अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः

श्रीमच्छङ्करभगवत्पादाचार्यैः प्रणीतः

शृङ्गगिरिजगद्गुरुश्रीश्रीचन्द्रशेखरभारतीमहास्वामिभिः अनुगृहीतया व्याख्यया सनाथः

२५. ब्रह्मणोऽद्वितीयत्वम् – २९. प्रमादत्यागः

२५. ब्रह्म­णोऽ­द्वि­ती­य­त्वम्

ब्रह्मा­भि­न्न­त्व­वि­ज्ञानं भवमोक्षस्य कारणम् ।
येना­द्वि­ती­य­मा­नन्दं ब्रह्म सम्पद्यते बुधः ॥२२५॥

२२५

ब्रह्मा­भि­न्न­त्व­वि­ज्ञा­नम् अहं ब्रह्मा­स्मी­त्य­प­रो­क्षा­नु­भवः भवमोक्षस्य संसारमुक्तेः कारणं येन विज्ञानेन अद्वितीयं निर्भेदम् आनन्दं सुखस्वरूपं ब्रह्म बुधः सम्पद्यते प्राप्नोति भवतीति वा अर्थः ‘ब्रह्म­वि­दा­प्नोति’(तै.उ. २.१) , ‘ब्रह्मविद् ब्रह्मैव भवति’(मु.उ ३.२.९) इति श्रुतेः । ‘असतो मा सद् गमय मृत्युर्वा असत् सदमृतं मृत्योर्मा अमृतं गमय अमृतं मा कुरु इत्येवैतदाह’(बृ.उ. १.३.२८) इति श्रुतेः ब्रह्मभाव एव मोक्षः ॥२२५॥

ब्रह्मभावे भवमोक्षः कथमिति शङ्कमानं प्रत्याह ब्रह्मभूत इति −

ब्रह्मभूतस्तु संसृत्यै विद्वा­न्ना­व­र्तते पुनः ।
विज्ञातव्यमतः सम्यग् ब्रह्मा­भि­न्न­त्व­मा­त्मनः ॥२२६॥

२२६

ब्रह्मभूतः विद्वान् पुनः संसृत्यै नैवावर्तत इत्यर्थः । ‘न स पुनरावर्तत’(छा.उ. ८.१५.१) इति श्रुतेः । तुरवधारणे । अतः आत्मनः ब्रह्मा­भि­न्नत्वं सम्यक् विज्ञातव्यम् ॥२२६॥

प्रप­ञ्च­मि­थ्या­त्व­क­थ­नेन निष्प्रपञ्चत्वं ब्रह्मणो वक्तुमारभते सत्यं ज्ञानमिति −

सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतः सिद्धम् ।
नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति ॥२२७॥

२२७

कालत्रयेऽपि बाधरहितं स्वयम्प्रकाशं देशतः कालतः वस्तुतश्च परिच्छेदशून्यं व्यापकत्वात् नित्यत्वात् अद्वितीयत्वात् ब्रह्म विशुद्धं स्वाभा­वि­का­ग­न्तु­क­स­क­ल­म­ल­शून्यं परं मायातीतं स्वतस्सिद्धं सत्तायां स्फूर्तौ वा परनिरपेक्षम् । नित्यानन्दैकरसं दुःखा­स्पृ­ष्ट­नि­त्य­सु­ख­स्व­रूपं जीवाभिन्नं निर्भेदमखण्डं ब्रह्म सर्वोत्कर्षेण वर्तत इत्यर्थः । इति वस्तूपक्षेपः ॥२२७॥

तत्र अन­न्त­प­दा­र्थै­क­देशं वस्तु­प­रि­च्छे­द­शू­न्य­त्व­मु­प­पा­द­यति सदिदमिति −

सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् ।
नह्यन्यदस्ति किञ्चि­त्स­म्य­क्प­र­त­त्व­बो­ध­सु­द­शा­याम् ॥२२८॥

२२८

इदं प्रकृतं ब्रह्म सत् अस्तीति सत् । परमाद्वैतं परमं च तदद्वैतं च परमाद्वैतम् । अद्वैते परमत्वं गुण­गु­णि­भा­वा­दि­प्र­यु­क्त­ता­दा­त्म्ये­नापि शून्यत्वं सदाप्यस्तीति । न विद्यते द्वैतं द्वयोर्भावः द्विता द्वितैव द्वैतं यत्र तत् भेद­शू­न्य­मि­त्यर्थः । तत्र हेतुः स्वस्मादिति स्वस्मादन्यस्य वस्तुनोऽभावात् यदन्यत्स्यात् तदा भेदः प्रसज्येत अतः अद्वैतम् । उच्चा­व­च­प्र­प­ञ्चस्य बहूनां जीवानां च सत्त्वात् कथं स्वस्मा­द­न्य­स्या­भावः इति चेत् , वस्तुपदेन तेषां परमार्थता नास्तीति ज्ञापितम् । कल्पितेन भेदाभावात् । नहि कल्पितसर्पेण सद्वितीयत्वं रज्ज्वाः । यदि जगदादेः परमार्थत्वं सदा भासेत, तदभावात् न वस्तुत्वम् । तदाह − सम्य­क्प­र­त­त्त्व­बो­ध­सु­द­शा­या­मिति ।
इदानीम् अन्यथा अविद्यया ज्ञातत्वात् सम्यगिति । ‘यत्र नान्यत्पश्यति’ इत्यादिश्रुत्या पर­त­त्त्व­वि­ष­य­क­स­म्य­ग्ज्ञानं यदा तस्यां शोभ­ना­या­म­व­स्था­याम् । हि यस्मात् अन्य­त्कि­ञ्चि­न्नास्ति अतः स्वभि­न्न­व­स्त्व­भा­वात् इदं सत् पर­मा­द्वै­त­मि­त्य­न्वयः ॥२२८॥

अज्ञा­ना­व­स्था­या­मपि ‘तद­न­न्य­त्वा­मा­र­म्भ­ण­श­ब्दा­दिभ्यः’(ब्र.सू. २.१.१४) इति न्यायनिर्णीतं प्रपञ्चस्य ब्रह्मा­व्य­ति­रे­क­माह यदिदमित्यादिना −

यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् ।
तत्सर्वं ब्रह्मैव प्रत्य­स्ता­शे­ष­भा­व­ना­दो­षम् ॥२२९॥

२२९

अज्ञानात् नानारूपं सकलं विश्वं यत् इदं प्रतीतं कल्पितं तत्सर्वं प्रत्य­स्ता­शे­ष­भा­व­ना­दो­षम् अशेषाश्च ताः भावनाश्च अशेषभावनाः तद्रूपः दोषः प्रत्यस्तः निरस्तः यस्मात् तत् प्रत्य­स्ता­शे­ष­भा­व­ना­दोषं सक­ल­क­ल्प­ना­रू­प­दो­ष­शून्यं ब्रह्मैव ॥२२९॥

तदुपपादयति मृदित्यादिना सदृष्टान्तम् −

मृत्का­र्य­भू­तोऽपि मृदो न भिन्नः
कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् ।
न कुम्भरूपं पृथगस्ति कुम्भः
कुतो मृषा कल्पितनाममात्रः ॥२३०॥

२३०

मृत्का­र्य­भू­तोऽपि मृदुपादेयोऽपि कुम्भः मृदो भिन्नो नास्ति । सर्वत्र तु मूले अग्रे पार्श्वयोर्वा सर्वत्रापि मृत्स्वरूपात् मृदभिन्नत्वात् पृथु­बु­ध्नो­द­रा­द्या­का­र­वि­शे­ष­वि­शिष्टा मृदेव कुम्भ इत्युच्यते । न कुम्भरूपं पृथगस्ति । मृद्रू­प­व्य­ति­रे­केण कुम्भस्य रूपं नीलादिकं नास्ति मृदा­का­र­व्य­ति­रे­केण कुम्भस्याकारो नास्ति आका­र­वि­शे­ष­वि­शिष्टा मृदेव कुम्भ इत्युच्यते न तु कुम्भस्य कश्चिदाकारः । ‘वाचारम्भणं विकारो नामधेयम्’(छा.उ. ६.१.४) इति श्रुत्या मृषा­क­ल्पि­त­ना­म­मात्रः कुम्भः । कुतः कस्माद्धेतोः पृथगस्ति मृद्रू­प­भि­न्न­रूपं नास्ति मृदा­का­र­व्य­ति­रि­क्ता­कारो नास्ति । कुम्भ इति शब्दः परं कल्पितः । तावता एक एव देवदत्तः सङ्को­चि­त­ह­स्त­पादः प्रसा­रि­त­ह­स्त­पा­दश्च यथा न भिद्यते तद्वत् कुम्भोऽपि मृद इत्यर्थः ॥२३०॥

स्फुट­प्र­ति­प­त्त्यर्थं पुनरुपपादयति केनापीत्यादिना −

केनापि मृद्भिन्नतया स्वरूपं
घटस्य सन्दर्शयितुं न शक्यते ।
अतो घटः कल्पित एव मोहात्
मृदेव सत्यं परमार्थभूतम् ॥२३१॥

२३१

केनापि पुरुषेण ब्रह्मणापीति वा । घटस्य स्वरूपं मृद्भिन्नतया सन्दर्शयितुं न शक्यते यतः अतो घटः मोहात् भिन्नतया कल्पित एव । मृदेव सत्यं परमार्थभूतं घटशब्दस्य मुख्यार्थभूतम् ‘मृत्तिकेत्येव सत्यम्’ इति श्रुतेः आदावन्ते च वर्तमानत्वात् ॥२३१॥

एवं मृद्घ­ट­दृ­ष्टा­न्तेन उपा­दा­न­व्य­ति­रे­केण उपादेयं कार्यं नास्ती­त्युक्त्वा दार्ष्टान्तिके तदाह सद्ब्रह्मेति −

सद्ब्रह्मकार्यं सकलं सदैव
सन्मात्रमेतन्न ततोऽन्यदस्ति ।
अस्तीति यो वक्ति न तस्य मोहो
विनिर्गतो निद्रि­त­व­त्प्र­जल्पः ॥२३२॥

२३२

सद्रूपं यद् ब्रह्म तस्य कार्यं सकलं वियदादि सदैव सदापि ब्रह्मैव । परमते सत्क­पा­ला­दि­कार्यं घटादि भिन्नमपि सदेवोच्यते । तद्वन्नेत्याह − सन्मात्रमेतत् । यथा घटो मृदेव एवं वियदादि ब्रह्मैव । न ततोऽन्यदस्ति । तत्तदुपादेयस्य तदु­पा­दा­न­व्य­ति­रे­के­णा­स­त्त्वात् सर्वो­पा­दा­न­त्वात् ब्रह्मणः तद्व्यतिरेकेण किमपि नास्तीत्यर्थः । अत एव श्रुतौ मृत्तिकेत्येव सत्यमिति इतिपदेन योगः । मृण्मयं सर्वं सत्यं चेत् मृत्तिकेत्येव मृत्तिकात्वेन सत्यं न स्वरूपत इत्यर्थः । एवं मृदः तदुपादानरूपेण तस्याः पञ्ची­कृ­त­भू­त­का­र्य­त्वात् तद्व्य­ति­रे­के­णा­भाव इति तद्रूपेण सत्यत्वम् । ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपम् , यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य, अपा­गा­द­ग्ने­र­ग्नि­त्वम्’ , ‘वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्’(छा.उ. ६.४.३) इति श्रुत्यनुसारेण तेषां भूता­ना­म­प­ञ्ची­कृ­त­भू­त­रू­पेण पृथक्करणे पृथिव्याः अब्रूपेण अपां तेजोरूपेण तस्य वायुरूपतया तस्य वियत्त्वेन तस्य सत्त्वेन इति सद्रू­प­ब्र­ह्म­भि­न्न­तया किमपि सत्यं नास्तीति सन्मा­त्र­मे­त­दि­त्यु­क्तम् । ततोऽ­न्य­न्ना­स्तीति तदेव स्पष्टीकृतम् । एवं स्थितेऽपि अस्तीति यो वक्ति ब्रह्मभिन्नतया वियदादिकं जगत् अस्तीति यो ब्रवीति तस्य मोहः भ्रमः अज्ञानं वा न विनिर्गतः नष्टो नाभूत् निद्रितवत् निद्रितस्येव प्रजल्पः यथा सुप्तः अनन्वितार्थकं किं वा किं वा असम्बद्धं वदति तद्वत् विचा­र­ज­न्य­ज्ञा­न­म­न्तरा कथ­न­मु­पा­दा­न­व्य­ति­रे­केण कार्यमस्तीति ॥२३२॥

छान्दो­ग्य­श्रु­त्य­नु­सा­रेण कथितमर्थं गतिसामान्याय आथ­र्व­णि­क­श्रुत्या आह ब्रह्मै­वे­द­मि­त्या­दिना −

ब्रह्मैवेदं विश्वमित्येव वाणी
श्रौती ब्रूतेऽ­थ­र्व­निष्ठा वरिष्ठा ।
तस्मादेतद् ब्रह्ममात्रं हि विश्वं
नाधिष्ठानाद् भिन्नतारोपितस्य ॥२३३॥

२३३

श्रौती सामान्यतः वैदिकीति । विशेषत आह − अथर्वनिष्ठेति । अथर्वनिष्ठा अथ­र्व­वे­द­घ­ट­की­भूता अथ­र्वा­ख्य­ब्र­ह्म­ज्ये­ष्ठ­पु­त्र­निष्ठा वा श्रौती वैदिकी अत्यन्तवरिष्ठा वाणी ‘ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’(मु.उ. २.१.१२) इति रूपा, इदं विश्वं सर्वं जगत् , ब्रह्मैव नाति­रि­क्त­मि­त्येव एवकारेण पृथक् सत्तां निषिध्य ब्रूते यस्मात् तस्मादेतत्सर्वं ब्रह्ममात्रं विश्वम् । हि निश्चयः आरोपितस्य कल्पितस्य अधिष्ठानाद् भिन्नता न । एतेन अज्ञानादेरनादेः ब्रह्मो­पा­दा­न­क­त्वा­भा­वात् भिन्नत्वशङ्का परास्ता ॥२३३॥

एवं श्रुत्या प्रपञ्चसत्यत्वं निरस्य युक्त्यापि तदनुसारिण्या निरस्यति सत्यमिति −

सत्यं यदि स्याज्ज­ग­दे­त­दा­त्मनोऽ-
नन्त­त्व­हा­नि­र्नि­ग­मा­प्र­मा­णता ।
अस­त्य­वा­दि­त्व­म­पी­शितुः स्यात्
नैतत्त्रयं साधु हितं महात्मनाम् ॥२३४॥

२३४

एतत् जगत् परिदृश्यमानं विश्वं यदि सत्यम् अकल्पितं स्यात् आत्म­नोऽ­न­न्त­त्व­हानिः अन्यो­न्या­भा­वा­प्र­ति­यो­गि­त्व­रू­प­व­स्तु­प­रि­च्छे­द­शू­न्यत्वं न स्यात् अकल्पितेन जगता वस्तुभूतेन परि­च्छि­द्य­मा­न­त्वात् । हीय­ता­म­न­न्त­त्व­मिति चेत् , निगमाप्रमाणता ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ. २.१) इति वेदस्य बाधितार्थबोधकता स्यात् । इष्टापत्तिरिति चेत् ईशितुरपि परमाप्तस्य सर्वज्ञस्य परमेश्वरस्य असत्यवादित्वम् अय­था­र्थ­व­क्तृत्वं स्यात् । तदपि भवत्विति चेत् , महात्मनाम् आस्ति­का­ना­मि­त्यर्थः । महानात्मा येषां श्रुत्या­चा­र्यो­प­दे­शेन परि­च्छि­न्न­प­ञ्च­को­शा­त्म­बुद्धिं त्यक्त्वा कृत­ब्र­ह्म­सा­क्षा­त्का­र­तया अख­ण्डा­का­र­वृ­त्ति­म­द­न्तः­क­र­णानां वा तेषाम् । नैतत्त्रयं साधु हितं सौमनस्यकरं सम्मतमित्यर्थः । स्वानु­भ­व­वि­रो­धात् ॥२३४॥

प्रप­ञ्च­मि­थ्यात्वे भगवद्गीतां प्रमाणयति ईश्वर इति −

ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः ।
न च मत्स्थानि भूतानीत्येवमेव व्यचीकथत् ॥२३५॥

२३५

अज्ञानाभावेन भ्रमा­दि­दो­ष­शून्यः वस्तु­या­था­त्म्य­ज्ञा­न­वा­नी­श्वरः −

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ।
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् (भ.गी. ९.४,५)

इत्ये­क­स्मि­न्वाक्ये मत्स्थानि सर्वभूतानि न च मत्स्थानीति प्रति­यो­ग्य­भा­वयोः एकत्र विरोधशङ्कायां पश्य मे योगमैश्वरम् इति ईश्वरस्य मम अघ­टि­त­घ­ट­नो­पा­य­रूपं योगं मायाम् इत्यर्थः । पश्येति मायि­क­त्व­मु­क्त­वान् । तदेव मिथ्यात्वम् , प्रतिपन्नोपाधौ अभा­व­प्र­ति­यो­गि­त्व­स्यैव मिथ्यात्वात् । मत्स्थानि न च मत्स्थानीति पदाभ्याम् अयमर्थः उक्तः । स्वाश्र­य­त्वे­ना­भि­म­त­या­व­न्नि­ष्ठा­भा­व­प्र­ति­यो­गित्वं स्वप्र­का­र­क­धी­वि­शे­ष्य­ता­व्या­प­का­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­प­र्य­व­सितं प्रतिपन्नोपाधौ इत्यादेरर्थः । तथा च मत्स्थानीत्यत्र ईश्वरः भूतानामाश्रय इति ज्ञातः । न च मत्स्थानीत्यनेन भूतानां तन्नि­ष्ठा­त्य­न्ता­भा­व­प्र­ति­यो­गि­त्व­म­व­ग­म्यते । तथा च −

सर्वेषामेव भावानां स्वाश्रयत्वेन सम्मते ।
प्रति­यो­गि­त्व­म­त्य­न्ता­भावं प्रति मृषात्मता ॥ (त.प्र. १.७)

इति चित्सु­खा­चा­र्य­व­च­नेन पूर्वो­क्त­मि­थ्यात्वं जगति सिद्धम् । घटवत्तया भ्रम­वि­शे­ष्य­नि­ष्ठा­भा­व­प्र­ति­यो­गित्वं परमतेऽप्यस्तीति अर्थान्तरवारणाय स्वप्र­का­र­क­धी­वि­शे­ष्य­ता­व्या­प­केति । तथा च यत्रास्तीति प्रमा तत्रापि स्वरूपतः कल्पितत्वेन अभावात् यत्र यत्र स्वप्र­का­र­क­धी­वि­शे­ष्यता तत्र सर्वत्र घटा­दे­र्व­स्तु­तोऽ­भा­वात् तत्प्र­ति­यो­गित्वं सूपपादमिति बोध्यम् । ‘मया ततमिदं सर्वं जग­द­व्य­क्त­मू­र्तिना’(भ.गी. ९.४) इति सर्वाधिष्ठानतया इदं सर्वं जगद्व्याप्तम् , न तु तदधिष्ठानकत्वं मम ‘स भगवः कस्मिन् प्रतिष्ठित इति, स्वे महिम्नि, यदि वा न महिम्नि’(छा.उ. ७.२४.१) इति निराधारत्वस्य कथितत्वात् । अतः जग­द­धि­ष्ठा­न­क­त्व­भ्रमं निराकरोति ‘न चाहं तेष्ववस्थितः’(भ.गी. ९.४) इति । धूमेन व्याप्तं गृहमित्यादौ गृहाधिकरणकत्वं धूमे प्रतीयते तद्वदिदं ‘मया ततम्’(भ.गी. ९.४) इत्यादिना ज्ञेयमिति । तथा च नाधिष्ठानाद् भिन्न­ता­रो­पि­त­स्येति ब्रह्मा­धि­ष्ठा­नकं तत्रारोपितं तद्व्यतिरेकेण नास्तीति मिथ्येत्येव व्यचीकथत् अवोचदित्यर्थः ॥२३५॥

जगन्मिथ्यात्वे युक्तिमाह यदीति −

यदि सत्यं भवेद्विश्वं सुषु­प्ता­वु­प­ल­भ्य­ताम् ।
यन्नोपलभ्यते किञ्चिदतोऽसत् स्वप्नवन्मृषा ॥२३६॥

२३६

सत्यस्य सदा भानमावश्यकं यथात्मनः । यदि विश्वं जगत् सत्यं भवेत् सुषु­प्त्य­व­स्था­याम् उपलभ्यताम् । यत् यस्मात् किञ्चिदपि नोपलभ्यते ‘न किञ्चिदवेदिषम्’ इति स्मृतेः । अतः स्वप्नवत् जागरे अनुपलभ्यमानः स्वप्नः यथा असन् तथा । असदित्यस्यार्थः मृषेति, न तु शश­वि­षा­ण­व­द­स­त्त्वम् । किन्तु दृष्ट­न­ष्ट­स्व­रू­प­त्वात् मिथ्या इति भावः ॥२३६॥

इदानीं ब्रह्म­व्य­ति­रे­केण जगतः अभावं निगमयति अत इति −

अतः पृथङ्नास्ति जगत्परात्मनः
पृथ­क्प्र­ती­तिस्तु मृषा गुणाहिवत् ।
आरोपितस्यास्ति किमर्थवत्ताऽ-
धिष्ठानमाभाति तथा भ्रमेण ॥२३७॥

२३७

अतः स्वप्नवत् सदा उपलम्भाभावात् , जगत् , परात्मनः ब्रह्मणः, पृथक् नास्ति व्यवाहारदशायां पृथक्घटादिरूपेण प्रतीतिः गुणाहिवत् । गुणः रज्जुः, अहिः सर्पः, रज्ज्वामारोपितः यथा मृषा तथा जगदपि मृषा तु मृषैवेत्यर्थः । अर्थ­क्रि­या­का­रि­त्वा­भा­वा­दपि मृषात्मत्वमाह − आरोपितस्येति । आरोपितस्य कल्पितस्य अर्थवत्ता प्रयोजनवत्ता अर्थ­क्रि­या­का­रि­त्व­मिति यावत् अस्ति किम् ? नास्त्येवेति भावः । तर्हि कुतः प्रतीतिरत आह अधीति, अधिष्ठानमाभाति तथा भ्रमेण, नहि भ्रमस्थले प्रयोजनगवेषणा विफलप्रवृत्तेः सिद्धत्वात् ॥२३७॥

दृष्टा­न्ता­न्त­रेण जगतः ब्रह्मा­व्य­ति­रेकं द्रढयति भ्रान्तस्येति −

भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं
ब्रह्मैव तत्तद्रजतं हि शुक्तिः ।
इदन्तया ब्रह्म सदेव रूप्यते
त्वारोपितं ब्रह्मणि नाममात्रम् ॥२३८॥

२३८

भ्रान्तस्य भ्रमतः यद्यत्प्रतीतं तत्तत् अधिष्ठानभूतं ब्रह्मैव हि यस्मात् शुक्त्यज्ञानात् शुक्तौ भातं रजतं शुक्तिरेव तथा ब्रह्म­ण्या­रो­पितं वस्तुतः विचार्यमाणे ब्रह्म सदेव इदन्तया रूप्यते तत्तु नाममात्रम् । ‘वाचा­र­म्भ­ण­श्रुतेः’(छा.उ. १.४) इत्यर्थः ॥२३८॥

प्रपञ्चस्य मिथ्यात्वेन तत्कारणत्वमपि तत्प­द­प्र­वृ­त्ति­नि­मित्तं तादृशमेवेति शोधितं तत्प­दा­र्थ­मु­प­सं­ह­रति अत इति चतुर्भिः −

अतः परं ब्रह्म सदद्वितीयं
विशु­द्ध­वि­ज्ञा­न­घ­न­न्नि­र­ञ्ज­नम् ।
प्रशा­न्त­मा­द्य­न्त­वि­ही­न­म­क्रियं
निर­न्त­रा­न­न्द­र­स­स्व­रू­पम् ॥२३९॥

२३९

अतः जगतः पृथ­क्स­त्ता­शू­न्य­त्वात् आरोपिततया नाममात्रत्वात् । परं ब्रह्म अबाध्यं विजातीयरहितं निर्वि­ष­य­वि­ज्ञा­न­श­री­रम् अज्ञा­ना­स्पृ­ष्टम् अपरिणामि जन्म­ना­श­र­हि­त­म­मू­र्त­म­ख­ण्डा­न­न्द­वि­ग्र­हम् ॥२३९॥

निर­स्त­मा­या­कृ­त­स­र्व­भेदं
नित्यं ध्रुवं निष्कलमप्रमेयम् ।
अरू­प­म­व्य­क्त­म­ना­ख्य­म­व्य­यम्
ज्योतिः स्वयं किञ्चिदिदं चकास्ति ॥२४०॥

२४०

निरस्ताः मायाकृताः सर्वभेदाः यस्मात् यस्मिन्निति वा निर्भेदं सजा­ती­य­स्व­ग­त­भे­द­शू­न्यम् आद्य­न्त­वि­ही­न­त्वा­न्नि­त्यम् अक्रियत्वात् ध्रुवं कूटस्थं निष्कलं निरवयवम् अप्रमेयं ">°फल­व्या­प्ति­र­हि­तम् । अरूपम् ‘अश­ब्द­म­स्प­र्श­म­रू­प­म­व्य­यम्’(क.उ. ३.१५) इति श्रुतेः ‘न चक्षुषा गृह्यते’(मु.उ १.३.८) इत्यादेश्च । अत एवाव्यक्तम् । वागगोचरतामाह अनाख्यमिति नामशून्यं प्रवृ­त्ति­नि­मि­त्तानां जाति­गु­ण­क्रि­या­स­म्ब­न्धा­ना­म­भा­वात् । अव्ययं नव्येति इत्यव्ययम् अपक्षयरहितम् । ज्योतिः स्वयं पराप्रकाश्यम् । किञ्चिदिदम् अपरोक्षं चकास्ति प्रकाशते ॥२४०॥

निश्चलतायाः तत्र बुद्धेः स्थापनार्थं तत्र तत्र श्रुत्युक्तानि तावन्ति विशेषणानि पुनराह −

२६. ब्रह्मस्वरूपम्

ज्ञातृ­ज्ञा­न­ज्ञे­य­शू­न्य­म­नन्तं निर्विकल्पकम् ।
केव­ला­ख­ण्ड­चि­न्मात्रं परं तत्त्वं विदुर्बुधाः ॥२४१॥

२४१

ज्ञातृ­ज्ञा­न­ज्ञे­य­शून्यं त्रिपुटीरहितम् । तत्रहेतुः अनन्तं परि­च्छे­द­त्र­य­शू­न्य­मिति । अत एव निर्विकल्पकम् । केव­ला­ख­ण्ड­चि­न्मात्रं सर्वो­पा­धि­स­म्ब­न्ध­वि­धु­रा­प­रि­च्छिन्न ज्ञानैकरूपं परं तत्त्वं बुधाः विदुः ।

अहेयमनुपादेयं मनोवाचामगोचरम् ।
अप्र­मे­य­म­ना­द्यन्तं ब्रह्म पूर्णं महन्महः ॥२४२॥

२४२

स्वात्मत्वेन अहेयमनुपादेयं मनोवाचामगोचारं ‘यतो वाचः’(तै.उ. २.४,.२.९) इति श्रुतेः अप्रमेयं श्रव­ण­म­न­न­नि­दि­ध्या­स­न­सं­स्कृ­त­म­नो­वृ­त्ति­व्या­प्तम् अनाद्यन्तं काल­दे­श­प­रि­च्छे­द­शू­न्यम् अतः पूर्णं महत् सूर्यादिभासकं महः ज्योतिः ब्रह्म इति तत्पदार्थशोधनम् ॥

पदार्थौ शोधयित्वा वाक्यार्थं वक्तुमारभते तत्त्व­मि­त्या­दिना −

२७. तत्त्व­म­सि­म­हा­वा­क्यार्थः

तत्त्व­म्प­दा­भ्या­म­भि­धी­य­मा­नयोः
ब्रह्मात्मनोः शोधि­त­यो­र्य­दि­त्थम् ।
श्रुत्या तयो­स्त­त्त्व­म­सीति सम्य −
गेकत्वमेव प्रतिपाद्यते मुहुः ॥२४३॥

२४३

‘तत्त्वमसि’(छा.उ. ६.८.७) इत्यत्र तत्पदेन त्वम्पदेन च जग­त्क­र्तृ­त्वा­दि­वि­शि­ष्ट­त्वेन जाग्र­दा­द्य­व­स्था­वि­शि­ष्ट­त्वेन च अभिधीयमानयोः शक्त्या बोध्यमानयोः ब्रह्मात्मनोः ब्रह्म च आत्मा च ब्रह्मात्मानौ तयोरीश्वरजीवयोः । इत्थं पूर्वो­क्त­प्र­का­रेण शोधितयोः । ‘तत्त्वमसि’ इति श्रुत्या तयोः केव­ल­चि­न्मा­त्रयोः एकत्वमेव मुहुः नवकृत्वः छान्दोग्ये एतादृशयोः भेदे मानाभावात् सम्य­क्प्र­ति­पा­द्यते, तदैक्यमिति उत्तरेण सम्बन्धः ॥२४३॥

ऐक्यं तयो­र्ल­क्षि­त­योर्न वाच्ययोः
निग­द्य­तेऽ­न्यो­न्य­वि­रु­द्ध­ध­र्मिणोः ।
खद्योतभान्वोरिव राजभृत्ययोः
कूपाम्बुराश्योः परमाणुमेर्वोः ॥२४४॥

२४४

किञ्चि­ज्ज्ञ­त्व­स­र्व­ज्ञ­त्व­वि­षये दृष्टान्तः खद्यो­त­भा­न्वो­रिति अति­प­रि­च्छि­न्ना­प­रि­च्छि­न्न­प्र­का­श­व­त्त्वात् । निय­म्य­नि­या­म­क­भा­व­वि­षये राजभृत्ययोरिति दृष्टान्तः ‘भीषास्माद्’(तै.उ. २.८) इत्यादिश्रुतेः । आन­न्द­ले­शा­पा­रा­न­न्द­वि­षये कूपा­म्बु­रा­श्यो­रिति । एक­दे­श­ग­त­त्व­स­र्व­ग­त­त्व­वि­षये पर­मा­णु­मे­र्वो­रिति । एवम् अन्यो­न्य­वि­रुद्धौ ऐक्यायोग्यौ यौ धर्मिणौ तयोः अन्यो­न्य­वि­रु­द्ध­ध­र्मिणोः वाच्ययोः तयोः जीवेश्वरयोः ऐक्यं न निगद्यते बाधितत्वात् । किन्तु लक्षि­त­योः­ल­क्ष­णा­वृत्त्या बोधितयोः निगद्यते उप­क्र­मा­दि­लि­ङ्गा­व­ग­त­ता­त्प­र्या­नु­सा­रेण कथ्यत इत्यर्थः ॥२४४॥

अन्योन्यविरोधे कारणमाह तयोरिति −

तयो­र्वि­रो­धोऽ­य­मु­पा­धि­क­ल्पितो
न वास्तवः कश्चिदुपाधिरेषः ।
ईशस्य माया महदादिकारणं
जीवस्य कार्यं शृणु पञ्च कोशाः ॥२४५॥

२४५

तयोर्वाच्ययोः अयं विरोधः ऐक्या­यो­ग्य­त्व­रूपः उपाधिना कल्पितः । न वास्तवः स्वाभाविकः कश्चित् । क उपाधिरिति चेदाह उपाधिरेष इति । तत्र तत्पदार्थस्य उपाधिमाह ईशस्य माया । तत्स्वरूपमाह महदादिकारणं मह­त्त­त्त्वा­ह­ङ्का­र­प­ञ्च­त­न्मा­त्रा­दि­स­क­ल­ज­ग­त्का­रणं माया ईश्वरस्य उपाधिः । जीवस्य त्वम्पदार्थस्य कार्यमुपाधिः । किं तदिति चेत् शृणु पञ्च कोशाः । ‘कार्योपाधिरयं जीवः कार­णो­पा­धि­री­श्वरः’(शुकरहस्य ३.१२) इति श्रुतेः ॥२४५॥

एतावुपाधी परजीवयोस्तयोः
सम्यङ्निरासे न परो न जीवः ।
राज्यं नरेन्द्रस्य भटस्य खेटकः
तयोरपोहे न भटो न राजा ॥२४६॥

२४६

जीवपरयोः एतावुपाधी माया पञ्चकोशाश्च । ‘नात्र काचन भिदास्ति’(नृ.उ.उ. ८) ‘नेह नानास्ति किञ्चन’(बृ.उ. ४.४.१९) ‘असङ्गो ह्ययं पुरुषः’(बृ.उ. ४.३.१५) ‘असङ्गो नहि सज्जते’(बृ.उ. ३.९.२६) इत्या­दि­श्रु­तिभिः तत्त्व­म्प­दा­र्थ­शो­धि­काभिः तयोरुपाध्योः सम्यङ्निरासे, न परो न जीवः केव­ल­चि­न्मा­त्र­रू­प­त्वात् भेदकाभावात् । तत्र दृष्टान्तमाह − नरेन्द्रस्य राज्यमुपाधिः । खेटकः आयुधविशेषः भटस्य उपाधिः भेदकधर्मः । तयोरपोहे अभावे, न भटो न राजा । स्पष्टम् ॥२४६॥

उपाधिनिरासः कथं करणीय इति चेदाह अथेति −

अथात आदेश इति श्रुतिस्स्वयं
निषेधति ब्रह्मणि कल्पितं द्वयम् ।
श्रुति­प्र­मा­णा­नु­गृ­ही­त­युक्त्या
तयोर्निरासः करणीय इत्थम् ॥२४७॥

२४७

‘अथात आदेशो नेति नेति’(बृ.उ. २.३.६, ३.९.२६) इति श्रुतिः स्वयं ब्रह्मणि कल्पितं द्वयं द्वैतं वस्तु निषेधति । इतिशब्दस्य इदमित्यर्थः । वीप्सा सक­ल­दृ­श्य­व­र्ग­नि­षे­धार्था । इदमिदमिति यद्यत्प्रतीयते तत्सर्वमपि अधि­ष्ठा­न­व्य­ति­रे­केण नास्ति स्वतः­स­त्ता­स्फू­र्ति­शू­न्यम् । एवं श्रुत्यैव साक्षा­न्नि­षि­ध्य­मा­न­त्वात् सक­ल­प्र­मा­ण­मू­र्ध­न्य­श्रु­त्य­नु­गृ­ही­त­युक्त्या तयोः माया­को­श­प­ञ्च­क­रू­पो­पाध्योः । इत्थं वक्ष्यमाणरीत्या निरासःकरणीयः ॥२४७॥

नेदं नेदं कल्पितत्वान्न सत्यं
रज्जौ दृष्ट­व्या­ल­व­त्स्व­प्न­वच्च ।
इत्थं दृश्यं साधुयुक्त्या व्यपोह्य
ज्ञेयः पश्चा­दे­क­भा­व­स्त­योर्यः ॥२४८॥

२४८

नेदमिति । प्रथमेदं शब्देन ईशोपाधिर्माया, द्वितीयेदम्पदेन कोशपञ्चकं जीवोपाधिः ग्राह्यः प्रत्येकं निषेद्धुं नञ्द्वययोगः । कारणं वा माया, कार्यं वा कोशपञ्चकं कल्पितत्वात् न सत्यं ‘भूयश्चान्ते विश्व मायानिवृत्तिः’(श्वे.उ. १.३) इति मायानाशश्रवणात् । कोशपञ्चकस्य दृष्ट­न­ष्ट­स्व­रू­प­त्व­मु­प­पा­दि­त­मेव अव­स्था­त्र­येऽ­नु­वृ­त्त्य­भा­वात् । ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’(७.१४) इति गीता वचनाच्च । ‘ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगु­णै­र्नि­गू­ढाम्’(श्वे.उ. १.३) इति तस्या अपि दृश्यत्वश्रुतेः । अतः इदं कारणं मायारूपोपाधिः न वस्तुतोऽस्ति, सत्त्वे निवृत्त्ययोगात् ‘नाभावो विद्यते सतः’(भ.गी. २.१६) इति गीतावचनात् । एवं कोशपञ्चकमपि निपुणं विचारयतो नैवास्ति धीमता शिष्येण ‘सर्वाभावं विना किञ्चिन्न पश्यामि’(श्लो. २१४) इत्युक्तत्वात् । अतः पूर्वो­क्तो­पा­धि­द्व­य­मपि रज्जौ दृष्टव्यालवत् सर्पवत् स्वप्नवच्च न सत्यम् । इत्थं दृश्यं साधुयुक्त्या श्रुत्य­नु­सा­रिण्या युक्त्या साधु व्यपोह्य निरस्य पश्चात् तयोःअनुपहितयोः केव­ल­योः­चि­न्मा­त्रयोः यः एकभावः भेदाभावः सः ज्ञेयः ॥२४८॥

ततस्तु तौ लक्षणया सुलक्ष्यौ
तयो­र­ख­ण्डै­क­र­स­त्व­सि­द्धये ।
नालं जहत्या न तथाऽजहत्या
किन्तू­भ­या­र्थै­क­त­यैव भाव्यम् ॥२४९॥

२४९

तत इति । ततः यतः दृश्य­व्य­पो­हा­न­न्तरं शब्दादेव तयोः एकत्वं ज्ञेयं ततः तस्मात्कारणात् तौ शुद्धौ, लक्षणया शक्यसम्बन्धो लक्षणा तया अर्थ­स्मृ­त्य­नु­कू­ल­प­द­प­दा­र्थ­स­म्ब­न्ध­रू­पया वृत्त्या सुलक्ष्यौ सम्य­गु­प­स्था­प­नीयौ । अत्र स्वात्मनिरूपणे,

माना­न्त­रो­प­रो­धात् मुख्या­र्थ­स्या­प­रि­ग्रहे जाते ।

मुख्या­वि­ना­कृ­तेऽर्थे या वृत्तिस्सैव लक्षणा प्रोक्ता ॥ (श्लो. ३२) इत्युक्तम् ।

प्रमा­णा­न्त­र­वि­रो­ध­व­शात् मुख्यार्थस्य वाच्यार्थस्य अपरिग्रहे जाते वाच्या­र्थ­वि­ष­य­का­न्व­य­बो­धा­नु­प­पत्तौ सत्यामिति यावत् मुख्याविनाकृते वाच्य­स­म्ब­द्धेऽर्थे या वृत्तिः सा लक्षणा इत्यर्थः । प्रकृते विशिष्टयोरैक्यं बाधितमिति तत्त्व­म्प­दाभ्यां शुद्धौ आत्मानौ लक्षणीयौ तत्र विशि­ष्ट­ता­दा­त्म्य­स­म्ब­न्धस्य सत्त्वात् लक्षणा शक्यसम्बन्धरूपा निर्वहति । तदपि तत्र स्पष्टमुक्तम् −

देहे­न्द्रि­या­दि­ध­र्मा­ना­त्म­न्या­रो­प­य­न्न­भे­देन ।

कर्तृ­त्वा­द्य­भि­मानी बोधस्स्यात् त्वम्पदस्य वाच्योर्थः ॥

देहस्य चेन्द्रियाणां साक्षी तेभ्यो विलक्षणत्वेन ।

प्रतिभाति योऽव­बो­धः­प्रो­क्तोऽसौ त्वम्पदस्य लक्ष्योऽर्थः ॥

वेदावसानवाचा संवेद्यं सकलजगदुपादानम् ।

सर्व­ज्ञ­ता­द्यु­पेतं चैतन्यं तत्पदस्य वाच्योऽर्थः॥

विवि­धो­पा­धि­वि­मुक्तं विश्वातीतं विशुद्धमद्वैतम् ।

अक्ष­र­म­नु­भ­व­वेद्यं चैतन्यं तत्पदस्य लक्ष्योऽर्थः ॥ (स्वा.नि. २७-२८) इति ।

प्रत्य­क्त्व­प­रो­क्षत्वे परिपूर्णत्वं च सद्वितीयत्वम् ।

इतरेतरं विरुद्धं ततइह भवितव्यमेव लक्षणया ॥ (स्वा.नि. ३१) इति च ।

त्वम्पदार्थे प्रत्यक्त्वं तत्पदवाच्ये परोक्षत्वम् अहमिति प्रतित्यभावात् , एवमीश्वरस्य परिपूर्णत्वं जीवस्य सद्वितीयत्वम् अल्पत्वमिति यावत् । इतरेतरं विरुद्धम् , कथं तयोरैक्यान्वयः इति मानान्तरोपरोधे प्राप्ते उप­क्र­मा­दि­लि­ङ्गा­व­धृ­त­ता­त्प­र्या­नु­पत्त्या शुद्धौ लक्षणया बोधनीयौ । तत्र लक्षणा त्रिविधा, जहल्लक्षणा अजहल्लक्षणा जहदजहल्लक्षणा चेति । प्रकृते तु तृतीया ग्राह्या इत्याह । तयो­र­ख­ण्डै­क­र­स­त्व­सि­द्धये संस­र्गा­वि­ष­य­क­प्र­मा­वि­ष­य­त्व­सि­द्धये इत्यर्थः । उक्तं हि वाक्यवृत्तौ −

संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः ।
अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ (३८) इति ।

तत्र जहल्लक्षणा नाम स्वात्मनिरूपणे लक्षिता −

निखिलमपि वाच्यमर्थं त्यक्त्वा वृत्ति­स्त­द­न्वि­तेऽ­न्यार्थे ।
जहतीति लक्षणा स्यात् गङ्गायां घोषवदिह न ग्राह्या ॥ (३३)

इति । वाच्या­र्था­वि­ष­यणी लक्ष्या­र्थ­वि­ष­यणी या उपस्थितिः तादृ­शो­प­स्थि­ति­ज­निका शक्यसम्बन्धरूपा या वृत्तिः पद­प­दा­र्थ­स­म्बन्धः सा जहल्लक्षणा । यथा ‘गङ्गायां घोष’ इत्यत्र घोष­प­द­वा­च्या­भी­र­पल्ल्याः गङ्गा­प­द­वा­च्य­प्र­वा­ह­वृ­त्तित्वं न सम्भवतीति गङ्गापदस्य प्रवा­ह­सं­यु­क्त­ती­र­बो­ध­क­त्वम् । तत्रापि यदि गङ्गातीरे घोष इति बोधोऽभिप्रेतः तदा अजहल्लक्षणैव । तीरे घोष इति चेत् , बोधे तज्जनकोपस्थितौ च वाच्या­र्थ­स्या­प्र­वे­शात् जहल्लक्षणा । प्रकृते नालं जहत्या इत्युक्तं वाच्यैकदेशस्य विशेष्यस्य सङ्ग्रहात् ‘निखिलमपि वाच्यमर्थं त्यक्त्वा’ इत्यु­क्त­ल­क्ष­णा­भा­वात् । एवं न तथा अजहत्या अख­ण्डै­क­र­स­त्व­सि­द्धये अजहत्या लक्षणयापि नालं न पर्याप्तम् । तथा हि − अजहल्लक्षणा नाम वाच्यार्थविषयणी लक्ष्या­र्थ­वि­ष­यणी च या उपस्थितिः तज्ज­न­क­श­क्य­स­म्ब­न्ध­रूपा वृत्तिः । तदुक्तम् −

वाच्या­र्थ­म­त्य­जन्त्या यस्या वृत्तेः प्रवृ­त्ति­र­न्यार्थे ।

इयमजहतीति कथिता शोणो धावतिवदत्र न ग्राह्या ॥ (स्वा.नि. ३४) इति ।

शोणशब्दस्य वाच्यस्य रक्तगुणस्य धाव­न­क­र्तृ­त्वा­न्व­या­स­म्भ­वात् तद्गुणविशिष्टे अश्वे लक्षणा । तत्र शोण­गु­ण­वि­शि­ष्टा­श्व­वि­ष­य­को­प­स्थितौ वाच्यार्थस्य शोणगुणस्यापि भानात् इयं लक्षणा अजहती वाच्यार्थं न त्यजतीति । प्रकृते विशेषणांशस्य वाच्यार्थस्य परि­त्य­ज्य­मा­न­त्वात् नाजहल्लक्षणा किन्तु उभयार्थैकतयैव भाव्यम् उभयोरर्थयोः एकता यया लक्षणया तया जहदजहल्लक्षणया भाव्यं तयो­र­ख­ण्डै­क­र­स­त्व­सि­द्धये । तल्लक्षणमुक्तम् −

जहदजहतीति सा स्यात् या वाच्या­र्थै­क­दे­श­म­प­हाय ।
बोधयति चैकदेशं सोऽयं द्विज इति­व­दा­श्र­ये­दे­नाम् ॥
सोऽयं द्विज इति वाक्यं त्यक्त्वा प्रत्य­क्प­रो­क्ष­दे­शा­द्यम् ।
द्विज­मा­त्र­ल­क्ष­क­त्वात् कथयत्यैक्यं पदार्थयोरुभयोः ॥

तद्व­त्त­त्त्व­म­सीति त्यक्त्वा प्रत्य­क्प­रो­क्ष­ता­दीनि ।

चिद्वस्तु लक्षयित्वा बोधयति स्पष्ट­म­सि­प­दे­नै­क्यम् ॥ (स्वा.नि. ३५-३८) इति ।

तथा च किञ्चि­द्वा­च्या­र्था­वि­ष­यणी किञ्चि­द्वा­च्या­र्थ­वि­ष­यणी च या उप­स्थि­तिः­ता­दृ­शो­प­स्थि­ति­ज­न­क­श­क्य­स­म्ब­न्ध­रूपा वृत्तिः जहदजहल्लक्षणा । प्रकृते तया लक्षणया तत्त्व­म्प­दा­र्थ­योः­सं­स­र्गा­वि­ष­य­क­य­था­र्थ­ज्ञा­न­वि­ष­य­त्व­सि­द्धये भाव्यम् ॥२४९॥

तद्दृ­ष्टा­न्त­पु­र­स्स­र­माह स इति −

स देवदत्तोऽयमितीह चैकता
विरु­द्ध­ध­र्मां­श­म­पास्य कथ्यते ।
यथा तथा तत्त्वमसीति वाक्ये
विरु­द्ध­ध­र्मा­नु­भ­यत्र हित्वा ॥२५०॥

२५०

संलक्ष्य चिन्मात्रतया सदात्मनोः
अखण्डभावः परिचीयते बुधैः ।
एवं महावाक्यशतेन कथ्यते
ब्रह्मा­त्म­नो­रै­क्य­म­ख­ण्ड­भावः ॥२५१॥

२५१

सोऽयं देवदत्त इतीह तच्छब्दस्य तद्दे­श­त­त्का­ल­वृ­त्ति­त्व­वि­शि­ष्टोऽर्थः । अयमिति इदम्पदस्य एत­द्दे­शै­त­त्का­ल­वृ­ति­त्त्व­वि­शिष्टः अर्थः । तत्र विशेषणयोः अत्य­न्त­भि­न्न­त्वात् विशि­ष्टै­क्य­म­नु­प­प­न्नम् । कालान्तरे देशान्तरे स्थितः देवदत्तः इदानीमत्रागतः इत्यप्यर्थस्य ज्ञातत्वात् व्यक्ति­मा­त्र­वि­ष­य­क­बो­ध­ता­त्प­र्ये­णो­च्च­रि­ता­द­स्माद् वाक्यात् स्वघ­ट­क­त­दि­द­म्प­दा­भ्या­मु­भ­यत्र विरुद्धांशं तद्दे­श­त­त्का­लै­त­द्दे­शै­त­त्का­ल­रू­पम् , अपास्य हित्वा देव­द­त्त­रू­प­वि­शे­ष्यां­श­मा­त्र­मु­प­स्था­प्यते । तत्र भेदो नास्तीति एकता यथा कथ्यते तथा तत्त्वमसि वाक्ये कार­णो­पा­धि­का­र्यो­पा­धि­प्र­त्य­क्त्व­प­रो­क्ष­त्व­प­रि­पू­र्ण­त्व­स­द्वि­ती­य­त्वा­दि­रू­पान् विरुद्धधर्मान् उभयत्र हित्वा चिन्मात्रतया ईशजीवौ संलक्ष्य तयोः अखण्डभावः वस्तु­प­रि­च्छे­द­शू­न्यत्वं बुधैः विद्वद्भिः परिचीयते अनुभूयत इत्यर्थः । एकत्र ऐक्य­बो­ध­प्र­का­र­मु­प­दिश्य अन्य­त्रा­ति­दि­शति, एवं महावाक्यशतेन ब्रह्मा­त्म­नो­रैक्यं तदर्थः अखण्डभावः कथ्यत इति ॥२५१॥

विधिमुखेन जीव­ब्र­ह्मै­क्य­बो­धकं वाक्यमुदाहृत्य निषेधमुखेन तद्वोधकं वाक्यमुदाहरति अस्थूलमिति −

अस्थू­ल­मि­त्ये­त­द­स­न्नि­रस्य सिद्धं स्वतो व्योम­व­द­प्र­त­र्क्यम् ।
अतो मृषामात्रमिदं प्रतीतं जहीहि यत्स्वात्मतया गृहीतम् ।
ब्रह्माहमित्येव विशुद्धबुध्या विद्धि स्वमा­त्मा­न­म­ख­ण्ड­बो­धम् ॥२५२॥

२५२

‘अस्थू­ल­म­न­ण्व­ह्र­स्व­म­दी­र्धम्’(बृ.उ. ३.८.८) इत्यादिवाक्यानि स्थूल­श­री­रा­दि­ता­दा­त्म्या­भि­मा­नेन तथा स्वात्मानं जानानं जीवं तद्रूपत्वं परिहाप्य ब्रह्मस्वरूपं बोधयन्ति । तदाह − एतत् दृश्यमानम् असत् स्थूलं शरीरादि, अस्थूलमिति निरस्य निषिध्य, सक­ल­नि­षे­ध­सा­क्षि­त्वेन स्वतः सिद्धम् , व्योमवत् आका­श­व­द­प्र­त­र्क्यम् नह्याकाशस्य आयामः एतावानिति तर्कयितुं शक्यते, तथा शास्त्रमन्तरेण तर्का­न­धि­ग­म्य­मि­त्यर्थः । तादृशं ब्रह्म अहमित्येव विशुद्धबुद्ध्या मन­न­नि­दि­ध्या­स­न­सं­स्कृ­त­बुद्ध्या, स्वम् आत्मानम् अखण्डबोधं विद्धि । अतः यत् स्वात्मतया गृहीतं स्थूलशरीरादिकम् इदं प्रतीतमज्ञानात् ज्ञातं मृषामात्रं मिथ्याभूतं, जहीहि परित्यज, इत्यन्वयः ॥२५२॥

छान्दो­ग्य­ष­ष्ठा­ध्याये श्वेतकेतुं प्रति उद्दालकेन कृतमुपदेशं शिष्यसुखबोधाय सङ्गृह्योपदिशति मृत्कार्यमिति −

मृत्कार्यं सकलं घटादि सततं मृन्मा­त्र­मे­वा­भितः
तद्वत्सज्जनितं सदात्मकमिदं सन्मा­त्र­मे­वा­खि­लम् ।
यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं
तस्मात् तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥२५३॥

२५३

मृत्कार्यं मृदुपादानकं, घटादि घटशरावोदञ्चनादि सकलं, सततं कालत्रयेऽपि उत्पत्तेः प्राक् उत्पत्त्यनन्तरं नाशानन्तरं च, अभितःसर्वशः प्रागूर्ध्वं पश्चादधः पार्श्वयोः, मृन्मात्रमेव मृद्व्यतिरेकेण नास्ति । विस्त­रे­णे­द­मु­प­पा­दि­त­म­ध­स्तात् ‘मृत्कार्यभूत’(श्लो. २३०) इत्यादि श्लोकाभ्यां तद्वत् । ‘सदेव सोम्येदमग्र आसीत्’, ‘एक­मे­वा­द्वि­तीयं’(छा.उ. ६.२.१) , ‘तदैक्षत, तत्तेजोऽसृजत, तदपोऽसृजत, तदन्नमसृजत’(छा.उ. ६.२.३...) इत्यादिना ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’(छा.उ. ६.८.४., ६) इत्यन्तं श्रुत्या बोधितप्रकारेण सज्जनितं घटः सन् पटः सन् इति सामा­ना­धि­क­र­ण्य­वि­ष­य­क­प्र­तीत्या च सदात्मकमिदमखिलं सन्मात्रमेव । यस्मात् सतः परब्रह्मणःपरं भिन्नं किमपि नास्ति तत् सर्वोपादानभूतं, सत्यं कालत्रयाबाध्यं, सः आत्मा तव मुख्यं स्वरूपं स्वयं सत्ता­स्फूर्त्योः परनिरपेक्षं, तस्माद्धेतोः अद्वयं स्वस­त्ता­व्य­ति­रि­क्त­स­त्ता­क­प­दा­र्थ­शून्यं, प्रशान्तं निर्विकारम् , अमलम् अज्ञा­ना­द्य­स्पृष्टं, यत्परं ब्रह्म तदेव त्वमसि इत्यर्थः ॥२५३॥

निद्रा­क­ल्पि­त­दे­श­का­ल­वि­ष­य­ज्ञा­त्रादि सर्वं यथा
मिथ्या तद्वदिहापि जाग्रति जग­त्स्वा­ज्ञा­न­का­र्य­त्वतः ।
यस्मादेवमिदं शरी­र­क­र­ण­प्रा­णा­ह­मा­द्य­प्य­सत्
तस्मात् तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥२५४॥

२५४

‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान् पथः सृजते’(बृ.उ. ४.३.१०) इति श्रुत्या निद्रावशात् कल्पितः देशश्च कालश्च विषयाश्च ज्ञाता च देश­का­ल­वि­ष­य­ज्ञा­तारः ते आदयः यस्य सर्वस्य स्वप्ने भास­मा­न­व­स्तु­जा­तस्य शरीरकरणादेः तत्सर्वं प्रबोधे अप्र­ती­य­मा­न­त्वात् निद्रा­रू­प­दो­ष­ज­न्य­त्वात् दृष्ट­न­ष्ट­स्व­रू­प­त्वाच्च यथा मिथ्या बाध्यं, तद्वदिह जाग्रत्यपि जगत् मिथ्या । तत्र हेतुः स्वाज्ञा­न­का­र्य­त्वतः, स्वस्य अज्ञानं स्वाज्ञानं निष्प्र­प­ञ्च­स्व­रू­पा­व­रकं मूलाज्ञानं तत्कार्यत्वात् । उक्तं हि − ‘यदबोधादिदं भाति यद्बो­धा­द्वि­नि­व­र्तते’ इति । ‘यत्र त्वस्य सर्वात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुतेः ।

यदज्ञानप्रभावेन दृश्यते सकलं जगत् ।
यज्ज्ञा­ना­ल्ल­य­मा­प्नोति तस्मै ज्ञानात्मने नमः ॥

इति ‘ज्ञाते द्वैतं न विद्यते’(आगम. १८) इति माण्डू­क्य­का­रि­का­याश्च । यस्मादेवं जगत् मिथ्या, इदं शरी­र­क­र­ण­प्रा­णा­ह­मा­द्यपि त्वया पूर्व­मा­त्म­त्वे­ना­भि­मतं शरी­रे­न्द्रि­य­प्रा­णा­ह­ङ्का­रा­दि­क­मपि असत् बाध्यं मिथ्याभूतम् । तस्मात् प्रशान्तममलम् अद्वयं यत्परं ब्रह्म तदेवासित्वम् इति पूर्ववत् ॥२५४॥

शब्दानुविद्धतया ब्रह्मा­नु­स­न्धा­न­धा­रायै दशभिः श्लोकैः ब्रह्मतत्त्वं स्फुटयन् जीव­ब्र­ह्मै­क्य­मा­वि­ष्क­रोति जातिनीतीति −

जाति­नी­ति­कु­ल­गो­त्र­दू­रगं
नाम­रू­प­गु­ण­दो­ष­व­र्जि­तम् ।
देश­का­ल­वि­ष­या­ति­वर्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥२५५॥

२५५

ब्राह्म­ण्या­दि­जातेः, औचित्येन स्थितिरूपनीतेः, कुलस्य वंशस्य, गोत्रस्य च स्थूल­सू­क्ष्म­श­री­रा­श्रि­त­त्वात् तेभ्यः दूरं गच्छतीति जातिनीति कुलगोत्रदूरगं ‘यत्त­द­द्रे­श्य­म­ग्रा­ह्य­म­गो­त्र­म­व­र्णम्’(१.६) इति मुण्डकश्रुतेः । ‘नाम­रू­प­गु­ण­दो­ष­व­र्जि­तम् आकाशो ह वै नाम नाम­रू­प­यो­र्नि­र्व­हिता ते यदन्तरा तद्ब्रह्म’(छा.उ. ८.१४.१) ‘केवलो निर्गुणश्च’(श्वे.उ. ६.११) इति श्रुतेः चका­रा­न्नि­र्दो­षश्च । देशकालविषयान् अतीत्य वर्तत इति देश­का­ल­वि­ष­या­ति­वर्ति आनन्त्यश्रुतेः परि­च्छे­द­त्र­य­शू­न्य­मि­त्यर्थः । ईदृशं यद् ब्रह्म तत्त्वमसि आत्मनि बुद्धौ ऐक्येन भावय अनुसन्धेहि ॥२५५॥

यत्परं सकलवागगोचरं
गोचरं विमलबोधचक्षुषः ।
शुद्ध­चि­द्घ­न­म­नादि वस्तु यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥२५६॥

२५६

यदिति । यत्परं सर्वोत्कृष्टम् , सकलवागगोचरं ‘यतो वाचो निवर्तन्ते’(तै.उ. २.४.१) इति श्रुतेः उपनिषद्भिरपि लक्षणावृत्त्या प्रति­पा­द्य­मा­न­त्वात् । विमलबोधरूपं यच्चक्षुः तस्य गोचरं ‘ज्ञानप्रसादेन विशुद्धसत्त्वः ततस्तु तं पश्यते निष्कलं ध्यायमानः’(मु.उ. ३.१.८) इति श्रुतेः । शुद्धा निर्विषया या चित् सैव घनः मूर्तिः यस्य, यद्वा शुद्धं च तत् चिद्घनं निरु­प­हि­त­ज्ञा­न­स्व­रू­पम् , अनादि वस्तु नित्यं यथार्थं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५६॥

षड्भि­रू­र्मि­भि­र­योगि योगिहृद्
भावितं न करणैर्विभावितम् ।
बुद्ध्य­वे­द्य­म­न­व­द्य­भूति यद्
ब्रह्म तत्त्वमसि भावयात्मनि ॥२५७॥

२५७

षड्भिरिति । क्षुत्पिपासे शोकमोहौ जराम्रुत्यू ऊर्मिवत् तरङ्गवत् उपर्युपरि सम्भवन्तीति एते षडूर्मय इति कथ्यन्ते । तैः षड्भिः ऊर्मिभिः अयोगि योगरहितं सम्बन्धशून्यम् , क्रमेण प्राण­म­नः­श­री­रा­श्रि­त­त्वात् तेषाम् । योगिहृद्भावितं विषयेभ्यो निरुद्धचित्ताः योगिनः तेषां हृदा मनसा भावितम् आदरेण ध्यातमित्यर्थः । न करणैर्विभावितं ‘न चक्षुषा गृह्यते नापि वाचा’(मु.उ ३.१.८) ‘नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा’(क.उ. ६.१२) ‘न तत्र चक्षुर्गच्छति न वाग्गच्छति’(के.उ. १.३) इत्या­दि­श्रु­तिभ्यः । शब्द­स्प­र्श­रू­पा­दि­र­हि­त­त्वात् बुद्ध्यवेद्यं सौक्ष्म्या­ग्र्यत्व हीनबुद्ध्या वेत्तुमशक्यम् , अनवद्यभूति अनवद्या भूतिः महिमा यस्य निर्दो­षै­श्व­र्य­मि­त्यर्थः । ‘वैष­म्य­नै­र्घृण्ये न सापेक्षत्वात्’(ब्र.सू. २.१३४) इति सूत्रात् । ‘निरवद्यम्’(श्वे.उ. ६.१९) इति श्रुतेश्च । तादृशं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५७॥

भ्रान्ति­क­ल्पि­त­ज­ग­त्क­ला­श्रयं स्वाश्रयं च सदसद्विलक्षणम् ।
निष्कलं निरु­प­मा­न­मृ­द्धि­मत् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५८॥

२५८

‘पादोऽस्य सर्वा भूतानि’(छा.उ. ३.१२.५) इति श्रुतेः भ्रान्त्या कल्पिता या जगद्रूपा कला अंशः तदाश्रयम् अधिष्ठानं, ‘स भगवः कस्मिन् प्रतिष्ठित इति, स्वे महिम्नि’(बृ.उ. ३.९) इति श्रुतेः स्वमाश्रयः यस्य अनाधारं सत्यमित्यर्थः । सदसद्विलक्षणं प्रत्य­क्ष­प­रो­क्ष­प­ञ्च­भू­त­वि­ल­क्षणं, निष्कलं निरवयवं, निरुपमानम् असदृशं ‘न तत्स­म­श्चा­भ्य­धि­कश्च दृश्यते’(श्वे.उ. ६.८) इति श्रुतेः । ऋद्धिमत् ‘एष सर्वेश्वरः’(बृ.उ. ४.४.२१) इत्यादिश्रुतेः । ‘सत्यकामः सत्यसङ्कल्पः’(छा.उ. ८.१.५) इत्या­दि­श्रु­तेश्च । एतादृशं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५८॥

जन्म­वृ­द्धि­प­रि­ण­त्य­प­क्ष­य­व्या­धि­ना­श­न­वि­ही­न­म­व्य­यम् ।
विश्व­सृ­ष्ट्य­व­न­घा­त­का­रणं ब्रह्म तत्त्वमसि भावयात्मनि ॥२५९॥

२५९

जन्म उत्पत्तिः । तद­न­न्त­र­का­लि­क­स्थि­ते­रु­प­ल­क्ष­णम् । वृद्धिः अवयवोपचयः । परिणतिः विपरिणामः पाकादिना रूपा­न्त­रो­त्पत्तिः आम्रादिफलादिषु । अपक्षयः अवयवापचयः । व्याधिः रोगः । नाश­न­म­न्त्य­वि­कारः तैर्विहीनं षड्भा­व­वि­का­र­शू­न्य­मि­त्यर्थः । अत एव अव्ययं न व्येतीत्यव्ययं स्वतो वा परतो वा नाशरहितं नित्यम् । विश्व­सृ­ष्ट्य­व­न­घा­त­का­रणं ‘यतो वा इमानि भूतानि जायन्ते ।’ ‘येन जातानि जीवन्ति ।’ ‘यत्प्र­य­न्त्य­भि­सं­वि­शन्ति’(तै.उ. ३.१) ‘इदं सर्वमसृजत’(तै.उ. २.६, छां.उ. १.२.५) ‘आकाशः परायणम् आकाशं प्रत्यस्तं यन्ति’(छा.उ. १.९.१) इत्या­दि­श्रु­तिभ्यः सक­ल­प्र­प­ञ्च­सृ­ष्टि­स्थि­ति­सं­हा­र­का­रणं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२५९॥

अस्त­भे­द­म­न­पा­स्त­ल­क्षणं निस्त­र­ङ्ग­ज­ल­रा­शि­नि­श्च­लम् ।
नित्य­मु­क्त­म­वि­भ­क्त­मूर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६०॥

२६०

अस्तभेदम् अस्तः गतः भेदः यस्मात् ‘एक­मे­वा­द्वि­ती­यम्’(छा.उ. ६.२.१) ‘इदं सर्वं यदयमात्मा’(बृ.उ. २.४.६, ४.५.७) इति श्रुतेः, अनपास्तलक्षणम् अन­पा­स्त­म­त्य­क्तम् अनपायि सार्व­दि­क­मि­त्यर्थः, लक्षणं सच्चि­दा­न­न्द­स्व­रूपं यस्य तत् , निर्गताः तरङ्गाः यस्मात् स चासौ जलराशिश्च समुद्रः तद्वन्निश्चलं, नित्यमुक्तं कदापि बन्धरहितम् , अविभक्तमूर्ति सच्चि­दा­न­न्द­स्व­रू­प­त्वेऽपि तत्प­द­ल­क्ष्या­ख­ण्ड­स्व­रू­प­भे­दा­भा­वात् अविभक्ता भेदरहिता मूर्तिः स्वरूपं शरीरं यस्य तत् अविभक्तमूर्ति निरवयवमिति वा यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६०॥

एकमेव सदनेककारणं कार­णा­न्त­र­नि­रा­स­का­र­णम् ।
कार्य­का­र­ण­वि­ल­क्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६१॥

२६१

एकमेव सत् कल्पि­ता­ना­म­ने­के­षाम् अधिष्ठानत्वेन कारणम् , कार­णा­न्त­र­नि­रा­स­का­रणं ‘परास्य शक्तिर्विविधैव श्रूयते’(श्वे.उ. ६.८) इति श्रुतेः, स्वभि­न्न­का­र­ण­नि­र­पे­क्ष­मि­त्यर्थः । सक­ल­दृ­श्य­नि­षे­ध­सा­क्षि­त्वेन कारणान्तरस्य आकाशादेः निरासे नेति नेतीति निषेधे कारणमिति वा, कार्य­का­र­ण­वि­ल­क्षणं ‘तदेतद् ब्रह्मा­पू­र्व­म­न­प­रम्’(बृ.उ. २.५.१९) इति श्रुतेः कार्यं जगत् , कारणं माया, तद्विलक्षणम् । ‘उत्तमः पुरुषस्त्वन्यः पर­मा­त्मे­त्यु­दा­हृतः’(१५.१७) इति गीतोक्तेश्च । यद्यप्येककारणम् , इति अस्मिन्नेव श्लोके कारणत्वमुक्तं तथापि तस्य मिथ्या­का­र्य­नि­रू­पि­त­त्वेन मिथ्यात्वात् वस्तुतः कारणत्वं नास्तीत्यपि मन्तव्यं जग­ज्ज­न्मा­दि­का­र­ण­त्वस्य तट­स्थ­ल­क्ष­ण­त्वात् । याव­ल्ल­क्ष्य­का­ल­म­न­व­स्थितं यद्व्यावर्तकं तदेव तटस्थलक्षणम् । स्वयं स्वतः सिद्धं, ब्रह्म यत् तत्त्वमसि भावयात्मनि ॥२६१॥

निर्वि­क­ल्प­क­म­न­ल्प­म­क्षरं यत्क्ष­रा­क्ष­र­वि­ल­क्षणं परम् ।
नित्यमव्ययसुखं निरञ्जनं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६२॥

२६२

निर्विकल्पकं मायिकत्वात् विकल्पानां वस्तुतः विकल्पशून्यम् , अनल्पं ‘यो वै भूमा’(छा.उ. ७.२३.१, २४.२) ‘ज्याया­ना­का­शात्’(छा.उ. ३.१.४.३) इत्यादिश्रुतेः । अक्षरं न क्षरति अश्नुते व्याप्नोतीति वा अक्षरम् । यत्क्ष­रा­क्ष­र­वि­ल­क्ष­णम् ,

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरस्सर्वाणि भूतानि कूटस्थोक्षर उच्यते ॥ (भ.गी. १५.१६)

इति स्मृतेः । पूर्वं कार्य­का­र­ण­वि­ल­क्ष­ण­मि­त्युक्तं विवृतं पदान्तरेण, जग­न्मा­या­वि­ल­क्षणं सत्यमित्यर्थः । अत एव परं सर्वोत्कृष्टं, नित्यम् अक्ष­र­त्वा­न्नित्यं ‘नित्यो नित्यानाम्’(क.उ. २.५.१३) इति श्रुतेः । परं नित्यमिति वा अन्वयः । अव्ययसुखं ‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति’(छा.उ. ७.२४.१) इति श्रुतेः अखण्डसुखरूपं, निरञ्जनं तमश्शून्यं यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६२॥

यद्विभाति सदनेकधा भ्रमा­न्ना­म­रू­प­गु­ण­वि­क्रि­या­त्मना ।
हेम­व­त्स्व­य­म­वि­क्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि ॥२६३॥

२६३

यथा एकं हेम सुवर्णं कट­क­कु­ण्ड­ला­द्य­ने­का­त्मना विभाति स्वयमेकरूपं कार­क­व्या­पा­र­मा­त्रेण एवं यत् सद् ब्रह्मस्वयं सदा अविक्रियं, भ्रमात् नाम­रू­प­गु­ण­वि­क्रि­या­त्मना अनेकधा विभाति तद् ब्रह्म तत्त्वमसि भावयात्मनि ॥२६३॥

यच्चकास्त्यनपरं परात्परं प्रत्य­गे­क­र­स­मा­त्म­ल­क्ष­णम् ।
सत्य­चि­त्सु­ख­म­न­न्त­म­व्ययं ब्रह्म तत्त्वमसि भावयात्मनि ॥२६४॥

२६४

‘तदेतद् ब्रह्मा­पू­र्व­म­न­प­रम्’(बृ.उ. २.५.१९) इति श्रुतेः अनपरं न विद्यते परं कार्यं यस्य वस्तु­भू­त­का­र्य­शून्यं, परात् हिरण्यगर्भादपि परं, यद्वा सर्व­का­र्य­का­र­णात् अज्ञानात् परम् ‘अक्षरात्परतः परः’(मु.उ २.१.२) इति श्रुतेः ‘स एत­स्मा­ज्जी­व­घ­नात् परात्परं पुरिशयं पुरुषमीक्षते’(प्रश्नो. ५.५) इति श्रुतेः, परशब्देन हिरण्यगर्भोऽपि ग्रहीतुं शक्यते । प्रत्यगेकरसं जीवाभिन्नं सर्वान्तरम् −

]यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।
*
यच्चास्य सन्ततो भावः तस्मादात्मा प्रकीर्तितः ॥

इत्यु­क्ता­त्म­ल­क्ष­णो­पेतं सत्य­चि­त्सु­ख­म­न­न्त­म­प­रि­च्छि­न्नम् , अव्ययं नित्यं, ब्रह्म भावयात्मनि ॥२६४॥

उक्त­म­र्थ­मि­म­मा­त्मनि स्वयं भावय प्रथि­त­यु­क्ति­भि­र्धिया ।
संशयादिरहितं कराम्बुवत् तेन तत्त्वनिगमो भविष्यति ॥२६५॥

२६५

उक्तमिति । इमम् ऐक्यरूपम् उक्तमर्थं प्रथितयुक्तिभिः युक्तिषु प्रथितत्वं श्रुत्य­नु­सा­रि­त्वम् । धिया निर्म­ला­न्तः­क­र­णेन आत्मनि बुद्धौ स्वयं भावय । तेन भावनेन कराम्बुवत् हस्तगतजलं यथा निस्संशयं स्पष्टं गृह्यते एवं तत्त्वनिगमः तत्त्वनिर्णयः, संशयादिरहितं यथा तथा भविष्यति । रहितपदस्य राहित्यमर्थः । संशयादीति विपर्ययः आदिपदेन गृह्यते असम्भावना च । अस­म्भा­व­ना­सं­श­य­वि­प­र्य­य­भा­व­नानां राहित्यं यस्मिन् कर्मणि तद्यथा भवति तथा इति भविष्यतीत्यत्र भवनक्रिया विशेषणम् ॥२६५॥

स्वं बोधमात्रं परिशुद्धतत्वं विज्ञाय सङ्घे नृपवच्च सैन्ये ।
तदात्मनैवात्मनि सर्वदा स्थितो विलापय ब्रह्मणि दृश्यजातम् ॥२६६॥

२६६

स्वमिति । सैन्ये बहुयोधघटिते सैन्ये छत्रा­दि­चि­न्ह्नेन नृपमिव सङ्घे शरी­रे­न्द्रि­य­प्रा­णा­ह­ङ्का­र­रू­प­का­र्य­क­र­ण­स­ङ्घाते, परिशुद्धतत्त्वं परिशुद्धं तत्त्वं याथात्म्यं यस्य सः परिशुद्धतत्त्वः तं स्वम् आत्मानं बोधमात्रं सर्वा­व­भा­स­क­ज्ञा­न­मात्रं दृश्य­स­न्ब­न्ध­र­हितं विज्ञाय विवेकेनानुभूय, तदात्मनैव ज्ञानात्मनैव सर्वदात्मनि स्थितः स्वरूपनिष्ठः, ब्रह्मणि दृश्यजातं विलापय −

पृथिव्यप्सु पयो वह्नौ वह्निर्वायौ नभस्यसौ ।
नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यहं हरिः ॥ (ब्रह्म.चिन्त. १२)

इति रीत्या तत्तु­दु­पा­दे­यानां स्वोपा­दा­न­व्य­ति­रे­केण असद्भावं विनिश्चित्य सर्वस्य सर्वो­पा­दा­न­भू­त­ब्र­ह्म­व्य­ति­रे­के­णा­भावं निश्चिनुहि इत्यर्थः ॥२६६॥

बुद्धौ गुहायां सदसद्विलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् ।
तदात्मना योऽत्र वसेद्गुहायां पुनर्न तस्या­ङ्ग­गु­हा­प्र­वेशः ॥२६७॥

२६७

सदसद्विलक्षणं सत्यम् अद्वितीयं परं ब्रह्म गुहायां बुद्धौ अस्ति ‘योऽयं विज्ञानमयः प्राणेषु हृद्य­न्त­र्ज्योतिः पुरुषः’(बृ.उ. ४.३.७) इति श्रुतेः ‘स वा एष आत्मा हृदि’(छा.उ. ८.३.३) इति च, ‘प्रति­बो­ध­वि­दितं’(के.उ. २.४) ‘दृश्यते त्वग्र्यया बुध्या सूक्ष्मया’(क.उ. १.३.१२) इति श्रुतेः बुद्धिं विना वेत्तु­म­श­क्य­त्वात् दर्पणमिव मुखस्य बुद्धिवृत्तिरेव आवरणं भङ्क्त्वा ब्रह्म गृह्णातीति सर्वगतमपि बुद्धावस्तीति कथ्यते, सुषुप्तौ बुद्ध्यभावेन दुर्ग्रहत्वात् । सामीप्यसप्तमी पाषाणे वृक्ष इतिवत् स्वरूपस्य । यद्यपि पञ्चापि कोशाः गुहापदेन कथ्यन्ते तथापि तत्र मनोमयादीनां बुद्धि­द्वा­र­क­स­म्ब­न्धात् आनन्दमयकोशे बुद्धिं विना विवे­क्तु­म­श­क्य­त्वात् प्राधान्येन सत्व­प्र­धा­न­बु­द्धा­वेव स्थिति­रि­त्यु­क्त­मिति बोध्यम् । तदात्मना ब्रह्मात्मना यः पुरुषः अत्र गुहायां स्थुल­सू­क्ष्म­दे­हा­त्म­क­गु­हायां, वसेत् पुनः तस्य अङ्गगुहाप्रवेशः अङ्गमेव गुहा, अङ्गेति शिष्यसम्बोधनं वा, अत्र प्रवेशः तादा­त्म्या­भि­मानः न विद्यते । ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) इति श्रुतेः ।

आत्मानं चेद्विजानीयात् अयमस्मीति पुरुषः ।
किमिच्छन् कस्य कामाय शरी­र­म­नु­स­ञ्ज्व­रेत् ॥ (बृ.उ. ४.४.१२)

इति च ॥२६७॥

एतावता ग्रन्थेन ‘आत्मा­ना­त्म­वि­वे­चनं स्वनुभवः’ इत्ये­त­त्प्र­द­र्शितं ग्रन्थ­द्वि­ती­य­श्लो­को­क्तम् , ब्रह्मात्मना संस्थि­ति­र्मु­क्ति­रि­ती­म­मर्थं सूत्रितं विशदयितुम् उपक्रमते ज्ञात इति −

२८. वासनाक्षयोपायः

ज्ञाते वस्तुन्यपि बलवती वासनानादिरेषा
कर्ता भोक्ताप्यहमिति दृढा यास्य संसारहेतुः ।
प्रत्य­ग्दृ­ष्ट्याऽऽ­त्मनि निवसता सापनेया प्रयत्नात्
मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥२६८॥

२६८

वस्तुनि आत्मनि ज्ञातेऽपि पञ्च­को­श­वि­ल­क्ष­ण­तया ब्रह्माभिन्नतया च शास्त्रतः युक्तितश्च ज्ञातेऽपि, या वासना अस्य संसारहेतुः कर्तृ­त्व­भो­क्तृ­त्वा­दि­रू­प­सं­सा­र­का­र­णम् अहं कर्ता भोक्तापीति दृढा दुरुच्छेद्या, अनादिः बहु­का­ला­नु­वृत्ता, एषा वासना बलवती, सम्य­क्प्र­बु­द्धोऽपि स्वप्नेऽत्यन्तं भीतः कञ्चित्कालं निरा­कु­लि­ता­न्तः­क­रणो न भवतीति दृश्यते हि । अतः आत्मनि ब्रह्मणि प्रत्य­ग्दृष्ट्या बहिर्मुखत्वं नितरां दूरीकृत्य अन्तर्मुखतया निर्वि­क­ल्प­क­स­मा­धि­ने­त्ये­तत् , अभेदज्ञानेन निवसता नितरां स्थितिमता सा प्रयत्नादपनेया नाशनीया । यतः वासनातानवं स्वका­र्या­ना­धा­य­क­त्वम् अनुत्कटत्वं यत् तदेव लोके शास्त्रे वा मुनयः शास्त्रा­र्थ­म­न­न­शीलाः मुक्तिं प्राहुः । अतः ब्रह्मात्मना संस्थितिः अप्रमादेन संस्थितिः मुक्तिरिति दृढ­त­म­सा­ध­न­च­तु­ष्ट­य­स­म्पत्तिं विना जन्मा­न्त­र­सु­कृ­त­व­शात् ब्रह्मविदोऽपि वास­ना­क्ष­य­म­नो­ना­शार्थं प्रयत्नः निर­न्त­र­स­मा­धि­रूपः आवश्यक एवेत्युक्तं भवति ॥२६८॥

प्रतिबन्धे सति प्रत्य­ग्दृष्ट्या आत्मनि निवासः न सम्भवतीति तत्प्रतिबन्धं तन्निरासोपायं च करु­णा­नि­धि­र्भ­ग­वान् विस्तरेणोपदिशति अहं ममेत्यादिना −

अह ममेति यो भावो देहा­क्षा­दा­व­ना­त्मनि ।
अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥२६९॥

२६९

अनात्मनि देहाक्षादौ । अक्षाणि इन्द्रियाणि । आदिपदेन प्राण­म­नो­बु­द्ध्यादि । तत्र अहं मम इति यो भावः अहन्ता ममता इत्यर्थः । अयमध्यासः विदुषा श्रवणमननवता पुरुषश्रेष्ठेन स्वात्मनिष्ठया स्वात्मनि ब्रह्मणि नितरां स्थिति­रू­प­नि­दि­ध्या­स­नेन निरस्तव्यः समूलघातं हन्तव्य इत्यर्थः ॥२६९॥

तत्प्र­का­र­मु­प­दि­शति ज्ञात्वेति −

ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धि­त­द्वृ­त्ति­सा­क्षि­णम् ।
सोऽहमित्येव सद्वृ­त्याऽ­ना­त्म­न्या­त्म­मतिं जहि ॥२७०॥

२७०

स्वं बुद्धि­त­द्वृ­त्ति­सा­क्षिणं प्रत्यगात्मानं ज्ञात्वा सोऽहमित्येव सद्वृत्या कालत्रयेऽपि बाधा­यो­ग्य­व­स्त्व­भे­द­ज्ञा­नेन अनात्मनि बुद्ध्यादौ आत्ममतिम् अहन्तां जहि नाशय ॥२७०॥

भ्रान्ति­प­र­म्प­रा­हे­तु­त्या­ज­नेन भ्रान्तिं त्याजयति लोकेति −

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।
शास्त्रा­नु­व­र्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥२७१॥

२७१

उक्तं हि साधनपञ्चके ‘जन­कृ­पा­नै­ष्ठु­र्य­मु­त्सृ­ज्य­ताम्’ इति ‘देहेऽ­ह­म्म­ति­रु­ज्झ्य­ताम्’ इति च । शास्त्रा­नु­व­र्तनं नाम मोक्ष­प्र­यो­ज­क­ग्र­न्थ­प­रि­शी­लनं विना इत­र­ग्र­न्था­ध्य­य­ना­दि­कम् , दृढतरं कर्माशु सन्त्य­ज्य­ता­मि­त्यु­प­दे­शा­नु­सा­रेण शास्त्रपदं कर्मशास्त्रपरं वा । तत्त्रयं त्यक्त्वा स्वाध्यासापनयं कुरु अहन्तां ममतां च नाशय ॥२७१॥

तत्कुत इत्यत आह लोकवासनयेति −

लोकवासनया जन्तोः शास्त्रवासनयापि च ।
देहवासनया ज्ञानं यथावन्नैव जायते ॥२७२॥

२७२

सर्वे जनाः यथा मां न निदन्ति यथा स्तुवन्ति तथैव सर्वदा चरिष्यामि इत्यभिनिवेशः लोकवासना । इयं वासना अत्यन्तं प्रतिबन्धिका, तथा केनापि स्थातु­म­श­क्य­त्वात् । इदन्तु जीव­न्मु­क्ति­वि­वेके वास­ना­क्ष­य­प्र­क­रणे विद्या­र­ण्य­गु­रु­च­रणैः विस्त­रे­णो­प­पा­दितं ‘को लोकमाराधयितुं समर्थः’

विद्यते न खलु कश्चिदुपायः सर्व­लो­क­प­रि­तो­ष­करो यः ।
सर्वथा स्वहितमाचरणीयं किं करिष्यति जनो बहुजल्पः ॥ इति ।

अत एव ‘तुल्य­नि­न्दा­स्तुतिः’(१२.१९) भगवद्भक्त इत्युक्तं गीतायाम् ।

शास्त्रवासना त्रिविधा पाठव्यसनं शास्त्रव्यसनम् अनुष्ठानव्यसनं चेति भर­द्वा­ज­दु­र्वा­सो­दा­शू­र­दृ­ष्टान्तैः जीव­न्मु­क्ति­वि­वेके सूपपादिता । एवं देहवासनापि आत्म­त्व­गु­णा­धा­न­दो­षा­प­न­य­न­भ्रा­न्तिभिः त्रिविधा इत्यादिना विवृता । तत एव विज्ञेया । तिसृभिरेताभिः वासनाभिः ज्ञानं यथावन्नैव जायते ॥२७२॥

एतत्त्रययमेव सम्य­ग्ज्ञा­न­प्र­ति­ब­न्ध­क­मि­त्याह प्रामाणिकोक्तिं मूलीकृत्य संसारेति −

संसा­र­का­रा­गृ­ह­मो­क्ष­मिच्छोः
अयोमयं पाद­नि­ब­द्ध­शृ­ङ्ख­लम् ।

२७२

वदन्ति तज्ज्ञाः पटु वासनात्रयं
योऽस्मा­द्वि­मुक्तः समुपैति मुक्तिम् ॥२७३॥

२७३

तज्ज्ञाः ब्रह्मविदः, पटुवासनात्रयं तानवमयातं लोक­शा­स्त्र­दे­ह­वा­स­ना­त्रयं संसार एव कारागृहं तस्मान्मोक्षम् इच्छोः पुरुषस्य, अयोमयं बहुदृढं पाद­नि­ब­द्ध­शृ­ङ्खलं पादयोः निबद्धं शृङ्ख­ल­मि­ति­रू­प­कम् । यथा आय­स­शृ­ङ्ख­ला­ब­द्ध­पा­द­युग्मः गन्तुं न शक्नोति एवं लोका­दि­वा­स­ना­त्र­य­युतः विष्णोः परमं पदं नैव प्राप्तुं शक्नो­ती­त्य­भि­प्रायः । यो नरः अस्मात् पूर्वो­क्त­वा­स­ना­त्र­यात् विमुक्तः तनूकृतवासनः स मुक्तिं समुपैति यथा­व­ज्ज्ञा­ने­नेति शेषः ॥२७३॥

तत्र प्रति­ब­न्ध­क­वा­स­ना­प­न­यने सदृष्टान्तम् आत्मवासनासमेधनं कारणमाह जलादीत्यादिना −

जला­दि­स­म्प­र्क­व­शात् प्रभूत-
दुर्ग­न्ध­धू­ता­ग­रु­दि­व्य­वा­सना ।
सङ्घर्षणेनैव विभाति सम्यक्
विधूयमाने सति बाह्यगन्धे ॥२७४॥

२७४

अगरोः जला­दि­स­म्प­र्क­व­शात् प्रभूतः बहुलः यः दुर्गन्धः तेन धूता­ग­रु­दि­व्य­वा­सना सौरभ्यं, सङ्घर्षणेन वाह्यगन्धे विधूयमाने अपनीयमाने तिरस्क्रियमाण एव सम्यग्विभाति इति दृष्टान्तः ॥२७४॥

अन्त­श्श्रि­ता­न­न्त­दु­र­न्त­वा­सना-
धूलीविलिप्ता परमात्मवासना ।
प्रज्ञा­ति­स­ङ्घ­र्ष­णतो विशुद्धा
प्रतीयते चन्द­न­ग­न्ध­व­त्स्फुटा ॥२७५॥

२७५

अन्तःश्रिता या अनन्ता बहुविधा दुरन्ता दुष्फलदा वासना अनात्मवासना सैव धूली तया विशेषेण लिप्ता अभिभूता परमात्मवासना, प्रज्ञया ‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः’(बृ.उ. ४.४.२१) इति श्रुत्या −

ब्रह्मात्मनोः शोधितयोः एकभावावगाहिनी ।
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ॥ (श्लो .४२८)

इति वक्ष्यमाणया, यदतिसङ्घर्षणं मनसः कोशासम्पर्केण स्थापनं ततः विशुद्धा अना­त्म­वा­स­नाऽ­स­म्पृक्ता चन्दनगन्धवत् स्फुटा प्रतीयते इति दार्ष्टान्तिकम् ॥२७५॥

उक्तमर्थं सङ्गृह्णाति अनात्मेति −

अना­त्म­वा­स­ना­जालैः तिरो­भू­ता­त्म­वा­सना ।
नित्या­त्म­नि­ष्ठया तेषां नाशे भाति स्वयंस्फुटा ॥२७६॥

२७६

अनात्मविषयिण्यः या वासनाः लोक­दे­ह­शा­स्त्र­वा­सनाः ‘दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च’(भ.गी. १६.४) इत्यादिना आसुरसम्पत्त्वेन दर्श्य­मा­न­मा­न­स­वा­स­नाश्च, तासां जालैः समूहैः आत्मवासना तिरोभूता न्यक्कृता । तेषाम् अना­त्म­वा­स­ना­जा­लानां नित्या या आत्मनिष्ठा ब्रह्मणि परिसमाप्तिः तया नाशो स्वयं स्फुटा विविक्ता भाति ॥२७६॥

‘अस्मा­ल्लो­का­प्रेत्य ।’, ‘एत­म­न्न­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति’(तै.उ. २.८) इत्या­दि­श्रुत्या,

शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ (भ.गी. ६.२५)

इति स्मृत्या च कथितमर्थं वासनाक्षयोपायम् आह यथायथेति −

यथा यथा प्रत्यगवस्थितं मनः
तथा तथा मुञ्चति बाह्यवासनाः ।
निश्शेषमोक्षे सति वासनानां
आत्मानुभूतिः प्रतिबन्धशून्या ॥२७७॥

२७७

यथा यथा प्रत्यक् अन्तः मनः अवस्थितम् अभ्या­स­वै­रा­ग्याभ्यां तथा तथा बाह्यवासनाः पुत्रादिषु ममताम् अन्नमयादौ अहन्तां च मुञ्चति । वासनानां निश्शेषमोक्षे निर्वि­क­ल्प­क­स­मा­धि­नै­र­न्त­र्येण वेदा­न्ता­र्थ­वि­चा­र­पु­र­स्सरं क्रियमाणेन ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’(भ.गी. २.४९) इति स्मृत्या निश्शेषं यथा सूक्ष्मात्मनापि न स्यात् तथा मूलाज्ञानेन आश्रयेण सह मोक्षे अत्यन्तं निवृत्तौ आत्मानुभूतिः प्रतिबन्धशून्या निरर्गला ॥२७७॥

कार्यनाशनद्वारा कारणं क्षपणीयम् इति वास­ना­का­र्य­भ्रा­न्ति­नाशं वासनाक्षये कारणमाह नवभिः श्लोकैः स्वात्म­न्ये­वे­त्या­दिभिः −

स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः ।
वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ॥२७८॥

२७८

योगिनः चित्तस्य राजसीः तामसीश्च वृत्तीः निरुन्धतः सत्वोत्कर्षेण स्वात्मन्येव ब्रह्मण्येव सदा स्थित्या निदि­ध्या­स­ने­ने­त्यर्थः । मनो नश्यति प्रदी­प­ज्वा­ला­स­न्ता­न­वत् वृत्ति­स­न्ता­न­रू­पेण परिणममानम् अन्तःकरणं स्ववेगं त्यक्त्वा निरुद्धं भवति । ततः ब्रह्म­सा­मी­प्य­ब­लेन शान्ति­दा­न्ति­रू­प­शु­द्ध­वा­स­नायां दृढायां भवन्त्यां बाह्यनिमित्ते सत्यपि क्रोधा­द्य­नु­त्पत्तिः वासनानां क्षयः, पूर्वा­प­र­प­रा­म­र्श­म­न्त­रेण सहसा उत्पद्यमानस्य क्रोधा­दि­वृ­त्ति­वि­शे­षस्य हेतोः चित्त­ग­त­सं­स्का­र­वि­शे­ष­स्यैव वास­ना­श­ब्दा­र्थ­त्वात् । अतः स्वाध्यासापनयं कुरु विपरीतभावनाः निवर्तय । पञ्चसु कोशेषु सम्यग्विचार्य आत्मबुद्धिं परित्यज ॥२७८॥

राज­स­ता­म­स­वृ­त्ति­नि­रो­ध­रू­प­योग एव कथमिति चेदाह तम इति −

तमो द्वाभ्यां रजः सत्त्वात् सत्त्वं शुद्धेन नश्यति ।
तस्मा­त्स­त्त्व­म­व­ष्टभ्य स्वाध्यासापनयं कुरु ॥२७९॥

२७९

द्वाभ्यां रज­स्स­त्त्वाभ्यां तमः नश्यति । प्रसिद्धं हि व्यायामादिना काव्य­शा­स्त्र­वि­नो­दा­दिना वा आल­स्य­नि­द्रा­दि­ता­म­स­ध­र्मान् नाशयन्तीति । रजः सत्त्वात् चित्तै­का­ग्र्य­रूप सत्त्वकार्येण कर्मणि प्रवृत्तीश्च त्यजन्तीति रजः सत्त्वान्नश्यति । तदपि सत्त्वं शुद्धेन निर्गुणेन नश्यति । निर्गुणप्राप्तौ सत्त्ववृत्तेः ज्ञानस्यापि नाशात् । तस्मा­त्स­त्त्व­म­व­ष्टभ्य अवलम्ब्य तमः­कृ­ता­व­र­ण­का­लि­क­र­जः­कृ­त­वि­क्षे­प­रू­पाणां स्वाध्यासानां भ्रमाणाम् अपनयं नाशं कुरु ॥२७९॥

ज्ञानसाधनत्वात् शरीरस्य तद्रक्षायै तदभिमान आवश्यकः इति चेदाह प्रारब्धमिति −

प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः ।
धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥२८०॥

२८०

प्रारब्धं कर्म वपुः शरीरं पुष्यति रक्षतीति निश्चित्य निश्चलः निर्विकारचित्तः धैर्यं विकारहेतावपि अवि­कृ­त­चि­त्त­त्वम् अवलम्ब्य यत्नेन स्वाध्यासापनयं कुरु ॥२८०॥

तत्प्रकारं विशदयति नाहमिति −

नाहं जीवः परं ब्रह्मे­त्य­त­द्व्या­वृ­त्ति­पू­र्व­कम् ।
वासनावेगतः प्राप्त­स्वा­ध्या­सा­प­नयं कुरु ॥२८१॥

२८१

नाहं जीवः किन्तु परं ब्रह्म इति न तत् अतत् ब्रह्मभिन्नं तस्य सर्वस्य बुद्धि­म­नः­प्रा­ण­श­री­रादेः व्यावृ­त्ति­पू­र्व­कम् −

नाहं देहो नेन्द्रि­या­ण्य­न्त­रङ्गं नाहङ्कारः प्राणवर्गो न बुद्धिः ।
दारा­प­त्य­क्षे­त्र­वि­त्ता­दि­दूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥
(अद्वै.पञ्च. १)

इति निषेधपुरस्सरं वासनावेगतः पूर्वं प्राप्ताः ये स्वाध्यासाः तेषाम् अपनयं कुरु । यद्वा वासनापदेन अना­दि­का­ल­प्र­वृ­त्ता­ना­त्म­वा­सनाः ग्राह्याः तासां वेगतः प्राप्त­स्वा­ध्या­सा­नाम् अपनयम् अत­द्व्या­वृ­त्ति­पू­र्व­कम् अहं परं ब्रह्मेति निर­न्त­रा­नु­स­न्धा­नेन कुरु इति योजनीयम् ॥२८१॥

श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वा­त्म्य­मा­त्मनः ।
क्वचिदाभासतः प्राप्त­स्वा­ध्या­सा­प­नयं कुरु ॥२८२॥

२८२

श्रुत्येति । ‘आत्मैवेदं सर्वं’(छा.उ. ७.२५.२) इत्या­दि­श्रुत्या, यस्य स्फुरणं विना यन्न स्फुरति तत्ततो नातिरिच्यते यथा मृदो घटः दुन्दु­भि­श­ङ्ख­वी­णा­श­ब्द­सा­मा­न्य­वि­शेषा वा इति श्रुत्य­नु­सा­रिण्या युक्त्या ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’(क.उ. ५.१४) इति श्रुतेः, सर्वस्य आत्म­भा­न­भा­स्य­त्वात् न तदतिरिक्तत्वं सक­ल­क­ल्प­ना­धि­ष्ठा­न­त्वाच्च ‘नाधिष्ठानाद् भिन्न­ताऽऽ­रो­पि­तस्य’ इत्यादि युक्त्या, तदनुसारिण्या स्वानुभूत्या आत्मनः सार्वात्म्यं ज्ञात्वा कल्पितानां सर्वेषां वास्तवस्वरूपतां विदित्वा क्वचित्कोशादौ आभासतः चैत­न्य­प्र­ति­फ­ल­न­मा­त्रात् प्राप्त­स्वा­ध्या­सा­प­नयं कुरु अहन्तां नाशय ॥२८२॥

अन्ना­दा­न­वि­स­र्गा­भ्या­मी­ष­न्नास्ति क्रिया मुनेः ।
तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ॥२८३॥

२८३

अन्नादानेति । मुनेः सततं पर­मा­त्म­म­न­न­शी­लस्य अन्ना­दा­न­वि­स­र्गा­भ्याम् अन्या क्रिया ईषदपि नास्ति, अतः नित्यं तदेकनिष्ठया तस्मिन् परमात्मनि एका अनन्यतया या निष्ठा नितरां स्थितिः तस्मिन् एकस्मिन् निष्ठा वा तया स्वाध्यासापनयं कुरु ॥२८३॥

तत्त्व­म­स्या­दि­वा­क्यो­त्थ­ब्र­ह्मा­त्मै­क­त्व­बो­धतः ।
ब्रह्म­ण्या­त्म­त्व­दा­र्ढ्याय स्वाध्यासापनयं कुरु ॥२८४॥

२८४

तत्त्वमसीति । तत्त्व­म­स्या­दि­वा­क्येभ्यः उत्थः जातः, यः ब्रह्मात्मनोः एकत्वस्य बोधः ततः तद्बलेन, ब्रह्म­ण्या­त्म­त्व­दा­र्ढ्याय दार्ढ्यं च देहात्मज्ञानवत् ब्रह्मा­त्म­त्व­ज्ञानं तस्मै स्वाध्यासापनयं कुरु अनात्मभ्रान्तौ महावाक्येभ्यः बोधस्यैवाजननात् ॥२८४॥

कियत्कालं भ्रान्ति­नि­रा­स­प्र­यत्नः करणीय इति चेदाह अहमिति −

अहंभावस्य देहेऽस्मिन् निश्शेषविलयावधि ।
सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ॥२८५॥

२८५

अस्मिन् स्थूलदेहे अहंभावस्य निश्शेषविलयावधि वासनया सह नाशपर्यन्तं, सावधानेन युक्तात्मा अप्र­म­त्ता­न्तः­क­रणः सन् स्वाध्यासापनयं कुरु ॥२८५॥

एवम् −

प्रती­ति­र्जी­व­ज­गतोः स्वप्नवद्भाति यावता ।
तावन्निरन्तरं विद्वन् स्वाध्यासापनयं कुरु ॥२८६॥

२८६

प्रतीतिरिति । यावता कालेन जीवस्य जगतश्च प्रतीतिः प्रबुद्धस्य स्वप्नवत् निश्चि­त­मि­थ्या­त्वकं भाति ताव­त्का­ल­प­र्यन्तं निरन्तरं विद्वन् ! स्वाध्यासापनयं कुरु ॥२८६॥

एवं नवभिः श्लोकैः अना­त्म­भ्रा­न्त्य­प­न­य­मु­प­दिश्य आत्मनाशहेतोः विस्मृतेः किञ्चिदप्यवकाशो न देय इति विस्मृ­ति­हे­तु­वि­श­द­नेन उपदिशति निद्राया इति −

निद्राया लोक­वा­र्ता­या­श्श­ब्दा­दे­रपि विस्मृतेः ।
क्वचिन्नावसरं दत्वा चिन्त­या­त्मा­न­मा­त्मनि ॥२८७॥

२८७

निद्रायाः पञ्चमी, एवं लोकवार्तायाः शब्दादेरपि विषयात् प्रसज्यमाना या विस्मृतिः आत्मविस्मरणं तस्याः, क्वचित् कदाचिदपि अवसरमवकाशम् अदत्त्वा आत्मानं परं स्वरूपम् , आत्मनि बुद्धौ चिन्तय । उक्तं हि − ‘दद्यान्नावसरं किञ्चि­त्का­मा­दीनां मनागपि’ इति । यद्वा सर्वत्र षष्ठी निद्रायाः लोकवार्तायाः शब्दादेः विस्मृतेरपि क्वचि­द­प्य­व­स­र­म­दत्त्वा चिन्त­या­त्मा­न­मा­त्म­नी­त्यर्थः । उक्तं हि मोक्षधर्मेषु −

अप्रा­श­न­म­सं­स्प­र्श­म­स­न्द­र्श­न­मेव च ।
पुरुषस्यैष नियमो मन्ये निःश्रेयसं वरम् ॥ (१७३.३१) इति ॥२८७॥

यद­भि­मा­न­नि­ब­न्धनाः सर्वे दोषाः तं स्थूलदेहं मा कदा­चि­द­प्या­त्म­त्वेन मंस्था इत्याह मातापित्रोरिति −

माता­पि­त्रो­र्म­लो­द्भूतं मलमांसमयं वपुः ।
त्यक्त्वा चण्डालवद्दूरं ब्रह्मीभूय कृतीभव ॥२८८॥

२८८

मातापित्रोः मलोद्भूतं शुक्ल­शो­णि­त­जन्यं, मलमांसमयं हेतुतः स्वभावतश्च बीभ­त्स­मि­त्यर्थः, वपुः शरीरं चण्डालमिव दूरं त्यक्त्वा तत्रा­त्म­त्वा­भि­मा­न­म­कृत्वा, ब्रह्मीभूय आज्ञानिकम् अब्रह्मत्वं विधूय स्वयं ब्रह्मेति विज्ञाय, कृती कृतकृत्यो भव । कृती धीमान्वा ॥२८८॥

त्यक्त्वा स्थूलाभिमानं तत्प­रि­च्छे­दा­त्प­रि­च्छि­न्न­मिव भासमानं जीवमपि उपा­धि­प्र­वि­ला­प­नेन विलापयेत्याह घटेति −

घटाकाशं महाकाश इवात्मानं परात्मनि ।
विला­प्या­ख­ण्ड­भा­वेन तूष्णीं भव सदा मुने ॥२८९॥

२८९

महाकाश एव घटे­ना­व­च्छि­द्य­मानः घटाकाश उच्यते । एवं बुद्ध्या­द्यु­पा­धिना परात्मा जीव उच्यते । धिया घटस्य पृथक्करणे घटाकाशो महाकाश एव । एवमुपाधीनां सर्वो­पा­दा­न­स­र्व­क­ल्प­ना­धि­ष्ठा­न­ब्र­ह्मा­व्य­ति­रि­क्त­त्व­ज्ञा­नेन स्वरूपतः निषेधे कृते अखण्डभावेन परि­च्छे­दा­पा­द­क­स्या­भा­वात् अप­रि­च्छि­न्ना­का­र­तया सदा मुने तूष्णीं भव कर्त­व्या­न्त­रा­भा­वात् । उक्तं हि गीतासु ‘एतद् बुद्ध्वा बुद्धि­मा­न्स्यात् कृतकृत्यश्च भारत’ । (१५.२०) इति ॥२८९॥

स्वप्र­का­श­म­धि­ष्ठानं स्वयम्भूय सदात्मना ।
ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥२९०॥

२९०

स्वप्रकाशमिति । स्वप्रकाशं चिद्रूपतया स्वतः सिद्धम् , अधिष्ठानं सर्वकल्पनानां मायाविद्ययोश्च कल्पनाधिष्ठानम् , स्वयम्भूत्वा सदात्मना, ब्रह्माण्डं चतु­र्द­श­भु­व­ना­त्मकं पिण्डाण्डमपि स्वशरीरमपि, मलभाण्डवत् मलपूर्णघटवत् त्यज्यतां नैव स्मर्य­ता­मि­त्यर्थः ‘अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः’ इति प्रमाणात् । सदात्मना त्यागो नाम नास्ति­त्वा­पा­दा­न­मेव ॥२९०॥

चिदात्मनि सदानन्दे देहा­रू­ढा­म­ह­न्धि­यम् ।
निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥२९१॥

२९१

चिदात्मनीति । देहा­रू­ढा­म­ह­न्धि­यम् अहमितिमतिं सदानन्दे चिदात्मनि स्वय­म्प्र­का­श­नि­त्या­न­न्द­स्व­रूपे परमात्मनि निवेश्य आधाय, लिङ्गं सूक्ष्मशरीरम् उत्सृज्य तादा­त्म्ये­ना­न­भि­मत्य सर्वदा केवलो भव असङ्गो भव सजा­ती­य­वि­जा­ती­य­स्व­ग­त­भे­द­र­हितो वा भव । भेद­स्या­ज्ञा­नि­क­त्वात् परमात्माहमिति ज्ञाने तस्य नाशात् कैवल्यं सहजमभिव्यज्यत इति भावः ॥२९१॥

यत्रैष जगदाभासः दर्पणान्तः पुरं यथा ।
तद् ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥२९२॥

२९२

यत्रेति । स्वच्छे अच्छिद्रे दर्पणे अन्तः यथा पुरं जन­गि­रि­न­दी­प्रा­सा­दा­दि­रूपं पुरं प्रतिफलति अन्तरवर्तमानमपि दृश्यते तथा यत्र ब्रह्मणि एष जगदाभासः मिथ्याभूतं जगत् भाति तद् ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ॥२९२॥

यत्सत्यभूतं निजरूपमाद्यं
चिद­द्व­या­न­न्द­म­रू­प­म­क्रि­यम् ।
तदेत्य मिथ्या­व­पु­रु­त्सृ­जैत-
च्छैलू­ष­व­द्वे­ष­मु­पा­त्त­मा­त्मनः ॥२९३॥

२९३

यदिति । चित् अद्वयं च तत् आनन्दं च अद्वयानन्दम् अरूपमक्रियं यदाद्यं सत्यभूतं निजरूपं वास्तविकं तव स्वरूपं तदेत्य प्राप्य ज्ञानमेवात्र प्राप्तिः कण्ठचामीकरवत् , एतत् मिथ्याभूतं वपुरुत्सृज त्यक्ताहम्भावं कुरु । यथा शैलूषः नटः आत्मनः उपात्तं वेषमुत्सृजति तद्वत् ॥२९३॥

पुनरात्मानम् अहंपदार्थं शरीरादिभ्यो विवेचयति ज्ञानदाढर्याय सर्वात्मनेति −

सर्वात्मना दृश्यमिदं मृषैव
नैवाहमर्थः क्षणि­क­त्व­द­र्श­नात् ।
जानाम्यहं सर्व­मि­ति­प्र­तीतिः
कुतोऽहमादेः क्षणिकस्य सिध्येत् ॥२९४॥

२९४

अहंपदार्थः सत्यः नित्यश्च, इदं दृश्यं मृषैव क्षणि­क­त्व­द­र्श­नात् क्षणे अहं पश्यामीति क्षणे अहं शृणोमीति एवम् अहं जिघ्रामि रसयामि गच्छामीत्यादिना यत्र यत्र अहं­वृ­त्ति­स­म्बन्धः स सः अह­म­ह­मि­त्य­भि­ल­प्यते नहि बहूनाम् अहन्त्वं सम्भवति आत्मनः एकत्वात् । यदा अहं­वृ­त्ति­स­म्बन्धः तदैषां भानं वृत्तेः क्षणिकत्वात् सम्बद्धानां च तथात्वमेव अभासमानस्य सत्त्वे प्रमाणाभावात् अतः जडत्वेन क्षणिकत्वेन सर्वात्मना सर्वप्रकारैश्च इदं दृश्यं मृषैव नैवाहमर्थः । तदुपपादयति अहं सर्वं जानामीति प्रतीतिः क्षणिकस्य अहमादेः कथं सिध्येत् इति । नहि चक्षुः रसं जानाति श्रोत्रं वा रूपम् । अतः ‘गन्धाय घ्राणं’(ब्र.सू.भा. २.३.१८) इत्यादिश्रुत्या तेषां रूपा­द्या­का­र­वृ­त्ति­क­र­ण­त्वेऽपि नाहमर्थत्वम् । नहि मनो वा स्वकीयवृत्तीः ज्ञातुमीष्टे जडत्वात् कर्तृ­क­र्म­वि­रो­धाच्च ॥२९४॥

अतः आत्मा अन्यः, तत्स्फुटयति अहमिति −

अहं­प­दा­र्थ­स्त्व­ह­मा­दि­साक्षी
नित्यं सुषुप्तावपि भावदर्शनात् ।
ब्रूते ह्यजो नित्य इति श्रुतिस्स्वयं
तत्प्रत्यगात्मा सदसद्विलक्षणः ॥२९५॥

२९५

अहमादेः दृश्यस्य अहं­प­दा­र्थ­त्वा­भावे कस्य तथात्वमिति चेत् आह अहंपदार्थस्तु तु शब्दः दृश्यानाम् अहं­प­दा­र्थ­त्व­व्या­व­र्तकः । अहमादिसाक्षी अहमादीनां सर्वेषाम् अज्ञा­ना­दि­दृ­श्यानां साक्षी नित्यं वस्तु सुषुप्तावपि यदा अहंवृत्तेरभावः लयः तस्यां सुषुप्तावपि भावदर्शनात् ‘सुख­म­ह­म­स्वा­प्सम्’ इति । अनुभवे विवदमानमाह ब्रूत इति । ‘अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।’(कठ. २.१८) इत्यात्मा नित्य इति ब्रूते श्रुतिः स्वयम् , तत् तस्मात् कारणात् प्रत्यगात्मा सच्चिदानन्दरूपः आत्मा सदसद्विलक्षणः व्यक्ता­व्य­क्त­भिन्न इत्यर्थः ॥२९५॥

विकारिणां सर्वविकारवेत्ता
नित्योऽविकारो भवितुं समर्हति ।
मनो­र­थ­स्व­प्न­सु­षु­प्तिषु स्फुटं
पुनः पुनः दृष्ट­म­स­त्त्व­मे­तयोः ॥२९६॥

२९६

विकारिणां देहादीनां जन्मा­दि­ना­शान्ताः ये विकाराः तेषां सर्वेषां वेत्ता यः नित्यः अविकारश्च स भवितुं समर्हति युज्यते । अनित्यत्वे सर्व­वि­का­र­वे­त्तृ­त्वा­स­म्भ­वात् । स्वस्य विकारवत्वे कर्तृ­क­र्म­वि­रो­धेन तज्ज्ञा­ना­स­म्भ­वात् अनित्यत्वाच्च स्वविकारज्ञाने व्यापृतस्य इत­र­वि­का­रि­वि­का­र­ज्ञा­ना­स­म्भ­वाच्च । अतः नित्य­त्व­म­वि­का­रत्वं च वक्तव्यम् । एतेन बुद्धि­सु­ख­दुः­खा­दि­म­त्त्वेन स्वीक्रियमाणस्य तार्किकात्मनः नित्यत्वं दुर्घटमिति सूचितम् । पिण्ड­त­द­भि­मा­निनोः आत्मत्वं न सम्भवतीत्याह मनोरथेति । मनोरथे मनोराज्ये स्वप्ने सुषुप्तौ च एतयोः पिण्ड­त­द­भि­मा­निनोः पुनःपुनरसत्त्वं स्फुटं दृष्टं प्रसिद्धम् धारावाहिक्यां कल्पनायां व्यासक्तमनसा वर्ष­वा­ता­त­पा­दि­बाधा न ज्ञायते तदा शरीरभानाभावात् । तत्सत्त्वेऽपि तत्रा­भि­मा­ना­भा­वात् अभिमानिनश्च विशिष्टस्याभावो ज्ञेयः । एवं स्वप्ने शरीरान्तरस्यैव सृष्टेः तदभिमान्यपि अन्य एव । सर्वदा साक्षी एकः अत एवोक्तम् −

स्वप्नेऽ­र्थ­शून्ये सृजति स्वशक्त्या
भोक्त्रादि विश्वं मन एव सर्वम् । (श्लो. १७२) इति ।

सुषुप्तौ पिण्डाहङ्कारयोः अभावः सिद्ध एव इति स्फुटं दृष्ट­मि­त्यु­क्तम् । एतेन सर्व­भा­वा­भा­व­साक्षी नित्यः एकरूपः इत्युक्तं भवति ॥२९६॥

अतोऽभिमानं त्यज मांसपिण्डे
पिण्डा­भि­मा­नि­न्यपि बुद्धिकल्पिते ।
काल­त्र­या­बा­ध्य­म­ख­ण्ड­बोधं
ज्ञात्वा स्वमा­त्मा­न­मु­पेहि शान्तिम् ॥२९७॥

२९७

अतः अनित्यत्वात् विकारित्वाच्च मांसपिण्डे बुद्धिकल्पिते पिण्डा­भि­मा­नि­न्यपि चित्प्रतिबिम्बे अभिमानम् आत्मबुद्धिं त्यज । तह्यर्हं क इति चेत् कालत्रयाबाध्यं नित्यबोधं स्वम् आत्मानं ज्ञात्वा शान्तिम् आत्य­न्ति­क­दुः­ख­नि­वृ­त्तिम् उपेहि मुक्तिं लभस्व ॥२९७॥

स्वाध्यासापनयं कुरु इत्य­त्रो­क्त­मर्थं स्फुटयति त्यजेति −

त्यजाभिमानं कुलगोत्रनाम-
रूपा­श्र­मे­ष्वा­र्द्र­श­वा­श्रि­तेषु ।
लिङ्गस्य धर्मानपि कर्तृतादीं-
स्त्यक्त्वा भवा­ख­ण्ड­सु­ख­स्व­रूपः ॥२९८॥

२९८

आर्द्र­श­वा­श्रि­तेषु स्थूल­दे­हा­श्रि­तेषु कुल­गो­त्र­ना­म­रू­पा­श्र­मेषु अभिमानं ममतां त्यज । एवं लिङ्गस्य सूक्ष्मदेहस्य धर्मान् कर्तृतादीनपि त्यक्त्वा अनित्यत्वात् विकारित्वाच्च स्थूलसूक्ष्मयोः अखण्डसुखस्वरूपः भव इत्युपदेशः आशीश्च ॥२९८॥

सर्वानर्थहेतुम् आत्मानुभूतौ मुख्यं प्रतिबन्धकमाह यस्मि­न्न­नु­न्मू­लिते इतरन्नैव जायते ‘सन्त्यन्य’ इत्यादिभिः त्रयोदशभिः −

सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः ।
तेषामेषां मूलं प्रथमविकारो भवत्यहङ्कारः ॥२९९॥

२९९

पुंसः पुरुषस्य संसारहेतवः रागद्वेषादयः अन्ये अहङ्कारादन्ये प्रतिबन्धाः आत्म­ज्ञा­ना­नु­त्प­त्ति­प्र­यो­जकाः दृष्टाः । तेषामेषाम् अज्ञा­न­प्र­थ­म­वि­कारः अहङ्कारः मूलं भवति ॥२९९॥

याव­त्स्या­त्स्वस्य सम्ब­न्धोऽ­ह­ङ्का­रेण दुरात्मना ।
तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ॥३००॥

३००

दुरात्मना सकलबन्धहेतुतया दुष्टस्वभाववता अहङ्कारेण, यावत्स्वस्य पुंसः सम्बन्धः स्यात् तावत्पर्यन्तम् , विलक्षणा बन्ध­वि­रु­द्ध­नि­त्य­नि­र­ति­श­य­सु­ख­स्व­रूपा या मुक्तिः तद्वार्ता लेशमात्रापि न सम्भवति । सर्व­ब­न्ध­मू­ल­भू­ताऽ­ह­ङ्का­र­वान् न सुतरां मुक्तशब्दार्ह इति भावः ॥३००॥

तदभावे मुक्तिमाह अहङ्कारेति −

अह­ङ्का­र­ग्र­हा­न्मुक्तः स्वरूपमुपपद्यते ।
चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयम्प्रभः ॥३०१॥

३०१

अहङ्कार एव ग्रहः गृह्णातीति राहुः तस्मा­त्स्व­रू­प­ति­रो­धा­य­का­न्मुक्तः चन्द्रवत् स्वरूपमुपपद्यते प्रत्यक्त्वेन प्राप्नोति । स्वस्वरूपं कीदृगित्यत आह विमलः शुद्धः पूर्णः अपरिच्छिन्नः सदानन्दः नित्यसुखरुपः स्वयम्प्रभः चिद्रूपतया स्वयम्प्रकाशः इत्यर्थः । एत­द्ध­र्म­च­तु­ष्टयं राहुमुक्ते चन्द्रेऽपि समानम् । तत्र सदानन्दो येन इत्यर्थो वाच्यः । स्वरू­प­प्रा­प्ते­रेव मुक्तित्वात् अहङ्कारमोक्षे मुक्तिः सिद्ध्य­ती­त्यु­क्तम् ॥३०१॥

तस्य कल्पिततया नाशं सम्भावयति य इति −

यो वा पुरैषोऽहमिति प्रतीतः
बुद्ध्याऽ­वि­वि­क्त­स्त­म­सा­ति­मू­ढया ।
तस्यैव निश्शेषतया विनाशे
ब्रह्मात्मभावः प्रतिबन्धशून्यः ॥३०२॥

३०२

तमसा अज्ञानेन अतिमूढया आत्मस्वरूपं विविच्य ज्ञातुमसमर्थया बुद्ध्या अविविक्तः पुरा एषोऽहमिति यो वा । वेति प्रसिद्धौ । प्रतीतः परिच्छिन्नतया ज्ञातः । तस्य निश्शेषतया विनाश एव इत्येवकारः भिन्नक्रमः । ब्रह्मात्मभावः प्रतिबन्धशून्यः । नो चेत् विपरीतभावना यावत्पर्यन्तं न ताव­द­प­रि­च्छि­न्न­ब्र­ह्मा­त्म­त्व­ज्ञानं सुलभम् ॥३०२॥

तस्याहङ्कारस्य नाशः कथमिति चेदाह ब्रह्मेति −

ब्रह्मा­न­न्द­नि­धि­र्म­हा­ब­ल­व­ताऽ­ह­ङ्का­र­घो­रा­हिना
संवेष्ट्यात्मनि रक्ष्यते गुण­म­यै­श्च­ण्डै­स्त्रि­भि­र्म­स्तकैः ।
विज्ञा­ना­ख्य­म­हा­सिना द्युतिमता विच्छिद्य शीर्षत्रयं
निर्मू­ल्या­हि­मिमं निधिं सुखकरं धीरोऽनुभोक्तुं क्षमः ॥३०३॥

३०३

सुखबोधार्थं रूपकं कल्पयति । ब्रह्मानन्द एव निधिः हिरण्यनिधिवत् सः महाबलवता विषयक्षीरपानेन रूढमूलतया महाबलवता, अहङ्कार एव घोराहिः भयानकसर्पः तेन गुणमयैः सत्त्व­र­ज­स्त­मो­रूपैः त्रिभिः चण्डैः भीकरैः मस्तकैः आत्मनि स्वस्मिन् स्थितैः संवेष्ट्य आवृत्य रक्ष्यते अनुभोक्तुमनर्हः क्रियते । विज्ञा­ना­ख्य­म­हा­सिना निदि­ध्या­स­न­ज­न्या­नु­भ­व­नाम्ना महता खड्गेन द्युतिमता निशितेन स्वय­म्प्र­का­शा­त्म­वि­ष­य­क­तया द्युतिमत्त्वम् , शीर्षत्रयं सत्त्व­र­ज­स्त­मो­गु­णा­त्मकं विच्छिद्य अहिम् अहङ्कारसर्पं निर्मूल्य निरवशेषं कृत्वा, सुखकरम् इमं निधिं ब्रह्मा­न­न्दा­भिधं, धीरः वश्यात्मा अनुभोक्तुं क्षमः समर्थः । एतेन सम्य­ग्वि­वे­क­ज­नि­त­वि­ज्ञा­न­ना­श्य­त्वम् अह­ङ्का­र­स्यो­क्तम् ॥३०३॥

वासनात्मनापि साहन्ता नावशेषणीयेत्याह । पूर्वश्लोके निर्मू­ल्ये­त्युक्तं विव्रियते यावदिति −

यावद्वा यत्किञ्चिद् विष­दो­ष­स्फू­र्ति­रस्ति चेद्देहे ।
कथमारोग्याय भवेत् तद्वदहन्तापि योगिनो मुक्त्यै ॥३०४॥

३०४

देहे यावद्वा यत्किञ्चित् ईषदपि इति पदद्वयस्यार्थः । विष­दो­ष­स्फू­र्ति­रस्ति चेत् कथमारोग्याय भवेत् । तद्वदहन्तापि वासनात्मना वा यावदस्ति तावद्योगिनो मुक्त्यै प्रतिबन्धिका इति भावः । अतः निर­व­शे­ष­मु­न्मू­लनं कार्यं तस्याः ॥३०४॥

तदा तु −

अह­मोऽ­त्य­न्त­नि­वृत्त्या तत्कृ­त­ना­ना­वि­क­ल्प­सं­हृत्या ।
प्रत्य­क्त­त्त्व­वि­वे­का­द­य­म­ह­म­स्मीति विन्दते तत्त्वम् ॥३०५॥

३०५

अहमः अहङ्कारस्य अत्य­न्त­नि­वृत्त्या अपुनरुत्पादं नाशेन, तत्कृ­त­ना­ना­वि­क­ल्प­सं­हृत्या निमि­त्ता­पा­या­न्नै­मि­त्ति­का­नाम् अपाय इति द्योतयति तत्कृतेति । प्रथ­म­वि­का­र­भू­ता­ह­ङ्का­र­मू­ल­कानां नानाविधानां कुल­गो­त्र­ना­म­रू­पा­श्र­मा­द्या­श्रि­ता­नाम् अभिमानानां विवि­ध­क­ल्प­ना­रू­पाणां संहृत्या, अनेन सर्व­भ्रा­न्ति­नि­रास उक्तः । तदा प्रत्य­क्त­त्त्व­वि­वे­कात् आत्म­या­था­त्म्यस्य विविच्य अना­त्मा­स­ङ्की­र्ण­तया ज्ञानात् अयमहमस्मीति तत्त्वं विन्दते अपरोक्षतया जानाति ॥३०५॥

अह­ङ्क­र्त­र्य­स्मिन् अहमितिमतिं मुञ्च सहसा
विका­रा­त्म­न्या­त्म­प्र­ति­फ­ल­जुषि स्वस्थितिमुषि ।
यद­ध्या­सा­त्प्राप्ता जनि­मृ­ति­ज­रा­दुः­ख­ब­हुला
प्रती­च­श्चि­न्मूर्तेः तव सुखतनोः संसृतिरियम् ॥३०६॥

३०६

अहमिति । प्रतीचः आन्तरस्य चिन्मूर्तेः ज्ञानशरीरस्य, सुखतनोः आनन्दघनस्य, तव आत्मनः यदध्यासात् यस्मिन्नहमिति तादा­त्म्य­भ्रान्त्या, जनि­मृ­ति­ज­रा­दुः­ख­व­हुला स्पष्टम् , इयमनुभवसिद्धा संसृतिः, प्राप्ता प्राप्तेव भाति, अस्मिन् विकारात्मनि सूक्ष्म­भू­त­कार्ये, आत्मप्रतिफलजुषि आत्म­प्र­ति­बि­म्ब­ग्रा­हिणि, स्वस्थितिमुषि स्वस्य या सहजा स्थितिः चिदानन्दरूपता तां मुष्णातीति स्वस्थितिमुट् तस्मिन् परा­क्त्वा­पा­द­क­त्वेन स्वस्व­रू­प­च्या­वके अहङ्कर्तरि अहङ्कारे, अनात्मनि अहमितिमतिम् , सहसा मुञ्च इति परमोपदेशः ॥३०६॥

उक्तमर्थं बुद्धौ सम्यगारोहाय कृपया पुनराह सदेति −

सदैकरूपस्य चिदात्मनो विभो­रा­न­न्द­मू­र्ते­र­न­व­द्य­कीर्तेः ।
नैवान्यथा क्वाप्य­वि­का­रि­णस्ते विना­ह­म­ध्या­स­म­मुष्य संसृतिः ॥३०७॥

३०७

सर्वाणि विशेषणानि हेतुगर्भाणि अहङ्काराध्यासेन नानारूपता जडता परिच्छिन्नता दुःखं दुर्यशस्त्वं च प्राप्तमिति द्योतयितुम् । सदा नित्यम् एकरूपस्य, सदेकरूपस्य इति वा पाठः काल­त्र­या­बा­ध्यै­क­स्व­रू­प­स्ये­त्यर्थः । चिदात्मनो विभोः अपरिच्छिन्नस्य आनन्दमूर्तेः अनवद्यकीर्तेः श्रुतिशिखरेषु पर­ब्र­ह्म­स्व­रू­प­तया बोद्ध्यमानतया नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­रू­पस्य अविकारिणः ते तव, अमुष्य पराचः अहङ्कारस्य, अहमध्यासं विना तादा­त्म्य­भ्रा­न्ति­म­न्तरा अहङ्कारे अहमिति या बुद्धिः तां विनेति यावत् , अमुष्येति षष्ष्ठी सम्बन्धार्थिका संसृतिः जनिमृतिजरा दुःखजटिला अन्यथा प्रकारान्तरेण वस्तुत इति यावत् नैव सम्भवति ॥३०७॥

यस्मादेवम् ,

तस्मा­द­ह­ङ्का­र­मिमं स्वशत्रुं
भोक्तुर्गले कण्ट­क­व­त्प्र­ती­तम् ।
विच्छिद्य विज्ञानमहासिना स्फुटं
भुङ्क्ष्वा­त्म­सा­म्रा­ज्य­सुखं यथेष्टम् ॥३०८॥

३०८

भुञ्जानस्य कण्ठे कण्टकमिव प्रतिपन्नं स्वरू­पा­न­न्दा­नु­भ­व­प्र­ति­ब­न्ध­क­तया स्वशत्रुम् इमं प्रत्य­क्ष­सि­द्धम् अहङ्कारं, तस्मा­द­सं­सा­रि­णोऽपि संसा­रा­पा­द­क­त्वात् , विज्ञानमहासिना पञ्च­को­श­वि­वे­क­ज­नि­त­वि­ज्ञा­न­नि­शि­त­ख­ङ्गेन विच्छिद्य अपुनर्भवं विनाश्य आत्म­सा­म्रा­ज्य­सु­खम् अन­न्या­धी­न­नि­र­न्त­रा­ख­ण्डा­नन्दं यथेष्टं निरर्गलं स्फुटं करतलामलकवत् भुङ्क्ष्व अनुभव ॥३०८॥

अन­न्त­र­क­र्त­व्य­मु­प­दि­शति तत इति −

ततोऽ­ह­मा­दे­र्वि­नि­वर्त्य वृत्तिं
सन्त्यक्तरागः परमार्थलाभात् ।
तूष्णीं समा­स्वा­त्म­सु­खा­नु­भूत्या
पूर्णात्मना ब्रह्मणि निर्विकल्पः ॥३०९॥

३०९

ततः अहङ्कारादौ तादा­त्म्य­भ्रा­न्ति­ना­शा­न­न्त­रम् , अहमादेः पञ्चमी, अहङ्कारादेः सकाशात् वृत्तिं विनिवर्त्य मनः पराङ्मुखीकृत्य, परमार्थलाभात् नित्य­स्व­प्र­का­शा­न­न्द­रू­पो­त्कृ­ष्ट­प्र­यो­ज­न­ला­भात् , बहिः सन्त्यक्तरागः विषयविमुख इति यावत् , आत्म­सु­खा­नु­भूत्या निर्विकल्पः पूर्णात्मना ब्रह्मणि तूष्णीं समास्स्व ॥३०९॥

पुनः पुनः उप­दि­ष्ट­स्यो­प­देशे कारणमाह समूलकृत्तोऽपीति −

समूलकृत्तोऽपि महानहं पुन-
र्व्युल्ले­खि­त­स्स्या­द्यदि चेतसा क्षणम् ।
सञ्जीव्य विक्षेपशतं करोति
नभस्वता प्रावृषि वारिदो यथा ॥३१०॥

३१०

महान् अनादिकालात् शाखोपशाखतया वृद्धः अहम् अहङ्कारः, समूलकृत्तोऽपि विवेकविज्ञानेन स्वमूलभूतेन अज्ञानेन सह छिन्नोऽपि पुनःचेतसा यदि क्षणं व्युल्लेखितः प्रबुद्धेन पुरुषेण भीकरस्वप्न इव स्मृतः स्यात् , सञ्जीव्य पुनरुत्पद्य विक्षेपशतं करोति । तत्र दृष्टान्तः शरदादौ नष्टोऽपि नामावशेषतां नीतोऽपि वारिदः मेघः, प्रावृषि वर्षर्तौ नभस्वता वायुना नीतः सम्भृतसलिलः यथा वर्षति तथा ॥३१०॥

नष्टस्य कथं जीवनमिति चेत् मृतस्यामृतसेक इव विष­या­नु­चि­न्त­न­मेव तत्र हेतुरिति सदृष्टान्तमाह निगृह्येति −

निगृह्य शत्रोरहमोऽवकाशः
क्वचिन्न देयो विषयानुचिन्तया ।
स एव सञ्जीवनहेतुरस्य
प्रक्षी­ण­ज­म्बी­र­त­रो­रि­वाम्बु ॥३११॥

३११

निगृह्य निग्रहं कृत्वा शत्रोरहमः सर्वनाशहेतोः अहङ्कारस्य, विषयानुचिन्तया क्वचिदप्यवकाशो न देयः, स एव विषयानुचिन्तैव अस्य अहङ्कारस्य सञ्जीवनहेतुः । वक्ष्यति हि

न प्रमा­दा­द­न­र्थोऽन्यो ज्ञानिनः स्वस्वरूपतः ।
ततो मोह­स्त­तोऽ­ह­न्धी­स्ततो बन्धस्ततो व्यथा ॥ (श्लो. ३२३) इति ।

सञ्जीवनहेतुरिति विधे­य­प्रा­धा­न्यात् विष­या­नु­चि­न्तायाः स एवेति पुंलि­ङ्ग­व्य­प­देशः । क्षीणस्य पुनर्वृद्धौ दृष्टान्तमाह प्रक्षीणेति । प्रक्षी­ण­ज­म्बी­र­तरोः शुष्कस्यापि जम्बीरवृक्षस्य अम्बु जलं वृद्धिहेतुभूतं भवति । एवं विवेकविज्ञानेन नाशि­तोऽ­प्य­ह­ङ्कारः प्रमा­दा­द्वि­ष­या­नु­चिन्ता यदि क्रियेत पुनः प्राप्तजीवनः संसारयतीति भावः । विष­या­नु­चि­न्ता­या­मपि नष्ट­स्या­ह­ङ्का­रस्य कथमुज्जीवनम् इति शङ्कायाम् −

विष­ये­ष्वा­वि­श­च्चेतः सङ्कल्पयति तद्गुणान् ।
सम्य­क्स­ङ्क­ल्प­ना­त्कामः कामात्पुंसः प्रवर्तनम् ॥
ततः स्वरूपविभ्रंशः विभ्रष्टस्तु पतत्यधः ।
पतितस्य विना नाशं पुनर्नारोह इष्यते ॥ (श्लो. ३२७-३२८)

इति प्रणालिकया विषयेषु कामः सङ्कल्पजन्यः सङ्कल्पश्च सम्य­क्त्व­बुद्धिः आन­न्द­ज­न­क­त्व­ज्ञानं, स चानन्दः वैषयिकः मनस एव । यदि सन्ततं स्वरूपनिष्ठः तदा कुतःविषयचिन्ता कुतस्तरां तेषु सङ्कल्पः कुतस्तमां कामः । ततः स्वरूपविस्मृतिः विषयचिन्तया भवति । यदा विस्मृतं स्वरूपं तदा अहङ्कारमेव आत्मत्वेन मन्यते तत्राहन्धियं विना देहानुकूलतया प्रतीयमानेषु विषयेषु कामानुत्पत्तेः । ततः अहङ्कारद्वारा मनः­प्रा­ण­स्थू­ल­दे­हा­दि­कम् आत्मत्वेन मत्वा पूर्ववत् विषयान्कामयमानः संसरति, तदिदमुक्तं पूर्वम् −

ज्ञाते वस्तुन्यपि बलवती वासनानादिरेषा
कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः ।
प्रत्य­ग्दृ­ष्ट्या­त्मनि निवसता सापनेया प्रयत्नात्
मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥ (श्लो. २६८)

इति सूत्रेण श्लोकेन । अनन्तरग्रन्थः तद्विवरणरूपः ज्ञातवस्तुनः पुरुषस्य निर­न्त­र­ब्र­ह्म­निष्ठां द्रढयति ॥३११॥

तत्र याऽस्य संसा­र­हे­तु­रि­त्य­स्या­र्थ­माह देहात्मनेति −

देहात्मना संस्थित एव कामी
विलक्षणः कामयिता कथं स्यात् ।
अतोऽ­र्थ­स­न्धा­न­प­र­त्व­मेव
भेदप्रसक्त्या भवबन्धहेतुः ॥३१२॥

३१२

देहात्मना संस्थित एव कामी, निर­न्त­रा­न­न्द­स्व­रू­पेण स्थितौ कुतः क्षणि­का­न­न्द­हे­तुषु कामः ? तेन स्वरूपभ्रंशः कथितः । तदिदमुक्तम् विलक्षणः कामयिता कथं स्यादिति ।

आत्मानं चेद्विजानीयात् अयमस्मीति पूरुषः ।
किमिच्छन्कस्य कामाय शरी­र­म­नु­स­ञ्ज्व­रेत् ॥ (बृ.उ. ४.४१२)

इति श्रुतेः, ‘आप्तकामम् , आत्मकामम् , अकामं शोकान्तरम्’ इति च । अतोऽ­र्थ­स­न्धा­न­प­र­त्व­मेव विष­या­नु­चि­न्त­न­स­क्त­त्व­मेव स्वरू­प­वि­भ्रं­श­न­द्वारा देहादौ अहन्तामाबध्य भेदप्रसक्त्या भेदप्रसञ्जनेन भवबन्धहेतुः, नो चेत् सदा स्वरूपनिष्ठस्य काम्य­का­म­यि­तृ­का­म­ना­दि­भेदः कुतस्त्य इति भावः ॥३१२॥

तावतापि नष्ट­स्या­ह­ङ्का­रस्य सञ्जीवनं कथमिति चेदाह कार्येति −

कार्य­प्र­व­र्ध­ना­द्बी­ज­प्र­वृद्धिः परिदृश्यते ।
कार्य­ना­शा­द्बी­ज­ना­श­स्त­स्मा­त्कार्यं निरोधयेत् ॥३१३॥

३१३

लोके कार्य­प्र­व­र्ध­नात् कार्य­स्या­ङ्कु­रादेः प्रकर्षेण स्कन्ध­शा­खो­प­शा­खा­दि­रू­पेण वर्धनात् उपचयात् बीजप्रवृद्धिः परिदृश्यते बीजाभावे तथा वृद्धेः असम्भवात् कीटादिभक्षिते बीजे अङ्कु­रा­दी­ना­म­नु­त्पत्तेः । अत एकमपि बीजं धर­णि­स­लि­ल­सं­यो­ग­दो­ह­दा­दिना सम्य­क्प्र­वृ­द्धम् अङ्कु­र­प­त्र­स्क­न्ध­शा­खा­पु­ष्प­फ­ल­रू­पेण वृद्धिं प्राप्य सहस्रशः बीजानि जनयतीति परिदृश्यते । कार्यनाशात् बीजनाशोऽपि, अङ्कु­रा­दि­नि­मि­त्तस्य बीजस्यैव नाशे पुनः फलानुत्पत्त्या बीजानि कुतस्त्यानि । अतः कार्यं विषयानुचिन्तनं भवति चेत् विकारेषु प्रथमो योऽहङ्कारः तं विना नैव भवति, विष­या­नु­चि­न्त­न­वृद्ध्या बीजभूताहङ्कारो वृद्धो ज्ञेयः । एवं विवे­क­वि­ज्ञा­न­ना­शि­तो­प्य­ह­ङ्कारः अना­दि­का­ल­प्र­वृ­त्त­तया वासनात्मना शिष्यमाणः सदा प्रत्य­ग्दृष्ट्या आत्मनि निष्ठाभावे वृद्धिं प्राप्य पुनः संसारमापादयेत् । अतः निर­न्त­र­ब्र­ह्म­नि­ष्ठया अप्रमादेन स्थितौ विष­या­नु­चि­न्त­ना­दे­र­न­व­का­शात् वासनात्मनापि न शिष्यते । तस्मात्कार्यं निरोधयेत् विषयानुचिन्तनं न कुर्यात् ॥३१३॥

तस्य संसा­र­स­म्पा­द­क­त्व­मु­प­पा­द­यति वासनेति −

वासनावृद्धितः कार्यं कार्यवृध्या च वासना ।
वर्धते सर्वथा पुंसः संसारो न निवर्तते ॥३१४॥

३१४

यथा एकोऽपि स्फुलिङ्गः सूक्ष्मोऽपि शुष्क­तृ­ण­सं­यो­गा­द्वृद्धिं प्राप्य महा­न­ग्नि­र्भूत्वा सर्वं वनमेव दहेत् , एवं वासनात्मना स्थितोऽ­प्य­ह­ङ्कारः विषयानुचिन्तनेन आत्मानं स्वरूपतः प्राच्याव्य स्वयं तत्प्रतिफलनबलेन अनेकाकारेण परिणममानः जातं विवेकमपि न्यक्कुर्वन् विवेकात्प्रागिव भ्रान्ति­प­र­म्परां कामकर्मादीनि च वितन्वन् स्वयं प्रवर्धमानः निवृत्तप्रायमपि संसारं पुनः प्रवर्तयेत् । अतः अप्रमादेन भवितव्यम् इत्याह वासनावृद्धित इति । कार्यं विषयचिन्ता । स्वरू­पा­न­न्द­वि­स्मृत्या विषयलाभार्थं प्रयत्नः, अलाभे दुःखम् , लाभे हर्षः, हर्षे दर्पः, दर्पे धर्मातिक्रमणम् , तेन धियो मालिन्यम् , तेन पुन­रा­त्म­ग्र­ह­ण­सा­म­र्थ्या­भावः, ततश्च सर्वदा देहा­द्या­त्म­त्वम् , तेन जरा­म­र­ण­ज­न्मा­दि­रू­प­सं­सा­रा­वि­च्छेदः इति पुंसः संसारो न निवर्तत इत्युक्तम् ॥३१४॥

तस्मात् −

संसा­र­ब­न्ध­वि­च्छित्यै तद्द्वयं प्रदहेद्यतिः ।
वासना प्रेर्यते ह्यन्तः चिन्तया क्रियया बहिः ॥३१५॥

३१५

यतिः प्रयत्नशीलः पुमान् संसा­र­ब­न्ध­वि­च्छित्यै संसारहेतुभूतः देहा­त्म­त्वा­दि­स­कल बन्धविनाशाय तद्द्वयं वास­ना­त­त्का­र्य­रूपं द्वयं प्रदहेत् प्रकर्षेण भस्मीकुर्यात् । यथा भस्मीभूतं बीजं न रोहति तथा कुर्यात् । करुणया तद्वृ­द्धि­नि­मित्तं तन्नाशोपायं च कथयति वासनेति । वासना चिन्तया बहिः क्रियया च हि यस्मात् अन्तः प्रेर्यते अतः प्रदहेत् । पूर्वं कार्यशब्देन कथितं स्फुटयति चिन्तया मानस्या बहिः क्रियया च इति । अन्तश्चिन्ता बहिश्शरीरादिना क्रिया चित्प्र­ति­बि­म्ब­ब­ला­भावे जडस्य मनसः क्रिया­ज­न­क­चि­न्ता­सा­मर्थ्यं नास्ति । तत्र चित्प्रतिफलनं च अहङ्कारद्वारैव । जडस्य शरीरस्य कर्म­क­र­ण­सा­म­र्थ्य­मपि मन आदिद्वारा चिदनुप्रवेशादेव । तस्मात् चिन्तया बहिः क्रियया च सूक्षात्मना स्थितः अहङ्कारः वृद्धिं प्राप्त इति विज्ञेयम् ॥३१५॥

ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः ।
त्रयाणां च क्षयो­पा­य­स्स­र्वा­व­स्थासु सर्वदा ॥३१६॥

३१६

सर्वत्र सर्वतः सर्व­ब्र­ह्म­मा­त्रा­व­लो­क­नम् ।
सद्भा­व­वा­स­ना­दा­र्ढ्यात् तत्त्रयं लयमश्नुते ॥३१७॥

३१७

ताभ्यां चिन्ता­क्रि­याभ्यां प्रवर्धमाना सा वासना, आत्मनः संसृतिं सूते जनयति । पूर्वोक्तरीत्या त्रयाणां च वास­ना­चि­न्ता­क्रि­या­रू­पा­णा­मपि क्षयोपायः सर्वावस्थासु सर्वदा सर्वत्र सर्वतः कालतः देशतः वस्तुतश्च, जाग्र­दा­द्य­व­स्थासु ब्रह्म­व्य­ति­रे­केण किमपि नास्ति ‘इदं सर्वं यदयमात्मा ब्रह्मैवेदं विश्वम्’(मु.उ २.१२) इत्या­दि­श्रु­तिभिः, ‘प्रकृतिश्च प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धात्’(ब्र.सू. १.४.२३) ‘तद­न्य­त्व­मा­र­म्भ­ण­श­ब्दा­दिभ्यः’(ब्र.सू. २.१.१४) इत्यादिसूत्रैः मृल्लो­ह­दु­न्दु­भ्या­दि­दृ­ष्टा­न्तैश्च यश्चोरः स स्थाणुः यद्रजतं सा शुक्तिः इतिवत् सर्वत्र सर्वत्वं बाधित्वा केव­ला­धि­ष्ठा­न­भू­त­ब्र­ह्म­व्य­ति­रे­केण किमपि नास्तीति सर्व­ब्र­ह्म­मा­त्रा­व­लो­क­नम् । एवं यदि ज्ञानं तदा ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुत्यनुसारेण, ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’(भ.गी. २.५९) इति स्मृत्या च क्व विषयाः क्वतरां तच्चिन्ता क्वतमां बहिःक्रिया । सर्वं ब्रह्म­मा­त्रा­व­लो­क­नेन सद्भा­व­वा­स­ना­दार्ढ्ये तत्त्रयं वास­ना­चि­न्ता­क्रि­या­रूपं त्रयं लयं नाशमश्नुते प्राप्नोति ॥३१७॥

तथा सर्वं ब्रह्मे­त्य­व­लो­क­ना­स­मर्थं प्रत्युपायमाह कार्यनिरोधेन कारणं निरोद्धव्यमिति क्रियानाश इति −

क्रियानाशे भवे­च्चि­न्ता­ना­शोऽ­स्मा­द्वा­स­ना­क्षयः ।
वासनाप्रक्षयो मोक्षः सजी­व­न्मु­क्ति­रि­ष्यते ॥३१८॥

३१८

पूर्वपूर्वस्य उत्त­रो­त्त­र­ज्ञा­प­कत्वं वा । वासनां विना चिन्तायाः तां विना क्रियायाः अभावात् कार्यनाशात् कारणनाशोऽनुमेय इति भावः । तथा च नैष्क­र्म्ये­णा­व­स्था­न­प­र्यन्तं प्रयत्नः पुरुषेण कर्तव्यः । तदा वासनानां प्रकर्षेण क्षयः सिध्यत्येव स एव मोक्षः स एव जीव­न्मु­क्ति­रि­ष्यते अभिप्रेयते ब्रह्म­वि­द्भि­रिति शेषः । उक्तं हि ‘मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत्’(श्लो. २६८) इति । वस्तुनः सूक्ष्मावस्थैव वासना तस्याः तानवं नाश एव ॥३१८॥

‘सद्भा­व­वा­स­ना­दार्ढ्ये तत्त्त्रयं लयमश्नुते’(श्लो. ३१७) इत्युक्तमर्थं सदृष्टान्तमाह सद्वासनेति −

सद्वा­स­ना­स्फू­र्ति­वि­जृ­म्भणे सति
ह्यसौ विलीना त्वहमादिवासना ।
अति­प्र­कृ­ष्टा­प्य­रु­ण­प्र­भायां
विलीयते साधु यथा तमिस्रा ॥३१९॥

३१९

सद्वा­स­ना­स्फू­र्ति­वि­जृ­म्भणे सति श्रव­ण­म­न­न­नि­दि­ध्या­स­न­सं­स्कृ­तस्य मनसः सदा सर्वत्र सद्भावनया सत्सं­स्का­र­स्फु­र­ण­वृद्धौ सत्यां तु असौ विप्रकृष्टा अहमादिवासना आदिपदेन देहे­न्द्रि­य­वि­ष­य­प­रि­ग्रहः । हि निश्चयेन विलीना विशेषेण नष्टा भवतिति शेषः । तत्र दृष्टान्तः अतिप्रकृष्टापि तमिस्रा रात्रिः तमोमयी दर्शादिदिनेषु, अरुणप्रभायाम् अरुणः सूर्यसारथिः तस्य प्रभायां साधु विलीयते नश्यति यथा तथा इति पूर्वेणान्वयः ॥३१९॥

ततः −

तम­स्त­मः­का­र्य­म­न­र्थ­जालं
न दृश्यते सत्युदिते दिनेशे ।
तथाऽ­द्व­या­न­न्द­र­सा­नु­भूतौ
नैवास्ति बन्धो न च दुःखगन्धः ॥३२०॥

३२०

अरुणोदयानन्तरं दिनेशे भास्करे उदिते सति उदयाचलमारूढे सति तमः शार्वरं तमः अन्धकारः तत्कार्यम् अनर्थजालं चक्षुः पीडा चोर­बा­धा­मा­र्ग­स्स्व­ल­ना­दि­जा­त­दुः­ख­क­दम्बं न दृश्यते यथा तथा अद्व­या­न­न्द­र­सा­नु­भूतौ सद्वा­स­ना­स्फु­र­ण­वृ­द्धि­व­शात् सच्चि­दा­न­न्दै­क­र­स­प्र­त्य­ग्ब्र­ह्मा­नु­भवे सति नैवास्ति बन्धः अना­त्म­न्या­त्म­बुद्धिः न च दुःखगन्धः हेतोरध्यासस्य नाशात् । ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई.उ. ७) इति श्रुतेः ॥३२०॥

यदि प्रारब्धवशात् जगद् भासेत, तदापि −

दृश्यं प्रतीतं प्रवि­ला­प­य­न्स्वयं
सन्मा­त्र­मा­न­न्द­घनं विभावयन् ।
समाहितस्सन् बहिरन्तरं वा
कालं नयेथास्सति कर्मबन्धे ॥३२१॥

३२१

विप­री­ता­र्थ­धी­र्या­वत् निश्शेषं विनिवर्तते ।
स्वरूपस्फुरणं यावन्न प्रसि­ध्य­त्य­न­र्ग­लम् ।
तावत् समाधिषट्केन नयेत् कालं निरन्तरम् ॥ (स.वे.सि. ९०१)

इत्युक्तत्वात् प्रतीतं दृश्यं नाम­रू­प­प्र­वि­ला­प­नेन केव­ला­धि­ष्ठा­न­भूतं ब्रह्म भावयन् स्वयं च सन्मा­त्र­मा­न­न्द­घनं विभावयन् बहिरन्तरं वा समाहितः सन् कालं नयेथाः ।

इयं भूर्न सन्नापि तोयं न तेजो
न वायुर्न खं नापि तत्कार्यजातम् ।
यदे­षा­म­धि­ष्ठा­न­भूतं विशुद्धं
सदेकं परं यत्तदेवाहमस्मि ॥ (स.वे.सि. ८८६)

इत्यादिरीत्या बहिः,

न देहो न चाक्षाणि न प्राणवायुः
मनो नापि बुद्धिर्न चित्तं ह्यहन्धीः ।
यदे­षा­म­धि­ष्ठा­न­भूतं विशुद्धं
सदेकं परं यत्तदेवाहमस्मि ॥ (स.वे.सि. ८८९)

इत्यन्तः, शब्दा­नु­वि­द्ध­दृ­श्या­नु­वि­द्ध­स­वि­क­ल्प­क­नि­र्वि­क­ल्प­क­भे­देन बहिरन्तर्वा समाहितमनसा त्वया कर्मबन्धे प्रार­ब्धा­द्वि­क्षेपे प्रसक्ते कालो नेयः इत्यर्थः ॥३२१॥

कदापि कथञ्चिदपि शिष्यो दुःखभाक् माभू­दि­त्य­नु­क्रो­शेन जातविवेकस्यापि दुःख­प्र­स­क्ति­मार्गं पुनराह प्रमाद इत्यादिना विस्तरेण −

२९. प्रमादत्यागः

प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन ।
प्रमादो मृत्युरित्याह भगवान् ब्रह्मणस्सुतः ॥३२२॥

३२२

कदाचन कदापि, ब्रह्मनिष्ठायां प्रमादः अनवधानता च्युतिः न कर्तव्या नाश्रयणीया । यतः भगवान् सर्वज्ञः आजानसिद्धः ब्रह्मणः सुतः सनत्सुजातः धृत­रा­ष्ट्र­म्प्रति ‘प्रमादं वै मृत्युमहं ब्रवीमि’ इति प्रमादो मृत्युरित्याह ॥३२२॥

तदुपपादयति न प्रमा­दा­दि­त्या­दिना −

न प्रमा­दा­द­न­र्थोन्यो ज्ञानिनः स्वस्वरूपतः ।
ततो मोहस्ततोहन्धीः ततो बन्धस्ततो व्यथा ॥३२३॥

३२३

ज्ञानिनः स्वस्वरूपतः प्रमादात् प्रच्युतेः अन्यः अनर्थः हानिः न विद्यते यस्मात् ततः स्वरूपप्रच्युतौ सत्यां मोहः विस्मरणं ततोऽनात्मनि अहङ्कारे अहन्धीः ततः बन्धः देहादावध्यासः ततो व्यथा जरामरणादि जन्या ॥३२३॥

अज्ञानिनः एवमस्तु ज्ञानिनोऽप्येवं किं स्यात् इति शङ्कायामाह विषयेति −

विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः ।
विक्षेपयति धीदोषैः योषा जारमिव प्रियम् ॥३२४॥

३२४

योषा प्रियं जारमिव जारम् अन्यासक्तं प्रियमिव स्वपतिमिव वा विस्मृतिः ब्रह्मविस्मृतिः विद्वांसमपि विवेकिनमपि विषयाभिमुखं बहिर्मुखं दृष्ट्वा धीदोषैः ‘पराञ्चि खानि’(क.उ. ४.१) इति श्रुतेः, ‘विष­ये­ष्वा­वि­श­च्चेतः’(श्लो. ३२७) इत्यादिना वक्ष्यमाणदोषैः, विक्षेपयति नष्टात्मबोधं करोति विशेषेण चालयति दूरं नयति भ्रामयति ॥३२४॥

उक्तमर्थं दृष्टा­न्ता­न्त­रेण आह सुष्ठु­प्र­ति­प­त्तये यथेति −

यथाऽपकृष्टं शैवालं क्षणमात्रं न तिष्ठति ।
आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥३२५॥

३२५

पूर्वं कोशपञ्चकस्य शैवा­ल­दृ­ष्टा­न्ते­नैव आवारकत्वमुक्तं ‘तच्छैवालापनये सम्यक्सलिलं प्रतीयते शुद्धम्’(श्लो. १५२) इति क्षणमात्रं शैवालमपकृष्टं यथा न तिष्ठति पुनरावृणोति सलिलं तथा माया प्राज्ञं वापि कृत­को­श­प­ञ्च­क­नि­षे­ध­मपि पराङ्मुखम् आवृणोति तिरोहितस्वरूपं करोति ॥३२५॥

‘न प्रमा­दा­द­न­र्थोऽन्यः’(श्लो. ३२३) इत्युक्तं दृष्टा­न्ता­न्त­रेण स्फुटयति लक्ष्यच्युतमिति −

लक्ष्यच्युतं चेद् यदि चित्तमीषद्
बहिर्मुखं सन्निपतेत् ततस्ततः ।
प्रमादतः प्रच्यु­त­के­लि­क­न्दुकः
सोपानपङ्क्तौ पतितो यथा तथा ॥३२६॥

३२६

चित्तं यदीषत् लक्ष्यं ब्रह्म ततः च्युतं चेत् बहिर्मुखं सत् अनात्मप्रवणं सत् ततस्ततः अह­ङ्का­र­बु­द्धि­म­नः­प्रा­णे­न्द्रि­य­दे­ह­वि­ष­येषु निपतेत् यथा प्रमादतः क्रीडतः पुरुषस्य इच्छाभावेऽपि प्रमादतः अनवधानवशात् प्रच्यु­त­के­लि­क­न्दुकः सोपानपङ्क्तौ पतितः अधोऽधो गच्छति न ग्रहीतुं शक्यते तथा ॥३२६॥

प्रमादस्य मृत्युत्वं सुष्ठूपपादयति सार्धद्वयेन −

विष­ये­ष्वा­वि­श­च्चेतः सङ्कल्पयति तद्गुणान् ।
सम्य­क्स­ङ्क­ल्प­ना­त्कामः कामात्पुंसः प्रवर्तनम् ॥३२७॥

३२७

ततः­स्व­रू­प­वि­भ्रंशो विभ्रष्टस्तु पतत्यधः ।
पतितस्य विना नाशं पुनर्नारोह ईक्षते ।
सङ्कल्पं वर्जयेत्तस्मात् सर्वानर्थस्य कारणम् ॥३२८॥

३२८

अपथ्यानि हि वस्तूनि व्याधिग्रस्तो यथोत्सृजेत् ॥

३२८

विषयेषु शब्दादिषु चेतः मनः आविशत् सत् सज्जमानं सत् तद्गुणान् तेषु भोगहेतुतया आन­न्द­ज­न­क­त्वा­दि­गु­णान् सङ्कल्पयति चिन्तयति । सम्य­क्स­ङ्क­ल्प­नात् कामः तेषु इच्छा जायते कामात् पुंसः प्रवर्तनं तत्सम्पादने यत्नः ।

‘यद्यद्धि कुरुते जन्तुः तत्तत्कामस्य चेष्टितं’(म.स्मृ. २.४) इति स्मृतेः । तत­स्स्व­रू­प­वि­भ्रंशः स्वरू­पा­त्प्र­च्युतिः विस्म­र­ण­मि­त्यर्थः । विभ्रष्टस्तु अधः अनात्मसु कोशेषु तद्द्वारा दूरदूरेषु विषयेषु पतति गच्छति । पतितस्य अतिदूरं नीतस्य नाशं विना, स्वरूपादर्शनमेव नाशः स्वरूपादर्शने सर्वदा देहादिकम् आत्मत्वेन मन्यमानस्य तस्य मरणादिसत्वात् । अस्यापि सर्वमस्तीति भ्रान्त्या सन्त­त­सं­सा­र­ल­ग्न­त्व­मेव । पुनर्नारोहः ब्रह्मलाभः ईक्ष्यते, सर्वानर्थस्य कारणं सङ्कल्पं तस्माद्वर्जयेत् न कुर्यात् यथा रोगग्रस्तः वस्तून्यपथ्यानि उत्सृजेत् तथा । स्वरूपच्युतौ महाननर्थः नाशपर्यन्तः ॥३२८॥

अतः प्रमा­दा­न्न­प­रोऽस्ति मृत्युः
विवेकिनो ब्रह्मविदः समाधौ ।
समाहितः सिद्धिमुपैति सम्यक्
समाहितात्मा भव सावधानः ॥३२९॥

३२९

अतः विवेकिनः ब्रह्मविदः समाधौ प्रमादात्परः मृत्युर्नास्ति । सम्यक्समाहितः ब्रह्मसंस्थः सिद्धिं मुक्तिमुपैति । त्वमपि सावधानः प्रमादरहितः समाहितात्मा निरन्तरं ब्रह्म­नि­वे­शि­ता­न्तः­क­रणो भव ॥३२९॥

जीवतो यस्य कैवल्यं विदेहे च स केवलः ।
यत्कि­ञ्चि­त्प­श्यतो भेदं भयं ब्रूते यजुश्श्रुतिः ॥३३०॥

३३०

यस्य पुंसः जीवतः प्राणान्धरतः कैवल्यं सर्वो­पा­धि­स­म्ब­न्ध­वि­नि­र्मु­क्त­त्वम् , स पुरुषधौरेयः विदेहे च देहपातानन्तरमपि केवलः । यत्किञ्चिद्भेदं पश्यतः यजुश्श्रुतिः ‘यदा ह्येवैष एत­स्मि­न्नु­द­र­म­न्तरं कुरुते, अथ तस्य भयं भवति’(तै.उ. २.७) इति भयं ब्रूते उत् अपि, अरं स्वल्पम् अन्तरं भेदं स्वल्पमपि भेदं कुरुते पश्यति अथ तदा तस्य भयं भवति इति । कैवल्ये हेतुश्च निर्वि­क­ल्प­क­स­मा­धि­नि­ष्ठैव । वक्ष्यति ‘उपा­धि­यो­गा­त्स्व­य­मेव भिद्यते चोपाध्यपोहे स्वयमेव केवलः । तस्मादुपाधेः विलयाय विद्वान् वसे­त्स­दाऽऽ­क­ल्प­स­मा­धि­नि­ष्ठया’(श्लो. ३५८) इति ॥३३०॥

‘तत्त्वेव भयं विदु­षोऽ­म­न्वा­नस्य’(तै.उ. २.७) इत्य­न्त­य­जु­श्श्रु­त्य­र्थ­माह यदा कदावेति −

यदा कदा वापि विपश्चिदेषः ब्रह्म­ण्य­न­न्ते­प्य­णु­मा­त्र­भे­दम् ।
पश्यत्यथामुष्य भयं तदेव यदीक्षितं भिन्नतया प्रमादात् ॥३३१॥

३३१

एषः विपश्चित् विवेकी ब्रह्मवित् अनन्ते त्रिवि­ध­प­रि­च्छे­द­शून्ये ब्रह्मणि अणुमात्रभेदमपि ईषदपि भेदम् , यदा यदीत्यर्थः, कदा वापि कदाचिदपि यदि पश्यति अथ तर्हि, प्रमादात् अनवधानात् भिन्नतया यदीक्षितं तदेवामुष्य विदुषः अमन्वानस्य भयं भयानकं ‘द्वितीयाद्वै भयं भवति’(बृ.उ. १.४.२) इति श्रुतेः, ‘सर्वं तं परादात् योन्यत्रात्मनः सर्वं वेद’(बृ.उ. ४.५७) , ‘येन्यथातो विदुः अन्यराजानः ते क्षय्यलोका भवन्ति’(छा.उ. ७.२५.२) ति च ॥३३१॥

श्रुति­स्मृ­ति­न्या­य­श­तै­र्नि­षिद्धे
दृश्येऽत्र यस्स्वात्ममतिं करोति ।
उपैति दुःखोपरि दुःखजातं
निषिद्धकर्ता स मलिम्लुचो यथा ॥३३२॥

३३२

‘नेति नेति’(बृ.उ. २.३.६) , ‘नेह नानास्ति किञ्चन’(बृ.उ. ४.४.१९) , ‘नात्र काचन भिदास्ति’(नृ.उ.उ. ८) इत्या­दि­श्रु­तिभिः, तदनुसारिणीभिः स्मृतिभिः ‘अनादिमत्परं ब्रह्म न सत्त­न्ना­स­दु­च्यते’ इत्याद्याभिः, पञ्च­को­श­वि­वे­च­न­स­मये दर्शितैः न्यायैश्च परश्शतैः दृश्यं देहादिकम् अहङ्कारान्तं नात्मा इति निषिद्धे अत्र दृश्ये देहादौ यस्स्वात्ममतिम् अहमिति धियं करोति सः निषिद्धकर्ता पापी अत एव मलिम्लुचः मलिनान्तःकरणः यथा इति­क­र्त­व्य­ता­मूढः दुःखोपरि दुःखजातम् उपैति तथा अस­ज्ज­ड­दुः­खा­त्म­का­ना­त्मा­त्म­त्व­बुद्ध्या दुःखोपरि दुःखजातम् उपैति ॥३३२॥

तत्स्फुटयति सत्येति −

सत्या­भि­स­न्धा­न­रतो विमुक्तो मह­त्त्व­मा­त्मी­य­मु­पैति नित्यम् ।
मिथ्या­भि­स­न्धा­न­र­तस्तु नश्येद्दृष्टं तदे­त­द्य­द­चो­र­चो­रयोः ॥३३३॥

३३३

सत्या­भि­स­न्धा­न­रतः ऐदम्पर्येण सत्यनिष्ठायां रतः व्यग्रः, पुरुषः नित्यमात्मीयं महत्त्वं निर्वि­का­र­म­नस्त्वं सर्वपूज्यत्वं च, उपैति । मिथ्या­प­दा­र्था­भि­स­न्धा­न­र­तस्तु नश्येत् यस्यावलम्बनं मिथ्याभूतमेव तस्य कथं सत्त्वम् , स नश्यत्येव । दृष्टं तदेतत् यदचोरचोरयोः, उक्तमिदं छान्दोग्ये षष्ठाध्याये तप्त­प­र­शु­ग्र­ह्म­ण­दृ­ष्टा­न्तेन सत्यवादी आरोपितचोरत्वकः तप्तपरशुं गृह्णाति न्यायस्थाने, तथापि सत्यावलम्बनेन न दह्यते अथ मुच्यते । वस्तुतः चोरस्तु नाहं चोर इति अनृतमपि वदन् तदपरित्यजन् हस्त­नि­क्षि­प्त­त­प्त­प­रशुः दह्यते अथ बध्यते इति । एतादृशः मलि­म्लु­च­श­ब्दार्थः । चौर्यमेव निषिद्धं ततः अनृ­त­व­द­ना­दि­नि­षि­द्ध­प­र­म्परा, एवङ्कुर्वतः मिथ्या­भि­स­न्धा­न­र­तस्य कथं सत्यप्रतिपत्तिः स्यात् । अतः दुःखोपरि दुःखजातम् उपैतीत्युक्तम् लोकद्वयादपि भ्रंशात् ॥३३३॥

तस्मात् −

यतिरसदनुसन्धिं बन्धहेतुं विहाय
स्वय­म­य­म­ह­म­स्मी­त्या­त्म­दृ­ष्ट्र्यैव तिष्ठेत् ।
सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या
हरति पर­म­वि­द्या­का­र्य­दुःखं प्रतीतम् ॥३३४॥

३३४

ब्रह्म­सं­स्थ­त्वस्य संन्यासिन एव सम्भवात् यतिः संन्यासी बन्धहेतुम् असदनुसन्धिम् अब्रह्मचिन्तां स्वयं विहाय अयं परमात्मा अहमस्मीति आत्मदृष्ट्यैव तिष्ठेत् । तत्र परमपुरुषार्थं फलमाह ननु यतः ब्रह्मणि निष्ठा अनन्यसक्ततया स्थितिः स्वानुभूत्या स्वस्व­रू­प­स्व­य­म्प्र­का­श­स­दा­न­न्दा­नु­भ­वेन सुखयति आनन्दयति । प्रतीतं पूर्वमनुभूतम् अवि­द्या­का­र्य­दुः­खम् अज्ञा­न­त­त्का­र्य­प्र­यो­ज्य­दुःखं यद्वा अविद्यायाः कार्यं यद्दुःखं तत् परम् अत्यन्तं हरति, ‘तरति शोकमात्मवित्’(छा.उ. ७.१.३) इति श्रुतेः ‘यत्र नान्य­त्प­श्यति........स भूमा’, (छा.उ. ७.२४.१) ‘यो वै भूमा तत्सुखम्’(छा.उ. ७.२३.१) इति च । तादृग्ब्रह्मणि सर्वदानिष्ठस्य कुतोऽविद्या कुतः तत्कार्यदुःखं वा ॥३३४॥

समूलघातं दुःखमपहन्तुं ब्रह्मणि समाधानाय पराङ्मुखत्वं शातयति बाह्येति −

बाह्याभिसन्धिः परिवर्धयेत्फलं
दुर्वासनामेव ततस्ततोधिकाम् ।
ज्ञात्वा विवेकैः परिहृत्य बाह्यं
स्वात्मा­नु­सन्धिं विदधीत नित्यम् ॥३३५॥

३३५

बाह्याभिसन्धिः विषयसङ्गः, ततस्ततोधिकां दुर्वासनां पुनर्जन्मकरीं मलिनवासनामेव फलं परिवर्धयेत् । उक्तं हि पूर्वं ‘वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना’(श्लो. ३१३) इति । तज्ज्ञात्वा विवेकैः प्रमादस्य मृत्यु­ता­क­थ­ना­व­सरे कथितैः विषयसङ्गस्य महा­न­र्थ­हे­तु­त्व­बो­धकैः हेतुभिः बाह्यमनात्मानं परिहृत्य बाधित्वा स्वात्मा­नु­सन्धिं ब्रह्मा­नु­चि­न्तनं नित्यं सर्वदा विदधीत कुर्यात् ॥३३५॥

बाह्यानुसन्धेः बन्ध­क­त्व­मुक्त्वा तन्निरोधे क्रमेण परमपुरुषार्थं फलमाह बाह्य इति −

बाह्ये निरुद्धे मनसः प्रसन्नता मनःप्रसादे परमात्मदर्शनम् ।
तस्मिन्सुदृष्टे भवबन्धनाशः बहिर्निरोधः पदवी विमुक्तेः ॥३३६॥

३३६

अत्यन्तं व्यवहरतोऽपि सुप्तोत्थितस्य मनः प्रसन्नं तिष्ठति । अत एव ‘सम्प्रसादः’ इत्युच्यते सुषुप्तिः सुषुप्तौ बाह्याभावात् । प्रय­त्न­पु­र­स्स­र­मेव बन्धके बाह्ये निरुद्धे आनन्दाविर्भावेन प्रसन्नतायां किमु वक्तव्यम् । मनःप्रसादे ‘प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते’(२.६५) इति गीतावचनात् दुःखमुक्तं निर्मलं मनः सूक्ष्मम् एकाग्रं, पर­मा­त्म­द­र्श­न­स­मर्थं भवति । ‘मन­सै­वे­द­मा­प्तव्यं, मन­सै­वा­नु­द्र­ष्टव्यं, दृश्यते त्वग्र्यया बुध्या सूक्ष्मया’(क.उ. १.३.१२) इत्यादिश्रुतेः । तस्मिन् सुदृष्टे अनन्यतया निरन्तरं साक्षा­त्क्रि­य­माणे, भवबन्धनाशः संसारहेतूनां सर्वे­षा­म­ध्या­सानां समूलघातः अतः बहिर्निरोधः वृत्ते­र्बा­ह्या­ना­ल­म्बनं विमुक्तेः पदवी प्रापिका ॥३३६॥

एवं बहुप्रकारैः विषयचिन्तायां दोषान् दर्शयित्वा ततस्सर्वात्मना निवर्तयितुं तादृशानां लज्जायै कुत्सां करोति कः पण्डित इति −

कः पण्डितः सन् सदसद्विवेकी श्रुतिप्रमाणः परमार्थदर्शी ।
जानन्हि कुर्या­द­स­तो­व­लम्बं स्वपातहेतोः शिशु­व­न्मु­मुक्षुः ॥३३७॥

३३७

परमार्थं द्रष्टुं शीलम् अस्यास्तीति परमार्थदर्शी अत एव श्रुतिप्रमाणः श्रुतिरेव प्रमाणं यस्य सः, अतीन्द्रियार्थे तस्या एव मानत्वात् , ततः ‘यो वै भूमा तदमृतम् अतोन्यदार्तम्’(छा.उ. ७.२४.१) इति श्रुत्या सदसद्विवेकी ब्रह्म सत्यं जगन्मिथ्येति ज्ञानवान् तेन पण्डितः पण्डा ज्ञानम् अस्य सञ्जातेति पण्डितः वस्तु­या­था­त्म्य­ज्ञा­न­वान् , मुमुक्षुः बन्धनिवृत्तिं कामयमानः स्वपातहेतोः स्वस्य अधोधः, पतनार्थं हि निश्चयेन जानन् असतःअनात्मनः अवलम्बं समाश्रयणं कः कुर्यात् । तत्र दृष्टान्तः शिशुवदिति, शिशुर्हि अज्ञानात् उपरिभागादधः पतेत् सर्पदीपादिकं गृह्णीयात् । अयं तु ज्ञानी । अतः विवेकिना अप्रमादेन ब्रह्मसंस्थेन भवितव्यमिति भावः ॥३३७॥

पदा­र्था­न­व­बो­धा­व­बो­ध­रू­प­वि­भि­न्न­ध­र्मा­श्र­ययोः सुप्तिजागरणयोः यथा एकस्मिन् समानकालिकत्वं नास्ति एवं देहा­द्य­भि­मा­न­मुक्त्योः इत्याह देहादीति −

देहा­दि­सं­स­क्ति­मतो न मुक्तिः
मुक्तस्य देहा­द्य­भि­म­त्य­भावः ।
सुप्तस्य नो जागरणं न जाग्रतः
स्वप्न­स्त­यो­र्भि­न्न­गु­णा­श्र­य­त्वात् ॥३३८॥

३३८

‘न स पुनरावर्तत’(छा.उ. ८.१५.१) इति श्रुत्या मुक्तस्य तु पुनः देहादावभिमानो नैव भवति । यदि भवति न स मुक्तः ‘विज्ञा­त­ब्र­ह्म­त­त्त्वस्य यथापूर्वं न संसृतिः । अस्ति चेन्न सवि­ज्ञा­त­ब्र­ह्म­भावो बहिर्मुखः’(श्लो. ४४३) इति हि वक्ष्यति । अन्वयः स्पष्टः ॥३३८॥

मुक्तस्वरूपमाह अन्तरिति −

अन्तर्बहिस्स्वं स्थिरजङ्गमेषु
ज्ञाना­त्म­ना­धा­र­तया विलोक्य ।
त्यक्ता­खि­लो­पा­धि­र­ख­ण्ड­रूपः
पूर्णात्मना यस्स्थित एष मुक्तः ॥३३९॥

३३९

स्थिरजङ्गमेषु चराचरेषु वस्तुषु, अन्तर्बहिः ज्ञानात्मना आधारतया स्वं स्वात्मानं विलोक्य साक्षात्कृत्य त्यक्ता­खि­लो­पाधिः त्यक्ताः बाधिताः अखिलाः उपाधयः अज्ञा­न­त­त्का­र्य­रूपाः येन सः त्यक्ता­खि­लो­पाधिः । अत एवाखण्डरूपः देश­का­ल­व­स्तु­प­रि­च्छे­द­शू­न्य­स­च्चि­दा­न­न्द­स्व­रूपः पूर्णात्मना अप­रि­च्छि­न्ना­त्मना यः स्थितः एषः मुक्तः । तेन परि­च्छि­न्न­दे­हा­द्य­भि­माने पूर्णात्मना स्थिति­र्ना­स्तीति न स मुक्त इति भावः ॥३३९॥

मुक्तौ हेतुं तस्य हेतुं चाह सर्वात्मनेति −

सर्वात्मना बन्ध­वि­मु­क्ति­हेतुः सर्वा­त्म­भा­वा­न्न­प­रोस्ति कश्चित् ।
दृश्याग्रहे सत्युपपद्यतेऽसौ सर्वा­त्म­भा­वोऽस्य सदात्मनिष्ठया ॥३४०॥

३४०

‘यतो यतो निवर्तते ततस्ततो विमुच्यते, निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि’(विदु.नी. ४.१४) इत्युक्तरीत्या सर्वात्मना बन्धविमुक्तौ हेतुः सर्वात्मभाव एव । तस्मात् परः अन्यः कश्चिन्नास्ति ‘अहं ब्रह्मास्मि यो वेद स सर्वं भवति त्विदम् । नाभूत्या ईशते देवाः तेषामात्मा भवेद्धि सः’(बृ.उ. १.४.१०) इत्युक्तेः । यद्बन्धकं तदपि स्वभिन्नं बध्नीयात् । नात्मानं कर्तृ­क­र्म­वि­रो­धात् उक्तं हि ‘न हि नटः सुशिक्षितोऽपि स्वस्क­न्ध­म­धि­रो­क्ष्यति’(ब्र.सू.भा. ३.३.५४) इति ‘न ह्यग्निरात्मानं दहति’(ब्र.सू.भा. २.२.१०) इति च भाष्ये । (ऐका­त्म्या­धि­क­रणे − ३.३.५४) ततः सर्वात्मभावे प्राप्ते यद् बन्धकत्वेन मतं तदा­त्म­त्व­स्या­प्य­व­र्ज­नी­य­तया कुतो बन्धः ‘सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । सम्पश्यन् ब्रह्म परमं याति नान्येन हेतुना’(१०) इति कैवल्यश्रुतेः इति भावः । सर्व­भू­ते­षू­पा­दा­न­तया अधिष्ठानतया रज्जुसर्पे रज्जुमिव अनुस्यूतम् , सर्वभूतानि चात्मनि रज्ज्वां सर्प इव कल्पितानि सम्पश्यन्निति तदर्थः । तेन सर्वो­पा­धि­स­म्ब­न्ध­वि­नि­र्मु­क्त­तया केवलीभाव एव सर्वात्मभावः । नह्यु­पा­धि­स­म्ब­न्धेन परिच्छिन्नस्य सर्वात्मत्वं सम्भवति । यद्यपि मायायाः व्यापकत्वात् तद्विशिष्टस्य तत्का­र्य­स­र्वा­धि­ष्ठा­नत्वं सुवचं, तथापि मायायाः परि­शि­ष्य­मा­ण­त्वात् तदधिष्ठानत्वं शुद्धस्य निर­व­च्छि­न्न­चै­त­न्य­स्यै­वेति कैवल्यमेव सर्वात्मभावः । तत्र हेतुः असौ सर्वात्मभावः अस्य ज्ञानिनः सदा निरन्तरम् आत्मनिष्ठया दृश्याग्रहे सत्युपपद्यत इति ॥३४०॥

सदा­त्म­नि­ष्ठा­या­मेव दृश्याग्रहणं नान्य­थे­त्यु­प­पा­द­यति दृश्य­स्या­ग्र­ह­ण­मि­त्या­दिना −

दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो
बाह्या­र्था­नु­भ­व­प्र­स­क्त­म­नसः तत्तत्क्रियां कुर्वतः ।
संन्य­स्ता­खि­ल­ध­र्म­क­र्म­वि­षयैः नित्या­त्म­नि­ष्ठा­परैः
तत्त्वज्ञैः करणीयमात्मनि सदा­न­न्दे­च्छु­भि­र्य­त्नतः ॥३४१॥

३४१

देहात्मना तिष्ठतः अत एव बाह्या­र्था­नु­भ­व­प्र­स­क्त­म­नसः विषयानुभवे प्रकर्षेण सक्तमनसः, षष्ठी­ब­हु­व्रीहिः, तेन विषयचिन्तनं सङ्कल्पः कामश्च कथिताः । ततः तत्तत्क्रियां कुर्वतः विषयलाभाद्यर्थं व्याप्रियमाणस्य दृश्यस्याग्रहणं कथन्नु घटते युज्यते । अतः संन्य­स्ता­खि­ल­ध­र्म­क­र्म­वि­षयैः धर्मश्च कर्माणि च विषयाश्च धर्मकर्मविषयाः अखिलाश्च ते धर्म­क­र्म­वि­ष­याश्च संन्यस्ता यैस्तैः संन्य­स्ता­खि­ल­ध­र्म­क­र्म­वि­षयैः धर्मः वैदिकः कर्म लौकिकं विषयाश्च शब्दादयः । नित्या­त्म­नि­ष्ठा­परैः नित्या या आत्मनिष्ठा तस्यां परैः आसक्तैः सा परा प्रधानभूता येषां तैः इति विग्रहेण वा तदासक्तैः । तत्र हेतुः आत्मनि सदा­न­न्दे­च्छु­भि­रिति तैः तत्त्वज्ञैः, यत्नतः करणीयं दृश्या­ग्र­ह­ण­मि­त्य­न्वयः ॥३४१॥

नित्यात्मनिष्ठा सार्वा­त्म्य­सि­द्धि­हे­तु­रि­त्यर्थः श्रुतिप्रमाणकः इत्याह सार्वेति −