‘परं ज्योतिरुपसम्पद्य’ इत्यादिवाक्यार्थविचारप्रसङ्गात् ‘तच्छुभ्रं ज्योतिषां ज्योतिः’ इति वाक्योक्तपरञ्ज्योतिष्ट्वासाधकं न तत्रेत्यादिवाक्यं विमृशति —
अनुकृतेरिति ।
आथर्वणवाक्यमादत्ते —
न तत्रेति ।
सूर्यस्यानाभासकत्वेऽपि रात्राविव चन्द्रादेर्भासकत्वं, नेत्याह —
नेति ।
विद्युतामपि फल्गुत्वमनुभवसिद्धमिति मत्वोक्तम् —
नेमा इति ।
कैमुतिकन्यायमाह —
कुत इति ।
इतश्च सूर्यादेर्न ब्रह्मणि भासकत्वमित्याह —
तमेवेति ।
अनुगमनवदनुभानं स्वगतभानकृतमित्याशङ्क्याह —
तस्येति ।
उक्ते वाक्ये विषयंं निष्कृष्य सप्तम्याः सति विषये च साधारण्यहेतोः संशयमाह —
तत्रेति ।
पूर्वत्रात्मश्रुत्याद्यविरोधादाकाशशब्दस्य रूढित्यागेनेश्वरे वृत्तिरुक्ता, तथेहापि सतिसप्तम्यां योग्यानुपलब्धिविरोधान्न भातीत्यस्य वर्तमानार्थतात्यागाद्यस्मिन्सति सूर्यो न भास्यति स तेजोधातुरुपास्यत्वेनोच्यत इति पूर्वपक्षमाह —
तेज इति ।
उक्ताथर्वाणश्रुतेर्निर्विशेषे ज्ञेये ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे तेजोधातोर्ध्यानं, सिद्धान्ते निर्विशेषब्रह्मधीरिति फलभेदः ।
सप्तम्या विषयेऽपि सम्भवादध्याहारस्यायुक्तत्वान्न तेजोधातुरिति शङ्कते —
कुत इति ।
विषयसप्तम्या णिजध्याहारादितरत्र लिङ्गानुग्रहात्तेजोधातुरेवायमित्याह —
तेजोधातूनामिति ।
कुतोऽस्य तेजोधातोर्लिङ्गतेत्याशङ्क्याह —
तेजःस्वभावकमिति ।
प्रसिद्धिमनुरुध्य दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह —
तथेति ।
यस्मिन्सति यन्न भाति तत्तमनुभातीति विरुद्धमिति कुतः सतिसप्तमीत्याशङ्क्याह —
अनुभानमिति ।
तमनुभातीति तदपेक्षया निकृष्टप्रकाशत्वमिष्टमित्यर्थः ।
अनुभानस्याविरोधित्वात्प्रागुक्तलिङ्गाच्च कस्यचित्तेजोधातोरुपास्यतात्राभीष्टेत्युपसंहरति —
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञामध्याहरति —
एवमिति ।