ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥
अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात्अभिव्यज्यते किल प्रादेशमात्रपरिमाणः परमेश्वर उपासकानां कृतेप्रदेशविशेषेषु वा हृदयादिषूपलब्धिस्थानेषु विशेषेणाभिव्यज्यतेअतः परमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य आचार्यो मन्यते ॥ २९ ॥

अभिव्यक्तेरित्याश्मरथ्यः ।

साकल्येनोपलम्भासम्भवादुपासकानामनुग्रहायानन्तोऽपि परमेश्वरः प्रादेशमात्रमात्मानमभिव्यनक्तीत्याह -

अतिमात्रस्यापीति ।

अतिक्रान्तो मात्रां परिमाणमतिमात्रः ।

उपासकानां कृते ।

उपासकार्थमिति यावत् ।

व्याख्यान्तरमाह -

प्रदेशेषु वेति ॥ २९ ॥ ॥ ३० ॥