उत्तरसूत्रापोह्यं चोद्यमाह —
स्यादिति ।
केयमम्बरान्तधृतिस्तन्निमित्तत्वं तदुपादानत्वं वा । नाद्यः, घटकुलालवदाश्रयाश्रयित्वायोगात् । द्वितीये व्यभिचारादसाधकतेति मत्वा फलितमाह —
कथमिति ।
सूत्रमवतारयति —
अत इति ।