ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
कथं पुनस्तेजोबन्नानां त्रैरूप्येण त्रिरूपा अजा प्रतिपत्तुं शक्यते, यावता तावत्तेजोबन्नेष्वजाकृतिरस्ति, तेजोबन्नानां जातिश्रवणादजातिनिमित्तोऽप्यजाशब्दः सम्भवतीति; अत उत्तरं पठति
कथं पुनस्तेजोबन्नानां त्रैरूप्येण त्रिरूपा अजा प्रतिपत्तुं शक्यते, यावता तावत्तेजोबन्नेष्वजाकृतिरस्ति, तेजोबन्नानां जातिश्रवणादजातिनिमित्तोऽप्यजाशब्दः सम्भवतीति; अत उत्तरं पठति

अवान्तरपरमप्रकृत्योरन्यतरार्थत्वे मन्त्रस्योक्ते सत्यवान्तरप्रकृत्यर्थत्वममृश्यन्नाह —

कथमिति ।

कानुपपत्तिरित्याशङ्क्य रूढ्या योगाद्वा तद्धीरिति विकल्प्याद्यं दूषयति —

यावतेति ।

आकृतिर्जातिः ।

द्वितीयं प्रत्याह —

न चेति ।

जातिर्जन्म तदभावोऽजातिरेवं रूढियोगाभ्यां यस्मादजाशब्देन तेजोऽबन्नाख्या प्रकृतिर्न ज्ञातुं शक्या तस्मान्नाजामन्त्रस्यावान्तरप्रकृत्यर्थतेत्यर्थः ।

तत्र सूत्रमुत्तरमित्याह —

अत इति ।

पक्षद्वयमनङ्गीकारपरास्तमित्याह —

नायमिति ।