ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
इतश्च प्रधानस्याव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं वा; यस्मात्त्रयाणामेव पदार्थानामग्निजीवपरमात्मनामस्मिन्ग्रन्थे कठवल्लीषु वरप्रदानसामर्थ्याद्वक्तव्यतयोपन्यासो दृश्यतेतद्विषय एव प्रश्नःनातोऽन्यस्य प्रश्न उपन्यासो वास्तितत्र तावत् त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्’ (क. उ. १ । १ । १३) इत्यग्निविषयः प्रश्नःयेयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैकेएतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति जीवविषयः प्रश्नःअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति परमात्मविषयःप्रतिवचनमपिलोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा’ (क. उ. १ । १ । १५) इत्यग्निविषयम्हन्त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्यथा मरणं प्राप्य आत्मा भवति गौतम ।’ (क. उ. २ । २ । ६)योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनःस्थाणुमन्येऽनुसंयन्ति थाकर्म यथाश्रुतम्’ (क. उ. २ । २ । ७) इति व्यवहितं जीवविषयम् जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) इत्यादिबहुप्रपञ्चं परमात्मविषयम्नैवं प्रधानविषयः प्रश्नोऽस्तिअपृष्टत्वाच्चानुपन्यसनीयत्वं तस्येति

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।

वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादवाक्यप्रवृत्तिरासमाप्तेः कठवल्लीनां लक्ष्यते । मृत्युः किल न चिकेतसे कुपितेन पित्रा प्रहिताय तुष्टस्त्रीन्वरान् प्रददौ । नचिकेतास्तु पथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम् , तृतीयेनात्मविद्याम् । “वराणामेष वरस्तृतीयः”(क. उ. १ । १ । २०) इति वचनात् ।

ननु तत्र वरप्रदाने प्रधानगोचरे स्तः प्रश्नप्रतिवचने । तस्मात्कठवल्लीष्वग्निजीवपरमात्मपरैव वाक्यप्रवृत्तिर्न त्वनुपक्रान्तप्रधानपरा भवितुमर्हतीत्याह -

इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वमिति ।

“हन्तः त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्”(क. उ. २ । २ । ६) इत्यनेन व्यवहितं जीवविषयं “यथा तु मरणं प्राप्यात्मा भवति गौतम” इत्यादिप्रतिवचनमिति योजना । अत्राह चोदकः - किं जीवपरमात्मनोरेक एव प्रश्नः, किं वान्यो जीवस्य “येयं प्रेते”(क. उ. १ । १ । २०) मनुष्य इति प्रश्नः, अन्यश्च परमात्मनः “अन्यत्र धर्मात्” (क. उ. १ । २ । १४) इत्यादिः । एकत्वे सूत्रविरोधस्त्रयाणमिति । भेदे तु सौमनस्यावाप्त्यग्न्यात्मज्ञानविषयवरत्रयप्रदानानन्तर्भावोऽन्यत्र धर्मादित्यादेः प्रश्नस्य । तुरीयवरान्तरकल्पनायां वा तृतीय इति श्रुतिबाधप्रसङ्गः । वरप्रदानानन्तर्भावे प्रश्नस्य तद्वत् प्रधानाख्यानमप्यनन्तर्भूतं वरप्रदानेऽस्तु “महतः परमव्यक्त” (क. उ. १ । ३ । ११) मित्याक्षेपः ।