ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥
उक्तमेतत्प्रकरणपरिशेषाभ्यां शरीरमव्यक्तशब्दम् , प्रधानमितिइदमिदानीमाशङ्क्यतेकथमव्यक्तशब्दार्हत्वं शरीरस्य, यावता स्थूलत्वात्स्पष्टतरमिदं शरीरं व्यक्तशब्दार्हम् , अस्पष्टवचनस्त्वव्यक्तशब्द इतिअत उत्तरमुच्यतेसूक्ष्मं तु इह कारणात्मना शरीरं विवक्ष्यते, सूक्ष्मस्याव्यक्तशब्दार्हत्वात्यद्यपि स्थूलमिदं शरीरं स्वयमव्यक्तशब्दमर्हति, तथापि तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्दमर्हतिप्रकृतिशब्दश्च विकारे दृष्टःयथा गोभिः श्रीणीत मत्सरम्’ (ऋ. सं. ९ । ४६ । ४) इतिश्रुतिश्चतद्धेदं तर्ह्यव्याकृतमासीत्’ (बृ. उ. १ । ४ । ७) इतीदमेव व्याकृतनामरूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपं बीजशक्त्यवस्थमव्यक्तशब्दयोग्यं दर्शयति ॥ २ ॥

अव्यक्तपदस्य देहे प्रवृत्तियोग्यत्वमाह —

सूक्ष्मं त्विति ।

शङ्कोत्तरत्वेन व्याख्यातुं वृत्तमनूद्य शङ्कां दर्शयति —

उक्तमिति ।

प्रवृत्तिनिमित्ताभावान्न शरीरमव्यक्तशब्दमिति शङ्कामेव विशदयति —

कथमिति ।

दुर्निरूपत्वं तत्राव्यक्तशब्दप्रवृत्तिनिमित्तमित्याशङ्क्याह —

यावतेति ।

स्पष्टतरत्वेन व्यक्तशब्दार्हत्वेऽपि तस्मिन्नव्यक्तपदं किं नोच्यते, तत्राह —

अस्पष्टेति ।

उत्तरत्वेन सूत्रमवतार्य तदक्षराणि व्याकरोति —

अत इति ।

इहेत्युदाहरणोक्तिः ।

स्थूलस्य देहस्य कुतः सूक्ष्मत्वं, तदाह —

कारणेति ।

अव्यक्तशब्देन कारणात्मना सूक्ष्मस्य देहस्य वक्तुमिष्टत्वे हेतुमाह —

सूक्ष्मस्येति ।

अक्षरार्थमुक्त्वा प्रवृत्तिनिमित्तं व्यक्तीकर्तुं विवक्षितमर्थमाह —

यद्यपीति ।

भूतसूक्ष्मस्याव्यक्तशब्दार्हत्वेऽपि किं जातं स्थूलस्य देहस्येत्याशङ्क्याह —

प्रकृतीति ।

प्रकृतेर्विकाराणामनन्यत्वाद्विकारे प्रकृतेरव्यक्तत्वमुपचरितमित्यर्थः ।

प्रकृतिशब्दस्य विकारे प्रयोगे श्रौतं दृष्टान्तमाह —

यथेति ।

गोभिस्तद्विकारैः पयोभिर्मत्सरं सोमं श्रीणीत ‘श्रीञ् पाके’ इत्यस्य धातोर्लोटि मध्यमपुरुषबहुवचनम् । विकारापन्नं कुर्यात् । पाकार्थत्वेऽपि हिरण्येन श्रीणीतेतिवदत्र सम्बन्धार्थत्वं श्रीणीतेरिष्टम् । तथा कारणवाचकमव्यक्तपदं तदभिन्नकार्ये भवत्यौपचारिकमित्यर्थः ।

अव्यक्तात्कारणाद्विकाराणामनन्यत्वे हेतुमाह —

श्रुतिश्चेति ।

अव्यक्तमव्याकृतमित्यनर्थान्तरमित्युपेत्य व्याचष्टे —

इदमिति ।

तदास्य स्वरूपेणासत्त्वं व्यावर्तयति —

बीजेति ।

बीजमेव शक्तिरतीन्द्रियत्वात् । तदात्मना स्थितमिति यावत् ॥ २ ॥