ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
सा च प्रशासनात् ॥ ११ ॥
सा अम्बरान्तधृतिः परमेश्वरस्यैव कर्मकस्मात् ? प्रशासनात्प्रशासनं हीह श्रूयतेएतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ (बृ. उ. ३ । ८ । ९) इत्यादिप्रशासनं पारमेश्वरं कर्म अचेतनस्य प्रशासनं सम्भवति ह्यचेतनानां घटादिकारणानां मृदादीनां घटादिविषयं प्रशासनमस्ति ॥ ११ ॥

प्रतिज्ञां व्याचष्टे —

सा चेति ।

प्रधानस्यापि तदुपपत्तेरुक्तत्वादवधारणासिद्धिरित्याह —

कस्मादिति ।

हेतुमुत्थाप्य नियमं साधयति —

प्रशासनादिति ।

अक्षरस्य सूर्यादौ प्रशासने श्रुतेऽपि कथमीश्वरत्वं, तत्राह —

प्रशासनं चेति ।

तस्यान्यथासिद्धिं धुनीते —

नेति ।

तस्यापि स्वकार्ये प्रशासनं सिध्यति, नेत्याह —

नहीति ।

तथा चाज्ञाख्यप्रशासनलिङ्गान्न प्रधानमक्षरमित्यर्थः ॥ ११ ॥