ऐतरेयोपनिषद्भाष्यम्
द्वितीयः अध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
अस्मिन्नध्याये एष वाक्यार्थः — जगदुत्पत्तिस्थितिप्रलयकृदसंसारी सर्वज्ञः सर्वशक्तिः सर्ववित्सर्वमिदं जगत्स्वतोऽन्यद्वस्त्वन्तरमनुपादायैव आकाशादिक्रमेण सृष्ट्वा स्वात्मप्रबोधनार्थं सर्वाणि च प्राणादिमच्छरीराणि स्वयं प्रविवेश ; प्रविश्य च स्वमात्मानं यथाभूतमिदं ब्रह्मास्मीति साक्षात्प्रत्यबुध्यत ; तस्मात्स एव सर्वशरीरेष्वेक एवात्मा, नान्य इति । अन्योऽपि ‘स म आत्मा ब्रह्मास्मीत्येवं विद्यात्’ इति ‘आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. उ. १ । १ । १) ‘ब्रह्म ततमम्’ (ऐ. उ. १ । ३ । १३) इति चोक्तम् । अन्यत्र च सर्वगतस्य सर्वात्मनो वालाग्रमात्रमप्यप्रविष्टं नास्तीति कथं सीमानं विदार्य प्रापद्यत पिपीलिकेव सुषिरम् ? नन्वत्यल्पमिदं चोद्यम् । बहु चात्र चोदयितव्यम् । अकरणः सन्नीक्षत । अनुपादाय किञ्चिल्लोकानसृजत । अद्भ्यः पुरुषं समुद्धृत्यामूर्छयत् । तस्याभिध्यानान्मुखादि निर्भिन्नं मुखादिभ्यश्चाग्न्यादयो लोकपालाः । तेषां चाशनायादिसंयोजनं तदायतनप्रार्थनं तदर्थं गवादिप्रदर्शनं तेषां च यथायतनप्रवेशनं सृष्टस्यान्नस्य पलायनं वागादिभिस्तज्जिघृक्षेति । एतत्सर्वं सीमाविदारणप्रवेशसममेव ॥

अस्मिन्नध्याय आत्मैकत्वलोकलोकपालसृष्ट्यशनायापिपासासंयोजनादीनां बहूनामर्थानामुक्तत्वात्सर्वेषामपि विवक्षितत्वशङ्कावारणाय विवक्षितमर्थमाह –

अस्मिन्निति ।

सर्वेष्वपि शरीरेष्वेक एवाऽऽत्मा स एव परमेश्वर इति वक्ष्यमाणोऽर्थ एतच्छब्दार्थः । वाक्यार्थ इति । विवक्षित इति शेषः ।

कथमयमेवार्थो विवक्षित इत्याशङ्क्य पूर्वसन्दर्भपर्यालोचनयेत्याह –

जगदित्यादिना ।

यद्यपि लोकादिसृष्ट्याऽन्नसृष्ट्या चोत्पत्तिस्थिती एवोक्ते तथाऽऽप्युत्पत्तिस्थित्युक्त्याऽर्थात्प्रलयोऽप्युक्तप्राय इति प्रलयकृदित्युक्तम् । लोकपालादीनामेव भोक्तृत्वोक्त्याऽसंसारीत्युक्तमित्यर्थः । सामान्यतः सर्वं जानातीति सर्वज्ञः । विशेषतः सर्वप्रकारेणापि सर्वं वेत्तीति सर्ववित् ।

सृष्ट्वेत्यन्तेन जगतस्तत्कार्यत्वात्तद्व्यतिरेकेण नास्तीत्युक्त्वा प्रत्यगात्मनस्तदभेदमाह –

स्वात्मेति ।

न केवलं प्रवेशोक्त्यैव तदभेदः किन्तु तदभेदज्ञानोक्तेश्चेत्याह –

प्रविश्य चेति ।

यस्मात्सर्वशरीरेष्वेकस्यैव प्रवेश उक्तः । यस्माच्च प्रविष्टस्य ब्रह्मतया ज्ञानमुक्तं तस्मात्सर्वशरीरेष्वेक एवाऽऽत्मा स च सर्वज्ञ ईश्वर एव नान्य इत्येष वाक्यार्थो विवक्षित इति पूर्वेणान्वयः ।

सम आत्मेति विद्यादिति संहितोपनिषद्गतवाक्यशेषोऽप्येतमेवार्थमाहेत्याह –

अन्योपीति ।

सम इति । सर्वभूतेष्वेक इत्यर्थः ।

स ईक्षतेत्यादिसन्दर्भादयमर्थः प्रतीयत इत्युक्तं पूर्वमिदानीमुपक्रमोपसंहाराभ्यामप्येष एवार्थः प्रतीयत इत्याह –

आत्मा वा इति ।

सदेव सोम्येदमग्र आसीत्तदेतद्ब्रह्मापूर्वमित्यादौ चाद्वितीयत्वमुक्तमित्याह –

अन्यत्र चेति ।

प्रवेशवाक्यादात्मन एकत्वमुक्तं तदयुक्तं तस्यैवासङ्गतार्थत्वादिति शङ्कते –

सर्वगतस्येति ।

अशरीरत्वाद्विदारयितृत्वं सर्वगतत्वात्प्रवेशश्च न सङ्गच्छत इत्यर्थः । किं प्रतीयमानार्थेऽसङ्गतत्वमुत विवक्षितार्थे । आद्ये सर्वस्याप्यसङ्गतार्थत्वेन सर्वस्याप्यप्रामाण्यं स्यात् ।

न च वेदस्य तद्युक्तमित्यभिप्रेत्याऽऽह –

नन्विति ।

चक्षुरादिकरणैरीक्षणं प्रसिद्धं मृदाद्युपादानवत एव स्त्रष्टृत्वं हस्ताभ्यामेव समुद्धरणसम्मूर्छने इत्यशरीरस्य तदसङ्गतम् । शस्त्रादिना मूर्तेन विदारणं न त्वमूर्ताध्यानान्मुखादिभ्योऽग्न्याद्युत्पत्तौ अस्य दाहादिः स्यात् । मूर्तस्यैवान्येन संयोजनं कर्तुं शक्यं नाशनायादेरमूर्तस्य । अग्न्यादीनां शरीरसृष्टेः पूर्वं प्रार्थनाया अयोगस्तदा गवादिशरीराभावात् । स्वयं चाशरीरत्वादानयनायोगः । तेषामशरीरत्वादमूर्तत्वात्प्रवेशानुपपत्तिः । अन्नस्याचेतनस्य पलायनानुपपत्तिः । वागादीनां हस्तादिवद्वस्त्वादानासामर्थ्यात्तैर्जिघृक्षानुपपत्तिरिति सर्वमसङ्गतार्थमित्यर्थः ।