अस्मिन्नध्याय आत्मैकत्वलोकलोकपालसृष्ट्यशनायापिपासासंयोजनादीनां बहूनामर्थानामुक्तत्वात्सर्वेषामपि विवक्षितत्वशङ्कावारणाय विवक्षितमर्थमाह –
अस्मिन्निति ।
सर्वेष्वपि शरीरेष्वेक एवाऽऽत्मा स एव परमेश्वर इति वक्ष्यमाणोऽर्थ एतच्छब्दार्थः । वाक्यार्थ इति । विवक्षित इति शेषः ।
कथमयमेवार्थो विवक्षित इत्याशङ्क्य पूर्वसन्दर्भपर्यालोचनयेत्याह –
जगदित्यादिना ।
यद्यपि लोकादिसृष्ट्याऽन्नसृष्ट्या चोत्पत्तिस्थिती एवोक्ते तथाऽऽप्युत्पत्तिस्थित्युक्त्याऽर्थात्प्रलयोऽप्युक्तप्राय इति प्रलयकृदित्युक्तम् । लोकपालादीनामेव भोक्तृत्वोक्त्याऽसंसारीत्युक्तमित्यर्थः । सामान्यतः सर्वं जानातीति सर्वज्ञः । विशेषतः सर्वप्रकारेणापि सर्वं वेत्तीति सर्ववित् ।
सृष्ट्वेत्यन्तेन जगतस्तत्कार्यत्वात्तद्व्यतिरेकेण नास्तीत्युक्त्वा प्रत्यगात्मनस्तदभेदमाह –
स्वात्मेति ।
न केवलं प्रवेशोक्त्यैव तदभेदः किन्तु तदभेदज्ञानोक्तेश्चेत्याह –
प्रविश्य चेति ।
यस्मात्सर्वशरीरेष्वेकस्यैव प्रवेश उक्तः । यस्माच्च प्रविष्टस्य ब्रह्मतया ज्ञानमुक्तं तस्मात्सर्वशरीरेष्वेक एवाऽऽत्मा स च सर्वज्ञ ईश्वर एव नान्य इत्येष वाक्यार्थो विवक्षित इति पूर्वेणान्वयः ।
सम आत्मेति विद्यादिति संहितोपनिषद्गतवाक्यशेषोऽप्येतमेवार्थमाहेत्याह –
अन्योपीति ।
सम इति । सर्वभूतेष्वेक इत्यर्थः ।
स ईक्षतेत्यादिसन्दर्भादयमर्थः प्रतीयत इत्युक्तं पूर्वमिदानीमुपक्रमोपसंहाराभ्यामप्येष एवार्थः प्रतीयत इत्याह –
आत्मा वा इति ।
सदेव सोम्येदमग्र आसीत्तदेतद्ब्रह्मापूर्वमित्यादौ चाद्वितीयत्वमुक्तमित्याह –
अन्यत्र चेति ।
प्रवेशवाक्यादात्मन एकत्वमुक्तं तदयुक्तं तस्यैवासङ्गतार्थत्वादिति शङ्कते –
सर्वगतस्येति ।
अशरीरत्वाद्विदारयितृत्वं सर्वगतत्वात्प्रवेशश्च न सङ्गच्छत इत्यर्थः । किं प्रतीयमानार्थेऽसङ्गतत्वमुत विवक्षितार्थे । आद्ये सर्वस्याप्यसङ्गतार्थत्वेन सर्वस्याप्यप्रामाण्यं स्यात् ।
न च वेदस्य तद्युक्तमित्यभिप्रेत्याऽऽह –
नन्विति ।
चक्षुरादिकरणैरीक्षणं प्रसिद्धं मृदाद्युपादानवत एव स्त्रष्टृत्वं हस्ताभ्यामेव समुद्धरणसम्मूर्छने इत्यशरीरस्य तदसङ्गतम् । शस्त्रादिना मूर्तेन विदारणं न त्वमूर्ताध्यानान्मुखादिभ्योऽग्न्याद्युत्पत्तौ अस्य दाहादिः स्यात् । मूर्तस्यैवान्येन संयोजनं कर्तुं शक्यं नाशनायादेरमूर्तस्य । अग्न्यादीनां शरीरसृष्टेः पूर्वं प्रार्थनाया अयोगस्तदा गवादिशरीराभावात् । स्वयं चाशरीरत्वादानयनायोगः । तेषामशरीरत्वादमूर्तत्वात्प्रवेशानुपपत्तिः । अन्नस्याचेतनस्य पलायनानुपपत्तिः । वागादीनां हस्तादिवद्वस्त्वादानासामर्थ्यात्तैर्जिघृक्षानुपपत्तिरिति सर्वमसङ्गतार्थमित्यर्थः ।