उक्तश्रुत्या प्रधानप्रसक्तिं प्रत्याह —
तदधीनत्वादिति ।
तद्व्याख्यातुमादौ व्यावर्त्यां शङ्कां दर्शयति —
अत्रेति ।
प्रकृता श्रुतिः सप्तम्यर्थः ।
जगतोऽव्यक्तशब्दार्हत्वमिदानीमविवक्षितं, शरीरस्य तु कारणात्मना तच्छब्दत्वं प्रतिज्ञातमित्याशङ्क्याह —
तदात्मनेति ।
सिद्धान्तमनूद्यानिष्टं प्रसञ्जयति —
स एवेति ।
तर्हि तस्यां प्रागवस्थायाम् ।
एवं सति ।
प्रागवस्थं जगदव्यक्तशब्दयोग्यमित्यादाविष्टे सतीत्यर्थः ।
सुखदुःखमोहात्मकं कार्यं तादृगेव कारणं गमयतीति हेतुमाह —
अस्यैवेति ।
तत्र सूत्रमुत्तरत्वेन व्याकर्तुं भूमिकां करोति —
अत्रेति ।
कथं तर्हि भवद्भिरभ्युपगम्यते, तदाह —
परमेति ।
तस्यैव जगदुपादानत्वादानर्थक्यादेषा नोपेयेत्याशङ्क्याह —
सा चेति ।
तदधीनत्वादिति व्याख्यायार्थवदित्यंशं व्याख्याति —
अर्थवतीति ।
तदेव समर्थयते —
नहीति ।
कूटस्थासङ्गाद्वयस्य ब्रह्मणः स्रष्टृत्वानुपपत्त्या मायाशक्तिरेष्टव्येत्युक्तम् ।
इदानीं बन्धमोक्षव्यवस्थानुपपत्तेश्चेत्याह —
मुक्तानां चेति ।
यस्यां सत्यां जननमरणादिः संसारः, यन्निवृत्त्या तन्निवृत्तिः, सा मायाशक्तिरेष्टव्येत्यर्थः ।
ननु न बीजशक्तिर्विद्यया दह्यते, वस्तुत्वात् , आत्मवत् , नेत्याह —
अविद्येति ।
केचित्तु प्रतिजीवमविद्याशक्तिभेदमिच्छन्ति । तन्न । अव्यक्ताव्याकृतादिशब्दायास्तस्या भेदकाभावादेकत्वेऽपि स्वशक्त्या विचित्रकार्यकरत्वादित्याह —
अव्यक्तेति।
न च तस्या जीवाश्रयत्वं, जीवशब्दवाच्यस्य कल्पितत्वात्तदविद्यारूपत्वात्तच्छब्दलक्ष्यस्य ब्रह्माव्यतिरेकादित्याह —
परमेश्वरेति ।
मायाविद्ययोर्भेदादीश्वरस्य मायाश्रयत्वं जीवानामविद्याश्रयतेति वदन्तं प्रत्याह —
मायामयीति ।
यथा मायाविनो माया परतन्त्रा तथैषापीत्यर्थः ।
प्रतीतौ तस्याश्चेतनापेक्षायामाह —
महासुप्तिरिति ।
अग्रहवत्त्वेन विपर्यासवत्त्वेन चानन्तजीवनिर्भासहेतुत्वेनापि सार्थवतीत्याह —
यस्यामिति ।
अर्थापत्त्या मायाशक्तेः सत्त्वमुक्तवा तत्रैव श्रुतिमाह —
तदिति ।
अनवच्छिन्नत्वादाकाशत्वं, तत्त्वज्ञानं विनाऽनिवृत्तेरक्षरत्वं, विचित्रकार्यत्वान्मायात्वमिति भेदः ।
इदानीमनिर्वाच्यत्वेनाव्यक्तशब्दार्हत्वमाह —
अव्यक्तेति ।
उक्तमर्थं प्रकृतश्रुत्या योजयति —
तदिदमिति ।
कुतस्तस्य महतः सकाशात्परत्वमित्याशङ्क्य बुद्धिपक्षे तावदुपपत्तिमाह —
अव्यक्तेति ।
युक्तं हि कार्यात्कारणस्य परत्वमिति भावः ।
जीवपक्षेऽपि परत्वोपपत्तिमाह —
यदा त्विति ।
दृष्टं हि राजादेः स्वाधीनादमात्यादेः परत्वमिति भावः ।
कुतो जीवभावस्याव्यक्ताधीनत्वमविद्याधीनत्वादित्याशङ्क्याव्यक्तस्योक्तं स्वरूपं स्मारयति —
अविद्येति ।
सम्प्रति जीवभावस्य तदधीनत्वमाह —
अविद्यावत्त्वेनेति ।
तथापि कथं शरीरस्य महतः सकाशात्परत्वं, तत्राह —
तच्चेति ।
इन्द्रियादीनामपि प्रकृत्यभेदादव्यक्तत्वं परत्वं च तुल्यमिति कुतः शरीरस्यैवेह ग्रहणमित्याशङ्क्याह —
सत्यपीति ।