ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥
परमेव ब्रह्म इह अभिध्यातव्यमुपदिश्यतेकस्मात् ? ईक्षतिकर्मव्यपदेशात्ईक्षतिर्दर्शनम्; दर्शनव्याप्यमीक्षतिकर्मईक्षतिकर्मत्वेनास्याभिध्यातव्यस्य पुरुषस्य वाक्यशेषे व्यपदेशो भवति — ‘ एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षतेइतितत्र अभिध्यायतेरतथाभूतमपि वस्तु कर्म भवति, मनोरथकल्पितस्याप्यभिध्यायतिकर्मत्वात्ईक्षतेस्तु तथाभूतमेव वस्तु लोके कर्म दृष्टम् , इत्यतः परमात्मैवायं सम्यग्दर्शनविषयभूत ईक्षतिकर्मत्वेन व्यपदिष्ट इति गम्यते एव चेह परपुरुषशब्दाभ्यामभिध्यातव्यः प्रत्यभिज्ञायतेन्वभिध्याने परः पुरुष उक्तः, ईक्षणे तु परात्परःकथमितर इतरत्र प्रत्यभिज्ञायत इतित्रोच्यतेपरपुरुषशब्दौ तावदुभयत्र साधारणौ चात्र जीवघनशब्देन प्रकृतोऽभिध्यातव्यः परः पुरुषः परामृश्यते; येन तस्मात् परात्परोऽयमीक्षितव्यः पुरुषोऽन्यः स्यात्कस्तर्हि जीवघन इति, उच्यतेघनो मूर्तिः, जीवलक्षणो घनः जीवघनःसैन्धवखिल्यवत् यः परमात्मनो जीवरूपः खिल्यभाव उपाधिकृतः, परश्च विषयेन्द्रियेभ्यः, सोऽत्र जीवघन इतिअपर आह — ‘ सामभिरुन्नीयते ब्रह्मलोकम्इत्यतीतानन्तरवाक्यनिर्दिष्टो यो ब्रह्मलोकः परश्च लोकान्तरेभ्यः, सोऽत्र जीवघन इत्युच्यतेजीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोकनिवासिनि सङ्घातोपपत्तेर्भवति ब्रह्मलोको जीवघनःतस्मात्परो यः परमात्मा ईक्षणकर्मभूतः, एवाभिध्यानेऽपि कर्मभूत इति गम्यते । ‘परं पुरुषम्इति विशेषणं परमात्मपरिग्रह एवावकल्पतेपरो हि पुरुषः परमात्मैव भवति यस्मात्परं किञ्चिदन्यन्नास्ति; ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःइति श्रुत्यन्तरात् । ‘परं चापरं ब्रह्म यदोंकारःइति विभज्य, अनन्तरमोंकारेण परं पुरुषमभिध्यातव्यं ब्रुवन् , परमेव ब्रह्म परं पुरुषं गमयति । ‘यथा पादोदरस्त्वचा विनिर्मुच्यत एवं वै पाप्मना विनिर्मुक्तःइति पाप्मविनिर्मोकफलवचनं परमात्मानमिहाभिध्यातव्यं सूचयतिअथ यदुक्तं परमात्माभिध्यायिनो देशपरिच्छिन्नं फलं युज्यत इति, अत्रोच्यतेत्रिमात्रेणोंकारेणालम्बनेन परमात्मानमभिध्यायतः फलं ब्रह्मलोकप्राप्तिः, क्रमेण सम्यग्दर्शनोत्पत्तिः, — इति क्रममुक्त्यभिप्रायमेतद्भविष्यतीत्यदोषः ॥ १३ ॥

तत्र प्रतिज्ञां पूरयति —

परमेवेति ।

लिङ्गाद्ध्यायतेरपरविषयत्वोक्तेर्नियमासिद्धिरित्याह —

कस्मादिति ।

सौत्रं हेतुमाह —

ईक्षतीति ।

ईक्षतेर्धातोरीक्षणमेव कर्म तद्व्यपदेशान्नापेक्षितधीरित्याशङ्क्य व्याकरोति —

ईक्षतिरिति ।

तथापि तदेव क्रियात्वात्कर्मेति भ्रान्तिं प्रत्याह —

दर्शनेति ।

तस्य व्यपदेशादित्युक्ते पक्षधर्मत्वासिद्धिमाशङ्क्यापेक्षितं पूरयन्विवक्षितमर्थमाह —

ईक्षतीति ।

ईक्षणविषयत्वेन वाक्यशेषे निर्दिश्यमानमपि ब्रह्मापरमेवेत्याशङ्क्याह —

तत्रेति ।

ईक्षतिध्यायत्योर्निर्धारणार्था सप्तमी । रजतादिदृष्टेराभासत्वात्तथाभूतमेवेत्यवध्रियते ।

अत एव दर्शनविशेषणम् —

सम्यगिति ।

अस्तु तर्हीक्षतिकर्मणोऽन्यस्यैव ध्येयत्वमित्याशङ्क्य सौत्रं सशब्दं व्याचष्टे —

स एवेति ।

निर्देशवैषम्यान्न प्रत्यभिज्ञेति शङ्कते —

नन्विति ।

वैषम्यमुपेत्य प्रत्यभिज्ञोपपत्तिमाह —

अत्रेति ।

एतच्छब्दस्य प्रकृतगामित्वाद्ध्यायतिकर्मणश्च प्रकृतत्वात्तस्यैवैतच्छब्दसमानाधिकृतपञ्चम्यन्तपरशब्देन प्रत्यभिज्ञानादभिध्यातव्यविषयपरशब्दस्य वाक्यशेषे जीवघनविषयत्वाज्जीवघनोऽभिध्यातव्यः, तस्मात्परात्परः परमेश्वरोऽन्य एवेक्षतिकर्मभूत इत्याशङ्क्याह —

न चेति ।

यो ध्येयः स एव तदुत्थसम्यग्धियोऽपीक्षणस्य विषयः सम्भवति, एकवाक्यत्वे वाक्यभेदस्यायोगात् , एतच्छब्दस्य सन्निहितपरामर्शित्वेऽपि सन्निहिततरजीवघनविषयत्वात् , जीवघनशब्दस्य च ध्येयविषयत्वाभावात् , तस्येक्षितव्यस्य चैकतेत्यर्थः ।

उपक्रमोपसंहारयोरेकवाक्यतार्थमुपक्रमे यो ध्यातव्यः स एवोपसंहारेऽपीक्षणगोचरश्चेत्तर्हि जीवघनशब्दस्य पृथगर्थो वक्तव्यः, न हि जीवघनपदं प्रमत्तगीतमिति शङ्कते —

कस्तर्हीति ।

‘मूर्तौ घनः’ इति सूत्रेणाह —

उच्यत इति ।

षष्ठीसमासं व्यावर्तयति —

जीवेति ।

उक्तमर्थं दृष्टान्तेनाह —

सैन्धवेति ।

खिल्यभावोऽल्पत्वम् ।

कथमनवच्छिन्नस्य परस्याल्पत्वं, तत्राह —

उपाधीति ।

तत्र पञ्चम्यन्तपरशब्दोपपत्तिमाह —

परश्चेति ।

एतच्छब्दस्य प्रकृतपरामर्शित्वमाश्रित्य पक्षान्तरमाह —

अपर इति ।

कया वृत्त्या जीवघनशब्दो ब्रह्मलोकं ब्रूते, तत्राह —

जीवानामिति ।

परिच्छिन्नकरणावच्छिन्नानामनवच्छिन्नकरणात्मनि हिरण्यगर्भेऽन्तर्भावात्तस्य जीवपूर्णतया तद्घनत्वाल्लोकोऽपि जीवघन इत्युपचर्यत इत्यर्थः ।

तस्य कारणत्वात्परमात्मा परस्तस्मादित्याह —

तस्मादिति ।

ईक्षणध्यानयोः कार्यकारणभावादेकविषयतेत्याह —

स एवेति ।

परस्यैव ध्यातव्यत्वे विशेषणमनुकूलयति —

परमिति ।

विराडपेक्षया परत्वं सूत्रेऽपीत्युक्तमाशङ्क्य मुख्यं परत्वमुत्सर्गतो ब्रह्मण्येवेत्याह —

परो हीति ।

‘यस्मात्परं नापरमस्ति किञ्चित् ‘ इति श्रुत्या परमात्मानं विशिनष्टि —

यस्मादिति ।

ईश्वरस्य परमपुरुषार्थत्वे मानमाह —

पुरुषादिति ।

परापरे ब्रह्मणी प्रकृत्य परशब्देनापरस्य व्यावर्तनादपि परमेव ब्रह्म ध्यातव्यमित्याह —

परं चेति ।

न केवलमुपक्रमादेवं किन्तु फलोक्तेरपीत्याह —

यथेति ।

पादोदरः सर्पः ।

पूर्वपक्षबीजमनूद्य दूषयति —

अथेत्यादिना ।

परिशुद्धब्रह्मैक्यज्ञाने देशपरिच्छिन्नं फलमयुक्तम् । ओङ्कारोपाधिब्रह्मोपास्तौ तदविरुद्धमित्यर्थः ।

कथं तर्हि ‘पुरुषमीक्षते’ इति, तत्राह —

क्रमेणेति ।

ब्रह्मलोके सम्यग्दर्शनोत्पत्तौ मोक्षं विवक्षित्वेक्षतिवाक्यमित्यर्थः ।

एकवाक्यताकाङ्क्षप्रकरणानुगृहीतश्रुतिप्रत्यभिज्ञाया देशपरिच्छिन्नफलत्वलिङ्गानुगृहीतश्रुतिप्रत्यभिज्ञाया देशपरिच्छिन्नफलत्वलिङ्गानुगृहीतप्रत्यभिज्ञातो बलीयस्त्वाद्ध्यातव्यं परमेवेत्युपसंहरति —

अदोष इति ॥ १३ ॥