ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥
इदं समामनन्तिभूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ।’ (छा. उ. ७ । २३ । १)यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्’ (छा. उ. ७ । २४ । १) इत्यादितत्र संशयःकिं प्राणो भूमा स्यात् , आहोस्वित्परमात्मेतिकुतः संशयः ? भूमेति तावद्बहुत्वमभिधीयतेबहोर्लोपो भू बहोः’ (पा. सू. ६ । ४ । १५८) इति भूमशब्दस्य भावप्रत्ययान्ततास्मरणात्किमात्मकं पुनस्तद्बहुत्वमिति विशेषाकाङ्क्षायाम् प्राणो वा आशाया भूयान्’ (छा. उ. ७ । १५ । १) इति सन्निधानात् प्राणो भूमेति प्रतिभातितथा श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदितिसोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) इति प्रकरणोत्थानात्परमात्मा भूमेत्यपि प्रतिभातितत्र कस्योपादानं न्याय्यम् , कस्य वा हानमिति भवति संशयःकिं तावत्प्राप्तम् ? प्राणो भूमेतिकस्मात् ? भूयः प्रश्नप्रतिवचनपरम्पराऽदर्शनात्यथा हिअस्ति भगवो नाम्नो भूयःइति, ‘वाग्वाव नाम्नो भूयसीइति; तथाअस्ति भगवो वाचो भूयःइति, ‘मनो वाव वाचो भूयःइति नामादिभ्यो हि प्राणात् भूयः प्रश्नप्रतिवचनप्रवाहः प्रवृत्तः नैवं प्राणात्परं भूयः प्रश्नप्रतिवचनं दृश्यते — ‘अस्ति भगवः प्राणाद्भूयःइति, ‘अदो वाव प्राणाद्भूयःइतिप्राणमेव तु नामादिभ्य आशान्तेभ्यो भूयांसम् — ‘प्राणो वा आशाया भूयान्इत्यादिना सप्रपञ्चमुक्त्वा, प्राणदर्शिनश्चातिवादित्वम्अतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीतइत्यभ्यनुज्ञाय, ‘एष तु वा अतिवदति यः सत्येनातिवदतिइति प्राणव्रतमतिवादित्वमनुकृष्य, अपरित्यज्यैव प्राणं सत्यादिपरम्परया भूमानमवतारयन्, प्राणमेव भूमानं मन्यत इति गम्यतेकथं पुनः प्राणे भूमनि व्याख्यायमानेयत्र नान्यत्पश्यतिइत्येतद्भूम्नो लक्षणपरं वचनं व्याख्यायेतेति, उच्यतेसुषुप्त्यवस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यवहारनिवृत्तिदर्शनात्सम्भवति प्राणस्यापियत्र नान्यत्पश्यतीतिएतल्लक्षणम्तथा श्रुतिः — ‘ शृणोति पश्यतिइत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्त्यवस्थामुक्त्वा, प्राणाग्नय एवैतस्मिन्पुरे जाग्रति’ (प्र. उ. ४ । ३) इति तस्यामेवावस्थायां पञ्चवृत्तेः प्राणस्य जागरणं ब्रुवती, प्राणप्रधानां सुषुप्त्यवस्थां दर्शयतियच्चैतद्भूम्नः सुखत्वं श्रुतम्यो वै भूमा तत्सुखम्’ (छा. उ. ७ । २३ । १) इति, तदप्यविरुद्धम्अत्रैष देवः स्वप्नान्न पश्यत्यथैतस्मिञ्शरीरे सुखं भवति’ (प्र. उ. ४ । ६) इति सुषुप्त्यवस्थायामेव सुखश्रवणात्यच्च यो वै भूमा तदमृतम्’ (छा. उ. ७ । २४ । १) इति, तदपि प्राणस्याविरुद्धम्प्राणो वा अमृतम्’ (बृ. उ. १ । ६ । ३) इति श्रुतेःकथं पुनः प्राणं भूमानं मन्यमानस्यतरति शोकमात्मवित्इत्यात्मविविदिषया प्रकरणस्योत्थानमुपपद्यते ? प्राण वेहात्मा विवक्षित इति ब्रूमःतथाहिप्राणो पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः’ (छा. उ. ७ । १५ । १) इति प्राणमेव सर्वात्मानं करोति, ‘यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितम्इति सर्वात्मत्वारनाभिनिदर्शनाभ्यां सम्भवति वैपुल्यात्मिका भूमरूपता प्राणस्यतस्मात्प्राणो भूमेत्येवं प्राप्तम्

आत्मशब्दाद्द्युभ्वाद्यायतनं ब्रह्मेत्युक्तं, तत्रात्मशब्दः ‘तरति शोकमात्मवित् ‘ इत्यत्र ब्रह्मणि प्राणे प्रयोगादनैकान्तिकः स्यादित्याशङ्क्याह —

भूमेति ।

पूर्णसुखात्मनि निर्विशेषे ब्रह्मणि भूमविद्याश्रुतेरन्वयोक्तेः सङ्गतिरिति मत्वा छान्दोग्यवाक्यं पठति —

इदमिति ।

नाल्पे सुखमस्ति भूमैव सुखं, तस्मान्निरतिशयं सुखमिच्छता भूमैव विशेषेण ज्ञातुमेष्टव्यो न परिच्छिन्नमिति सनत्कुमारोक्तिमादत्ते —

भूमा त्विति ।

तदुपश्रुत्य नारदो भगवन् , भूमानमेव विशेषेण ज्ञातुमिच्छामीति पृच्छति सनत्कुमारम् —

भूमानमिति ।

भूम्नो लक्षणमाह —

यत्रेति ।

व्यवहारातीतं पूर्णं वस्तु भूमेत्यर्थः ।

लक्षणं व्यतिरेकेण स्फोरयितुं परिच्छिन्नस्य लक्षणमाह —

अथेति ।

अन्वयवद्व्यतिरेकस्यापीष्टसिद्धौ हेतुत्वद्योतकोऽथशब्दः । आदिपदं ‘यो वै भूमा तदमृतम् ‘ इत्यादिसङ्ग्रहार्थम् ।

उक्ते वाक्ये भूम्नि संशयमाह —

तत्रेति ।

निर्बीजे संशयेऽतिप्रसङ्गात्पृच्छति —

कुत इति ।

तत्र हेतुं वक्तुं भूमशब्दार्थमाह —

भूमेतीति ।

बहोर्भाव इति विग्रहे ‘पृथ्वादिभ्य इमनिज्वा’ इतीमन्प्रत्यये कृते ‘बहोर्लोपो भू च बहोः’ इति सूत्रेण बहोरुत्तरस्येमन्प्रत्ययस्येकारलोपे बहोः स्थाने भूशब्दादेशे च भूमन्निति प्रातिपदिकं सिध्यति । तस्य च भावार्थे विहितेमन्प्रत्ययान्तत्वाद्बहुत्ववाचितेत्यर्थः ।

तथापि संशये को हेतुरित्याशङ्क्यावान्तरप्रकरणं महाप्रकरणं चेत्याह —

किमित्यादिना ।

तथा सन्निधानात्प्राणभानवदित्यर्थः । भावभवित्रोस्तादात्म्यविवक्षया प्राणो भूमा परमात्मा भूमेति सामानाधिकरण्यम् ।

सत्यां सामग्र्यां कार्यसिद्धिमाह —

तत्रेति ।

आकाङ्क्षापूर्वकं पूर्वपक्षं गृह्णाति —

किमिति ।

पूर्वपक्षे प्राणोपास्तिरुत्तरपक्षे परमात्मधीरिति फलम् ।

अवान्तरप्रकरणस्य सन्निहितत्वेऽपि महाप्रकरणशेषत्वेन दुर्बलत्वान्न प्राणस्य प्रमेयतेत्याह —

कस्मादिति ।

महाप्रकरणादवान्तरप्रकरणस्य प्राबल्यार्थं लिङ्गमाह —

भूय इति ।

प्राणादूर्ध्वं महत्तरार्थविषयत्वेन प्रश्नस्य प्रतिवचनस्य वाऽदृष्टेरित्यर्थः ।

अन्यत्र तदभावेऽपि मेयभेदधीवदत्रापि स्यादित्याशङ्क्यास्मिन्प्रकरणे तयोः सतोरेवार्थभेदभानान्मैवमित्याह —

यथेति ।

दृष्टिविषयत्वेन निषेध्यं प्रश्नादिकमभिनयति —

अस्तीति ।

ननु ‘एष तु वा अतिवदति’ इति तुशब्देन प्राणविदोऽतिवादित्वं व्यावर्त्य, ‘यः सत्येनातिवदति’ इति सत्येनातिवदनं वदन्प्राणं भूमानं न मृश्यते, तत्राह —

प्राणमिति ।

अतिवादित्वलिङ्गेन प्राणस्य प्रत्यभिज्ञानात् , एष इति प्रकृताकर्षणात्प्रकरणाविच्छेदात् , अतिवादित्वे सत्यशब्दस्य सत्यवदनगुणविधायकत्वात् , तुशब्दस्यापि नामाद्याशान्तवादिनोऽतिवादित्वव्यावर्तकत्वात्प्राणं गृहीत्वैव सत्यादिद्वारा भूम्नोऽवतारात्तस्यैव भूमतेत्यर्थः ।

प्राणपक्षे लक्षणविरोधं शङ्कते —

कथमिति ।

अवस्थाविशेषमाश्रित्याह —

उच्यत इति ।

लोकप्रसिद्ध्या सम्भावितं श्रुत्या स्पष्टयति —

तथा चेति ।

‘गार्हपत्यो ह वा एषोऽपानः' इत्यादिनाऽग्नित्वेन निरूपितत्वात्प्राणा एवाग्नयः । ते च पुरे शरीरेऽभिमानतो गृहीते स्वापेऽपि व्यापारवन्तो भवन्तीत्यर्थः । यद्वा तत्राप्यात्मन्येव लक्षणं तस्यास्तत्प्राधान्यादित्याशङ्क्य तथा चेत्यादि योज्यम् ।

‘यो वै भूमा तत्सुखम् ‘ इति प्राणपक्षे कथं निर्वक्ष्यते, तत्राह —

यच्चेति ।

यस्यामवस्थायामेष देवो बुद्ध्याद्युपाधिको जीवः स्वप्नानुच्चावचान्नोपलभते, तदा यत्सुखं यदस्मिञ्शरीरे भवति, नोपायान्तरसाध्यमिति श्रुत्यर्थः । सुषुप्तेश्च प्राणप्राधान्यात्तस्यैव तत्सुखमिति शेषः ।

भूम्नोऽमृतत्वश्रुत्या प्राणादर्थान्तरत्वं, प्राणस्याल्पत्वेन मर्त्यत्वादित्याशङ्क्याह —

यच्चेति ।

प्राणे भूम्नि प्रकरणविरोधं शङ्कते —

कथमिति ।

प्राणस्यैवात्रात्मत्वान्न तद्विरोधोऽस्तीत्याह —

प्राण एवेति ।

सम्भवति मुख्येऽर्थे किमित्यात्मशब्देन गौणार्थग्रहणमित्याशङ्क्य सार्वात्म्यादात्मशब्दस्तत्र मुख्य एवेत्याह —

तथा हीति ।

प्राणस्य सर्वकल्पनाधिष्ठानत्वाच्च मुख्यात्मत्वमित्याह —

यथेति ।

तथापि परमात्मैव सर्वकारणत्वान्मुख्यो भूमा, प्राणस्तु नैवमित्याशङ्क्याह —

सर्वेति ।

प्राणस्य सिद्धे भूमत्वे तदुपास्तिपरं भूमवाक्यमित्युपसंहरति —

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तयति —

एवमिति ।