति ज्ञापयितुं मज्जास्थीत्याद्युक्तम् । एतेन आत्मभिन्नत्वम् उक्तप्रायम् । आत्मन एव स्वामित्वात् तदर्थत्वाच्छरीरस्य ॥७४-१/२॥
अनित्यत्वादपि नित्यात्मरूपत्वं तस्य नास्तीति वक्तुं तस्य कारणान्याह नभ इत्यादिना –
नभोनभस्वद्दहनाम्बुभूमयः
सूक्ष्माणि भूतानि भवन्ति तानि ॥७५॥
परस्परांशैर्मिलितानि भूत्वा
स्थूलानि च स्थूलशरीरहेतवः ॥
नभश्च नभस्वांश्च दहनश्च अम्बु च भूमिश्च नभोनभस्वद्दहनाम्बुभूमयः । नभः गगनं नभस्वान् वायुः, दहनोऽग्निः, अम्बु जलं, भूमिः पृथ्वी, इदं भूतपञ्चकं जायमानं सूक्ष्मं जायते, पश्चात् स्रष्ट्र्या देवतया तासां ‘त्रिवृतं त्रिवृतमेकैकां करवाणि’(छा.उ. ६.३.२) इति सङ्कल्पवशात् एकैकं भूतं पञ्चीक्रियते । तैत्तिरीयकश्रुत्यनुसारेण आकाशवाय्वोः छान्दोग्ये तेजसः प्रथममुपसंहर्तव्यत्वात् त्रिवृत्करणस्य पञ्चीकरणोपलक्षणार्थत्वात् । तत्प्रकारस्तु – ‘पञ्चानां भूतानाम् एकैकं द्विधा विभज्य स्वार्धभागं विहाय अर्धभागं चतुर्धा विभज्य इतरेषु योजिते पञ्चीकरणं भवतीति’ भाष्यकारवाक्यनुसारेण ज्ञातव्यः । अयमर्थः श्लोकेन सङ्गृहीतः पञ्चदश्यां विद्यारण्यगुरुचरणैः –
द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः ।
स्वस्वेतरद्वितीयांशैः योजनात् पञ्च पञ्च ते ॥ (१.२६) इति ।
तथा च स्थूलेषु भूतेषु प्रत्येकं स्वीयोऽर्धभागः इतरस्य भूतस्य अष्टमोभागः । एवं परस्परांशैर्मिलितानि सम्बद्धानि भूत्वा स्थूलानि गगनादिशब्दव्यवहारार्हाणि, स्थूलशरीरहेतवश्च भवन्तीति योजना ॥७५ १/२॥
भूतप्रसङ्गात् तद्धर्मांश्छब्दादीन् विषयान् तत्र वैराग्योत्पत्त्यर्थं निरूपयति मात्रा इति –
मात्रास्तदीया विषया भवन्ति ।
शब्दादयः पञ्च सुखाय भोक्तुः ॥७६॥
मीयन्ते विषयीक्रियन्ते भुज्यन्त इति वा मात्राः, तदीयाः आकाशादिभूतसम्बन्धिन्यः, शब्दादयः क्रमेण शब्दस्पर्शरूपरसगन्धाः पञ्च विषयाः, विशेषेण सिन्वन्तीति विषयाः, षिञ्धातोः विपूर्वकात् बन्धनकर्मणः विषयशब्दस्य निष्पत्तेः । भोक्तुः संसारिणः जीवस्य, सुखाय सुखाभासाय भवन्ति । शब्दादयः शास्त्रे तत्र तत्र पञ्चतन्मात्रा इति व्यवह्रियन्ते इति मात्रास्तदीया इति कथितम् तत्तद्ग्रन्थसंवादाय ॥७६॥
इदानीं तेषां बन्धकत्वं विशदयति य एष्विति –
य एषु मूढा विषयेषु बद्धा
रागोरुपाशेन सुदुर्दमेन ।
आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः
स्वकर्मदूतेन जवेन नीताः ॥७७॥
ये मूढा विवेकशून्याः, एषु विषयेषु शब्दादिषु पञ्चसु, सुदुर्दमेन सुष्ठु दुःखेन दमयितुं शक्येन दुर्निरसेन, रागोरुपाशेन उरुः दृढः पाशः बन्धहेतुरज्वादिः राग एव उरुपाशः तत्रासक्तिरूपेण दृढपाशेन बद्धाः, स्तम्भेषु पश्वादय इव, तत्र अत्यन्तकामविशिष्टा इति यावत् । यथा स्तम्भबद्धाः पशवः स्तम्भं विहाय गन्तुं न पारयन्ते, एवं विषयरागिणः विषयांस्त्यक्तुं न शक्नुवन्तीति तत्रैवाशया श्रेयोमार्गाद्भ्रश्यन्त इत्याह − ‘आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः’ स्वेषां कर्म धर्माधर्मरूपं तदेव ऊर्ध्वाधोगमनहेतुत्वाद् दूतवद्वर्तते । यथा न्यायस्थानादौ कश्चिद्दूतः विचार्यानूर्ध्वमधश्च नयति तद्वत् । तत्रापि शब्दादिकं सुखं जनयतीति बुध्या तत्सम्पत्तये पुण्यार्जनं करोति, तदा दिव्यशब्दादिकमनुभवितुं तदीयं पुण्यं कर्म तमुच्चै ऊर्ध्वं नयति स्वर्गादिकं प्रापयति । तत्रापि क्षीणे पुण्ये अधः आगमनमस्त्येव । अधर्मे पुनः किं वक्तव्यम् सर्वदा अधोगमनमेवेति । उच्चैरूर्ध्वम् , आयान्ति जन्मान्तरकृतसुकृतवशात् मानुष्यादिकं सम्पादयन्ति । पुनः रागे अधो निर्यान्ति । विषयेषु रागवतः कर्तव्यकार्यविस्मरणसम्भवात् निस्तारो न भवतीति भावः ॥७७॥
शब्दादीनां मध्ये एकैकं सेवमानस्यापि मृत्युः बन्धः दृष्टः । किं पुनः पञ्चापि कामयमानस्येति सदृष्टान्तमाह हेयत्वसिद्धये शब्दादिभिरिति –
शब्दादिभिः पञ्चभिरेव पञ्च
पञ्चत्वमापुः स्वगुणेन बद्धाः ।
कुरङ्ग-मातङ्ग-पतङ्ग-मीन-
भृङ्गा नरः पञ्चभिरञ्चितः किम् ॥७८॥
कुरङ्गः हरिणः, मातङ्गः गजः, पतङ्गः शलभः, मीनः मत्स्यः, भृङ्गः भ्रमरः एते पञ्च स्वगुणेन स्वस्वसक्तिविषयेण गुणेन शब्दादीनां गन्धान्तानां पञ्चानां मध्ये क्रमेण एकैकेनैव बद्धास्सन्तः पञ्चत्वं मरणमापुः । एवम् एकैकस्यापि मरणपर्यन्तबन्धप्रयोजकत्वे एतैः पञ्चभिरपि अञ्चितः स्वकीयसक्त्याश्रयत्वेन विशिष्टः नरः किं मृत्युं प्राप्नोतीति वक्तव्यमित्यर्थः । यथा लोके हरिणं जिघृक्षवः वेणुगानादिमधुरशब्दासक्तं तं चपलं शीघ्रं बहुदूरं धावन्तमपि निश्चलीकृत्य तच्छब्दश्रवणासक्तं विस्मृतात्मानं गृह्णन्तीति शब्द एक एव हरिणस्य बन्धक इति प्रसिद्धम् । एवं वनमध्ये स्वच्छन्दं विहारि दुर्ग्रहः महानपि मातङ्गः स्पर्शसुखलोलुपः तज्जिघृक्षुभिः वशाद्वारा गृह्यते इति त्वगिन्द्रियतृप्तिहेतुः स्पर्श एक एव गजस्य बन्धको निर्वृत्तः । एवं पतङ्गः प्रकाशमाने दीपे भास्वररूपदर्शनेन भक्ष्यबुध्या तदीयं दाहात्म्यमजानन् तत्र पतित्वा म्रियत इति रूपस्य मृत्युहेतुत्वं प्रसिद्धम् । एवं रसगृध्नुः झषः दाशप्रसारितं जालं प्रविश्य म्रियत इति प्रथितम् । एवं घ्राणतर्पणलालसः भ्रमरः तत्तत्पुष्पाणीव चम्पकसुममाघ्राय तद्गन्धसेवनेन पञ्चत्वमाप्नोतीति च । एवं शब्दादीनां मध्ये एकैकमपि सेव्यमानं मरणान्तानर्थप्रयोजकम् । तत्रापि तिरश्चां पापाभावात् तदानीन्तनशरीरस्य परमनर्थः सम्भवति । शब्दादीनां पञ्चानामपि विषयाणां सेवनाय विहितमनाचरन् पापमप्याचरन् नरः लोकद्वयादपि भ्रश्यत इति भावः ॥७८॥
विषयानुभवः मृत्युहेतुरिति तिष्ठतु । दर्शनमात्रादपि मारयन् विषयः कृष्णसर्पविषादपि अतिरिच्यत इत्याह दोषेणेति –
दोषेण तीव्रो विषयः कृष्णसर्पविषादपि ।
विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाऽप्ययम् ॥७९॥
विषयः रूपादिः कृष्णसर्पविषादपि दोषेण तीव्रः तीक्ष्णः, कृष्णसर्पविषे मारकत्वरूपदोषः यावान् तदपेक्षया तीक्ष्णो दोषः विषये । तत्र हेतुमाह विषं निहन्ति भोक्तारमिति । कृष्णसर्पेण दष्टस्य पुरुषस्य नाडीद्वारा जिह्वासम्बद्धं विषं भवतीति स भोक्तेत्युच्यते । अत एव पादादौ सर्पेण दष्टा अपि तत्र बलवद्बद्धरज्ज्वादिना, न म्रियन्ते तद्विषस्य नाडीद्वारा जिह्वासम्बन्धाभावात् । एवं भोक्तारं निहन्ति विषं तस्यासत्त्वमापादयति । अयं विषयस्तु चक्षुषा द्रष्टारमपि निहन्ति, प्रसिद्धं खलु लोके सुन्दरं रूपादिकं दृष्ट्वा कलहायमाना नश्यन्ति जनाः इति । यद्वा कलहाद्यभावेऽपि स्वयं तेन विषयेण दूरमाकृष्टचित्तः स्वात्मानं द्रष्टुं न शक्नोतीति स्वाभानापादकव्यापारवान् नियमेन भवतीति भावः । तथा च निहन्तीत्यस्य असत्त्वापादकव्यापरः, अभानापादकव्यापारो वा अर्थः । यथायोग्यमर्थः स्वीकरणीयः । तत्र असत्त्वापादकव्यापारस्य अभानापादकत्वं सिद्धमेव । द्वितीयस्य तु असत्त्वापादकत्वं न सम्भवतीति । वस्तुतस्तु विषयाकृष्टचित्तस्य पुरुषस्य सत्त्वमपि पुरुषार्थोपयोगाभावात् असत्त्वमिव भवतीत्यपि सुवचम् ॥७९॥
एवमत्यन्तानर्थकरेऽपि विषये विचाराभावात्पुरुषः आशां बध्नाति, तत्रत्यदोषं न परिगणयति मौढ्यात् ततः पुरुषाथार्द् भ्रश्यते । अतः मुमुक्षुणा सर्वथापि तदाशा त्यक्तव्या । अन्यथा षडपि शास्त्राणि अर्थतो जानतोऽपि मोक्षो दुर्लभ इत्याह विषयाशेत्यादिना –
विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् ।
स एव कल्पते मुक्त्यै नान्यः षट्छास्त्रवेद्यपि ॥८०॥
यः पुरुषः सुदुस्त्यजात् चिरकालादभ्यस्तत्वेन दृढविचारमन्तरा सुदुस्त्यजात् त्यक्तुमशक्यात् , विषयाशामहापाशात् विषयाशैव महापाशः अत्यन्तं बन्धकत्वात् तस्माद्विमुक्तः विशेषेण मुक्तः सुतरां तत्सम्बन्धरहित इत्यर्थः । स एव पुरुषः मुक्त्यै कल्पते समर्थो भवति । अन्यः तदाशापाशबद्धः षट्छास्त्रवेद्यपि न मुक्त्यै समर्थो भवतीत्यर्थः ॥८०॥
विषयेषु तीव्रवैराग्याभावे अनर्थमाह आपातेति –
आपातवैराग्यवतो मुमुक्षून्
भवाब्धिपारं प्रतियातुमुद्यतान् ।
आशाग्रहो मज्जयतेऽन्तराले
निगृह्य कण्ठे विनिवर्त्य वेगात् ॥८१॥
आपातवैराग्यवतः दुःखानुभवादिकालेषु धिक् संसार इति वैराग्यवतः, सार्वदिकवैराग्यशून्यानिति यावत् । भवाब्धिपारं संसारसागरान्तं ज्ञानं, प्रतियातुं प्राप्तुम् , उद्यतान् उद्युक्तान् , तत्र हेतुमाह मुमुक्षूनिति । मोक्षेच्छायाः सत्त्वात् संसाराम्बुधिं तर्तुम् उद्यता इति तादृशान् पुरुषान् आशैव ग्रहः महानक्रः, अन्तराले समुद्रमध्ये कण्ठे निगृह्य नितरां गृहीत्वा वेगाद्विनिवर्त्य भवाब्धिपारगमनाद्विनिवर्त्य मज्जयते मग्नान् करोति संसारसमुद्रमग्नान् पुनः कर्मादिकरणेषु तान् व्यापारयतीति भावः । यस्तावत् अत्यन्तं विषयेभ्यो विरक्तः शमादिगुणगणमण्डितः स सद्गुरुम् उपसद्य तन्मुखतः सम्यगात्मानं विदित्वा मुच्यते संसारात् , अयं तावत् आपातवैराग्यवान् दृढशान्त्यादिहीनः तथा प्रयतमानोऽपि मध्ये आशया पीडितः पुरुषार्थाद्भ्रश्यते । ज्ञानार्हो न भवतीति भावः ॥८१॥
पूर्वोक्तमर्थं व्यतिरेकमुखेनाह विषयाख्येति –
विषयाख्यग्रहो येन सुविरक्त्यसिना हतः ।
स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः ॥८२॥
विषयाख्यग्रहः विषयनामकनक्रः, येन पुरुषेण, सुविरक्त्यसिना सुष्ठु विरक्तिः दृढतरतीव्रवैराग्यं सैवासिः खड्गः, तेन हतः नाशितः, सः पुमान् प्रत्यूहवर्जितः संसारसागरोत्तरणे विघ्नशून्यः, भवाम्भोधेः पारं संसारसमुद्रस्य जन्ममरणादिकल्लोलतरङ्गितस्य पारम् अन्तं ब्रह्मेति यावत् । ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’(क.उ. १.३.९) इति श्रुतेः । गच्छति प्राप्नोति, ब्रह्म साक्षात्कृत्य मुच्यत इत्यर्थः ॥८२॥
यस्त्वविज्ञानवान्भवति अमनस्कः सदाशुऽचिः ।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद् भूयो न जायते ॥ (१.३.७-८)
इति कठोपनिषत्प्रतिपादितमर्थं पूर्वोक्तश्लोकद्वयसारं क्रोडीकृत्य उपदिशति विषमेति –
विषमविषयमार्गे गच्छतोऽनच्छबुद्धेः
प्रतिपदमभिघातो मृत्युरप्येष सिद्धः ।
हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या
प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ॥८३॥
विषमः बहुविधविक्षेपहेतुः अत्यन्तदुःखजटिलः यः विषयः शब्दादिः स एव मार्गः, ‘विषयांस्तेषु गोचरान्’ इति कठ (१.३.४) श्रुतेः, तत्र गच्छतः तत एव अनच्छबुद्धेः अशुद्धमनस्कस्य, यदि शुद्धं मनः अवश्यं विचारशीलं विषयेभ्यो निवर्तते । रजस्तमोभूयिष्ठत्वादेव विचारासमर्थम् −
यथा व्यालगलस्थोऽपि भेकः दंशानपेक्षते ।
तथा कालाहिना ग्रस्तो लोको भोगानशाश्वतान् ॥
इत्युक्तरीत्या विषयप्रवणता तस्य इति भावः । एतादृशाशुद्धमनस्कस्य प्रतिपदमभिघातः सर्वदापि दृढदुःखसंयोगः, एषः अनुभवसिद्धः मृत्युरपि सिद्धः मृत्युघटितः संसार इत्यर्थः ।
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ (ब्र.बि. २)
इति वचनस्य पूर्वमुदाहृतत्वात् । स्मर्यते हि गीतासु –
ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥
क्रोधाद्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥
(२.६२-६३) इति ।
तत्र कथितः प्रणाशः णशअदर्शने इति धातुना प्रतीयमानः, स्वस्वरूपासाक्षात्कार एव वा अत्र मृत्युपदार्थः । कामस्यैव कुतश्चित् अभिहतस्य क्रोधात्मना परिणममानत्वात् तत्र उक्तः कामाभिघात एव वा अत्रापि प्रतिपदमभिघात इत्यत्रार्थः । लोके यथा इच्छा तथा विषयानुभवस्य सुदुर्लभत्वात् , जातायामिच्छायामभिहन्यमानायामविचारयितुः पुरुषस्य क्रोधादिक्रमेण प्रणाश एवेति भावः । एवम् अविरक्तस्य जायमानं फलमुक्त्वा विरक्तस्य तदाह हितसुजनगुरूक्त्येत्यादिना । हिताः श्रेयस्कामिनः अत एव सुजनाः सत्पुरुषाः मित्रादयः तेषां गुरोश्च उक्त्या, गुरोस्तु हितत्वं सुजनत्वं च सिद्धमेव । गुरुलाभपर्यन्तं सुजनोक्तिः, ततः गुरूक्तिरिति विभागः । यद्वा हिता सर्वदा श्रेयोहेतुभूता सुजनानां गुरोश्च या उक्तिः तया, तद्दत्तया स्वस्य युक्त्या तदनुसार्यूहापोहेन च गच्छतः ‘पण्डितो मेधावी गन्धारानेवोपसम्पद्येत, एवमेवेहाचार्यवान् पुरुषो वेद’(छा.उ. ६.१४.१) इति श्रुतेरिति भावः । श्रेयोमार्ग एव गच्छतः फलसिद्धिः परमपुरुषार्थभूतमोक्षप्राप्तिः प्रभवति प्रकर्षेण निष्प्रत्यूहं भवति । सत्यमित्येव विद्धि । अत्र विषये ईषदपि शङ्कां मा कार्षीरिति भावः ॥८३॥
‘मात्रास्तदीया’(श्लो. ७६) इत्यारभ्य एतदन्तं कृतस्य विषयबन्धकत्वनिरूपणस्य फलमाह-मोक्षस्येति । यद्वा इदानीं मुमुक्षोः हेयोपादेये उपदिशति मोक्षस्येति –
मोक्षस्य काङ्क्षा यदि वै तवास्ति
त्यजातिदूराद् विषयान् विषं यथा ।
पीयूषवत्तोष-दया-क्षमार्जव-
प्रशान्तिदान्तीर्भज नित्यमादरात् ॥ ८४॥
आदौ हेयमाह – यदि तव मोक्षस्य, वै इत्यवधारणे, मोक्षस्यैवेत्यर्थः । काङ्क्षा इच्छा, अस्ति विषयान् शब्दादीन् , विषं यथा हालाहलमिव, अतिदूरात्त्यज मनसापि मा स्मार्षीरित्यर्थः ।
अकुर्वन्नपि विध्युक्तं निषिद्धं परिवर्जयेत् ।
निषिद्धपरिहारेण विहिते लभते मतिम् ॥ इति सूतसंहितोक्तेः । (४.१६.३४)
उपादेयमाह – तोषः सन्तोषः, दया करुणा, क्षमा तितिक्षा, आर्जवम् अकुटिलचित्तता, प्रशान्तिः प्रकर्षेण शमः, दान्तिः बहिरिन्द्रियनिग्रहः, तोषदयाक्षमार्जवानाम् अन्तःकरणधर्मत्वात् ‘अशान्तस्य कुतस्सुखम्’(२.६६) इति गीता वचनात् शमाभावे सन्तोषादेरसम्भवात् अत्र सर्वं शमाधीनमिति द्योतयितुं प्रशान्तीति प्रेत्युपसर्गसहित शान्तिपदप्रयोगः । एताः नित्यं सन्ततं, पीयूषवत् अमृतवत् , आदराद् अत्यन्तविश्वासेन भज सेवस्वेत्यर्थः ॥८४॥
एवं मोक्षसाधनत्वेन विषयवैराग्यं द्रढयित्वा तेष्वाशा यन्निबन्धना तस्मिन्स्थूलशरीरे आदौ अनात्मत्वेन दिदर्शयिषिते सक्तिः त्यक्तव्येत्याह तत्र सक्तौ त्यक्तायां विषयवैराग्यं सुलभमित्यभिप्रायेण अनुक्षणमिति –
अनुक्षणं यत्परिहृत्य कृत्यं
अनाद्यविद्याकृतबन्धमोक्षणम् ।
देहः परार्थोऽयममुष्य पोषणे
यः सज्जते स स्वमनेन हन्ति ॥८५॥
यत् स्थूलशरीरं परिहृत्य तादात्म्याध्यासात् दूरीकृत्य, अनाद्यविद्याकृतबन्धमोक्षणम् अनादिः या अविद्या मूलाविद्या, तया कृतः बन्धः अहङ्कारादिदेहान्तः तस्य मोक्षणं परित्यागः अनुक्षणं सर्वदा कृत्यमस्तीति शेषः । अत्यन्तं स्थूलतया भासमाने अस्मिञ्च्छरीरेऽहन्तायाः परित्यागे पश्चात् किल प्राणादौ सा त्यक्तुं शक्यत इति भावः । तत्रानात्मत्वं स्फुटयति अयं देहः परार्थ इति । कृतव्याख्यानोऽयमंशः मज्जास्थीत्यादिश्लोके (श्लो. ७४) । तस्मादनेकपदार्थसङ्घातरूपत्वेन अनात्मनः अमुष्य पोषणे यः सज्जते स्वात्मानं विस्मृत्य अयमेवाहमिति विशेषतोऽभिमन्यते तद्रक्षणे च विशेषतो यतते, सः स्वं स्वात्मानम् , अनेन स्थूलशरीरेण हन्ति हिनस्ति, अभातनिजस्वरूपं करोतीत्यर्थः । येन निजस्वरूपभानेन मुच्यते तत्प्रतिबन्धकस्थूलदेहाभिमानेन तदीयजन्ममरणादिधर्मवन्तं स्वात्मानं मत्वा सर्वदा दुःखमनुभवतीति भावः ॥८५॥
लोके तावत् नदीं तितीर्षवः नद्यां प्लवमानं दृढं दारु धृत्वा स्वयं नद्यां तत्साहाय्येन अमज्जन्तः नदीं तरन्तीति प्रसिद्धम् । न तु कदाचिदपि तत्र प्लवमानं मकरं गृहीत्वा तितीर्षन्तीति । तथा सति तेषां नद्यां मकरग्रस्तानां मरणं ध्रुवमिति प्रसिद्धम् । तथा शरीरपोषणासक्तस्य आत्मदर्शनं नैव भवति, प्रत्युत तत्राभिमानः रूढो भूत्वा संसाराम्बुधौ तं सम्मज्जयतीति भावेनाह शरीरेति –
शरीरपोषणार्थी सन् य आत्मानं दिदृक्षते ।
ग्राहं दारुधिया धृत्वा नदीं तर्तुं स इच्छति ॥८६॥
शरीरस्य पोषणम् अर्थयितुं शीलम् अस्येति शरीरपोषणार्थी सर्वदा तत्पोषणव्यग्र इत्यर्थः । तादृशः सन् यो नरः आत्मानं स्वस्वरूपं दिदृक्षते साक्षात्कर्तुमिच्छति तस्य आत्मदर्शनं दारुधिया धृतग्राहस्य नदीतरणमिवासम्भावितमित्याह ग्राहमिति । स्पष्टम् ॥८६॥
अतः मुक्त्यर्थं विवेकिना शरीरे मोहः परित्यक्तव्य इत्याह मोह इति –
मोह एव महामृत्युः मुमुक्षोर्वपुरादिषु ।
मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥८७॥
वपुरादिषु शरीरकलत्रपुत्रादिषु, मोह एव अहं ममभाव एव, मुमुक्षोः महामृत्युः यथा मृतः किञ्चित्कार्यं न कर्तुं शक्नोति एवं शरीरादिषु अहं ममाभिमानवान् मुमुक्षुः मोक्षं सम्पादयितुं न शक्नोतीत्यर्थः । येन मोहो विनिर्जितः पूर्वोक्ताहन्तादिः शरीरादौ परित्यक्तः स मुक्तिपदं मुक्तिमार्गमर्हति स एव मुच्यत इत्यर्थः ॥८७॥
तस्मान्मोहं जहीति उपदिशति मोहमिति –
मोहं जहि महामृत्युं देहदारसुतादिषु ।
यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् ॥८८॥
मुनयः मननशीलाः, यं देहादौ मोहं तादात्म्याभिमानं जित्वा, बहुकालाद्रूढमूलमपि देशिकदत्तयुक्त्या श्रुत्यवष्टम्भेन च सुतरां परित्यज्य, तत् श्रुतिप्रसिद्धं विष्णोः परमं पदं, राहोः शिर इतिवत् अभेदे षष्ठी, व्यापकं (परिच्छेदत्रयशून्यं) सर्वोत्कृष्टं ब्रह्मरूपं स्थानं यान्ति अभेदेन भजन्ते, ब्रह्मैव भवन्ति मुच्यन्त इत्यर्थः । तं देहदारसुतादिषु आदिपदेन मित्रधनादिग्रहः । तत्र मोहं भ्रान्तिं तव महामृत्युम् अत्यन्तं स्वस्वरूपप्रच्यावनेन स्वादर्शनहेतुं जहि नाशय वेदान्तार्थविचारणेनेत्यर्थः ॥८८॥
अत्यन्ताशुचिपदार्थभूयिष्ठत्वात् दूरतः परित्याज्ये सुतरामभिमानानर्हे स्थूले देहे तत्र जुगुप्सया हेयताबुद्धिं द्रढयति त्वगित्यादिना –
त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसङ्कुलम् ।
पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः ॥८९॥
स्नायवः सिराः नाड्यः । तत्र अत्यन्तं जुगुप्सां जनयति मूत्रपुरीषाभ्यां पूर्णमिति । न कश्चित् मलमूत्रभाण्डं स्प्रष्टुमिच्छति, कुतस्तत्राहन्तेति भावः । अत एव निन्द्यं कुत्सार्हम् । शिष्टं स्पष्टम् ॥८९॥
एवं तत्र वैराग्योत्पत्तये तं निन्दित्वा पूर्वारब्धमात्मानात्मविवेचनमनुवर्तयति पञ्चीकृतेभ्य इति –
पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा ।
समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः ।
अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ॥९०॥
पूर्वं तावत् नभआदीनि सूक्ष्माणि भूतानि परस्परांशैः मिलितानि स्थूलानि सन्ति स्थूलशरीरहेतव इत्युक्तम् । तत्र पञ्चीकरणं न शब्दतः स्पष्टं कथितम् । तदिदमुक्तं पञ्चीकृतेभ्य इति । अत एव स्थूलेभ्यः पृथिवीत्यादिव्यवहारयोग्येभ्यः भूतेभ्यः, तत्रापि देवतिर्यङ्मनुष्यादिशरीरप्रभेदे बीजमाह पूर्वकर्मणा इति । पुण्यपापमिश्रानुसारेण देवादिशरीरोत्पत्तिरिति भावः । इदं प्रत्यक्षसिद्धम् , आत्मनो जीवस्य, भोगायतनं यदवच्छेदेन भोगो जायते तद्भोगायतनं सुखदुःखसाक्षात्कारावच्छेदकमित्यर्थः । समुत्पन्नम् असङ्करेण जातमित्यर्थः । तत्तत्कर्मानुसारेण कर्मफलदाता सर्वज्ञः ईश्वरः तत्तच्छरीरं तस्मै तस्मै ददातीति सङ्करशङ्काया नावसरः इति समुपसर्गेण पूर्वकर्मणेति पदसहितेन द्योतितम् । इदानीं स्थूलदेहः यदात्मत्वेनाभिमन्यते तामवस्थामाह तस्य व्यावृत्तत्वमात्मनः अनुवृत्तत्वञ्च सम्यग्बोधयित्वा तत्रानात्मत्वं स्पष्टयितुम् । तस्य स्थूलदेहस्य अवस्था असाधारणी भोगहेतुत्वप्रयोजकः कालः जागरः, ‘इन्द्रियैरर्थोपलब्धिर्जागरितम्’(उ.गी.भा. १.७) इति लक्षणलक्षिता जाग्रदवस्थेत्यर्थः । तदेव विशदयति स्थूलार्थानुभवो यतः, अर्थेषु स्थूलत्वञ्च दिगाद्यभिमानिदेवतानुगृहीतश्रोत्रादीन्द्रियगृह्यमाणत्वं शब्दादिषु । स्वप्ने इन्द्रियाणामुपरतव्यापारत्वात् वासनामयानां शब्दादीनां देवतानुगृहीतेन्द्रियगृह्यमाणत्वं नास्ति । मनसः इन्द्रियत्वपक्षे इन्द्रियगृह्यमाणत्वेपि तत्र तद्ग्राहकत्वेन प्रसिद्धेन्द्रियगृह्यमाणत्वं नास्तीति भावः । यतः यस्मात् स्थूलशरीरात् तत्राभिमानात् स्थूलार्थानुभवः, ततः तत्कारणात् तस्य स्थूलदेहस्य जागरः अवस्थेत्यर्थः ॥९०॥
उक्तमर्थं विशदयति बाह्येन्द्रियैरिति −
बाह्येन्द्रियैः स्थूलपदार्थसेवां
स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् ।
करोति जीवः स्वयमेतदात्मना
तस्मात् प्रशस्तिर्वपुषोऽस्य जागरे ॥९१॥
बाह्येन्द्रियैः त्वग्घ्राणचक्षुरादिभिः, स्रक्चन्दनस्त्र्यादिविचित्ररूपां रूप्यन्ते विषयीक्रियन्ते इति रूपाणि विचित्राणि च तानि रूपाणि च, स्रक्च चन्दनं च स्त्री च आदिः येषां तानि स्रक्चन्दनस्त्र्यादीनि तानि विचित्ररूपाणि यस्यां सा स्रक्चन्दनस्त्र्यादिविचित्ररूपा तां स्रक्चन्दनस्त्र्यादिविचित्ररूपां, स्थूलपदार्थसेवां, पदार्थेषु स्थूलत्वं पूर्वमुक्तम् , अभिमानिदेवतानुग्रहप्रयोज्यसुखदुःखानुभवं, जीवः प्रत्यगात्मा, एतदात्मना स्थूलदेहात्मना मनोद्वारा स्थूलशरीरप्रतिफलितस्वरूपेण स्थूलशरीराध्यस्तात्मभावेनेति यावत् , स्वयं करोति । स्वप्ने तावत् स्थूलदेहे मनस्संयोगाभावात् तत्र स्वरूपप्रतिफलनमपि नास्तीति तस्य तदा भोगहेतुत्वं नास्ति, अपितु तदा कल्पितस्य अन्यस्य स्थूलदेहस्यैव वासनामयस्य । प्रसिद्धं किल स्वप्ने प्रसिद्धस्थूलदेहव्यतिरिक्ततिर्यग्देवादि देहरूपेण भोगान्भुञ्जत इति । तस्मादस्य वपुषः स्थूलस्य देहस्य जागरे जाग्रदवस्थायां प्रशस्तिः प्रामुख्यमित्यर्थः । स्वप्नसुषुप्त्योरत्र अभिमानस्यैवाभावादिति भावः । इत्थञ्च तयोरवस्थयोरभासमानस्य जाग्रति परं प्रतीयमानस्यानात्मत्वं व्यावृत्तत्वात् सिद्धमिति भावः । सर्वावस्थासाक्षिणस्त्वात्मनः अनुवृत्तत्वादेतद्भिन्नत्वं सुज्ञानम् ॥९१॥
यथा कश्चिदपि लोके स्वीयं गृहं स्वात्मत्वेन न मनुते तथा मन्तव्ये स्थूलदेहे अहन्ता सुतरां न कार्येत्यभिप्रायेणाह सर्व इति −
सर्वोऽपि बाह्यः संसारः पुरुषस्य यदाश्रयः ।
विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ॥९२॥
संसारो द्विविधः बाह्य आन्तरश्चेति । तत्र आन्तरः सुखदुःखकर्तृत्वभोक्तृत्वादिः । बाह्यः जन्मजरामरणस्थौल्यबाल्यादिः । उत्तरश्लोके निरूपयिष्यते बाह्यसर्वोऽपि संसारः । असंसारिणः पुरुषस्य यदाश्रयः यत्र तादात्म्याध्यासनिबन्धनः तत् इदं स्थूलं देहं गृहमेधिनः गृहस्थाश्रमिणः कुटुम्बिन इति यावत् । गृहवत् सदनवत् विद्धि जानीहि । प्रसिद्धं खलु लोके एकं गृहमाश्रित्य वर्तमानः कलत्रादिकमर्जयति । नहि गृहस्याप्यभावे विवाहादौ प्रयतते कश्चित् । तथा स्थूलदेहम् आत्मत्वेन मन्वान एव तदीयधर्मान् जरामरणादीन् स्वकीयान्मनुते दुःखमनुभवति च नान्यथा । न हि सुषुप्तौ स्थूलदेहाभिमानशून्यस्य जरारोगादिपीडेति भावः । अतः गृहवदत्यन्तभिन्नत्वेन ज्ञेये अहन्ता न युक्तेति भावः ॥९२॥
तमेव बाह्यं संसारं विशदयति स्थूलस्येति −
स्थूलस्य सम्भवजरामरणानि धर्माः
स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः ।
वर्णाश्रमादिनियमा बहुधाऽऽमयाः स्युः
पूजावमानबहुमानमुखा विशेषाः ॥९३॥
सम्भवः उत्पत्तिः, जरा वार्धक्यं, मरणं मृतिः, स्थौल्यम् अवयवोपचयः, आदिपदेन तदपचयरूपकार्श्यं शौक्ल्यकार्ष्ण्यादिवर्णाः बहुविधाः, बह्व्यः विधाः येषां ते धर्माः बहुविधाः । शिशुता आदिः यासां कुमारतायुवतावृद्धतानां ताः अवस्थाः, यद्यपि जराश्ब्देन पूर्वं वृद्धता अग्राहि, अथाप्यत्र शिशुताद्यवस्थामध्ये पुनर्ग्रहणे न दोषः । वर्णाश्रमादिनियमाः वर्णाः ब्राह्मणत्वक्षत्रियत्वविट्त्वशूद्रत्वानि आश्रमाः ब्रह्मचर्यगार्हस्थ्यवानप्रस्थत्वसंन्यासाः आदिपदेन गोत्रसूत्रादयः तेषां नियमाः, ब्राह्मणत्वब्रह्मचर्याद्युचितधर्माः कुलाद्याचाराश्च । बहुधा आमयाः ज्वरशिरोवेदनाप्रभृतयः । पूजावमानबहुमानमुखाः विशेषाश्च स्युः । पूजा गन्धपुष्पादिकृता, अवमानः वाचाप्यनादरणादिरूपतिरस्कारः अक्ष्णाप्यनीक्षणादिश्च । बहुमानः उच्चासनोपवेशनादिः एतन्मुखा विशेषाश्च स्युः । जातकर्मादिसंस्काराणां शरीरस्यैव क्रियमाणत्वात् तत्तदाश्रमचिन्हानां च शरीर एव उपलभ्यमानत्वात् वणार्श्रमादिनियमाः स्थूलस्य शरीरस्य इत्युक्तम् । यद्यप्यान्तराः नियमाः सन्त्येव अन्तरङ्गस्य । अथापि प्रत्यक्षाः नियमा अस्येत्यभिप्रायः । यद्वा यैर्नियमैः अयं ब्राह्मणः अयं ब्रह्मचारीत्यादिकं ज्ञातुं परेणापि शक्यते ते नियमा इत्यर्थः । ते तावन्नियमाः शरीरसंस्कारद्वारा चित्तं संस्कुर्वन्ति । तद्वारा ज्ञानोपयोगित्वं भजन्त इति अध्यासेनापि ते नियतमादर्तव्याः, इतरे धर्माः बन्धकत्वात् पूजावमानादयः नादर्तव्या इति भावः ॥९३॥
एवमनात्मानं स्थूलदेहं तन्मूलकं संसारबन्धं च वर्णाश्रमादिधर्मानुष्ठानेन तस्य मोचकत्वरीतिमपि निरूप्य इदानीं सूक्ष्मशरीरं निरूपयितुमारभते बुद्धीत्यादिना पञ्चभिः श्लोकैः −
बुद्धीन्द्रियाणि श्रवणं त्वगक्षि
घ्राणं च जिह्वा विषयावबोधनात् ।
वाक्पाणिपादं गुदमप्युपस्थं
कर्मेन्द्रियाणि प्रवणानि कर्मसु ॥९४॥
कर्णशष्कुल्यवच्छिन्नं नभः श्रवणं श्रोत्रं, त्वक् त्वचि स्थितम् इन्द्रियम् , अक्षि नेत्रगोलकावच्छिन्नं चक्षुरिन्द्रियं, घ्राणं नासावच्छिन्नं, जिह्वा रसनेन्द्रियम् , एतानि पञ्च शब्दस्पर्शरूपगन्धरसात्मकविषयावबोधनात् तत्तज्ज्ञानजननात् बुद्धीन्द्रियाणि ज्ञानेन्द्रियाणीति कथ्यन्त इति शेषः । वाग्वागिन्द्रियं वचनशीलं, पाणिः हस्तेन्द्रियम् आदानशीलं, पादः विहरणशीलं पादेन्द्रियं, गुदम् उपस्थम् अनयोः क्रमेण शारीरकठिनद्रवरूपहेयभागोत्सर्जनहेतुत्वम् । एतानि वचनादिकर्महेतुभूतानीति कर्मेन्द्रियाणीत्युच्यन्ते इति शेषः । तत्र हेतुः प्रवणानि, व्यग्राणि कर्मसु वचनादिष्वित्यर्थः ॥९४॥
एवं बाह्यानि दशेन्द्रियाण्युक्त्वा एतानि सर्वाण्यपीन्द्रियाणि यत्सम्बन्धे कार्यं कर्तुं ज्ञानं जनयितुं च प्रभवन्ति नेतरथा तादृशमन्तःकरणं प्रधानं निरूपयति चातुर्विध्येन सनिमित्तं निगद्यत इत्यादिना −