ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥
नायमजाकृतिनिमित्तोऽजाशब्दःनापि यौगिकःकिं तर्हि ? कल्पनोपदेशोऽयम्अजारूपककॢप्तिस्तेजोबन्नलक्षणायाश्चराचरयोनेरुपदिश्यतेयथा हि लोके यदृच्छया काचिदजा रोहितशुक्लकृष्णवर्णा स्याद्बहुबर्करा सरूपबर्करा , तां कश्चिदजो जुषमाणोऽनुशयीत, कश्चिच्चैनां भुक्तभोगां जह्यात्एवमियमपि तेजोबन्नलक्षणा भूतप्रकृतिस्त्रिवर्णा बहु सरूपं चराचरलक्षणं विकारजातं जनयति, अविदुषा क्षेत्रज्ञेनोपभुज्यते, विदुषा परित्यज्यत इति चेदमाशङ्कितव्यम्एकः क्षेत्रज्ञोऽनुशेते अन्यो जहातीत्यतः क्षेत्रज्ञभेदः पारमार्थिकः परेषामिष्टः प्राप्नोतीति हीयं क्षेत्रज्ञभेदप्रतिपिपादयिषाकिन्तु बन्धमोक्षव्यवस्थाप्रतिपिपादयिषा त्वेषाप्रसिद्धं तु भेदमनूद्य बन्धमोक्षव्यवस्था प्रतिपाद्यतेभेदस्तूपाधिनिमित्तो मिथ्याज्ञानकल्पितः; पारमार्थिकःएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इत्यादिश्रुतिभ्यःध्वादिवत्यथा आदित्यस्यामधुनो मधुत्वम्, वाचश्चाधेनोर्धेनुत्वम् , द्युलोकादीनां चानग्नीनामग्नित्वम्इत्येवंजातीयकं कल्प्यते, एवमिदमनजाया अजात्वं कल्प्यत इत्यर्थःतस्मादविरोधस्तेजोबन्नेष्वजाशब्दप्रयोगस्य ॥ १० ॥

अजाशब्दस्तर्हि कथमवान्तरप्रकृतौ वर्तते, तत्राह —

किमिति ।

कल्पनोपदेशं दर्शयति —

अजेति ।

तमेवोपदेशं दृष्टान्तेन स्पष्टयति —

यथेति ।

ननु छाया न लोहितशुक्लकृष्णैवान्यथापि भानात् , तत्राह —

यदृच्छयेति ।

बर्करो बालपशुः ।

यत्तु क्षेत्रज्ञभेदोपलम्भात्प्रधानवादप्रत्यभिज्ञेति, तत्राह —

न चेति ।

तत्र हेतुः —

नहीति ।

व्यवस्थावादि शास्त्रं तदर्थं भेदमपि साधयिष्यतीत्याशङ्क्याह —

प्रसिद्धं त्विति ।

प्रमाणातिरेकेण प्रसिद्ध्ययोगात्तत्प्रसिद्धस्य तस्य प्रामाणिकतया वस्तुतेत्याशङ्क्याह —

भेदस्त्विति ।

कथं तस्य कल्पितत्वमित्याशङ्क्यैक्यवादिवाक्यवशादित्याह —

एक इति ।

श्रुत्यन्तरमैक्यवादि सङ्ग्रहीतुमादिपदम् ।

दृष्टान्तमवतार्य व्याचष्टे —

मध्वादिवदिति ।

रोहितादिशब्दानां रञ्जनीयत्वादिगुणसामान्यव्यवधानेव रजःसत्त्वादिव्यवहितलक्षणानुगृहीतामजाशब्दस्य योगवृत्तिं प्रधाने बाधित्वा रोहितादिगुणसंहतिप्रधानं तेजोऽबन्नमजाकारं परिकल्प्याजाशब्दस्य रूढिग्रहो युक्तः, समुदायप्रसिद्धित्यागेनावयवप्रसिद्ध्याश्रयणस्यायुक्तत्वात् । इह च रूपकल्पनया समुदायप्रसिद्धेरनपेक्षायोगादिति चकारार्थमभिप्रेत्याविरोधं व्याकुर्वन्नुपसंहरति —

तस्मादिति ।

तथा चाजामन्त्रस्यावान्तरपरमप्रकृत्योरन्यतरार्थत्वेनाप्रधानविषयत्वात्तस्याशब्दत्वं सिद्धमित्यर्थः ॥ १० ॥