ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
चमसवदविशेषात् ॥ ८ ॥
नानेन मन्त्रेण श्रुतिमत्त्वं साङ्ख्यवादस्य शक्यमाश्रयितुम् ह्ययं मन्त्रः स्वातन्त्र्येण कञ्चिदपि वादं समर्थयितुमुत्सहतेसर्वत्रापि यया कयाचित्कल्पनया अजात्वादिसम्पादनोपपत्तेः, साङ्ख्यवाद एवेहाभिप्रेत इति विशेषावधारणकारणाभावात्चमसवत्यथा हि अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः’ (बृ. उ. २ । २ । ३) इत्यस्मिन्मन्त्रे स्वातन्त्र्येणायं नामासौ चमसोऽभिप्रेत इति शक्यते नियन्तुम् , सर्वत्रापि यथाकथञ्चिदर्वाग्बिलत्वादिकल्पनोपपत्तेः, एवमिहाप्यविशेषःअजामेकाम्इत्यस्य मन्त्रस्यनास्मिन्मन्त्रे प्रधानमेवाजाभिप्रेतेति शक्यते नियन्तुम् ॥ ८ ॥

सौत्रहेतुसाध्यां प्रतिज्ञां पूरयति —

नेति ।

तदेव स्पष्टयति —

नहीति ।

तत्र हेत्वपेक्षायां प्रकरणोपपदवाक्यशेषाभावादिति सौत्रं हेतुं व्याचष्टे —

सर्वत्रेति ।

दृष्टान्तमादाय कर्माङ्गं व्यावर्त्योपनिषत्प्रसिद्धं चमसं दर्शयति —

चमसवदिति ।

अर्वाग्बिलत्वादिना विशेषसिद्धिमाशङ्क्याह —

सर्वत्रेति ।

गिरिगुहादावित्यर्थः ।

दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति —

एवमिति ॥ ८ ॥