ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
अन्यार्थश्च परामर्शः ॥ २० ॥
अथ यो दहरवाक्यशेषे जीवपरामर्शो दर्शितःअथ एष सम्प्रसादः’ (छा. उ. ८ । ३ । ४) इत्यादिः, दहरे परमेश्वरे व्याख्यायमाने, जीवोपासनोपदेशः, नापि प्रकृतविशेषोपदेशः,इत्यनर्थकत्वं प्राप्नोतीत्यत आहअन्यार्थोऽयं जीवपरामर्शो जीवस्वरूपपर्यवसायी, किं तर्हि ? — परमेश्वरस्वरूपपर्यवसायीकथम् ? सम्प्रसादशब्दोदितो जीवो जागरितव्यवहारे देहेन्द्रियपञ्जराध्यक्षो भूत्वा, तद्वासनानिर्मितांश्च स्वप्नान्नाडीचरोऽनुभूय, श्रान्तः शरणं प्रेप्सुरुभयरूपादपि शरीराभिमानात्समुत्थाय, सुषुप्तावस्थायां परं ज्योतिराकाशशब्दितं परं ब्रह्मोपसम्पद्य, विशेषविज्ञानवत्त्वं परित्यज्य, स्वेन रूपेणाभिनिष्पद्यतेयदस्योपसम्पत्तव्यं परं ज्योतिः, येन स्वेन रूपेणायमभिनिष्पद्यते, एष आत्मापहतपाप्मत्वादिगुण उपास्यःइत्येवमर्थोऽयं जीवपरामर्शः परमेश्वरवादिनोऽप्युपपद्यते ॥ २० ॥

जीवानुवादेन ब्रह्मताविधाने विरोधाभावात्प्राजापत्ये वाक्ये जीवस्याप्रतिपाद्यत्वान्न तदवष्टम्भेन दहरवाक्ये जीवाशङ्केत्युक्तम् । इदानीं दहरवाक्यशेषस्य गतिमाह —

अन्यार्थश्चेति ।

सूत्रव्यावर्त्याशङ्कामाह —

अथेति ।

वाक्यभेदप्रसङ्गं हेतूकृत्योक्तम् —

न जीवेति ।

प्रकृतो विशेषो दहराकाशस्तस्यापि नायमुपदेशस्तस्याजीवत्वादित्याह —

नेति ।

उत्तरत्वेन सूत्रमवतार्य व्याकरोति —

अत इति ।

अन्यार्थत्वमेवाकाङ्क्षाद्वारा स्फोरयति —

किं तर्हीति ।

सम्प्रसादपदे जीववादिनि श्रुते नेश्वरपरत्वं वाक्यस्येत्याक्षिपति —

कथमिति ।

व्याख्यया वाक्यस्य परस्मिन्नेव तात्पर्यमाह —

सम्प्रसादेति ।

तादात्म्यविषयत्वं सम्बन्धविषयत्वं चोभयरूपत्वं देहद्वयविषयत्वं वा ।

यत्तु जीवस्य नापहतपाप्मत्वादिति, तत्राह —

यदीति ।

जीवपरामर्शस्य गतिमुक्त्वा दहरश्रुतेः शङ्काद्वारा गतिमाह —

अल्पेति ॥ २० ॥