उक्तासम्भवस्यासिद्धिमाशङ्क्य परिहरति —
उत्तराच्चेदिति ।
चोद्यस्य वृत्तमनूद्य तात्पर्यमाह —
इतरपरामर्शादिति ।
निराकृताशङ्कोत्थाने निराकरणापर्यवसानमाशङ्क्याह —
अथेति ।
पुनस्तदुत्थाने हेतुमाह —
उत्तरस्मादिति ।
प्राजापत्ये वाक्ये जीवेऽप्यपहतपाप्मत्वादिश्रुतेरसम्भवो नेति शङ्कते इत्यर्थः ।
कथं तत्र जीवोक्तिः, तत्राह —
तत्रेति ।
प्रतिज्ञावाक्यस्य परमात्मविषयत्वमाशङ्क्याद्यपर्यायस्य जीवविषयत्वादुपक्रमस्यापि तथेत्याह —
य इति ।
ननु छायात्मैवास्मिन्पर्याये प्रतिपाद्यते, दृश्यमानत्वस्य तस्मिन्मुख्यत्वात् , नेत्याह —
द्रष्टारमिति ।
परप्रतिपत्त्यर्थं पञ्चकोशोक्तिवद्भूमप्रतिपत्त्यर्थं प्राणाद्युक्तिवच्च ब्रह्मार्थं जीवोक्तिरपि स्यादित्याशङ्क्य द्वितीयतृतीययोरपि तद्विषयत्वमाह —
एतं त्विति ।
उत्तरत्रान्यस्यानुक्तेर्नान्यार्था जीवोक्तिरित्यर्थः ।
‘अन्तर उपपत्तेः’ इत्यत्र परस्याक्षिस्थानताया दर्शितत्वादाद्यपर्यायस्य परविषयत्वादुत्तरयोरपि तद्विषयतेत्याशङ्क्याह —
य इति ।
स्वप्ने वासनामयैर्विषयैर्महीयमानता परस्यैव रुक्माभं स्वप्नधीगम्यमित्युक्तेरित्याशङ्क्याह —
तदिति ।
तदेतदिति सम्बन्धः । यत्र यस्यामवस्थायां तदेतत्स्वपनं यथा स्यात्तथा सुप्तः स्वापावस्थां प्राप्तो भवति तस्यामवस्थायामुपसंहृतकरणग्रामस्तद्व्यापारकृतकालुष्यहीनः स्वप्नमज्ञानमात्रतया विलापयन्मुक्ताद्व्यावृत्तस्तैजसानन्तरभावी प्राज्ञो ज्ञानक्रियां विना स्वरूपचैतन्येनाज्ञानसाक्षी साक्ष्यस्य देहादेः सत्तास्फूर्तिप्रदत्वेन चात्मेत्यर्थः ।
तथा चावस्थावत्त्वाज्जीवोऽयमिति श्रुत्यर्थं सङ्क्षिप्याह —
जीवमिति ।
स्वप्नावस्थातोऽन्या स्वापावस्थावस्थान्तरम् ।
तथापि तस्मिन्नपहतपाप्मत्वादि कथमित्याशङ्क्य विनापि ब्रह्मरूपतामुपास्त्या तद्धीरित्याह —
तस्येति ।
‘य आत्मापहतपाप्मा’ इत्यादिनोपक्रान्तः स परमात्मतया चतुर्थपर्याये कथ्यते, तेन तत्प्रतिपादनसिद्धिरित्याश्ङ्क्य चतुर्थपर्यायस्यापि जीवविषयत्वमाह —
नाहेति ।
अहेति निपातः खेदार्थे । खिद्यमानो हीन्द्रः प्रोवाच, अयं सुप्तः पुमानयमस्म्यहमित्येवं नात्मानमस्यामवस्थायां जानाति, नो एवेमानि भूतानि, विनाशमेवापीतो भवति, नाहमत्र भोग्यं पश्यामीत्येवं स्वापे दोषं दृष्ट्वा पुनरुपससादेत्यर्थः । तं प्रजापतिरुवाच, ‘एतं त्वेव' इति प्रकृतमेवात्मानं ते तुभ्यं पुनरपि व्याख्यास्यामि नैतस्मादन्यमित्युपक्रमार्थः ।
तथापि जीवस्यापहतपाप्मत्वाद्युपगमेऽध्यक्षादिविरोधो न हेत्वधीनस्य देहोत्तरकालं जीवेऽपि योगादित्याह —
शरीरेति ।
‘मघवन्मर्त्यं वा इदम् ‘ इत्यादिना देहसम्बन्धं निन्दित्वा तस्मादुत्थितं जीवमेवोत्तमपुरुषं ‘एष सम्प्रसादोऽस्मात् ‘ इत्यादिना दर्शयतीति योजना ।
असम्भवासिद्धि निगमयति —
तस्मादिति ।
हेत्वसिद्धिफलमाह —
अत इति ।
सिद्धान्तमादत्ते —
तं प्रतीति ।
आविर्भावस्य विशेषविषयत्वात्तदर्थस्तुशब्दो वृथेत्याशङ्क्याह —
तुशब्द इति ।
पक्षव्यावृत्तिमेव स्फुटयति —
नेति ।
इहेति दहरवाक्योक्तिः ।
पर्यायचतुष्टयस्य जीवार्थत्वात्कुतस्तदाशङ्का नेति शङ्कते —
कस्मादिति ।
सौत्रं हेतुमाह —
यत इति ।
पर्यायचतुष्टयं सप्तम्यर्थः ।
पुंलिङ्गसूचितं बहुव्रीहिसमासमाह —
आविर्भूतमिति ।
तस्य ब्रह्मत्वात्कथं जीवो विशेष्यते, तत्राह —
भूतेति ।
अविद्यातत्कार्यप्रतिबिम्बितत्वेन चिद्धातोर्जीवभावोऽभूदिति बिम्बब्रह्मैक्यज्ञानेऽपि जीवत्वोक्तिरित्यर्थः ।
स्वरूपाविर्भावेऽपि जीवस्य जीवत्वानपायात्कुतो ब्रह्मतेत्याशङ्क्य प्राजापत्यवाक्यतात्पर्यमाह —
एतदिति ।
अवस्थाविशेषविशिष्टस्य परैक्यायोगमाशङ्क्याह —
अक्षीति ।
उपजनापायवत्त्वात्प्रतिबिम्बवदनात्मा देहादिरिति वक्तुमुदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे ब्रूतमित्युत्तरो ग्रन्थ इत्याह —
उदशरावेति ।
प्रकृतो द्रष्टा द्वितीयार्थः । व्युत्थापनं बाधः ।
प्रकरणविच्छेदं व्यावर्तयति —
एतमिति ।
अवस्थानां व्यभिचारित्वेन कल्पितत्वात्तदस्पृष्टं वस्तूपदेष्टुमवस्थोक्तिरिति तदुक्तिफलमाह —
स्वप्नेति ।
परं ज्योतिरित्यादिश्रुतेस्तात्पर्यमाह —
यदिति ।
परं ज्योतिरेवोपसम्पत्तव्यं श्रूयते न ब्रह्मेत्याशङ्क्याह —
यत्तदिति ।
यत्तु जीवस्य नापहतपाप्मत्वादीति, तत्राह —
तच्चेति ।
जीवस्य ब्रह्माभेदात्तद्रूपेण स्वाभाविकाविर्भूतापहतपाप्मत्वादिस्वरूपं तद्वदति वाक्यमित्यर्थः ।
कथं मिथो विरुद्ध्योर्जीवब्रह्मणोरैक्यं, तत्राह —
तदेवेति ।
विरुद्धत्वबुद्धौ कथं शास्त्रमपि तद्बोधीत्याशङ्क्याह —
नेतरदिति ।
प्रातीतिकविरुद्धाकारस्यौपाधिकत्वादागमावगतं स्वाभाविकमैक्यमविरुद्धमित्यर्थः ।
अविद्यान्वयव्यतिरेकाभ्यां संसारित्वस्याविद्यात्वं वक्तुं दृष्टान्तेनान्वयमाह —
यावदिति ।
व्यतिरेकमाह —
यदेति ।
व्युत्थापनद्वारा प्रतिबोधनमभिनयति —
नासीति ।
व्युत्थापनफलसंसारित्वमुक्त्वा तत्फलमाकाङ्क्षापूर्वकमाह —
किमिति ।
शास्त्रीयमात्मज्ञानमनूद्य तत्फलमाह —
तदेति ।
विदुषो ब्रह्मत्वे मानमाह —
स इति ।
किमित्यन्यतरस्य कल्पितत्वं, द्वयोरपि वस्तुत्वं किं न स्यात् , तत्राह —
तदेवेति ।
शरीरविशिष्टं रूपं कल्पितमन्यथा तस्मादुत्थितस्य स्वेनाभिनिष्पत्त्ययोगादित्यर्थः ।
स्वेन रूपेणाभिनिष्पत्तिरित्यत्र विरोधं चोदयति —
कथमिति ।
तत्र हेतुं सूचयति —
कूटस्थेति ।
विशेषणव्यावृत्तिमाह —
सुवर्णादीनामिति ।
पार्थिवं रजो द्रव्यान्तरम् । असाधारणो विशेषः स्वर्णत्वभास्वरत्वादिः । दाहच्छेदादिसङ्ग्रहार्थमादिपदम् ।
स्वर्णादिवन्नक्षत्रादीनामभिभावकद्रव्यसम्पर्काविनाशेऽपि स्वरूपाभिनिष्पत्तिवत्प्रकृतेऽपि स्यादित्याशङ्क्याह —
तथेति ।
स्वर्णादीनामिवेति यावत् । अभिभावकं सावित्रं तेजोऽभीष्टम् ।
दार्ष्टान्तिके वैषम्यमाह —
न त्विति ।
द्रव्यान्तरसंसृष्टं तेनाभिभूतं ततो विविक्तमभिव्यक्तिमर्हति, कूटस्थनित्यं त्वन्येनासम्पृक्तमसङ्गाद्वितीयं ततो विवेकद्वारा नाभिव्यक्तिभागित्यर्थः । वस्तुतोऽसंसर्गित्वे व्योमोदाहरणम् ।
जीवस्याभिभूतस्वरूपतया ज्ञानात्तदभिव्यक्तिः स्वरूपेणाभिनिष्पत्तिरित्याशङ्क्याह —
दृष्टेति ।
जीवस्वरूपस्यानभिव्यक्तौ दृष्टः सर्वो व्यवहारो विरुध्येत । तस्याहमिति तद्धीपूर्वकत्वात्तथा च तदनभिव्यक्तिरयुक्तेत्यर्थः ।
उक्तमेव व्यक्तीकुर्वन्नादौ तदीयं स्वरूपमनुवदति —
दृष्टीति ।
‘विज्ञानघन एव’ इत्यादिश्रुतेश्चिन्मात्रस्वभावस्तावदात्मा । तच्चैतन्यं चक्षुरादिद्वारा व्यज्यमानं दृष्ट्यादिशब्दितम् । अतो दृष्ट्यादयोऽस्य स्वरूपमित्यर्थः ।
अथोक्तं रूपमदेहस्यैव व्यज्यते सदेहस्य तद्व्यक्तिविरोधितत्वात् । न हि देहसम्बन्धे जीवस्यासाधारणं रूपं प्रकटीभवति, तत्राह —
तच्चेति ।
तामेव दृष्टिं व्याचष्टे —
सर्वो हीति ।
सदा दृश्यादिरूपं जीवस्य व्यक्तमित्यत्रार्थापत्तिमाह —
अन्यथेति ।
अनुपपत्तिमेव स्फुटयति —
तच्चेदिति ।
दृष्ट्यादिरूपं सर्वनामार्थः । निष्पत्तिरभिव्यक्तिः ।
जीवस्य सदा स्वरूपव्यक्तौ फलितमाह —
अत इति ।
कालपरिपाकनिमित्तं प्रयत्नविशेषनिमित्तं वेति सन्देहादाह —
किमिति ।
कालकृतप्रतिबन्धध्वंसोपाधिका वा पुरुषव्यापारोपाधिका वेति संशयादुक्तम् —
किमात्मिकेति ।
वस्तुतोऽसंसर्गेऽपि देहादिभिरविद्यया संसृष्टमिवास्य दृष्ट्यादिरूपम् , अतस्तद्विवेकापेक्षया स्वरूपाभिनिष्पत्तिरित्युत्तरमाह —
अत्रेति ।
वेदना हर्षादयः ।
मिथ्यासंसृष्टत्वे दृष्टान्तः —
यथेति ।
विवेकादूर्ध्वं स्वरूपेणाभिनिष्पत्तिरपि दृष्टेत्याह —
प्रमाणेति ।
उच्यत इत्युक्तितात्पर्यमाह —
प्रागपीति ।
शरीरात्समुत्थायेत्यादिश्रुत्यर्थं दर्शयन्दार्ष्टान्तिकमाह —
तथेति ।
श्रुतिकृतं अन्वयव्यतिरेकसहितया ‘योऽयंं विज्ञानमयः’ इत्यादिश्रुत्या सिद्धमिति यावत् । विवेकाज्ञानं त्वम्पदार्थशोधनम् ।
स्वरूपाभिनिष्पत्तिमेव विवेकफलभूतां विशिनष्टि —
केवलेति ।
ननु देहादुत्थानं नामोत्क्रमणं न पदार्थशोधनं, सदेहत्वं च वास्तवं नाविद्यं, प्रसिद्धिविरोधात् , तत्राह —
तथेति ।
उक्तश्रुत्यनुरोधेनेति यावत् । देहासम्बन्धिनो देहे स्थितिरित्युक्ते विरोधं निरसितुं विवेकतोऽदेहत्वमविवेकतः सदेहत्वं मान्त्रवर्णिकमित्यर्थः ।
स्वकर्मार्जिते देहे दुःखादिभोगस्यावर्जनीयत्वान्न जीवतः स्वरूपाविर्भाव इत्याशङ्क्याह —
शरीरेति ।
अशरीरवदित्यपेरर्थः । जीवतोऽपि स्वरूपस्याविर्भावः स्यादिति शेषः ।
अविरुद्धे श्रुत्यर्थे सौत्रमाविर्भावपदं युक्तमित्याह —
तस्मादिति ।
मुख्यावेव तौ किं न स्यातां, तत्राह —
न त्विति ।
ज्ञानाज्ञानाभ्यामाविर्भावानाविर्भावावित्येवं स्थिते सत्यांशांशित्वादिकृतो भेदोऽपि निरस्त इत्याह —
एवमिति ।
न्यायसहितश्रुत्या जीवब्रह्मणोर्भेदो मिथ्येत्युक्तम् । सम्प्रति प्राजापत्यवाक्यादपि तद्भेदो मिथ्येत्याह —
कुतश्चेति ।
एतद्भिन्नस्य जीवस्याप्रतिपाद्यत्वात् । तन्नास्तित्वमेवमित्युच्यते ।
कुतःशब्दोक्तं हेत्वन्तरं स्फोरयति —
यत इति ।
अतो ब्रह्म प्रत्यग्भूतमत्र प्रतिपाद्यमिति शेषः ।
उक्तं व्यतिरेकेण विवृणोति —
योऽक्षिणीति ।
श्रुतिलिङ्गाभ्यां केवलं जीवलिङ्गं बाधित्वा जीवो ब्रह्मतयोच्यते नान्यत्वेनेत्यर्थः ।
प्रतीकाभिप्रायेण छायया ब्रह्मणः सामानाधिकरण्यं न जीवेनेति नास्ति लिङ्गमित्याशङ्क्याह —
नापीति ।
उपास्तिविध्यश्रवणात्प्रतिपादकत्वसम्भवे प्रतीकोक्तिकल्पनायोगादात्मान्वेषणाय प्रवृत्तयोः सुरासुरराजयोरनात्मानं वदन्प्रजापतिर्मृषावादी विप्रलम्भकः स्यादतो ब्रह्मणो जीवेन सामानाधिकरण्याल्लिङ्गसिद्धिरित्यर्थः ।
द्वितीये पर्याये जीवस्यावस्थावेैशिष्ट्यदृष्टेराद्येऽपि पर्याये न ब्रह्मैक्यमिष्टमित्याशङ्क्याह —
तथेति ।
आद्ये पर्याये जीवब्रह्मसामानाधिकरण्यात्तदैक्यवदित्यर्थः । अवस्थानां व्यभिचारित्वाज्जीवस्यासङ्गत्वाद्युक्तां द्वितीयपर्यायस्यैक्यपरतेति भावः ।
अवस्थाव्यभिचारे तद्वतोऽपि तद्भावात्कुतोऽसङ्गतेत्याशङ्क्याह —
किञ्चेति ।
आत्मनो ज्ञानरूपत्वात्तस्य च स्वापेऽभावात्कथं तदव्यभिचारितेत्याशङ्क्याह —
तथेति ।
पर्यायद्वयं दृष्टान्तयितुं तथेत्युक्तम् । विज्ञातृनिषेधे परामार्शासिद्धिरिति भावः ।
ज्ञातुरभावोक्तिरपि तत्रास्तीत्याशङ्क्याह —
यत्त्विति ।
तत्र बृहदारण्यकश्रुतिं संवादयति —
न हीति ।
आत्मनः स्वभावभूतविज्ञप्तेर्नान्यथाभावो योग्यत्वादित्यर्थः ।
पर्यायत्रयवच्चतुर्थपर्यायालोचनायामपि ब्रह्माव्यतिरिक्तजीवस्य प्रतिपाद्यत्वमित्याह —
तथेति ।
कथमुपहितस्यानुपहितपरैक्यमित्याशङ्क्याह —
मघवन्निति ।
सम्प्रसादस्यैव परेणैक्यमुच्यते न जीवस्येत्याशङ्क्याह —
सम्प्रसादेति ।
स्वरूपेणाभिनिष्पत्तिवचनाद्ब्रह्मस्वरूपापन्नत्वेऽपि न ततोऽन्यत्वं निरस्यते भिन्नाभिन्नत्वादित्याशङ्क्य विरोधादेकोपाद्यौ तदयोगादभेदाभावे स्वरूपाभिनिष्यत्तेरयुक्तत्वात्तद्गतभेदस्य कल्पितत्वमेवेत्याह —
नेति ।
एकदेशिव्याख्यामनुवदति —
केचित्त्विति ।
जीवस्यापहतपाप्मत्वाद्ययोगात्तदाकर्षणस्यान्याय्यत्वम् ।
कथं तर्हि प्रकृतानुगुणतया वाक्यं व्याख्यायते, एतच्छब्देन पूर्वपर्यायेषु प्रकृतजीवानाकर्षणे तदालम्बनाभावाद्वाक्यार्थधियोऽनुदयात् , तत्राह —
एतमिति ।
सर्वनामश्रुत्या दूषयति —
तेषामिति ।
किञ्चोपक्रमसूचितोऽर्थश्चतुर्थ एव पर्याये सर्वनामार्थः, सर्वत्र वा । तत्राद्यं प्रत्याह —
भूयःश्रुतिश्चेति ।
उपक्रान्तोऽर्थः सर्वत्र सर्वनामार्थोऽपि न प्रतिपाद्यकोटिनिवेशीति द्वितीयमाशङ्क्याह —
एतं त्विति ।
स्वयूथ्यमतायोगे फलितमाह —
तस्मादिति ।
ब्रह्मैव जीवस्तदित्थं कथमित्याशङ्क्याह —
कर्त्रिति ।
तस्य विलापनयोग्यतामाह —
अनेकेति ।
कथं तर्हि तत्परिहार्या पारमार्थिकरूपापत्तिरित्याशङ्क्य सदृष्टान्तमाह —
तदिति ।
रज्ज्वादीनेषा रज्जुरित्यादिविद्यया पुरोवर्त्यधिष्ठानत्वमिति शेषः ।
पौर्वापर्यालोचनया प्राजापत्यवाक्ये जीवानुवादेन ब्रह्मत्वं तस्येष्टमित्युक्तम् । सम्प्रति सूत्रसामर्थ्यात्प्रत्यक्षादिप्रामाण्याच्च जैवं रूपं वास्तवमिति मतान्तरमाह —
अपरे त्विति ।
शारीरकमेव तेषामुत्तरमित्याह —
तेषामिति ।
तत्प्रतिषेधार्थं नैतदारब्धं, सम्यग्ज्ञानार्थत्वादित्याशङ्क्याह —
आत्मेति ।
कथमिदमेव तेषामुत्तरमित्युक्ते तदर्थं सङ्गृह्णाति —
एक इति ।
तस्य परिणामित्वं वारयति —
कूटस्थेति ।
ज्ञानादिगुणवत्त्वं प्रत्याह —
विज्ञानेति ।
कथं तस्यैकत्वं, चेतनाचेतनाभेदधीविरोधादित्याशङ्क्याह —
अविद्ययेति ।
माया ततोऽन्येति वादं व्युदसितुं माययेत्युक्तम् । साधारणासाधारणप्रपञ्चभेदस्याप्रामाणिकत्वात् , अविद्यादिभेदे च मानाभावात् , एकस्मादेवाज्ञानाद्विचित्रशक्तितो विश्वधीसम्भवे तद्भेदे गौरवान्न सोऽस्तीत्यर्थः ।
एकस्यानेकधा भानं नाविद्ययापि दृष्टमित्याशङ्क्य विवर्तानुगुणं दृष्टान्तमाह —
मायावीति ।
‘नान्योऽतोऽस्ति’ इत्यादिश्रुतेरवधारणार्थमाह —
नेति ।
शारीरकार्थसङ्क्षेपसमाप्तावितिशब्दः ।
श्रुतिसामर्थ्यादतिरिक्तजीवाभावेऽपि सूत्रसामर्थ्यादन्यो जीवोऽस्तीत्यशङ्क्याह —
यत्त्विति ।
आदिशब्देन ‘नेतरोऽनुपपत्तेः’ इति गृह्यते ।
संसारिणो जीवाद्भेदोक्त्या यावदीश्वरस्यासंसारित्वं नोच्यते तावदभेदव्यपदेशेऽपि जीवस्यासंसारित्वं न सिध्यतीत्यापातिकं भेदं सूत्रकारोऽनुवदतीत्याह —
तत्रेति ।
तत्र तत्र श्रुतिस्मृतीतिहासपुराणेषु प्रमितं परमात्मरूपनूद्य ततो विपरीतं प्रातीतिकं जीवरूपं तत्र कल्पितमिति सोदाहरणमाह —
नित्येति ।
कथं तर्हि तस्य निरसनमित्याशङ्क्याह —
तदात्मेति ।
वाक्यानि तत्त्वमसीत्यादीनि । जीवब्रह्मणोश्चैतन्याविशेषात्तदाकारेणाकारान्तरेण वा भेदायोगो न्याय्यः । ‘नेह नाना’ इत्यादयो द्वैतवादनिषेधाः ।
परस्य जीवादन्यत्वे तस्यापि ततोऽन्यत्वं स्यादिशङ्क्याह —
जीवस्येति ।
अधिष्ठानस्यारोप्यादन्यत्वेऽपि न तस्याधिष्ठानादन्यतेत्यर्थः ।
कथं तर्हि तस्य परस्मादन्यत्वं, तत्राह —
किन्त्विति ।
अनुवादस्य प्रमित्यपेक्षां प्रत्याह —
अविद्येति ।
अपूर्वत्वाभावाच्च तस्याप्रतिपाद्यतेत्याह —
लोकेति ।
जीवभेदस्याप्रामाणिकत्वे कुतो निरधिकाराणां विधीनां प्रामाण्यमित्याशङ्क्यानुवादफलमाह —
एवं हीति ।
ननु जीवब्रह्मणोरैक्यं न क्वापि सूत्रकारो मुखतो वदति किन्तु सर्वत्र भेदमेवातो नैक्यमिष्टं, तत्राह —
प्रतिपाद्यन्त्विति ।
आदिपदं ‘आत्मेति तूपगच्छन्ती’ त्यादिसङ्ग्रहार्थम् ।
‘विद्वान्यजेत’ इत्यादिश्रुत्या कर्मस्वात्मविदोऽधिकारात्कर्तृत्वादेर्वास्तवत्वे कुतो जीवस्य ब्रह्मैक्यं तदैक्ये वा कुतो विधिविरोधो नेत्याशङ्क्य विशिष्टस्यामुख्यात्मत्वात्तद्विदश्च कर्माधिकारान्मुख्यात्मविद्यावतस्तत्त्यागाधिकारान्न काण्डयोर्विरोधोऽस्तीत्युक्तं स्मारयति —
वर्णितश्चेति ॥ १९ ॥