ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥
धृतेश्च हेतोः परमेश्वर एवायं दहरःकथम् ? ‘दहरोऽस्मिन्नन्तराकाशःइति हि प्रकृत्य आकाशौपम्यपूर्वकं तस्मिन्सर्वसमाधानमुक्त्वा तस्मिन्नेव चात्मशब्दं प्रयुज्यापहतपाप्मत्वादिगुणयोगं चोपदिश्य तमेवानतिवृत्तप्रकरणं निर्दिशतिअथ आत्मा सेतुर्विधृतिरेषां लोकानामसम्भेदाय’ (छा. उ. ८ । ४ । १) इतितत्र विधृतिरित्यात्मशब्दसामानाधिकरण्याद्विधारयितोच्यते; क्तिचः कर्तरि स्मरणात्यथोदकसन्तानस्य विधारयिता लोके सेतुः क्षेत्रसम्पदामसम्भेदाय, एवमयमात्मा एषामध्यात्मादिभेदभिन्नानां लोकानां वर्णाश्रमादीनां विधारयिता सेतुः, असम्भेदाय असङ्करायेतिएवमिह प्रकृते दहरे विधारणलक्षणं महिमानं दर्शयतिअयं महिमा परमेश्वर एव श्रुत्यन्तरादुपलभ्यते — ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतःइत्यादेःथान्यत्रापि निश्चिते परमेश्वरवाक्ये श्रूयते — ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदायइतिएवं धृतेश्च हेतोः परमेश्वर एवायं दहरः ॥ १६ ॥

सर्वजगद्धारणस्य परमात्मलिङ्गस्य दहरे दर्शनाच्च तस्य परत्वमित्याह —

धृतेश्चेति ।

अस्य धृत्यात्मनो महिम्नो दहरे श्रुतस्यास्मिन्नीश्वरे श्रुत्यन्तरेषूपलब्धेस्तस्येश्वरत्वमित्यर्थः ।

सूत्रं व्याचष्टे —

धृतेरिति ।

अथशब्देन प्रकरणं विच्छिद्य विधृतिशब्दात्कथं दहरस्य विधारकत्वमित्याह —

कथमिति ।

प्रकृतगामिना यच्छब्देनात्मशब्देन च दहरस्यैव बुद्धिस्थत्वान्न प्रकरणविच्छेदकोऽथशब्दः किन्तु वाक्योपक्रमद्योतीत्याह —

दहरोऽस्मिन्नित्यादिना ।

श्रौतविधृतिशब्दस्यार्थमाह —

तत्रेति ।

स्त्रियां भावे क्तिन्विधानान्न विधृतिशब्देन दहरस्य विधारकत्वमित्याशङ्क्य प्रकृतिशब्दवदयं न क्तिन्प्रत्ययान्तः किन्तु क्तिच्प्रत्ययान्त इत्याह —

क्तिच इति ।

सेतुशब्देनापि विधारकोक्त्या पौनरुक्त्यमाशङ्क्य दृष्टान्तेनासङ्करहेतुत्वं सेतुशब्दस्यार्थमाह —

यथेति ।

इतिशब्दः श्रुत्यक्षरार्थसमाप्त्यर्थः ।

उक्तेऽर्थे सूत्रं योजयति —

एवमिति ।

तथापि कथं दहरस्येश्वरत्वं, तत्राह —

अयं चेति ।

द्यावापृथिव्यादिस्थितिरक्षराधीनेति विद्वद्वाक्यमादिशब्दार्थः ।

प्रकारान्तरेण धृतिमाचष्टे —

तथेति ।

निश्चितत्वं सन्देहस्याप्यविषयत्वम् । राजकुमारव्यावृत्त्यर्थं भूताधिपतिरित्युक्तम् । लोकपालात्मनापि परस्यैवावस्थानं वक्तुं भूतपालपदम् ।

विधारकतया सेतुरिवेति सर्वव्यवस्थापकत्वमाह —

सेतुरिति ।

तदेव स्फुटयति —

एषामिति ।

सूत्रार्थमुपसंहरति —

एवमिति ॥ १६ ॥