ज्ञेयत्वावचनस्यासिद्धिमाशङ्क्य परिहरति —
वदतीत्यादिना ।
चोद्यं विवृणोति —
अत्रेति ।
उक्तहेतोर्न प्रधानमव्यक्तमित्युक्ते सतीत्यर्थः ।
साधितत्वान्नासिद्धिरिति शङ्कते —
कथमिति ।
वाक्यशेषेणोत्तरम् —
श्रूयते हीति ।
अशब्दमित्यादिषु प्रत्येकं नित्यशब्दः सम्बध्यते ।
ननु निष्प्रपञ्चं ब्रह्मोक्त्वा तस्य प्रत्यक्त्वेन ज्ञानान्मुक्तिरत्रोच्यते न प्रधानस्यात्र प्रसङ्गोऽस्ति, तत्राह —
अत्रेति ।
शब्दादिशून्यतया स्मार्तप्रधानस्य प्रत्यभिज्ञानात्तदेवात्रोक्तमित्याह —
तस्मादिति ।
तथापि ‘महतः परमव्यक्तम्’ इत्यत्र किं जातं, तदाह —
तदेवेति ।
उत्तरमाह —
अत्रेति ।
तत्र नञोऽर्थमाह —
नेहेति ।
कस्य तर्हि ज्ञेयत्वेनात्रोक्तिः, तत्राह —
प्राज्ञो हीति ।
प्रधानेऽपि सम्भवति परमात्मग्रहे को हेतुरित्याह —
कुत इति ।
तत्र हेतुमुक्त्वा विभजते —
प्रकरणादिति ।
परमात्मप्रकरणस्य प्रकृतत्वे हेतुमाह —
पुरुषादिति ।
इतश्चाशब्दादिवाक्ये परस्यैवात्मनो ज्ञेयत्वमित्याह —
एष इति ।
तत्रैव हेत्वन्तरमाह —
तस्यैवेति ।
‘दृश्यते त्वग्र्यया बुद्ध्या’ इत्यादितदाकाङ्क्षणम् ।
तस्यैव ज्ञेयत्वमित्यत्र हेत्वन्तरमाह —
यच्छेदिति ।
फलविशेषश्रुतेरपि परस्यैव ज्ञेयत्वमित्याह —
मृत्य्विति ।
प्रधानेऽपि तदविरुद्धमित्याशङ्क्याह —
नहीति ।
कथं तर्हि तेषामभ्युपगमः, तत्राह —
चेतनेति ।
सर्वोपनिषदालोचनायामपि परस्यैव ज्ञेयत्वमत्रेष्टमित्याह —
सर्वेष्विति ।
तुल्यश्रुतिसिद्धब्रह्मोक्तिसम्भवे विजातीयस्मृतिसिद्धप्रधानोक्त्ययोगान्न प्रधानधीरित्युपसंहरति —
तस्मादिति ॥ ५ ॥