‘परात्परं पुरिशयं पुरुषम् ‘ इत्यादिवाक्याद्ध्यातव्यपुरुषनिर्णये परस्य पुरिशयमिति पुरसम्बन्धसिद्धेरयमपि पुरसम्बन्धी दहराकाशो ब्रह्मेत्याह —
दहर इति ।
छान्दोग्यवाक्यमुदाहरति —
अथेति ।
भूमविद्यानन्तरं विद्यान्तरारम्भार्थोऽथशब्दः । यदिदमिति प्रसिद्धं हृदयं परामृष्टम् । अस्मिन्निति प्रत्यक्षत्वोक्तिः । ब्रह्मपुरं शरीरम् । दहरं सूक्ष्मम् । पुण्डरीकं तदाकारत्वात्प्रकृतं हृदयमेव तत्र परस्य नित्यसन्निधेर्वेश्मशब्दः ।
सन्निहितं हृदयं सप्तम्या परामृश्य तस्यातिसूक्ष्मस्य परस्य तत्र सदा स्थितिं सूचयन्वेश्मत्वमेव विशदयति —
दहर इति ।
व्यवहितमपि हृदयं योग्यत्वात्तच्छब्देनोक्त्वा तदन्तराकाशस्य विचार्यतां ज्ञेयतां च दर्शयति —
तस्मिन्निति ।
तस्मिन्निति सप्तम्या हृदयोक्तेस्तदन्तस्थं दहराकाशमन्वेष्यं जिज्ञास्यं च किंवा तस्याः सन्निहिततरदहराकाशार्थत्वात्तदन्तस्थं किञ्चिदन्विष्य ज्ञेयमिति संशयं सूचयति —
तत्रेति ।
वाक्यं सप्तम्यर्थः ।
यदाकाशोऽन्विष्य ज्ञेयस्तदा प्राप्तं संशयमाह —
स इति ।
द्वितीये संशये प्रश्नपूर्वकं हेतुमाह —
कुत इति ।
द्वयोरपि पक्षत्रयोपनायकत्वं व्यावर्तयन्नाकाशशब्दाधीनं पक्षद्वयमाह —
आकाशेति ।
शब्दान्तरात्पक्षद्वयप्राप्तिमाह —
तथेति ।
इतिशब्दः संशयशब्देन सम्बध्यते ।
नन्वयमन्यः संशयो न प्रकृतस्तस्यान्यादृशत्वात् , तत्राह —
तत्रेति ।
उक्ते संशये सतीति यावत् ।
परपुरुषशब्दस्य ब्रह्मणि मुख्यत्वाद्ब्रह्मैव ध्येयमित्युक्तम् । इहाप्याकाशशब्दस्य भूताकाशे रूढेस्तस्यैवोपास्यतेति पूर्वपक्षमाह —
तत्रेति ।
दहरवाक्यस्य सोपाधिके ब्रह्मण्यन्वयोक्तौ तत्र प्रवृत्तस्य निरुपाधिकं बुभुत्समानस्य तस्मिन्प्राजापत्यवाक्यान्वयोक्तेः सङ्गतयः । पूर्वपक्षे भूताकाशादिध्यानं, सिद्धान्ते परोपास्तिद्वारा प्रतिपत्तिरिति फलम् । न च ‘आकाशस्तल्लिङ्गात्’ इत्यनेन गतत्वात्पूर्वपक्षानुत्थानं, तत्र वाक्यशेषस्थलिङ्गानामाकाशविषयत्वात् । प्रकृते तेषां तदन्तस्थविषयत्वेन तदविषयत्वादिति । उपास्त्यर्थं ब्रह्मणो दहरत्वेऽपि भूताकाशस्य तदन्तस्थविषयत्वेन तदविषयत्वादिति ।
उपास्त्यर्यं ब्रह्मणो दहरत्वेऽपि भूताकाशस्य तदयोगात्कुतो ग्रहणं तत्राह —
तस्येति ।
तद्ध्यानेनापि वाक्यशेषस्थं फलं सम्पद्यते वाक्यादित्यर्थः ।
सति भेदे सादृश्ये चोपमानोपमेयभावादेकत्र तदसिद्धिरित्याशङ्क्याह —
यावानिति ।
ब्रह्मणि द्यावापृथिव्यादीनामन्तःसमाधानं, कारणत्वात् । तदभावादाकाशे नैवमित्याशङ्क्याह —
द्यावापृथिव्यादीति ।
दहरे कथंं तत्समाधानं, तत्राह —
अवकाशेति ।
अपहतपाप्मत्वादि तस्मिन्नित्यनुवादः । सत्यकामत्वादि ध्यानार्थमध्यस्तमिति भावः ।
एष आत्मेत्यात्मशब्दसामञ्जस्यार्थं पक्षान्तरमाह —
अथवेति ।
ब्रह्मशब्दस्यामुख्यत्वाज्जीवे तच्छब्दात्परस्मिञ्झटिति बुद्धिस्थे कुतो जीवोक्तिरित्याशङ्क्य पुरसम्बन्धस्य तत्रैव सम्भवादित्याह —
जीवस्येति ।
तस्यापि पुरेण कः सम्बन्धः, तत्राह —
तस्येति ।
तथापि तस्मिन्नौपाधिके कथं ब्रह्मपदं, तत्राह —
भक्त्येति ।
चैतन्यगुणयोगेनेत्यर्थः ।
गौणमुख्ययोर्मुख्ये संप्रत्ययमाशङ्क्योक्तम् —
न हीति ।
कार्यकारणसम्बन्धस्य साधारण्यादसाधारण्येन व्यपदेशाज्जीवकर्मार्जितं शरीरं तेनैव व्यपदेशमित्यर्थः ।
तस्य जीवपुरत्वेऽपि राजपुरे मैत्रसद्मवत्पुण्डरीकदहरगेहता ब्रह्मणोऽस्तु, तत्राह —
तत्रेति ।
वेश्मनः खल्वाधारस्याधेयापेक्षायां पुरस्वमिनाधेयेन संबन्धान्नान्यापेक्षेत्यर्थः ।
जीवस्य देहेन विशेषसम्बन्धेऽपि हृदयेन तदभावात्कथं तस्यैव तद्वेश्मता, तत्राह —
मन इति ।
तस्यापि चञ्चलत्वान्न हृदयेनासाधारण्यं, तत्राह —
मनश्चेति ।
तथापि तस्य सर्वगतस्य कुतो दहरत्वं, तत्राह —
दहरत्वमिति ।
दहरत्वादेव तर्हि नाकाशोपमितत्वादीत्याशङ्क्याह —
आकाशेति ।
यद्भावमपेक्ष्यैतत्कल्प्यते तदेव ब्रह्माकाशशब्दं लाघवादित्याशङ्क्याद्ये संशये पूर्वपक्षमाह —
न चेति ।
परविशेषणत्वेनेत्यत्र परो दहराकाश उपादानात्तस्मिन्निति सप्तम्यन्ततच्छब्दस्येति शेषः । यद्वा परशब्दोऽन्तस्थवस्तुविषयस्तद्विशेषणत्वेन तस्मिन्निति दहराकाशस्योक्तेरित्यर्थः । तच्छब्दस्य सन्निकृष्टान्वययोगे विप्रकृष्टान्वयस्य जघन्यत्वादाकाशान्तर्गतं ध्येयमिति भावः । भूताकाशस्य जीवस्य वा दहराकाशान्तस्थस्य वा ध्यानार्थं दहरवाक्यमुपसंहर्तुमितिशब्दः ।