ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
स्थित्यदनाभ्यां च ॥ ७ ॥
द्युभ्वाद्यायतनं प्रकृत्य, द्वा सुपर्णा सयुजा सखाया’ (मु. उ. ३ । १ । १) इत्यत्र स्थित्यदने निर्दिश्येते । ‘तयोरन्यः पिप्पलं स्वाद्वत्तिइति कर्मफलाशनम् । ‘अनश्नन्नन्योऽभिचाकशीतिइत्यौदासीन्येनावस्थानम्ताभ्यां स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञौ तत्र गृह्येतेयदि ईश्वरो द्युभ्वाद्यायतनत्वेन विवक्षितः, ततस्तस्य प्रकृतस्येश्वरस्य क्षेत्रज्ञात्पृथग्वचनमवकल्पतेअन्यथा ह्यप्रकृतवचनमाकस्मिकमसम्बद्धं स्यात्ननु तवापि क्षेत्रज्ञस्येश्वरात्पृथग्वचनमाकस्मिकमेव प्रसज्येत, तस्याविवक्षितत्वात्क्षेत्रज्ञो हि कर्तृत्वेन भोक्तृत्वेन प्रतिशरीरं बुद्ध्याद्युपाधिसम्बद्धः, लोकत एव प्रसिद्धः, नासौ श्रुत्या तात्पर्येण विवक्ष्यतेईश्वरस्तु लोकतोऽप्रसिद्धत्वाच्छ्रुत्या तात्पर्येण विवक्ष्यत इति तस्याकस्मिकं वचनं युक्तम् । ‘गुहां प्रविष्टावात्मानौ हिइत्यत्राप्येतद्दर्शितम् — ‘द्वा सुपर्णाइत्यस्यामृचि ईश्वरक्षेत्रज्ञावुच्येते इतियदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनास्यामृचि सत्त्वक्षेत्रज्ञावुच्येते, तदापि विरोधः कश्चित्कथम् ? प्राणभृद्धीह घटादिच्छिद्रवत् सत्त्वाद्युपाध्यभिमानित्वेन प्रतिशरीरं गृह्यमाणो द्युभ्वाद्यायतनं भवतीति निषिध्यतेयस्तु सर्वशरीरेषूपाधिभिर्विनोपलक्ष्यते, पर एव भवतियथा घटादिच्छिद्राणि घटादिभिरुपाधिभिर्विनोपलक्ष्यमाणानि महाकाश एव भवन्ति, तद्वत् प्राणभृतः परस्मादन्यत्वानुपपत्तेः प्रतिषेधो नोपपद्यतेतस्मात्सत्त्वाद्युपाध्यभिमानिन एव द्युभ्वाद्यायतनत्वप्रतिषेधःतस्मात्परमेव ब्रह्म द्युभ्वाद्यायतनम्तदेतत्अदृश्यत्वादिगुणको धर्मोक्तेःइत्यनेनैव सिद्धम्तस्यैव हि भूतयोनिवाक्यस्य मध्ये इदं पठितम् — ‘यस्मिन्द्यौः पृथिवी चान्तरिक्षम्इतिप्रपञ्चार्थं तु पुनरुपन्यस्तम् ॥ ७ ॥

स्थित्यदनाभ्यां च ।

यदि जीवो हिरण्यगर्भो वा द्युभ्वाद्यायतनं भवेत् , ततस्तत्प्रकृत्या “अनश्नन्नन्योऽअभिचाकशीति”(मु. उ. ३ । १ । १) इति परमात्माभिधानमाकस्मिकं प्रसज्येत । नच हिरण्यगर्भ उदासीनः, तस्यापि भोक्तृत्वात् । नच जीवात्मैव द्युभ्वाद्यायतनं, तथा सति स एवात्र कथ्यते, तत्कथनाय च ब्रह्मापि कथ्यते, अन्यथा सिद्धान्तेऽपि जीवात्मकथनमाकस्मिकं स्यादिति वाच्यम् ।

यतोऽनधिगतार्थावबोधनस्वरसेनाम्नायेन प्राणभृन्मात्रप्रसिद्धजीवात्माधिगमायात्यन्तानवगतमलौकिकं ब्रह्मावबोध्यत इति सुभाषितम् -

यदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनेति ।

तत्र हि “अनश्नन्नन्योऽअभिचाकशीति”(मु. उ. ३ । १ । १) इति जीव उपाधिरहितेन रूपेण ब्रह्मस्वभाव उदासीनोऽभोक्ता दर्शितः । तदर्थमेवाचेतनस्य बुद्धिसत्त्वस्यापारमार्थिकं भोक्तृत्वमुक्तम् । तथा चेत्थम्भूतं जीवं कथयतानेन मन्त्रवर्णेन द्युभ्वाद्यायतनं ब्रह्मैव कथितं भवति, उपाध्यवच्छिन्नश्च जीवः प्रतिषिद्धो भवतीति । न पैङ्गिब्राह्मणविरोध इत्यर्थः ।

प्रपञ्चार्थमिति ।

तन्मध्ये न पठितमिति कृत्वाचिन्तयेदमधिकरणं प्रवृत्तमित्यर्थः ॥ ७ ॥