ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १५ ॥
दहरः परमेश्वर उत्तरेभ्यो हेतुभ्य इत्युक्तम् एवोत्तरे हेतव इदानीं प्रपञ्च्यन्तेइतश्च परमेश्वर एव दहरः; यस्माद्दहरवाक्यशेषे परमेश्वरस्यैव प्रतिपादकौ गतिशब्दौ भवतःइमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं विन्दन्ति’ (छा. उ. ८ । ३ । २) इतितत्र प्रकृतं दहरं ब्रह्मलोकशब्देनाभिधाय तद्विषया गतिः प्रजाशब्दवाच्यानां जीवानामभिधीयमाना दहरस्य ब्रह्मतां गमयतितथा ह्यहरहर्जीवानां सुषुप्तावस्थायां ब्रह्मविषयं गमनं दृष्टं श्रुत्यन्तरेसता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इत्येवमादौलोकेऽपि किल गाढं सुषुप्तमाचक्षतेब्रह्मीभूतो ब्रह्मतां गतःइतितथा ब्रह्मलोकशब्दोऽपि प्रकृते दहरे प्रयुज्यमानो जीवभूताकाशशङ्कां निवर्तयन्ब्रह्मतामस्य गमयतिननु कमलासनलोकमपि ब्रह्मलोकशब्दो गमयेत्गमयेद्यदि ब्रह्मणो लोक इति षष्ठीसमासवृत्त्या व्युत्पाद्येतसामानाधिकरण्यवृत्त्या तु व्युत्पाद्यमानो ब्रह्मैव लोको ब्रह्मलोक इति परमेव ब्रह्म गमयिष्यतिएतदेव चाहरहर्ब्रह्मलोकगमनं दृष्टं ब्रह्मलोकशब्दस्य सामानाधिकरण्यवृत्तिपरिग्रहे लिङ्गम् ह्यहरहरिमाः प्रजाः कार्यब्रह्मलोकं सत्यलोकाख्यं गच्छन्तीति शक्यं कल्पयितुम् ॥ १५ ॥

दहराकाशस्येश्वरत्वे हेत्वन्तरमाह —

गतीति ।

उत्तरसूत्रसन्दर्भस्य परमसङ्गतिमाह —

दहर इति ।

अवतारितसूत्रस्यावान्तरसङ्गतिमाह —

इतश्चेति ।

इतःशब्दार्थमाह —

यस्मादिति ।

तावेवोदाहरति —

इमा इति ।

प्रजाश्चिदाभासा जीवाः । अहरहः स्वापे ।

कथं तर्हि पुनरुत्थानं, तत्राह —

एतमिति ।

उक्तगतिशब्दयोर्विवक्षितमर्थमाह —

तत्रेति ।

श्रुतिः सप्तम्यर्थः ।

एतच्छब्दाज्जीवानां स्वापे दहरगमनेऽपि तस्य ब्रह्मत्वे किमायातं, तदाह —

तथाहीति ।

अध्यायभेदधिया श्रुत्यन्तरशब्दः । ‘स्वमपीतो भवति‘ इत्यादिवाक्यमादिपदार्थः ।

तथाहीत्यादिसूत्रावयवस्यार्थान्तरमाह —

लोकेऽपीति ।

प्रसिद्धेः श्रुतिमूलत्वात्तत्प्रामाण्यायानुदाहार्यत्वेऽपीदृशी नामेयं वैदिकी प्रसिद्धिरियं लोकेऽप्यस्तीति श्रुतिप्रामाण्यदार्ढ्याय तदुक्तिरिति मत्वा किलेत्युक्तम् ।

दहरस्य ब्रह्मत्वधीहेतुतां गतेरुक्त्वा शब्दस्यापि कथयति —

तथेति ।

गतिवदित्येतत् ।

शब्दस्य सिद्धान्तानुगुण्यं नेति शङ्कते —

नन्विति ।

षष्ठीविभक्त्यश्रुतेस्तदर्थलक्षणायां गौरवान्नास्य लोकार्थतेत्याह —

गमयेदिति ।

तथापि कुतोऽस्य ब्रह्मार्थतेत्याशङ्क्य निषादस्थपत्यधिकरणन्यायेनाह —

सामानाधिकरण्येति ।

ननु तेनैव न्यायेन विशेषणसमासो न युक्तः, तन्न्यायाविषयत्वात् । एकस्य शब्दार्थद्वयसाधारण्ये गुरुलघुचिन्तया लघुर्ग्राह्य इति न्यायः । तथा सति लोकविशेषे प्रयोगबाहुल्यात्तस्यैवादौ बुद्धिस्थत्वात्कुतो ब्रह्मविषयत्वमित्याशङ्क्य तत्र ‘लिङ्गं च’ इत्युत्तरत्वेन योजयति —

एतदेवेति ।

तस्य लिङ्ग्त्वं स्फुटयति —

न हीति ॥ १५ ॥