प्रसिद्धेश्च ॥ १७ ॥
इतश्च परमेश्वर एव ‘दहरोऽस्मिन्नन्तराकाशः’ इत्युच्यते; यत्कारणमाकाशशब्दः परमेश्वरे प्रसिद्धः — ‘आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८ । १४ । १) ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ (छा. उ. १ । ९ । १) इत्यादिप्रयोगदर्शनात् । जीवे तु न क्वचिदाकाशशब्दः प्रयुज्यमानो दृश्यते । भूताकाशस्तु सत्यामप्याकाशशब्दप्रसिद्धौ उपमानोपमेयभावाद्यसम्भवान्न ग्रहीतव्य इत्युक्तम् ॥ १७ ॥