ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥
तत इदमुच्यतेपरमात्मैवेह भूमा भवितुमर्हति, प्राणःकस्मात् ? सम्प्रसादादध्युपदेशात्सम्प्रसाद इति सुषुप्तं स्थानमुच्यते; सम्यक्प्रसीदत्यस्मिन्निति निर्वचनात्बृहदारण्यके स्वप्नजागरितस्थानाभ्यां सह पाठात्तस्यां सम्प्रसादावस्थायां प्राणो जागर्तीति प्राणोऽत्र सम्प्रसादोऽभिप्रेयतेप्राणादूर्ध्वं भूम्न उपदिश्यमानत्वादित्यर्थःप्राण एव चेद्भूमा स्यात् , एव तस्मादूर्ध्वमुपदिश्येतेत्यश्लिष्टमेवैतत्स्यात् हि नामैवनाम्नो भूयःइति नाम्न ऊर्ध्वमुपदिष्टम्किं तर्हि ? नाम्नोऽन्यदर्थान्तरमुपदिष्टं वागाख्यम्वाग्वाव नाम्नो भूयसीइतितथा वागादिभ्योऽपि प्राणादर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्टम्तद्वत्प्राणादूर्ध्वमुपदिश्यमानो भूमा प्राणादर्थान्तरभूतो भवितुमर्हतिनन्विह नास्ति प्रश्नः — ‘अस्ति भगवः प्राणाद्भूयःइतिनापि प्रतिवचनमस्तिप्राणाद्वाव भूयोऽस्तिइति; कथं प्राणादधि भूमोपदिश्यत इत्युच्यते ? प्राणविषयमेव चातिवादित्वमुत्तरत्रानुकृष्यमाणं पश्यामः — ‘एष तु वा अतिवदति यः सत्येनातिवदतिइतितस्मान्नास्ति प्राणादध्युपदेश इतिअत्रोच्यते तावत्प्राणविषयस्यैवातिवादित्वस्यैतदनुकर्षणमिति शक्यं वक्तुम् , विशेषवादात्यः सत्येनातिवदतिइतिननु विशेषवादोऽप्ययं प्राणविषय एव भविष्यतिकथम् ? यथाएषोऽग्निहोत्री, यः सत्यं वदतिइत्युक्ते, सत्यवदनेनाग्निहोत्रित्वम्केन तर्हि ? अग्निहोत्रेणैव; सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यतेतथाएष तु वा अतिवदति, यः सत्येनातिवदतिइत्युक्ते, सत्यवदनेनातिवादित्वम्केन तर्हि ? प्रकृतेन प्राणविज्ञानेनैवसत्यवदनं तु प्राणविदो विशेषो विवक्ष्यत इतिनेति ब्रूमः; श्रुत्यर्थपरित्यागप्रसङ्गात्श्रुत्या ह्यत्र सत्यवदनेनातिवादित्वं प्रतीयते — ‘यः सत्येनातिवदति सोऽतिवदतिइतिनात्र प्राणविज्ञानस्य सङ्कीर्तनमस्तिप्रकरणात्तु प्राणविज्ञानं सम्बध्येततत्र प्रकरणानुरोधेन श्रुतिः परित्यक्ता स्यात्प्रकृतव्यावृत्त्यर्थश्च तुशब्दो सङ्गच्छेत — ‘एष तु वा अतिवदतिइतिसत्यं त्वेव विजिज्ञासितव्यम्’ (छा. उ. ७ । १६ । १) इति प्रयत्नान्तरकरणमर्थान्तरविवक्षां सूचयतितस्माद्यथैकवेदप्रशंसायां प्रकृतायाम् , ‘एष तु महाब्राह्मणः, यश्चतुरो वेदानधीतेइत्येकवेदेभ्योऽर्थान्तरभूतश्चतुर्वेदः प्रशस्यते, तादृगेतद्द्रष्टव्यम् प्रश्नप्रतिवचनरूपयैवार्थान्तरविवक्षया भवितव्यमिति नियमोऽस्ति; प्रकृतसम्बन्धासम्भवकारितत्वादर्थान्तरविवक्षायाःतत्र प्राणान्तमनुशासनं श्रुत्वा तूष्णींभूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयतियत्प्राणविज्ञानेन विकारानृतविषयेणातिवादित्वमनतिवादित्वमेव तत् — ‘एष तु वा अतिवदति, यः सत्येनातिवदतिइतितत्र सत्यमिति परं ब्रह्मोच्यते, परमार्थरूपत्वात्; सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति श्रुत्यन्तरात्तथा व्युत्पादिताय नारदायसोऽहं भगवः सत्येनातिवदानिइत्येवं प्रवृत्ताय विज्ञानादिसाधनपरम्परया भूमानमुपदिशतितत्र त्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातम् , तदेवेह भूमेत्युच्यत इति गम्यतेतस्मादस्ति प्राणादधि भूम्न उपदेश इतिअतः प्राणादन्यः परमात्मा भूमा भवितुमर्हतिएवं चेहात्मविविदिषया प्रकरणस्योत्थानमुपपन्नं भविष्यतिप्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते हि प्राणस्य मुख्यया वृत्त्यात्मत्वमस्ति चान्यत्र परमात्मज्ञानाच्छोकविनिवृत्तिरस्ति, नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ६ । १५) इति श्रुत्यन्तरात्तं मा भगवाञ्शोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) इति चोपक्रम्योपसंहरतितस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ (छा. उ. ७ । २६ । २) इतितम इति शोकादिकारणमविद्योच्यतेप्राणान्ते चानुशासने प्राणस्यान्यायत्ततोच्येतआत्मतः प्राणः’ (छा. उ. ७ । २६ । १) इति ब्राह्मणम्प्रकरणान्ते परमात्मविवक्षा भविष्यति; भूमा तु प्राण एवेति चेत् , ; भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा. उ. ७ । २४ । १) इत्यादिना भूम्न एव प्रकरणसमाप्तेरनुकर्षणात्वैपुल्यात्मिका भूमरूपता सर्वकारणत्वात्परमात्मनः सुतरामुपपद्यते ॥ ८ ॥

तत्र प्रतिज्ञां व्याकरोति —

परमात्मेति ।

प्राणो भूमेत्युक्तत्वान्नेयं प्रतिज्ञेति शङ्कते —

कस्मादिति ।

सौत्रं हेतुमादत्ते —

सम्प्रसादादिति ।

‘एष सम्प्रसादः’ इति सम्प्रसादशब्दास्य जीवार्थत्वादत्रापि तस्मात्परत्वोक्त्या न प्राणप्रत्युक्तिरित्याशङ्क्य सम्प्रसादशब्दस्य विवक्षितं वक्तुं प्रसिद्धमर्थमाह —

सम्प्रसाद इति ।

जीवे सुप्तौ च शक्तिकल्पनायां गौरवं शङ्कित्वोक्तम् —

सम्यगिति ।

न केवलं निरुक्त्या सम्प्रसादशब्दः स्वापविषयः, किन्तु ‘स एष एतस्मिन्सम्प्रसादे रत्वा’ इत्यादिप्रयोगादपीत्याह —

बृहदिति ।

तर्हि स्वापादुपर्युपदेशस्ततोऽन्यस्य प्राणस्यापि स्यादित्याशङ्क्यावस्थावाचिशब्दस्य लक्षणया प्राणविषयत्वमाह —

तस्यांं चेति ।

सम्प्रसादशब्दस्य लाक्षणिकार्थग्रहे सिद्धं हेत्वर्थमाह —

प्राणादिति ।

भूम्नो धर्म्याकाङ्क्षायां ब्रह्मणः सत्यस्याधिकारात्तदेव सम्बध्यत इति भावः ।

प्राणे हेतोरयोगमाह —

प्राण इति ।

दृष्टान्तद्वारोक्तं व्यनक्ति —

न हीति ।

अस्मिन्प्रकरणे यस्मादूर्ध्वं यो निर्दिश्यते स ततोऽतिरिच्यते, प्राणाच्चोपरिष्टादुपदिष्टो भूमेति सोऽपि ततोऽन्यः स्यादिति भावः । तत्र तत्रेति पर्यायभेदोक्तिः ।

हेत्वसिद्धिं शङ्कते —

नन्विति ।

प्रतिवचनद्वारा प्रश्नकल्पनामाशङ्क्योक्तम् —

नापीति ।

स्वपक्षे पूर्वपक्षी हेतोः सत्त्वमाह —

प्राणेति ।

सिद्धान्ते हेत्वसिद्धिं निगमयति —

तस्मादिति ।

सिद्धान्ती हेतुसमर्थनार्थमाह —

अत्रेति ।

तत्र परकीयहेतुं निरस्यति —

न तावदिति ।

एवशब्दस्य यच्छब्दपारतन्त्र्यान्न प्रकृतप्राणपरामर्शित्वमतोऽवान्तरप्रकरणं विच्छिन्नमित्युक्ते शङ्कते —

नन्विति ।

सत्यस्य प्रधानत्वाद्विशेषवादस्य तद्विषयत्वमेव न प्राणविषयतेत्याह —

कथमिति ।

सत्यशब्दो यथार्थोक्तिवाचीत्यङ्गीकृत्य दृष्टान्तेन प्रत्याह —

यथेति ।

तृतीयाश्रुत्या साधकतमार्थया सत्यज्ञानेनातिवादित्वान्तरविधानात्प्रकरणेन श्रुत्यर्थपरित्यागासिद्धिरित्याह —

नेतीति ।

श्रुत्यर्थमेव स्फुटयति —

श्रुत्येति ।

वाक्यमत्रेत्युक्तम् ।

अतिवादित्वलिङ्गप्रत्यभिज्ञातप्राणस्यैव प्रतिपाद्यत्वे सत्यशब्दस्तदीयगुणविधायकः स्यादित्युक्तमित्याशङ्क्याह —

नेति ।

अतिवादित्ववाक्यं सप्तम्यर्थः ।

का तर्हि प्राणविज्ञानस्य प्रसक्तिः, तत्राह —

प्रकरणात्त्विति ।

सम्बध्येत अतिवादित्वे हेतुत्वेनेति शेषः ।

प्रकरणस्य प्रमाणत्वात्तत्कृतोऽपि सम्बन्धोऽनुरोद्धव्य इत्याशङ्क्याह —

तत्रेति ।

न परं प्रकरणानुरोधेन तृतीयाश्रुतिर्विरुध्येत किन्तु तुशब्दश्चेत्याह —

प्रकृतेति ।

न च लिङ्गोपेतप्रकरणं श्रुतिमात्राद्बलीयः, लिङ्गस्यातद्विषयोक्तेरिति भावः ।

यत्तु सत्यशब्दस्य गुणविधिपरत्वं, तन्न, वाक्यान्तरविरोधादित्याह —

सत्यं त्विति ।

तुशब्देनाङ्गविशेषविधिः सूच्यते किंवा प्रकृतव्यावृत्तिरिति सन्देहापोहार्थमाह —

तस्मादिति ।

अवान्तराधिकारविच्छेदादिति हेत्वर्थः ।

प्राणादेरर्थान्तरं सत्यं प्रशंसितुं सत्यज्ञानेनातिवादित्वमुक्तमित्याह —

तादृगिति ।

यत्तूक्तं प्राणादधि भूयःप्रश्नप्रत्युक्ती नेति, तत्राह —

न चेति ।

किं तर्हि कारणमर्थान्तरविवक्षायामित्याशङ्क्याह —

प्रकृतेति ।

असति प्रकृतसम्बन्धायोगे सतोरपि प्रश्नप्रतिवचनयोरर्थैक्यस्य मैत्रेय्यादौ दृष्टत्वात् , तदभावेऽपि प्रकृतसम्बन्धायोगे तद्भेदस्य दर्शनात् , प्रश्नादिसत्त्वमर्थान्तरत्वानिमित्तमिति भावः ।

‘नापृष्टः कस्यचिद्ब्रूयात् ‘ इति स्मृतेरप्रश्ने प्रत्युक्तिरयुक्तेत्याशङ्क्यापृष्टेनापि बोधनीयः शिष्यो जिज्ञासुरिति मत्वाह —

तत्रेति ।

वाक्यं सप्तम्यर्थः ।

परस्मिन्ब्रह्मणि सत्यशब्दस्य प्रयुक्तपूर्वकत्वाच्च तद्विषयतेत्याह —

सत्यमिति ।

तथापि विज्ञानमननश्रद्धानिष्ठाकृतीनामन्यतमो भूमा, न सत्यं ब्रह्मेत्याशङ्क्याह —

तथेति ।

तेषां साधनत्वादेव फलभूतभूमतासिद्धिरित्यर्थः ।

तथापि कथं सत्यस्यैव तथात्वमत आह —

तत्रेति ।

हेतूक्तिद्वारा भूमोपदेशे प्रस्तुते सतीत्यर्थः । इहेति वाक्योक्तिः ।

हेत्वसिद्धिमुद्धृत्य फलितमाह —

तस्मादिति ।

परात्मा भूमेत्यत्र महाप्रकरणमनुगृहीतमिति हेत्वन्तरमाह —

एवं चेति ।

यत्तु प्राणविषयत्वमात्मशब्दस्योक्तं तदनूद्य दूषयति —

प्राण इति ।

शोकनिवृत्तिवाक्यमिहेत्युक्तम् ।

विशिष्टफलदृष्टेरपि परात्मैवात्मशब्दार्थो न प्राण इत्याह —

न चेति ।

नात्र मुख्यं शोकतरणं किन्त्वौपचारिकमित्याशङ्क्योपक्रमोपसंहारैकरूप्यान्मैवमित्याह —

तमिति ।

उपक्रमे शोकस्योपसंहारे तमसो निवृत्तिवचनाद्विप्रतिपत्तिमाशङ्क्याह —

तम इतीति ।

कारणनिवृत्त्या कार्यनिवृत्तिरुपसंहारे कार्यनिवृत्त्या कारणनिवृत्तिरुपक्रमे विवक्षितेत्यविप्रतिपत्तिरित्यर्थः ।

किञ्च प्राणो यदायत्तस्तस्येदं प्रकरणमित्यात्मैव प्रकरणी भूमेत्याह —

प्राणान्ते चेति ।

प्राणस्यान्यायत्ततैव कुतोऽत्रोच्यते, तत्राह —

आत्मत इति ।

प्राणाधिकारसमाप्तौ परात्मवचनात्पूर्वोक्तस्य भूम्नो न परमात्मतेति शङ्कते —

प्रकरणेति ।

भूम्न एव सर्वनाम्नानुकर्षणाद्वाक्यशेषस्यापि तदर्थत्वात्तस्यैवेदं प्रकरणमिति न प्राणस्य भूमतेत्याह —

नेत्यादिना ।

किञ्च भूमरूपतापि प्राणे न मुख्येत्याह —

वैपुल्येति ।

प्राणस्य स्वविकारापेक्षया भूमत्वेऽपि न मुख्यमिति वक्तुं सुतरामित्युक्तम् ॥ ८ ॥