ओङ्कारस्याक्षरत्वेन पूर्वपक्षे बुद्धिसांनिध्यात्तेन ध्यातव्यं पुरुषं निरूपयति —
ईक्षतीति ।
आथर्वणवाक्यं पठति —
एतदिति ।
पिप्पलादो नामाचार्यः सत्यकामेन पृष्टो व्याचष्टे । हे सत्यकाम, परं निर्विशेषमपरं च कार्यं यद्ब्रह्म तदेतदेव योऽयमोङ्कारः । स हि प्रतिमेव विष्णोस्तस्य प्रतीकः । तस्मात्प्रणवं ब्रह्मात्मना विद्वानेतेनोङ्कारध्यानेनायतनेन प्राप्तिसाधनेन परापरयोरेकतरं यथाध्यानमनुगच्छतीति प्रकृत्यैकमात्रद्विमात्रोपास्तिं दर्शयित्वा ब्रवीति, यः पुनरोमित्येतदक्षरं त्रिमात्रमिति । त्रिमात्रेणेति तृतीया द्वितीयात्वेन नेया, ब्रह्मोङ्काराभेदोपक्रमात् । तथाविधमक्षरं सूर्यान्तस्थं परं ध्यायीत, स सूर्यं प्राप्तः सामभिर्ब्रह्मलोकं प्रति नीयत इत्युदाहरणार्थः ।
सनिमित्तं संशयमाह —
किमिति ।
अक्षरशब्दस्य वर्णे रूढस्यापि जगदायतनत्वलिङ्गेन जघन्या योगवृत्तिराश्रिता तथा देशपरिच्छिन्नफलश्रुतिलिङ्गेन परशब्दस्यापेक्षिकपरत्वविशिष्टे हिरण्यगर्भे वृत्तिरिति पूर्वपक्षयति —
तत्रेति ।
उक्तश्रुतेर्ध्येये ब्रह्मणि समन्वयोक्तेः सङ्गतयः । अपरस्य परस्य वा ब्रह्मणो ध्यानं पूर्वोत्तरपक्षयोः फलम् ।
ननु परापरत्वेन ब्रह्म विभज्य परमभिध्यायीतेति विशेषोक्तौ कुतः शङ्केति शङ्कते —
कस्मादिति ।
परायोगिफलोक्त्या शङ्कायाः सावकाशत्वमाह —
स इति ।
उपासकः सर्वनामार्थः ।
कथं यथोक्तं फलं परस्मिन्नसम्भावितं, तदाह —
नहीति ।
तद्विदोऽपि तथाभावादिति शेषः ।
विशेषणानुपपत्तिं शङ्कते —
नन्विति ।
तदुपपत्तिमाह —
नेति ।
पिण्डः स्थूलो देहः । प्राणः सूत्रात्मा । अपरब्रह्मोपास्तिपरं वाक्यमित्युपसंहर्तुमितिशब्दः ।
पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।