ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तदधीनत्वादर्थवत् ॥ ३ ॥
अन्ये तु वर्णयन्तिद्विविधं हि शरीरं स्थूलं सूक्ष्मं ; स्थूलम् , यदिदमुपलभ्यते; सूक्ष्मम् , यदुत्तरत्र वक्ष्यतेतदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम्’ (ब्र. सू. ३ । १ । १) इतितच्चोभयमपि शरीरमविशेषात्पूर्वत्र रथत्वेन सङ्कीर्तितम्; इह तु सूक्ष्ममव्यक्तशब्देन परिगृह्यते, सूक्ष्मस्याव्यक्तशब्दार्हत्वात्; तदधीनत्वाच्च बन्धमोक्षव्यवहारस्य जीवात्तस्य परत्वम्थार्थाधीनत्वादिन्द्रियव्यापारस्येन्द्रियेभ्यः परत्वमर्थानामितितैस्त्वेतद्वक्तव्यम्अविशेषेण शरीरद्वयस्य पूर्वत्र रथत्वेन सङ्कीर्तितत्वात् , समानयोः प्रकृतत्वपरिशिष्टत्वयोः, कथं सूक्ष्ममेव शरीरमिह गृह्यते, पुनः स्थूलमपीतिआम्नातस्यार्थं प्रतिपत्तुं प्रभवामः, नाम्नातं पर्यनुयोक्तुम् , आम्नातं चाव्यक्तपदं सूक्ष्ममेव प्रतिपादयितुं शक्नोति, नेतरत् , व्यक्तत्वात्तस्येति चेत् , एकवाक्यताधीनत्वादर्थप्रतिपत्तेः हीमे पूर्वोत्तरे आम्नाते एकवाक्यतामनापद्य कञ्चिदर्थं प्रतिपादयतः; प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात् चाकाङ्क्षामन्तरेणैकवाक्यताप्रतिपत्तिरस्तित्राविशिष्टायां शरीरद्वयस्य ग्राह्यत्वाकाङ्क्षायां यथाकाङ्क्षं सम्बन्धेऽनभ्युपगम्यमाने एकवाक्यतैव बाधिता भवति, कुत आम्नातस्यार्थस्य प्रतिपत्तिः ? चैवं मन्तव्यम्दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्येह ग्रहणम् , स्थूलस्य तु दृष्टबीभत्सतया सुशोधत्वादग्रहणमितियतो नैवेह शोधनं कस्यचिद्विवक्ष्यते ह्यत्र शोधनविधायि किञ्चिदाख्यातमस्तिअनन्तरनिर्दिष्टत्वात्तु किं तद्विष्णोः परमं पदमितीदमिह विवक्ष्यतेतथाहीदमस्मात्परमिदमस्मात्परमित्युक्त्वा, ‘पुरुषान्न परं किञ्चित्इत्याहसर्वथापि त्वानुमानिकनिराकरणोपपत्तेः, तथा नामास्तु; नः किञ्चिच्छिद्यते ॥ ३ ॥

आचार्यदेशीयमतमुत्थापयति —

अन्ये त्विति ।

तन्मतेऽपि सूत्रद्वयं योजयितुं पातनिकामाह —

द्विविधमिति ।

तस्य द्विविधस्यापि प्रामाणिकत्वमाह —

स्थूलमिति ।

देहद्वयस्याप्रस्तुतत्वमाशङ्क्याह —

तच्चेति ।

भूमिकां कृत्वा ‘सूक्ष्मं तु’ इति सूत्रावयवं व्याकरोति —

इहेति ।

पूर्ववाक्ये द्वयोः संनिधौ सूक्ष्मस्यैवात्र ग्रहे को हेतुरित्याशङ्क्य ‘तदर्हत्वात्’ इति हेत्वर्थमाह —

सूक्ष्मस्येति ।

कथं तर्हि तस्य महतो जीवात्परत्वमित्याशङ्क्य द्वितीये सूत्रे तदधीनत्वं व्याचष्टे —

तदधीनत्वाच्चेति ।

सूक्ष्मदेहाधीनौ विवेकाविवेकाभ्यां बन्धमोक्षौ, तेन तद्वतो जीवात्परत्वमित्यर्थः ।

तत्र सौत्रं दृष्टान्तमाह —

यथेति ।

इतिशब्दो दार्ष्टान्तिकद्योती वृत्तिकारमतसमाप्त्यर्थश्च ।

वृत्तिकृतां मतं निराचष्टे —

तैस्त्विति ।

अव्यक्तपदमेव व्यक्तस्थूलदेहव्यावृत्तिहेतुरित्याह —

अाम्नातस्येति ।

अाम्नातमपि पदमुभयसाधारणमित्याशङ्क्याह —

आम्नातं चेति ।

पूर्वोत्तराम्नातयोरेकवाक्यताधीनत्वादर्थदृष्टेस्त्वन्मते चैकवाक्यताभावात्कुतोऽर्थधीः, कुतश्चाव्यक्तशब्देन स्थूलदेहनिवृत्तिरित्याह —

नेति ।

एकवाक्यताधीनार्थधीरित्येतदेव कथमित्याशङ्क्याह —

नहीति ।

शरीरशब्दस्य स्थूलशरीरे रूढेस्तस्य प्रकृतस्य हानं भूतसूक्ष्मस्याप्रकृतस्याव्यक्तशब्दत्वप्रक्रिया च निष्प्रामाणिकायाता स्यादित्याह —

प्रकृतेति ।

पूर्वोत्तराम्नाते तर्ह्येकवाक्यतामापद्यैवार्थं प्रतिपादयेतां, तत्राह —

न चेति ।

अस्तु तर्हि तद्वशादेकवाक्यतापत्तिः, तत्राह —

तत्रेति ।

आकाङ्क्षाया वाक्यैक्यधीहेतुत्वे सतीति यावत् । उभयमपि प्रकृतत्वाद्ग्राह्यत्वेनाकाङ्क्षितं, तेन तद्वारा पदप्रवृत्तेरव्यक्तपदस्योभयत्रापि प्रवृत्तौ प्रकरणपारिशेष्ययोस्तुल्यत्वान्नैकत्र नियमोऽस्तीत्यर्थः ।

सूक्ष्मस्यैव देहस्याकाङ्क्षा, दुःशोधत्वात् , तस्यात्मनोऽतिसंनिकृष्टस्य सहसा ततो निष्क्रष्टुमशक्यत्वात् । अन्यस्य तु दुष्टत्वेन दृष्टत्वादात्मनो निष्कर्षस्य सुकरत्वादिशङ्क्याह —

न चेति ।

कुतो न मन्तव्यं, तत्राह —

यत इति ।

इहेति प्रकरणोक्तिः ।

वैराग्याय शोधनमत्र नेष्टमिति कथं गम्यते, तत्राह —

नहीति ।

किं तर्हि विवक्षितं, तदाह —

अनन्तरेति ।

तस्य तस्य परत्वेन वचनात्परमपदमेव कथमत्राभीष्टं, तत्राह —

तथाहीति ।

परमपददिदर्शयिषया पारम्पर्यमत्राभीष्टमिति पूर्वोत्तरालोचनातो भातीत्यर्थः ।

किञ्चाव्यक्तपदेन स्थूलमेव शरीरमुक्तं, ‘बुद्धिं तु सारथिं विद्धि’ इत्यादिना सूक्ष्मदेहस्य विभक्तत्वेन रथकल्पनाविषयत्वात्तस्य शरीरपदेनानुक्तत्वात् , इहापि ‘मनसस्तु परा बुद्धिः’ इति गृहीतत्वेनापरिशेषादिति मत्वोपेत्यापि दूषयति —

सर्वथेति ।

स्थूलसूक्ष्मयोरन्यतरग्रहेऽपीति यावत् ।

तथा नामास्त्विति ।

त्वदिच्छया सूक्ष्मदेहस्यैवाव्यक्तशब्दत्वं स्यादित्यर्थः ।

किञ्चिदिति ।

प्रधानवादनिराकरणमुक्तम् ॥ ३ ॥