ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
अत्राहयोऽयमात्मविषयः प्रश्नः — ‘येयं प्रेते विचिकित्सा मनुष्येऽस्तिइति, किं एवायम्अन्यत्र धर्मादन्यत्राधर्मात्इति पुनरनुकृष्यते, किं वा ततोऽन्योऽयमपूर्वः प्रश्न उत्थाप्यत इतिकिं चातः ? वायं प्रश्नः पुनरनुकृष्यत इति यद्युच्येत, तदा द्वयोरात्मविषययोः प्रश्नयोरेकतापत्तेरग्निविषय आत्मविषयश्च द्वावेव प्रश्नावित्यतो वक्तव्यं त्रयाणां प्रश्नोपन्यासावितिअथान्योऽयमपूर्वः प्रश्न उत्थाप्यत इत्युच्येत, ततो यथैव वरप्रदानव्यतिरेकेण प्रश्नकल्पनायामदोषः; एवं प्रश्नव्यतिरेकेणापि प्रधानोपन्यासकल्पनायामदोषः स्यादिति

सूत्राक्षराणि योजयित्वा तदर्थोक्त्यर्थमाक्षिपति —

अत्रेति ।

परापरार्थे प्रश्नप्रस्तावे सतीति यावत् ।

उक्तिप्रकारं प्रकटयति —

योऽयमिति ।

इतिशब्दो विमर्शावसानद्योती ।

कल्पद्वयेऽपि फलं पृच्छति —

किञ्चेति ।

तत्राद्यमनूद्य सूत्रावयवायोगं फलमाह —

स एवेति ।

कल्पान्तरमनूद्याक्षेप्ता स्वपक्षसिद्धिं फलमाह —

अथेत्यादिना ।

न चात्मज्ञानवरदानान्तर्भूतमेव परमात्मज्ञानमपि प्रधानज्ञानस्यापि तदन्तर्भावसम्भवादिति भावः ।