ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ १८ ॥
यदि वाक्यशेषबलेन दहर इति परमेश्वरः परिगृह्येत, अस्ति इतरस्यापि जीवस्य वाक्यशेषे परामर्शःअथ एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच’ (छा. उ. ८ । ३ । ४) इतिअत्र हि सम्प्रसादशब्दः श्रुत्यन्तरे सुषुप्तावस्थायां दृष्टत्वात्तदवस्थावन्तं जीवं शक्नोत्युपस्थापयितुम् , नार्थान्तरम्तथा शरीरव्यपाश्रयस्यैव जीवस्य शरीरात्समुत्थानं सम्भवति, थाकाशव्यपाश्रयाणां वाय्वादीनामाकाशात्समुत्थानम् , तद्वत्यथा चादृष्टोऽपि लोके परमेश्वरविषय आकाशशब्दः परमेश्वरधर्मसमभिव्याहारात् आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८ । १४ । १) इत्येवमादौ परमेश्वरविषयोऽभ्युपगतः, एवं जीवविषयोऽपि भविष्यतितस्मादितरपरामर्शात्दहरोऽस्मिन्नन्तराकाशःइत्यत्र एव जीव उच्यत इति चेत्नैतदेवं स्यात्कस्मात् ? असम्भवात् हि जीवो बुद्ध्याद्युपाधिपरिच्छेदाभिमानी सन् आकाशेनोपमीयेत चोपाधिधर्मानभिमन्यमानस्यापहतपाप्मत्वादयो धर्माः सम्भवन्तिप्रपञ्चितं चैतत्प्रथमसूत्रेअतिरेकाशङ्कापरिहाराय अत्र तु पुनरुपन्यस्तम्पठिष्यति चोपरिष्टात्अन्यार्थश्च परामर्शः’ (ब्र. सू. १ । ३ । २०) इति ॥ १‍८ ॥

विनिगमनहेत्वभावं मन्वानस्य प्रत्यवस्थानं प्रत्याह —

इतरेति ।

तत्र चोद्यं व्याचष्टे —

यदिति ।

वाक्यशेषमेवाह —

अथेति ।

दहराकाशाख्यसोपाधिकवस्तूक्त्यनन्तरमित्येतत् । सर्वनामभ्यां विद्वानुक्तः ।

तमेव सुप्तं सर्वकालुष्यविनिर्मुक्तं वक्ति —

सम्प्रसाद इति ।

अस्मादभिमानद्वयविषयादिति यावत् । शरीरशब्दो देहद्वयार्थः ।

ततः समुत्थानं विविक्तात्मज्ञानवत्त्वं तत्फलं स्वरूपेणाभिनिष्पत्तिस्तत्त्वसाक्षात्कारस्तत्फलमाह —

परमिति ।

उपसम्पद्याभिनिष्पद्यत इति मुखं व्यादाय स्वपितीतिवत् ।

ज्योतिः शब्दस्य सूर्यादिविषयत्वं निषेधति —

एष इति ।

कुतो वाक्यशेषस्य जीवविषयत्वं, तत्राह —

अत्रेति ।

‘सम्प्रसादे रत्वा चरित्वा’ इत्यादि बृहदारण्यकं श्रुत्यन्तरम् ।

अवस्थावत्त्ववद्देहादुत्थानमपि जीवलिङ्गमित्याह —

तथेति ।

देहाश्रयश्चेत्कथं तस्मादुत्तिष्ठेत् तत्राह —

यथेति ।

जीवे न कश्चिदाकाशशब्दोऽस्तीत्युक्तं विनिगमनमित्याशङ्‌क्य ब्रह्मणि तद्धर्माभिव्यवहारात्तच्छब्दवज्जीवेऽपि वाक्यशेषलिङ्गात्तत्प्रसिद्धिः स्यादित्याह —

यथा चेति ।

चोद्यमुपसंहरति —

तस्मादिति ।

दहरशेषे जीवपरमर्शेऽपि न तेन दहरो जीवः स्यादिति नञर्थमाह —

नैतदिति ।

तत्र प्रश्नपूर्वकं हेतुमाह —

कस्मादिति ।

यदाकाशोपमितत्वं दहरस्य श्रुतं तन्न जीवे सम्भवतीति विभजते —

नहीति ।

अपहतपाप्मत्वादीनामपि दहरोक्तानां जीवे न सम्भावनेत्याह —

न चेति ।

उपाधिधर्माः पाप्मादयः ।

ब्रह्माभेदाज्जीवेऽपि सर्वमेतद्युक्तमित्याशङ्क्याह —

प्रपञ्चितं चेति ।

तर्हि पुनरुक्तिः, तत्राह —

अतिरेकेति ।

का तर्हि जीवपरामर्शस्य गतिः, तत्राह —

पठिष्यतीति ।

जीवपरामर्शो जीवस्य स्वापाधारपरात्मधीशेष इत्यर्थः ॥ १८ ॥