परो भूमेत्यत्र लिङ्गान्तरमाह —
धर्मेति ।
सूत्रं व्याकरोति —
अपि चेति ।
उपपत्तिं दर्शयितुं भूम्नि दर्शनाद्यभावं दर्शयति —
यत्रेति ।
कथमेतावता परात्मधीः, तत्राह —
परमात्मनीति ।
प्राणेऽपि तदुपपत्तिरुक्तेत्याशङ्क्याह —
योऽपीति ।
उक्तो ‘न श्रृणोति’ इत्यादिनेति शेषः ।
प्राणस्वभावविवक्षया तस्यानुक्तत्वे हेतुमाह —
परमात्मेति ।
तत्प्रकरणे ‘न शृणोति’ इत्यादेरुक्तेरित्यर्थः । स्वप्नजागरितयोः सति मनसि दर्शनादिव्यवहारात्तदभावे स्वापे तदभावादन्वयव्यतिरेकाभ्यां मनोधीनो दर्शनादिर्नात्मकृतः । स तु स्वतोऽलिङ्गं इति मत्वा ‘न शृणोति’ इत्यादिना सर्वव्यवहाराभावः सुषुप्तावुक्तो न प्राणविवक्षया परप्रकरणविरोधादित्यर्थः ।
भूम्नः श्रुुतं सुखत्वं प्राणेऽपि स्यादित्युक्तं प्रत्याह —
यदपीति ।
तस्य सुखत्वे मानमाह —
यत इति ।
इतश्चात्मन एव सुखत्वमित्याह —
इहापीति ।
तस्यैव सुखत्वं प्रतियोगिप्रत्युक्त्या स्फुटयति —
नेति ।
उक्तश्रुतेरर्थमाह —
सामयेति ।
आमयेन दुःखेन सहितं सामयम् ।
धर्मद्वयमुक्त्वा धर्मान्तरमाह —
यो वा इति ।
प्राणस्यापि दर्शितममृतत्वमित्याशङ्क्याह —
विकाराणामिति ।
इतश्च न प्राणस्य मुख्यममृतत्वमित्याह —
अत इति ।
आर्तमार्तिग्रस्तम् । नाशीति यावत् ।
प्रकृतोपयुक्तानि धर्मान्तराण्याह —
तथेति ।
‘स एवाधस्तात्स उपरिष्टात्’ इत्यादिना सर्वगतत्वं, ‘स एवेदं सर्वम् ‘ इति सर्वात्मत्वमुक्तम् ।
श्रुतिलिङ्गप्रकरणेभ्यो भूमा परमात्मेति तत्प्रतिपत्त्यर्थं भूमवाक्यमित्युपसंहरति —
तस्मादिति ॥ ९ ॥