ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
प्राणभृच्च ॥ ४ ॥
यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वं चेतनत्वं सम्भवति, तथाप्युपाधिपरिच्छिन्नज्ञानस्य सर्वज्ञत्वाद्यसम्भवे सति अस्मादेवातच्छब्दात् प्राणभृदपि द्युभ्वाद्यायतनत्वेनाश्रयितव्यः चोपाधिपरिच्छिन्नस्याविभोः प्राणभृतो द्युभ्वाद्यायतनत्वमपि सम्यक्संभवतिपृथग्योगकरणमुत्तरार्थम् ॥ ४ ॥

प्राणभृच्च ।

चेनातच्छब्दत्वं हेतुरनुकृष्यते । स्वयं च भाष्यकृदत्र हेतुमाह -

न चोपाधिपरिच्छिन्नस्येति ।

न सम्यक्सम्भवति । नाञ्जसमित्यर्थः । भोग्यत्वेन हि आयतनत्वमिति क्लिष्टम् ।

स्यादेतत् । यद्यतच्छब्दत्वादित्यत्रापि हेतुरनुक्रष्टव्यः, हन्त कस्मात्पृथग्योगकरणं, यावता ‘न प्राणभृदनुमाने’ इत्येक एव योगः कस्मान्न कृत इत्यत आह -

पृथगिति ।

'भेदव्यपदेशात्” इत्यादिना हि प्राणभृदेव निषिध्यते, न प्रधानं, तच्चैकयोगकरणे दुर्विज्ञानं स्यादिति ॥ ४ ॥ ॥ ५ ॥