लिङ्गसिद्धं तेजोधातुं त्यक्त्वा कुतोऽयं नियमः स्यादिति शङ्कते —
कस्मादिति ।
हेतुमादाय व्याकरोति —
अनुकृतेरिति ।
किं तदनुकरणं, तदाह —
यदेतदिति ।
तेजसामनुभानं कथं प्राज्ञं ज्ञापयतीत्याशङ्क्य श्रुत्यन्तरे तस्य भारूपत्वावधारणादित्याह —
भारूप इति ।
तेजोन्तरे मानाभावाच्च न तदिह ग्राह्यमित्यनुभानस्यान्यथासिद्धिं निराह —
नत्विति ।
न चेदमेव वाक्यं तत्र मानमन्यपरस्य मानान्तरविरोधे देवताधिकरणन्यायानवतारादिति भावः ।
विरोधाच्चानुभानं परपक्षे न स्यादित्याह —
समत्वाच्चेति ।
ननु सूर्यादयश्चाक्षुषं तेजोऽपेक्ष्य भासन्ते, चक्षुष्मतस्तद्भानात् , तत्राह —
यमिति ।
चक्षुषोऽनुद्भूतप्रकाशत्वाज्जन्यज्ञानविषयत्वे सूर्यादेर्न सजातीयापेक्षेति भावः ।
तदेव दृष्टान्तेन स्पष्टयति —
नहीति ।
पूर्ववादिनोक्तमनुभाषते —
यदपीति ।
गच्छन्तमनुगच्छतीति समानस्वभावकेष्वनुकारादनुभानात्तेजसां सूर्यादीनां सति यस्मिन्भानं निषिध्यते सोऽपि कश्चित्तेजोधातुरित्यनुवादार्थः ।
अनुकारः स्वभावसाम्यमपेक्षते, क्रियासाम्यं वा । नाद्य इत्याह —
नायमिति ।
द्वितीयमङ्गीकुर्वन्नाह —
भौमं वेति ।
अग्न्ययःपिण्डयोर्दहनक्रियाभेदाभावेऽपि द्रव्यभेदेन क्रियाभेदं कल्पयित्वा क्रियासाम्यम् । वायुरजसोस्तु नियतदिग्देशगमनमस्त्येव । प्रकृतेऽपि सूर्यादेर्ब्रह्मणश्च तुल्यं भानमिति भावः ।
हेतोरसूत्रानुसारित्वमाशङ्क्योक्तम् —
अनुकृतेरितीति ।
सूत्रस्य द्वितीयं पदं हेत्वन्तरत्वेनावतारयति —
तस्य चेति ।
चतुर्थपादोपात्तं हेत्वन्तरं स्फोरयति —
तस्येति ।
कथमेतावता तस्य प्राज्ञत्वंं, तत्राह —
तदिति ।
स्वपक्षे मानमुक्त्वा परपक्षे तदभावमाह —
तेजोन्तरेणेति ।
न केवलं मानाभावः, तद्विरोधश्चेत्याह —
विरुद्धं चेति ।
प्रकृतसूर्यादिविषयतया सर्वशब्दो व्याख्यातः । सम्प्रति तस्याः सङ्कुचद्वृत्तित्वं मत्वा व्याख्यान्तरमाह —
अथवेति ।
कुतो ब्रह्मज्योतिर्गतविकारातिरेकेण तत्सत्तामात्रायत्तं सर्वभानं, तत्राह —
यथेति ।
प्रकरणादपि ब्रह्मैवात्र ग्राह्यमित्याह —
नेति ।
सर्वनाम्ना प्रकृतपरामर्शेऽपि कुतो ब्रह्म गृह्यते तत्राह —
प्रकृतं चेति ।
प्रकृतमपि ब्रह्म व्यवहितत्वान्नेह सम्बन्धार्हमित्याशङ्क्याह —
अनन्तरं चेति ।
हिरण्मयो ज्योतिर्मयोऽन्नमयाद्यपेक्षया परश्चायं कोशो यमानन्दमयमाचक्षते, तत्र ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति यत्प्रतिष्ठाभूतं ब्रह्म तत्प्रतिष्ठितं, तच्च विरजमागन्तुकमलविकलं, निष्कलं निरवयवं, शुभ्रं नैसर्गिकदोषरहितम् । ज्योतिषां सूर्यादीनां ज्योतिरवभासकम् । तच्च विदुषामनुभवसिद्धमित्यर्थः ।
उदाहरणमपेक्ष्याव्यवहितं ब्रह्मेत्युक्तम् । संप्रत्यपेक्षितानपेक्षिताभिधानयोरपेक्षिताभिधानं न्याय्यमाकाङ्क्षापूरकत्वेन दृष्टार्थत्वादिति विवक्षित्वोक्तम् —
कथमित ।
स्पष्टब्रह्मवादिपूर्वमन्त्राकाङ्क्षापूरकत्वादुत्तरोऽपि मन्त्रो ब्रह्मपर इत्यर्थः ।
सतिसप्तमीमादायोक्तमनुभाषते —
यदपीति ।
सूर्याद्यभिभावके तेजोधातौ प्रामाणिके तस्येह ग्रहो न वेति चिन्ता ।
तद्भावे मानाभावान्न सोऽस्तीत्याह —
तत्रेति ।
ननु ब्रह्मणि प्रामाणिकेऽपि तस्मिन्सति सूर्यादयो न भान्ति तस्य सदाभावात्तेषां सदाभानाभावप्रसङ्गात् , तत्राह —
ब्रह्मणीति ।
तत्रेति न सतिसप्तमी किन्तु विषयसप्तमी । ततो ब्रह्मणि विषये सूर्यादयो न भान्ति ब्रह्मैव तेषु प्रकाशकत्वेन भवतीत्यर्थः । यद्वा सतिसप्तमीं गृहीत्वा तेजोन्तरोक्तौ न भातीति वर्तमानापदेशे मानान्तरविरोधान्न भास्यतीति लक्षणायां श्रुतत्यागेनाश्रुतस्वीकारे गौरवात्तदत्यागेनाध्याहारे लाघवान्न भासयतीति णिजर्थमध्याहृत्य सूर्याद्यभास्यं ब्रह्मैव तद्भासकमिहाभीष्टमिति भावः ।
यस्माद्धटादिरुपलभ्यते तदपि ब्रह्मणोपलभ्यते चेद्ब्रह्मापि केनचिदन्येनोपलभ्येताविशेषादित्याशङ्क्याह —
ब्रह्म त्विति ।
येनोपलभ्यत्वेन सूर्यादयस्तस्मिन्ब्रह्मणि विषये भायुस्तथा ब्रह्म नान्येनोपलभ्यते स्वयञ्ज्योतिःस्वरूपत्वादन्यकृतोपलम्भानपेक्षणादित्यक्षरयोजना ।
तदुपपादयति —
ब्रह्म हीति ।
स्वप्रकाशस्य प्रकाश्यत्वादर्शनादशेषप्रकाशकं ब्रह्म नान्यप्रकाश्यमित्यर्थः ।
ब्रह्मणः स्वयञ्ज्योतिष्ट्वेन सर्वभासकत्वे मानमाह —
आत्मनेति ।
तस्यान्यानवभास्यत्वेऽपि श्रुतिमाह —
अगृह्य इति ॥ २२ ॥