भूम्नि श्रुतधर्माणां परत्रोपपत्त्या परो भूमेत्युक्तम् । अधुना तेनैव न्यायेनाक्षरे श्रुतजगद्विधारणस्य परस्मिन्नुपपत्तेरक्षरं परं ब्रह्मेत्याह —
अक्षरमिति ।
बृहदारण्यकवाक्यं पठति —
कस्मिन्निति ।
यदूर्ध्वं दिवो यदधस्तात्पृथिव्या ये चोभे द्यावापृथिव्यौ यदन्तरिक्षं यद्भूतं भवद्भविष्यच्च तत्सर्वं कस्मिन्नोतं प्रोतं चेति प्रश्ने याज्ञवल्क्येनाकाशे तदोतं च प्रोतं चेति निरस्ते, गार्गी पुनरपृच्छत् , आकाशोऽव्याकृताख्यः कस्मिन्नोतप्रोतत्वेन तिष्ठतीति । याज्ञवल्क्यस्त्वाह, हे गार्गि, यत्त्वया पृष्टमाकाशस्याधिकरणं तदेतदक्षरमस्थूलादिविशेषणं ब्रह्मविदो वदन्तीत्युदाहरणार्थः ।
उभयत्राक्षरशब्दप्रयोगप्रतीत्या संशयमाह —
तत्रेति ।
सत्यशब्दस्य ब्रह्मणि मुख्यत्वात्परो भूमेत्युक्तत्वादत्राप्यक्षरशब्दस्य वर्णे मुख्यत्वादोङ्कार एवाक्षरमिति पूर्वपक्षयति —
तत्रेत्यादिना ।
अक्षरब्राह्मणस्य निर्विशेषे ब्रह्मण्यन्वयोक्तेः सङ्गतयः । ओङ्कारोपास्तिर्ब्रह्मधीरित्युभयत्र फलम् ।
न क्षरतीत्यक्षरमित्यवयवप्रसिद्ध्या परस्मिन्नपि शब्दोपपत्तिमाशङ्क्य ‘रूढिर्योगमपहरति’ इति न्यायेनाह —
प्रसिद्धीति ।
वर्णपक्षे तस्याम्बरान्तधारणायोगादपुमर्थत्वाच्च तद्ध्यानाद्ब्रह्मैव ग्राह्यमित्याशङ्क्याह —
ओङ्कार इति ।
उपास्तिद्वारा पुमर्थत्वे सिद्धे, अभिधेयस्य च गौरयं वृक्षोऽयमिति शब्दसामानाधिकारण्यात् , धूमाग्निवदुपायोपेयतामात्रेण तदयोगात् , अतदुपाये लिङ्गाद्युत्थज्ञाने नामसम्भेदादभिधानाभिधेययोरैक्यात् , ओङ्कारमात्रतायाश्च सर्वस्य श्रुतत्वात्तदुक्तिरित्यर्थः ।
रूढेरिदं ब्राह्मणमोङ्कारोपास्तिपरमित्युपसंहरति —
वर्ण इति ।
पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां व्याकरोति —
एवमिति ।
रूढेरोङ्कारविषयत्वमक्षरशब्दस्योक्तं, तत्कथं प्रतिज्ञेत्याह —
कस्मादिति ।
हेतुमुक्त्वा व्याकरोति —
अम्बरान्तेति ।
आकाशस्यैव प्रश्ने श्रवणात्तदधिकरणं पृष्टं न पृथिव्यादेरित्याशङ्क्याह —
तत्रेति ।
तथापि रूढिर्योगाद्बलीयसीत्युक्तमित्याशङ्क्य तात्पर्यवदम्बरान्तधृतिलिङ्गसङ्गतयोगवृत्तिर्बलीयसीत्युपेत्योपक्रमोपसंहारयोरैकरूप्यावगमात्तात्पर्यसिद्धिरित्याह —
तथा चेति ।
लिङ्गस्यान्यथासिद्धिं प्रत्याह —
न चेति ।
ओङ्कारस्य सर्वात्मत्वश्रुतेस्तत्र सम्भवति लिङ्गमित्याशङ्क्याह —
यदपीति ।
स्वरूपभेदादुपायोपेयभेदादर्थक्रियाभेदाच्च शब्दार्थयोरभेदासिद्धिरित्यर्थः ।
प्रकृते रूढेर्योगस्य बलीयस्त्वे फलितमाह —
तस्मान्नेति ॥ १० ॥