न चानेककारणवैयर्थ्यं, कल्पभेदेन व्यवस्थानादित्याह —
आनुमानिकमिति ।
अपिशब्दादेकशब्दाच्च ब्रह्माङ्गीकारेण पूर्वपक्षो विचारश्चायं क्वाचित्क इति सूचितम् ।
अव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्तक्रमश्रौतपारिशेष्याभ्यामुभयप्रत्यभिज्ञया संशये प्रसिद्धजीवोक्तिभङ्गेनाप्रसिद्धब्रह्मोक्तिवदप्रसिद्धप्रधानोक्तिपरमेव काठकवाक्यमिति पूर्वपक्षयन्नुपलब्धिमुदाहरति —
काठके हीति ।
अत्र प्रधानस्याशब्दत्वप्रतिपादनेन समन्वयदार्ढ्यादस्ति श्रुत्यादिसङ्गतिः । पूर्वपक्षे प्रधानस्यापि शब्दवत्त्वाद्ब्रह्मण्यन्वयानियतिः, सिद्धान्ते तस्याशब्दत्वाद्ब्रह्मण्यन्वयनियतिरिति फलभेदः ।
कथमत्र प्रधानमव्यक्तपदादुक्तमित्याशङ्क्य प्रधाने स्थानं मानमाह —
तत्रेति ।
स्मृतिः साङ्ख्यस्मृतिः । श्रुतिः सप्तम्यर्थः ।
अव्यक्तश्रुतिरपि प्रधाने मानमित्याह —
तत्रेति ।
साङ्ख्यस्मृतिसिद्धप्रधानस्याव्यक्तशब्देनोक्तौ तदीयां रूढिं हेतूकरोति —
स्मृतीति ।
पारिभाषिकत्वादव्यक्तशब्दस्यानिर्णायकत्वमाशङ्क्योक्तं —
शब्दादीति ।
रूढियोगाभ्यामव्यक्तशब्दस्य प्रधानवाचित्वे फलितमाह —
तस्येति ।
तथापि कारणत्वं तस्याशब्दमित्याशङ्क्याह —
तदिति ।
श्रुतिः ‘अजामेकाम्’ इत्याद्या । स्मृतिः साङ्ख्यीया । ‘विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्’ इत्याद्या च । ‘भेदानां परिमाणात्’ इत्यादिर्न्यायः । नच प्रकरणपारिशेष्याभ्यां शरीरमव्यक्तं, तस्य स्पष्टत्वेन तच्छब्दानर्हत्वात् । अतो जगत्कारणस्य प्रधानस्य शब्दवत्त्वान्न गतिसामान्यमित्यर्थः ।
स्थानादिभिरुक्तं प्रत्याह —
नैतदिति ।
तत्रादौ श्रुतिं निराह —
नहीति ।
कुतो न तदस्तित्वपरं स्मार्तप्रधानस्यैवात्र प्रत्यभिज्ञानात् , नेत्याह —
नहीति ।
यादृशमित्यस्य व्याख्यानम् —
स्वतन्त्रमित्यादि ।
साङ्ख्यस्मृतिसिद्धाव्यक्तशब्दस्य श्रुतावपि प्रयोगात्तेन प्रत्यभिज्ञातं प्रधानमित्युक्तमाशङ्क्याह —
शब्देति ।
शब्दस्यार्थव्याप्तेरर्थस्यापि प्रत्यभिज्ञानमाशङ्क्य यौगिकत्वात्तदेकार्थासिद्धिरित्याह —
स चेति ।
रूढ्या तन्मात्रसिद्धौ कुतो योगाद्दुर्बलादर्थान्तरं शङ्क्यते, तत्राह —
न चेति ।
परस्य प्रधाने रूढिरव्यक्तशब्दस्यास्तीत्याशङ्क्याह —
या त्विति ।
नहि परीक्षकाणां पारिभाषिकी प्रसिद्धिर्वेदार्थनिर्णयनिमित्तं, परीक्षकविप्रतिपत्त्या वेदार्थेऽपि तत्प्रसङ्गात् । लौकिकी प्रसिद्धी रूढिः । तथा ‘य एव च लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाः’ इति न्यायादित्यर्थः ।
श्रूतिं दूषयित्वा स्थानं दूषयति —
न चेति ।
मात्रचोऽर्थं स्फुटयति —
असतीति ।
स्थानस्यापि नास्ति तद्रूपप्रत्यभिज्ञापेक्षा स्वत एव प्रमाणत्वेन निश्चायकत्वादित्याशङ्कया तद्रूपविपरीतप्रत्यभिज्ञासत्त्वमत्रेष्टमिति मत्वा विपरीतरूपज्ञाने स्थानादर्थासिद्धौ दृष्टान्तमाह —
नहीति ।
कथं तर्हीह विपरीतरूपप्रत्यभिज्ञेत्याशङ्क्य सूत्रभागमवतार्य विभजते —
प्रकरणेति ।
‘आत्मानं रथिनं विद्धि’ इत्यस्मिन्वाक्ये बुद्ध्यात्मनोर्मध्ये शरीरस्य श्रुतत्वात्तदेवत्रापि महच्छब्दितबुद्धिपुरुषमध्यस्थमव्यक्तशब्देन गृह्यते । श्रौतक्रमस्य स्मार्तक्रमाद्बलीयस्त्वादित्यर्थः ।
उभयोरपि स्थानत्वात्कुतः श्रौतं स्थानमास्थाय शरीरमेव ग्राह्यमित्याह —
कुत इति ।
प्रकरणाद्यनुगृहीतत्वेन श्रौतक्रमस्य प्राबल्यादित्याह —
प्रकरणादिति ।
तदुभयं वक्तुमुपक्रमते —
तथाहीति ।
तत्र प्रकरणं विविच्य दर्शयति —
अतीतेति ।
रूपकक्लृप्तिः सादृश्यकल्पना । आत्मनो भोक्तू रथित्वं शरीराख्यरथस्वामित्वम् ।
तत्र हि भोक्ता प्रधानं स्थूलं शरीरं भोगायतनत्वेन गुणतया रथवदवधेयमित्याह —
आत्मानमिति ।
विवेकाविवेकप्रधानवृत्तिभ्यां बुद्धिरेव शरीरद्वारा सुखदुःखे भोक्तानमुपनयतीति मत्वाह —
बुद्धिमिति ।
मनसाऽश्वरशनास्थानीयेन विवेकिना विषयेभ्यः श्रौत्रादीनि निगृह्यन्ते, तेनाविवेकिना तेषु प्रवर्त्यन्ते, तेन मनसो युक्तं प्रग्रहत्वमित्याह —
मन इति ।
असंयतानीन्द्रियाणि पुरुषं संसारानर्थं, संयतानि मुक्तिद्वारं प्रापयन्तीत्याह —
इन्द्रियाणीति ।
यथाश्वोऽध्वानमालक्ष्य चरत्येवमिन्द्रियहयाः ।
स्वार्थमुपलभ्य चरतीत्याह —
विषयानिति ।
शरीरादिषु मध्ये शब्दादीन्विषयानिन्द्रियहयगोचरानाहुरिति योजना ।
ननु मार्गे रथिनो रथाद्यपेक्षा न भोगे चिद्रूपतया स्वभावेनैव तद्योगादतो देहादीनां रथादिकल्पनावैषम्यं, तत्राह —
आत्मेति ।
आत्मा भोक्तेत्याहुरिति सम्बन्धः ।
तस्यासङ्गस्यार्थेन्द्रियासंनिकर्षे भोगायोगादिन्द्रियमनोयोगो यथा भवतीति क्रियाविशेषणेन तस्य भोक्तृत्वमुपपादयति —
इन्द्रियेति ।
यद्वात्मा देहः, देहेन्द्रियादिषु युक्तमात्मानं भोक्तेत्याहुरिति योजना ।
प्राकरणिकसम्बन्धस्याकाङ्क्षाधीनत्वात्पूर्ववाक्यस्थदेहस्याव्यक्तशब्दाकाङ्क्षां वक्तुं रथादिरूपककल्पनाफलं वदन्परमपदस्य प्रकरणिनो मुख्यस्याकाङ्क्षामवतारयति —
तैश्चेति ।
परमपदस्य स्वरूपे परत्वे चाकाङ्क्षामाह —
किमिति ।
आकाङ्क्षाद्वयशान्तयेऽनन्तरं ग्रन्थमादत्ते —
तेभ्य इति ।
पूर्ववाक्ये शरीरस्य प्रकृतत्वेऽपि प्रधानमेवात्राव्यक्तमित्याशङ्क्याह —
तत्रेति ।
प्रकरणं पदर्श्य परिशेषं दर्शयितुमारभते —
तत्रेति ।
पूर्वत्रानुक्तानामर्थानामिहोक्तिवत्प्रधानस्यापि स्यादित्याशङ्क्य तेषां विषयशब्देनोक्तेर्मैवमित्याह —
अर्था इति ।
अर्थशब्देन विषयोक्तिरयुक्ता, विषयाणामिन्द्रियेभ्योऽन्तरङ्गेभ्यो बाह्यतया परत्वायोगादित्याशङ्क्याह —
तेषां चेति ।
आन्तरत्वेन श्रेष्ठत्वाभावेऽपि तेषामतिग्रहतया ग्रहरूपेन्द्रियापेक्षया प्राधान्यस्य श्रुत्युक्तत्वात्परत्वम् । ‘अष्टौ ग्रहा अष्टावतिग्रहाः’ इति श्रुत्या घ्राणजिह्वावाक्चक्षुःश्रोत्रमनोहस्तत्वगिन्द्रियेभ्यो ग्रहेभ्यो गन्धरसनामरूपशब्दकामकर्मस्पर्शविषया अतिग्रहा उक्ताः । तत्र गृह्णन्ति वशीकुर्वन्ति पुरुषमिति ग्रहा इन्द्रियाणि । तेषामपि ग्राहकत्वं विषयाधीनमित्यतिग्रहा विषयास्तेनातिग्रहतया तेषां प्राधान्यमित्यर्थः ।
तर्हि कथमर्थेभ्यो मनसः परत्वं, तस्यापि ग्रहत्वेन घ्राणादिसाम्यादित्याशङ्क्य स्वगतविशेषणार्थेभ्यस्तस्य परत्वमाह —
विषयेभ्यश्चेति ।
तथापि कथं बुद्धेर्मनसः सकाशात्परत्वं, तयोर्भोक्तारं प्रत्यविशेषादित्याशङ्क्याह —
मनसस्त्विति ।
निश्चयद्वारा विषया भोक्तुरुपकुर्वन्ति निश्चयश्च बुद्धिरिति संशयात्मकमनसो बुद्धिप्राधान्यमित्यर्थः ।
बुद्ध्युपहितस्यात्मनस्ततो न परत्वं महत्त्वं चेत्याशङ्क्य यो रथित्वेन पूर्वत्रोक्तः सोऽत्र गृह्यत इत्याह —
बुद्धेरिति ।
तत्प्रत्यभिज्ञानं तत्र हेतूकुर्वंस्तद्धेतुमाह —
आत्मेति ।
यत्तु कथमस्य परत्वमिति, तत्राह —
भोक्तुश्चेति ।
यत्पुनर्न तस्य महत्त्वमिति, तत्राह —
महत्त्वं चेति ।
तर्हि ‘महतः परमव्यक्तम्’ इति न वक्तव्यं, किं त्वात्मनः परमिति, महच्छब्दस्यात्मवाचित्वादित्याशङ्क्याह —
अथवेति ।
सङ्कल्पविकल्परूपमननशक्त्या हैरण्यगर्भी बुद्धिर्मनः ।
तस्या व्यष्टिमनःसु समष्टितया व्याप्तिमाह —
महानिति ।
सङ्कल्पादिशक्तितया तर्हि सन्देहात्मत्वं, तत्राह —
मतिरिति ।
महत्त्वमुपपादयति —
ब्रह्मेति ।
भोग्यजाताधारत्वमाह —
पूरिति ।
निश्चयात्मत्वमाह —
बुद्धिरिति ।
कीर्तिशक्तिमत्त्वमाह —
ख्यातिरिति ।
नियमनशक्तिमत्त्वमाह —
ईश्वर इति ।
लोके यत्प्रकृष्टं ज्ञानं ततोऽनतिरेकमाह —
प्रज्ञेति ।
तत्फलमपि ततो नार्थान्तरविषयमित्याह —
संविदिति ।
चित्प्रधानत्वमाह —
चितिरिति ।
ज्ञातसर्वार्थानुसन्धानशक्तिमाह —
स्मृतिश्चेति ।
सर्वत्र विद्वत्प्रसिद्धिमनुकूलयति —
परिपठ्यत इति ।
श्रुतिरपि हिरण्यगर्भबुद्धौ वेदाविर्भावमीश्वरानुग्रहवशादभिवदन्ती तदीयां बुद्धिमुक्तलक्षणां विवक्षतीत्याह —
य इति ।
परत्वं तस्याः साधयति —
सर्वासामिति ।
तर्हि पूर्वत्रानुक्तहिरण्यगर्भबुद्धेरिव प्रधानस्यापीहोक्तिः स्यात् , नेत्याह —
सा चेति ।
हिरुगिति पृथक्त्वोक्तिः ।
कथं बुद्धेरेव परा बुद्धिरित्याशङ्क्य सर्वासामित्यत्रोक्तं स्फुटयति —
तस्या इति ।
व्यष्टिबुद्ध्याश्रयत्वात्परा समष्टिबुद्धिरिति बुद्धेरित्यादिना तदुक्तिरविरुद्धेत्यर्थः ।
तर्हि पूर्वाक्तस्य रथिनोऽनुक्तिवदिह शरीरस्यापि च रथस्य स्यादित्याशङ्क्याह —
एतस्मिन्निति ।
ननु पुरुषोक्त्या न रथिग्रहस्तस्य जीवत्वात्पुरुषस्य परमात्मत्वात् , तत्राह —
परमार्थत इति ।
परिशेषमुपसंहरति —
तदेवमिति ।
प्रकरणपरिशेषाभ्यामव्यक्तं शरीरमिति प्रतिज्ञातं निगमयति —
इतराणीति ।
देहादिषु रथादिकल्पनाफलालोचनायामपि शरीरमेवाव्यक्तमित्याह —
शरीरेति ।
सुखादिर्वेदना ।
देहादिसंयोगे हेतुः —
अविद्यावत इति ।
तत्संयोगफलमाह —
भोक्तुरिति ।
देहादिव्यतिरेकबोधाधीनमात्मनो ब्रह्मत्वाधिगतिफलम् । नच प्रतियोगिनो देहादेरग्रहे तद्व्यतिरेकधीः । तथाचेन्द्रियादिवदेव शरीरमपि ग्राह्यमित्यव्यक्तशब्दस्य तदर्थतेत्यर्थः ।
प्रत्यग्ब्रह्मधीरिहाभीष्टेति कथं दृष्टिरित्याशङ्क्यात्मनो दुर्बोधत्वोक्त्या तद्धीहेतुविधेरित्याह —
तथाचेति ।
अप्रकाशस्वभावत्वं व्यासेधति —
दृश्यते त्विति ।
श्रवणादिपरिपाकानन्तर्यमाह —
अग्र्ययेति ।
सूक्ष्मार्थविषयतया सूक्ष्मत्वम् , तन्निष्ठानामेवोक्तबुद्धिद्वारा तद्दर्शनं न बहिर्मुखानामित्याह —
सूक्ष्मेति ।
वाक्यतात्पर्यमाह —
वैष्णवस्येति ।
कुतस्तर्हि तद्धीरित्याशङ्क्यानन्तरवाक्यमवतारयति —
तदिति ।
ब्रह्मात्मधीसाधनविधायि वाक्यं व्याकरोति —
एतदिति ।
वागिति द्वितीयालोपस्य छान्दसत्वाद्वाचमित्युक्तम् । वाचो ग्रहणं बाह्येन्द्रियोपलक्षणमित्युपेत्य वाक्यार्थमाह —
वागादीति ।
तथा च सति मनसि सङ्कल्पादिसम्भवान्नैकरसब्रह्मधीरित्याशङ्क्याह —
मनोऽपीति ।
बुद्धेरपि विषयप्रावण्यात्तस्यां सत्यां न ब्रह्मधीरित्याशङ्क्याह —
तामिति ।
महत्यात्मनि पृथगवस्थिते नैक्यधीरित्याशङ्क्याह —
महान्तं त्विति ।
तस्याधिष्ठानान्तरं नेति सूचयति —
परस्यामिति ।
प्रकरणात्परिशेषाच्चाव्यक्तपदं शरीरमेव दर्शयतीति पूर्वत्र व्याख्यातं दर्शयति —
चेति ।
विधान्तरेऽपि पुनर्व्याख्यायाधुना सूत्रार्थमुपसंहरति —
तदेवमिति ॥ १ ॥