ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥
इदं समामनन्तिभूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ।’ (छा. उ. ७ । २३ । १)यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्’ (छा. उ. ७ । २४ । १) इत्यादितत्र संशयःकिं प्राणो भूमा स्यात् , आहोस्वित्परमात्मेतिकुतः संशयः ? भूमेति तावद्बहुत्वमभिधीयतेबहोर्लोपो भू बहोः’ (पा. सू. ६ । ४ । १५८) इति भूमशब्दस्य भावप्रत्ययान्ततास्मरणात्किमात्मकं पुनस्तद्बहुत्वमिति विशेषाकाङ्क्षायाम् प्राणो वा आशाया भूयान्’ (छा. उ. ७ । १५ । १) इति सन्निधानात् प्राणो भूमेति प्रतिभातितथा श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदितिसोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) इति प्रकरणोत्थानात्परमात्मा भूमेत्यपि प्रतिभातितत्र कस्योपादानं न्याय्यम् , कस्य वा हानमिति भवति संशयःकिं तावत्प्राप्तम् ? प्राणो भूमेतिकस्मात् ? भूयः प्रश्नप्रतिवचनपरम्पराऽदर्शनात्यथा हिअस्ति भगवो नाम्नो भूयःइति, ‘वाग्वाव नाम्नो भूयसीइति; तथाअस्ति भगवो वाचो भूयःइति, ‘मनो वाव वाचो भूयःइति नामादिभ्यो हि प्राणात् भूयः प्रश्नप्रतिवचनप्रवाहः प्रवृत्तः नैवं प्राणात्परं भूयः प्रश्नप्रतिवचनं दृश्यते — ‘अस्ति भगवः प्राणाद्भूयःइति, ‘अदो वाव प्राणाद्भूयःइतिप्राणमेव तु नामादिभ्य आशान्तेभ्यो भूयांसम् — ‘प्राणो वा आशाया भूयान्इत्यादिना सप्रपञ्चमुक्त्वा, प्राणदर्शिनश्चातिवादित्वम्अतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीतइत्यभ्यनुज्ञाय, ‘एष तु वा अतिवदति यः सत्येनातिवदतिइति प्राणव्रतमतिवादित्वमनुकृष्य, अपरित्यज्यैव प्राणं सत्यादिपरम्परया भूमानमवतारयन्, प्राणमेव भूमानं मन्यत इति गम्यतेकथं पुनः प्राणे भूमनि व्याख्यायमानेयत्र नान्यत्पश्यतिइत्येतद्भूम्नो लक्षणपरं वचनं व्याख्यायेतेति, उच्यतेसुषुप्त्यवस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यवहारनिवृत्तिदर्शनात्सम्भवति प्राणस्यापियत्र नान्यत्पश्यतीतिएतल्लक्षणम्तथा श्रुतिः — ‘ शृणोति पश्यतिइत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्त्यवस्थामुक्त्वा, प्राणाग्नय एवैतस्मिन्पुरे जाग्रति’ (प्र. उ. ४ । ३) इति तस्यामेवावस्थायां पञ्चवृत्तेः प्राणस्य जागरणं ब्रुवती, प्राणप्रधानां सुषुप्त्यवस्थां दर्शयतियच्चैतद्भूम्नः सुखत्वं श्रुतम्यो वै भूमा तत्सुखम्’ (छा. उ. ७ । २३ । १) इति, तदप्यविरुद्धम्अत्रैष देवः स्वप्नान्न पश्यत्यथैतस्मिञ्शरीरे सुखं भवति’ (प्र. उ. ४ । ६) इति सुषुप्त्यवस्थायामेव सुखश्रवणात्यच्च यो वै भूमा तदमृतम्’ (छा. उ. ७ । २४ । १) इति, तदपि प्राणस्याविरुद्धम्प्राणो वा अमृतम्’ (बृ. उ. १ । ६ । ३) इति श्रुतेःकथं पुनः प्राणं भूमानं मन्यमानस्यतरति शोकमात्मवित्इत्यात्मविविदिषया प्रकरणस्योत्थानमुपपद्यते ? प्राण वेहात्मा विवक्षित इति ब्रूमःतथाहिप्राणो पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः’ (छा. उ. ७ । १५ । १) इति प्राणमेव सर्वात्मानं करोति, ‘यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितम्इति सर्वात्मत्वारनाभिनिदर्शनाभ्यां सम्भवति वैपुल्यात्मिका भूमरूपता प्राणस्यतस्मात्प्राणो भूमेत्येवं प्राप्तम्

भूमाधिकरणविषयाः

भूमा सम्प्रसादादध्युपदेशात् ।

नारदः खलु देवर्षिः कर्मविदनात्मवित्तया शोच्यमात्मानं मन्यमानो भगवन्तमात्मज्ञमाजानसिद्धं महायोगिनं सनत्कुमारमुपससाद । उपसद्य चोवाच , भगवन् , अनात्मज्ञताजनितशोकसागरपारमुत्तारयतु मां भगवानिति । तदुपश्रुत्य सनत्कुमारेण ‘नाम ब्रह्मेत्युपास्स्व’ इत्युक्ते नारदेन पृष्टं किंनाम्नोऽस्ति भूय इति । तत्र सनत्कुमारस्य प्रतिवचनम् - “वाग्वाव नाम्नो भूयसी”(छा. उ. ७ । २ । १) इति तदेवं नारदसनत्कुमारयोर्भूयसी । प्रश्नोत्तरे वागिन्द्रियमुपक्रम्य मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नतोयवायुसहिततेजोनभःस्मराशाप्राणेषु पर्यवसिते । कर्तव्याकर्तव्यविवेकः सङ्कल्पः, तस्य कारणं पूर्वापरविषयनिमित्तप्रयोजननिरूपणं चित्तम् । स्मरः स्मरणम् । प्राणस्य च समस्तक्रियाकारकफलभेदेन पित्राद्यात्मत्वेन च रथारनाभिदृष्टान्तेन सर्वप्रतिष्ठत्वेन च प्राणभूयस्त्वदर्शिनोऽतिवादित्वेन च नामादिप्रपञ्चादाशान्ताद्भूयस्त्वमुक्त्वापृष्ट एव नारदेन सनत्कुमार एकग्रन्थेन “एष तु वा अतिवदति यः सत्येनातिवदति”(छा. उ. ७ । १५ । १) इति सत्यादीन्कृतिपर्यन्तानुक्त्वोपदिदेश - “सुखं त्वेव विजिज्ञासितव्यम्”(छा. उ. ७ । २२ । १) इति । तदुपश्रुत्य नारदेन - “सुखं त्वेव भगवो विजिज्ञासे”(छा. उ. ७ । २१ । १) इत्युक्ते सनत्कुमारः “यो वै भूमा तत्सुखम्”(छा. उ. ७ । २३ । १) इत्युपक्रम्य भूमानं व्युत्पादयाम्बभूव - “यत्र नान्यत्पश्यति”(छा. उ. ७ । २४ । १) इत्यादिना । तदीदृशे विषये विचार आरभ्यते । तत्र संशयःकिं प्राणो भूमा स्यादाहो परमात्मेति । भावभवित्रोस्तादात्म्यविवक्षया सामानाधिकरण्यं संशयस्य बीजमुक्तं भाष्यकृता । तत्र “एतस्मिन् ग्रन्थसन्दर्भे यदुक्ताद्भूयसोऽन्यतः । उच्यमानं तु तद्भूय उच्यते प्रश्नपूर्वकम्” ॥ नच प्राणात्किं भूय इति पृष्टम् । नापि भूमा वास्माद्भूयानिति प्रत्युक्तम् । तस्मात्प्राणभूयस्त्वाभिधानानन्तरमपृष्ठेन भूमोच्यमानः प्राणस्यैव भवितुमर्हति । अपिच भूमेति भावो न भवितारमन्तरेण शक्यो निरूपयितुमिति भवितारमपेक्षमाणः प्राणस्यानन्तर्येण बुद्धिसंनिधानात्तमेव भवितारं प्राप्य निर्वृणोति । “यस्योभयं हविरार्तिमार्च्छेत्” इत्यत्रार्तिरिवार्तं हविः । यथाहुः “मृष्यामहे हविषा विशेषणम्” इति । न चात्मनः प्रकरणादात्मैव बुद्धिस्थ इति तस्यैव भूमा स्यादिति युक्तम् । सनत्कुमारस्य ‘नाम ब्रह्मेत्युपास्स्व’ इति प्रतीकोपदेशरूपेणोत्तरेण नारदप्रश्नस्यापि तद्विषयत्वेन परमात्मोपदेशप्रकरणस्यानुत्थानात् । अतद्विषयत्वे चोत्तरस्य प्रश्नोत्तरयोर्वैयधिकरण्येन विप्रतिपत्तेरप्रामाण्यप्रसङ्गात् । तस्मादसति प्रकरणे प्राणस्यानन्तर्यात्तस्यैव भूमेति युक्तम् । तदेतत्संशयबीजं दर्शयता भाष्यकारेण सूचितं पूर्वपक्षसाधनमिति न पुनरुक्तम् । नच भूयोभूयः प्रश्नात्परमात्मैव नारदेन जिज्ञासित इति युक्तम् । प्राणोपदेशानन्तरं तस्योपरमात् । तदेवं प्राण एव भूमेति स्थिते यद्यत्तद्विरोधितया वचः प्रतिभाति तत्तदनुगुणतया नेयम् । नीतं च भाष्यकृता ।

स्यादेतत् । “एष तु वा अतिवदति”(छा. उ. ७ । १७ । १) इति तुशब्देन प्राणदर्शिनोऽतिवादिनो व्यवच्छिद्य सत्येनातिवादित्वं वदन् कथं प्राणस्य भूमानमभिदधीतेत्यत आह -

प्राणमेव त्विति ।

प्राणदर्शिनश्चातिवादित्वमिति ।

नामाद्याशान्तमतीत्य वदनशीलत्वमित्यर्थः । एतदुक्तं भवति - नायं तुशब्दः प्राणातिवादित्वाद्वयवच्छिनत्ति, अपितु तदतिवादित्वमपरित्यज्य प्रत्युत तदनुकृष्य तस्यैव प्राणस्य सत्यस्य श्रवणमननश्रद्धानिष्ठाकृतिभिर्विज्ञानाय निश्चयाय सत्येनातिवदतीति प्राणव्रतमेवातिवादित्वमुच्यते । तुशब्दो नामाद्यतिवादित्वाद्व्यवच्छिनत्ति । न नामाद्याशान्तवाद्यतिवादि, अपितु सत्यप्राणवाद्यतिवादीत्यर्थः । अत्र चागमाचार्योपदेशाभ्यां सत्यस्य श्रवणम् । अथागमाविरोधिन्यायनिवेशनं मननं, मत्वा च गुरुशिष्यसब्रह्मचारिभिरनसूयुभिः सह संवाद्य तत्त्वं श्रद्धत्ते । श्रद्धानन्तरं च विषयान्तरदर्शी विरक्तस्ततो व्यावृत्तस्तत्त्वज्ञानाभ्यासं करोति, सेयमस्य कृतिः प्रयत्नः । अथ तत्त्वज्ञानाभ्यासनिष्ठा भवति, यदनन्तरमेव तत्त्वविज्ञानमनुभवः प्रादुर्भवति । तदेतद्बाह्या । अप्याहुः - “भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानम्” इति भावनाप्रकर्षस्य पर्यन्तो निष्ठा तस्माज्जायते तत्त्वानुभव इति । तस्मात्प्राण एव भूमेति प्राप्तेऽभिधीयते “एष तु वा अतिवदति यः सत्येनातिवदति”(छा. उ. ७ । १७ । १) इत्युक्त्वा भूमोच्यते । तत्र सत्यशब्दः परमार्थे निरूढवृत्तिः श्रुत्या परमार्थमाह । परमार्थश्च परमात्मैव । ततो ह्यन्यत्सर्वं विकारजातमनृतं कयाचिदपेक्षया कथञ्चित्सत्यमुच्यते । तथाच “एष तु वा अतिवदति यः सत्येनातिवदति”(छा. उ. ७ । १७ । १) इति ब्रह्मणोऽतिवादित्वं श्रुत्यान्यनिरपेक्षया लिङ्गादिभ्यो बलीयस्यावगमितं कथमिव संनिधानमात्रात् श्रुत्याद्यपेक्षादतिदुर्बलात्कथं चित्प्राणविषयत्वेन शक्यं व्याख्यातुम् । एवं च प्राणादूर्ध्वं ब्रह्मणि भूमावगम्यमानो न प्राणविषयो भवितुमर्हति, किन्तु सत्यस्य परमात्मन एव । एवं चानात्मविद आत्मानं विविदिषोर्नारदस्य प्रश्ने परमात्मानमेवास्मै व्याख्यास्यामीत्यभिसन्धिमान्सनत्कुमारः सोपानारोहणन्यायेन स्थूलादारभ्य तत्तद्भूमव्युत्पादनक्रमेण भूमानमतिदुर्ज्ञानतया परमसूक्ष्मं व्युत्पादयामास । नच प्रश्नपूर्वताप्रवाहपतितेनोत्तरेण सर्वेण प्रश्नपूर्वेणैव भवितव्यमिति नियमोऽस्तीत्यादिसुगमेन भाष्येण व्युत्पादितम् । विज्ञानादिसाधनपरम्परा मननश्रद्धादिः, प्राणान्ते चानुशासने तावन्मात्रेणैव प्रकरणसमाप्तेर्न प्राणस्यान्यायत्ततोच्येत । तदभिधाने हि सापेक्षत्वेन न प्रकरणं समाप्येत । तस्मान्नेदं प्राणस्य प्रकरणमपि तु यदायत्तः प्राणस्तस्य, स चात्मेत्यात्मन एव प्रकरणम् ।