ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥
परमेश्वरादुत्पन्ना ज्योतिःप्रमुखा तेजोबन्नलक्षणा चतुर्विधस्य भूतग्रामस्य प्रकृतिभूतेयमजा प्रतिपत्तव्यातुशब्दोऽवधारणार्थःभूतत्रयलक्षणैवेयमजा विज्ञेया, गुणत्रयलक्षणाकस्मात् ? तथा ह्येके शाखिनस्तेजोबन्नानां परमेश्वरादुत्पत्तिमाम्नाय तेषामेव रोहितादिरूपतामामनन्ति — ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यइतितान्येवेह तेजोबन्नानि प्रत्यभिज्ञायन्ते, रोहितादिशब्दसामान्यात् , रोहितादीनां शब्दानां रूपविशेषेषु मुख्यत्वाद्भाक्तत्वाच्च गुणविषयत्वस्यअसन्दिग्धेन सन्दिग्धस्य निगमनं न्याय्यं मन्यन्तेथेहापि ब्रह्मवादिनो वदन्तिकिङ्कारणं ब्रह्म’ (श्वे. उ. १ । १) इत्युपक्रम्य ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम्’ (श्वे. उ. १ । ३) इति पारमेश्वर्याः शक्तेः समस्तजगद्विधायिन्या वाक्योपक्रमेऽवगमात्वाक्यशेषेऽपिमायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्इति यो योनिं योनिमधितिष्ठत्येकः’ (श्वे. उ. ४ । ११) इति तस्या एवावगमान्न स्वतन्त्रा काचित्प्रकृतिः प्रधानं नामाजामन्त्रेणाम्नायत इति शक्यते वक्तुम्प्रकरणात्तु सैव दैवी शक्तिरव्याकृतनामरूपा नामरूपयोः प्रागवस्था अनेनापि मन्त्रेणाम्नायत इत्युच्यतेस्याश्च स्वविकारविषयेण त्रैरूप्येण त्रैरूप्यमुक्तम् ॥ ९ ॥

विजातीयस्मृतेः सजातीयश्रुतेः संनिधेर्लाघवेन श्रुत्यन्तरादर्थनिर्णयोऽजामन्त्रस्येति व्याचष्टे —

परमेश्वरादिति ।

‘तत्तेजोऽसृजत’ इत्यादिश्रुतेर्विशेषणम् । जरायुजाण्डजस्वेदजोद्भिज्जभेदाच्चातुर्विध्यम् । इयमजेति मान्त्रवर्णिकी प्रकृतिरुक्ता ।

ज्योतिरुपक्रमेति विशेषोक्तौ तुशब्देन विशेषगीर्वृथेत्याशङ्क्याह —

तुशब्द इति ।

अवधारणारूपमर्थमेव स्फोरयति —

भूतेति ।

स्मृतिमनुसृत्य गुणत्रयात्मिका कुतोऽसौ नेष्टेत्याह —

कस्मादिति ।

सूत्रावयवेनोत्तरमाह —

तथेति ।

छान्दोग्ये तेजोऽबन्नानामीश्वरकार्याणां रोहितादिरूपवतामुक्तत्वेऽपि किमित्यजामन्त्रे तान्येव वक्तव्यानीति, एकार्थत्वे हेत्वभावादित्याशङ्क्याह —

तानीति ।

स्मार्ते प्रधानेऽपि रोहितादिशब्दानां नीतत्वात्तदेव किमित्यत्र न ग्राह्यमित्याशङ्क्य मुख्यसम्भवे रञ्जनादिना रोहिताद्युपचारस्यायोगादित्याह —

रोहितादीनां चेति ।

शाखान्तरीयवाक्येन शाखान्तरस्थं वाक्यं कथं निर्णेतव्यमित्याशङ्क्य सर्वशाखाप्रत्ययन्यायादित्याह —

असन्दिग्धेनेति ।

न परशाखान्तरस्थवाक्यादिष्टसिद्धिः किन्तु पूर्वापरालोचनायामियमपि श्वेताश्वतरश्रुतिरस्मदनुगुणेत्याह —

तथेति ।

ब्रह्मणः शुद्धत्वान्न जगद्धेतुतेति पृच्छति —

किमिति ।

यज्जगत्कारणं तत्किं ब्रह्म किं वाऽन्यदिति वा प्रश्नः, जगदुत्पत्तौ किमुपकरणवद्ब्रह्मेति वा । ते ब्रह्मवादिनोऽनया रीत्या विमृश्य ध्यानाख्येन योगेनानुगताः परमात्मानमनुप्रविष्टास्तस्यैव देवस्यात्मभूतामैक्येनाध्यस्तां मायाशक्तिं गुणत्रयात्मिकां त्रिगुणजगन्निर्माणसहकारिणीमपश्यन्निति श्रुतेरजामन्त्रस्यापि मूलप्रकृतिविषयतेत्यर्थः ।

न केवलमुपक्रमादेवमुपसंहारादपीत्याह —

वाक्येति ।

परकीये प्रधाने मायाशब्दं वारयति —

मायिनं त्विति ।

अविद्याशक्तिर्योनिः, तस्याश्चाभेदेन कार्यभेदेन भेदाद्वीप्सा । नच सा परेष्टा प्रकृतिः, एकस्य देवस्य तदधिष्ठातृत्वश्रुतेः ।

पूर्वोत्तरविरोधादजामन्त्रस्य प्रधानार्थत्वाभावे स्थिते तदुभयानुगुण्यान्मायाशक्तिविषयत्वमेव तस्येत्याह —

प्रकरणात्त्विति ।

दैव्याः शक्तेः ‘तद्धेदं तर्ह्यव्याकृतम्’ इति श्रुत्यन्तरप्रसिद्धिं सूचयति —

अव्याकृतेति ।

तस्यामभिव्यक्तनामरूपकार्यलिङ्गकमनुमानमाह —

नामेति ।

पूर्वोत्तरवाक्याभ्यामिवेति वक्तुमपिशब्दः ।

कथमस्मिन्पक्षे लोहितशुक्लकृष्णामिति कारणभूतमायाशक्तेस्त्रैरूप्यं, वैश्वरूप्यात् , तत्राह —

तस्याश्चेति ॥ ९ ॥