ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
दहर उत्तरेभ्यः ॥ १४ ॥
अत उत्तरं ब्रूमःपरमेश्वर एवात्र दहराकाशो भवितुमर्हति, भूताकाशो जीवो वाकस्मात् ? उत्तरेभ्यः वाक्यशेषगतेभ्यो हेतुभ्यःतथाहिअन्वेष्टव्यतयाभिहितस्य दहरस्याकाशस्यतं चेद्ब्रूयुःइत्युपक्रम्यकिं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम्इत्येवमाक्षेपपूर्वकं प्रतिसमाधानवचनं भवति ब्रूयाद्यावान्वा’ (छा. उ. ८ । १ । २) अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते’ (छा. उ. ८ । १ । ३) इत्यादितत्र पुण्डरीकदहरत्वेन प्राप्तदहरत्वस्याकाशस्य प्रसिद्धाकाशौपम्येन दहरत्वं निवर्तयन् भूताकाशत्वं दहरस्याकाशस्य निवर्तयतीति गम्यतेयद्यप्याकाशशब्दो भूताकाशे रूढः, तथापि तेनैव तस्योपमा नोपपद्यत इति भूताकाशशङ्का निवर्तिता भवतिन्वेकस्याप्याकाशस्य बाह्याभ्यन्तरत्वकल्पितेन भेदेनोपमानोपमेयभावः सम्भवतीत्युक्तम्नैवं सम्भवतिअगतिका हीयं गतिः, यत्काल्पनिकभेदाश्रयणम्अपि कल्पयित्वापि भेदमुपमानोपमेयभावं वर्णयतः परिच्छिन्नत्वादभ्यन्तराकाशस्य बाह्याकाशपरिमाणत्वमुपपद्येतननु परमेश्वरस्यापि ज्यायानाकाशात्’ (श. ब्रा. १० । ६ । ३ । २) इति श्रुत्यन्तरात् नैवाकाशपरिमाणत्वमुपपद्यतेनैष दोषः; पुण्डरीकवेष्टनप्राप्तदहरत्वनिवृत्तिपरत्वाद्वाक्यस्य तावत्त्वप्रतिपादनपरत्वम्उभयप्रतिपादने हि वाक्यं भिद्येत कल्पितभेदे पुण्डरीकवेष्टित आकाशैकदेशे द्यावापृथिव्यादीनामन्तः समाधानमुपपद्यते । ‘एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पःइति चात्मत्वापहतपाप्मत्वादयश्च गुणा भूताकाशे सम्भवन्तियद्यप्यात्मशब्दो जीवे सम्भवति, तथापीतरेभ्यः कारणेभ्यो जीवाशङ्कापि निवर्तिता भवति ह्युपाधिपरिच्छिन्नस्याराग्रोपमितस्य जीवस्य पुण्डरीकवेष्टनकृतं दहरत्वं शक्यं निवर्तयितुम्ब्रह्माभेदविवक्षया जीवस्य सर्वगतत्वादि विवक्ष्येतेति चेत्; यदात्मतया जीवस्य सर्वगतत्वादि विवक्ष्येत, तस्यैव ब्रह्मणः साक्षात्सर्वगतत्वादि विवक्ष्यतामिति युक्तम्यदप्युक्तम् — ‘ब्रह्मपुरम्इति जीवेन पुरस्योपलक्षितत्वाद्राज्ञ इव जीवस्यैवेदं पुरस्वामिनः पुरैकदेशवर्तित्वमस्त्वितिअत्र ब्रूमःपरस्यैवेदं ब्रह्मणः पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते, ब्रह्मशब्दस्य तस्मिन्मुख्यत्वात्तस्याप्यस्ति पुरेणानेन सम्बन्धः, उपलब्ध्यधिष्ठानत्वात् एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते’ (प्र. उ. ५ । ५) वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः’ (बृ. उ. २ । ५ । १८) इत्यादिश्रुतिभ्यःअथवा जीवपुर एवास्मिन् ब्रह्म सन्निहितमुपलक्ष्यते, यथा सालग्रामे विष्णुः सन्निहित इति, तद्वत्तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८ । १ । ६) इति कर्मणामन्तवत्फलत्वमुक्त्वा, ‘अथ इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवतिइति प्रकृतदहराकाशविज्ञानस्यानन्तफलत्वं वदन् , परमात्मत्वमस्य सूचयतियदप्येतदुक्तम् दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं श्रुतं परविशेषणत्वेनोपादानादिति; अत्र ब्रूमःयद्याकाशो नान्वेष्टव्यत्वेनोक्तः स्यात्यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशःइत्याद्याकाशस्वरूपप्रदर्शनं नोपपद्येतन्वेतदप्यन्तर्वर्तिवस्तुसद्भावप्रदर्शनायैव प्रदर्श्यते, ‘तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम्इत्याक्षिप्य परिहारावसरे आकाशौपम्योपक्रमेण द्यावापृथिव्यादीनामन्तःसमाहितत्वदर्शनात्नैतदेवम्; एवं हि सति यदन्तःसमाहितं द्यावापृथिव्यादि, तदन्वेष्टव्यं विजिज्ञासितव्यं चोक्तं स्यात्तत्र वाक्यशेषो नोपपद्येत । ‘अस्मिन्कामाः समाहिताः’ ‘एष आत्मापहतपाप्माइति हि प्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्यअथ इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्इति समुच्चयार्थेन चशब्देनात्मानं कामाधारम् आश्रितांश्च कामान् विज्ञेयान् वाक्यशेषो दर्शयतितस्माद्वाक्योपक्रमेऽपि दहर एवाकाशो हृदयपुण्डरीकाधिष्ठानः सहान्तःस्थैः समाहितैः पृथिव्यादिभिः सत्यैश्च कामैर्विज्ञेय उक्त इति गम्यते चोक्तेभ्यो हेतुभ्यः परमेश्वर इति ॥ १४ ॥

सिद्धान्तयति —

अत इति ।

तत्र प्रतिज्ञां व्याचष्टे —

परमेश्वर इति ।

प्रतिज्ञायां प्रश्नद्वारा हेतूनाह —

कस्मादिति ।

तानेव विवृणोति —

तथाहीति ।

विहितस्य तदन्वेष्टव्यमित्यादिनेति शेषः । आकाशस्याक्षेपपूर्वकमिति सम्बन्धः । तमाचार्यं प्रति शिष्या यदि ब्रूयुरित्याक्षेपमुपक्रम्यावतार्येति योजना ।

आक्षेपप्रकारमाह —

किं तदिति ।

पुण्डरीकमेव तावदल्पमल्पतरं च तदन्तर्गतमाकाशं तथा च किं तदत्रात्यल्पेऽस्ति यच्छ्रुतियुक्तिभ्यामन्वेष्यं यद्वाव साक्षात्कर्तव्यमित्यल्पतादोषेण दहरस्य ज्ञेयत्वमाक्षिप्य समाहितमित्यर्थः ।

तदेव दर्शयति —

स इति ।

आचार्यः सर्वनामार्थः । अस्मिन्निति हार्दाकाशोक्तिः । ‘उभावग्निश्च वायुश्च' इत्यादिसङ्ग्रहार्थमादिपदम् ।

तस्य विवक्षितमर्थमाह —

तत्रेति ।

निवर्तयन्नित्याचार्यो गृह्यते ।

आकाशशब्दस्य भूताकाशे रूढत्वात्कयानुपपत्त्या तन्निवर्तनं, तत्राह —

यद्यपीति ।

परोक्तिं स्मारयित्वा निरस्यति —

नन्वित्यादिना ।

गत्यन्तराभावादारोपितभेदेनोपमानस्य क्वाचित्कत्वेऽपि सत्यां गतौ तदसिद्धिरित्यर्थः ।

सादृश्ये सत्युपमानोपमेयत्वं दृष्टम् । न चोपाधिपरिच्छिन्नान्तराकाशस्य महत्परिमाणेन बाह्याकाशेन सादृश्यमित्याह —

अपि चेति ।

तर्हि परस्यापि भूताकाशो नोपमानमतुल्यपरिमाणत्वादित्याह —

नन्विति ।

नेदं वाक्यं भूताकाशतुल्यत्वविषयं किन्तु शङ्किताल्पत्वव्यावृत्तिपरमित्याह —

नेति ।

निवृत्तौ तावत्त्वे च वाक्यतात्पर्यमाशङ्क्योक्तम् —

उभयेति ।

न च सम्भवत्येकवाक्यत्वे वाक्यभेदः । न च तावत्त्वमेव प्रतिपाद्यम् , अफलत्वात् । न च शङ्कितदहरत्वनिवृत्तिरेव फलं, तत्रैव वाक्यतात्पर्यप्रसङ्गात् । न च साक्षादेव तत्सिद्धावार्थिकत्वकल्पना युक्तेति भावः ।

भूताकाशाग्रहे लिङ्गान्तरमाह —

न चेति ।

तत्रैव हेत्वन्तरम् —

एष इति ।

विगता जिघत्सा खादितुमिच्छा यस्य स तथा । चकारादुक्तं सर्वमाकाशस्यैकदेशे नोपपद्यत इति सम्बन्धः ।

तदेव स्पष्टयति —

आत्मत्वेति ।

न तावद्भूताकाशे सम्भवत्यात्मत्वम् , अचैतन्यात् । न चापहतपाप्मत्वादेर्नित्यानुवादत्वम् । नापि सत्यकामत्वादेरारोपितत्वम् । अगतिका हीयं गतिः । उपक्रमस्थाकाशश्रुतेश्चोपसंहारस्थात्मश्रुतिरुक्तलिङ्गसङ्गता बलीयसी, प्रत्ययसंवादादित्याकाशशब्दं ब्रह्मैवेति भावः ।

आकाशोपमितत्वादिहेतुभ्यो भूताकाशं निरस्य तद्बलादेव जीवमपि निरस्यति —

यद्यपीति ।

ननु कथमाकाशोपमितत्वं जीवशङ्कानिवर्तकं, तस्यापि तदुपमितत्वेन शङ्कितदहरत्वनिवृत्त्योपमानपर्यवसानात् , तत्राह —

न हीति ।

तादात्म्येन शङ्कते —

ब्रह्मेति ।

आदिपदं सर्वाधारत्वादिसङ्ग्रहार्थम् ।

लाघवेन प्रत्याह —

यदिति ।

ब्रह्मपुरशब्दाज्जीवोपादानमुक्तमनुवदति —

यदपीति ।

प्रथमश्रुतब्रह्मशब्देन चरमश्रुतविभक्त्यर्थो नेतव्य इत्याह —

अत्रेति ।

ब्रह्मणः पुरमित्यत्र स्वस्वामित्वं षष्ठ्यर्थं हित्वा ब्रह्मशब्दो मुख्यार्थः स्वीकर्तव्यः, प्रत्ययार्थस्य प्रकृत्यर्थापेक्षस्य दौर्बल्यादित्यर्थः ।

ननु ब्रह्मपक्षे प्रत्ययस्य निरालम्बनत्वमेव । जीवपक्षे प्रकृत्यालम्बनं कथञ्चिदस्ति, तदर्थस्य ब्रह्माभेदात् , तत्राह —

तस्येति ।

ब्रह्मणः शरीरमुपलब्ध्यधिष्ठानमित्यत्र मानमाह —

स इति ।

सर्वासु पूर्ष्विति व्यपदिश्य पुरिशय इति विशेषणं हृदयसम्बन्धविवक्षया नेयम् । आदिपदं ‘यो वेद निहितं गुहायाम् ‘ इत्यादिसङ्ग्रहार्थम् ।

ननु शारीरः शरीरमन्नपानाभ्यवहरणेन बृंहयतीति तस्मिन्मुख्यं ब्रह्मत्वं, तस्य च स्वकर्मार्जितत्वादसाधारणं शरीरं, तथा च प्रकृतिप्रत्ययौ जीवे मुख्याविति, तत्राह —

अथवेति ।

शारीरसम्बद्धमेव वेश्मोत्तरहेतुभ्यो ब्रह्मणापि सम्बध्यते । दृष्टं हि राजपुरे मैत्रसद्मेत्यर्थः ।

किञ्च कर्मफलनित्यतानिवृत्त्या दहरज्ञानस्यानन्तफलत्वश्रुतेर्दहरस्य परत्वमित्याह —

तद्यथेति ।

कर्मणस्तत्फलाच्चोपेक्षानन्तर्यमथशब्दार्थः । इह जीवत्येव देहे दहरमात्मानं तदाश्रितांश्च सत्यकामादिगुणानाचार्योपदेशमनुविद्यानुभूय ये परलोकं व्रजन्ति तेषां सर्वेषु लोकेषु कामचारः स्वेच्छया चरणमप्रतिहतमनन्तमैश्वर्यमित्यर्थः ।

श्रुतितात्पर्यमाह —

प्रकृतेति ।

क्दन्नित्याचार्यो वेदो वोक्तः । दहराकाशस्यान्वेष्यत्वादिसिद्धौ तत्र विचारः ।

न तु तदस्ति, ‘तस्मिन्यदन्तः’ इत्यन्तःस्थविशेषणत्वादन्वेषणादेरिति, तत्राह —

यदपीति ।

उत्तरत्राकाशस्वरूपप्रतिपादनानुपपत्त्या तस्य ज्ञेयत्वमन्तस्समाहितैः सहेष्टमित्याह —

अन्नेति ।

तत्प्रतिपादनमन्यथोपपन्नमिति शङ्कते —

नन्विति ।

कथमेतदवगम्यते, तत्राह —

तमिति ।

‘किं तदत्र' इत्याक्षेपात् ‘उभे अस्मिन् ‘ इति चान्तस्थवस्तूक्त्या समाधानाधारत्वमेवाकाशस्येत्यर्थः ।

तस्याधारमात्रत्वविवक्षायामाधेयस्यैव ध्येयत्वं स्यादित्याह —

नैतदिति ।

अस्तु को दोषः, तत्राह —

तत्रेति ।

दहराकाशस्य प्रकृतस्यैतच्छब्देन परामर्शात्तद्वेदनस्य फलवत्त्वश्रुतेस्तदेव ध्येयम् । न चैतच्छब्देन द्यावापृथिवीभ्यां व्यवधानान्नाकाशाकर्षणं, ‘अस्मिन्’ ‘एषः’ इति चैकवचनात्तस्यैव परामर्शयोग्यत्वादित्यर्थः ।

सत्यकामवेदनस्यैतत्फलं, तदान्तर्यात् । न दहराकाशबुद्धेरित्याशङ्क्याह —

समुच्चयेति ।

‘सन्दिग्धस्य वाक्यशेषान्निर्णयः’ इति न्यायादादौ ‘तस्मिन्यदन्तः’ इति तच्छब्दोऽनन्तरमप्याकाशमभिलङ्घ्य हृत्पुण्डरीकं परामृशति ।

तत्र यदन्तराकाशं तदन्वेष्टव्यं विजिज्ञासितव्यं चेत्युपसंहरति —

तस्मादिति ।

नन्वेतच्छब्दस्य सन्निहितार्थत्वात् , जीवात्मनः सर्वान्प्रति सन्निहिततरत्वात्तस्यैव तादर्थ्यात् , कामानां च तत्र समाहितत्वेन समुच्चयसिद्धेस्तत्परं वाक्यमित्याशङ्क्य विजातीयाध्यक्षादिसिद्धजीवात्सजातीयश्रुतिसिद्धदहराकाशाख्यपरमात्मपरामर्शे लाघवात् , जीवे चापहतपाप्मत्वाद्ययोगाद्वाक्यभेदापत्तेर्मैवमित्याह —

स चेति ॥ १४ ॥