ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
महद्वच्च ॥ ७ ॥
यथा महच्छब्दः साङ्ख्यैः सत्तामात्रेऽपि प्रथमजे प्रयुक्तः, तमेव वैदिकेऽपि प्रयोगेऽभिधत्ते, बुद्धेरात्मा महान्परः’ (क. उ. १ । ३ । १०) महान्तं विभुमात्मानम्’ (क. उ. १ । २ । २२) वेदाहमेतं पुरुषं महान्तम्’ (श्वे. उ. ३ । ८) इत्येवमादावात्मशब्दप्रयोगादिभ्यो हेतुभ्यःतथाव्यक्तशब्दोऽपि वैदिके प्रयोगे प्रधानमभिधातुमर्हतिअतश्च नास्त्यानुमानिकस्य शब्दवत्त्वम् ॥ ७ ॥

साङ्ख्यप्रसिद्धेर्वेदप्रसिद्ध्या विरोधाच्च न सा वेदार्थनिर्णयहेतुरित्याह —

महद्वच्चेति ।

दृष्टान्तं व्याचष्टे —

यथेति ।

भोगापवर्गपुरुषार्थस्य महच्छब्दितबुद्धिकार्यत्वात्पुरुषापेक्षितफलकारणं सदुच्यते । तत्र भावप्रत्ययोऽपि स्वरूपार्थो न सामान्यवाची । कार्यानुमेयं महन्न प्रत्यक्षमिति मात्रशब्दस्तस्मिन्प्रथमजे प्रयुक्तोऽपीति सम्बन्धः ।

वैदिकप्रयोगमेवाह —

बुद्धेरिति ।

तत्र महच्छब्देन साङ्ख्यीयमहतोऽनुक्तौ हेतुसमाह —

आत्मेति ।

आदिशब्देन फलभेदोक्तिपुरुषशब्दप्रयोगादयो गृह्यन्ते ।

सूत्रेऽभीष्टं दार्ष्टान्तिकमाह —

तथेति ।

‘महतः परम्’ इत्यत्राव्यक्तस्याप्रधानत्वे फलितमुपसंहरति —

अतश्चेति ॥ ७ ॥