ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
प्रकरणात् ॥ ६ ॥
प्रकरणं चेदं परमात्मनःकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इत्येकविज्ञानेन सर्वविज्ञानापेक्षणात्परमात्मनि हि सर्वात्मके विज्ञाते सर्वमिदं विज्ञातं स्यात् , केवले प्राणभृति ॥ ६ ॥

प्रकरणात् ।

न खलु हिरण्यगर्भादिषु ज्ञातेषु सर्वं ज्ञातं भवति किन्तु ब्रह्मण्येवेति ॥ ६ ॥