ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥
एवं परिहृतेऽप्यजामन्त्रे पुनरन्यस्मान्मन्त्रात्साङ्ख्यः प्रत्यवतिष्ठतेयस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितःतमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्’ (बृ. उ. ४ । ४ । १७) इतिअस्मिन्मन्त्रे पञ्च पञ्चजना इति पञ्चसंख्याविषया अपरा पञ्चसंख्या श्रूयते, पञ्चशब्दद्वयदर्शनात् एते पञ्च पञ्चकाः पञ्चविंशतिः सम्पद्यन्तेतया पञ्चविंशतिसंख्यया यावन्तः संख्येया आकाङ्क्ष्यन्ते तावन्त्येव तत्त्वानि साङ्ख्यैः संख्यायन्ते — ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्तषोडशकश्च विकारो प्रकृतिर्न विकृतिः पुरुषःइतितया श्रुतिप्रसिद्धया पञ्चविंशतिसंख्यया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहात्प्राप्तं पुनः श्रुतिमत्त्वमेव प्रधानादीनाम्

अजाशब्दस्य योगं निरस्याजामन्त्रस्य प्रधानार्थत्वं निरस्तम् । इदानीं पञ्चजनशब्दस्य योगनिरासेन ‘यस्मिन्’ इत्यादिमन्त्रस्य प्रधानार्थत्वं निरस्यति —

न सङ्ख्येति ।

पञ्चजनमन्त्रः साङ्ख्यीयतत्त्वपरो वार्थान्तरपरो वेति योगरूढ्यविनिगमाद्विशये सङ्गतिमाह —

एवमिति ।

अध्यात्माधिकारे प्रसिद्धच्छागाया अयोगादजा तेजआदिकेत्युक्तम् । अत्रापि प्रसिद्धमनुष्यग्रहे वाक्यस्य निस्तात्पर्यादवयववृत्त्या साङ्ख्यतत्त्वपरतेति सङ्गतिरित्यर्थः । पञ्चजनमन्त्रस्याप्रधानपरत्वेन तदशब्दत्वोक्त्या समन्वयदृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे प्रधानशब्दत्वनिवृत्त्या गतिसामान्यासिद्धिः, सिद्धान्ते तदशब्दत्वस्थित्या तत्सिद्धिरिति फलम् ।

तमेव मन्त्रं बृहदारण्यकस्थं पठति —

यस्मिन्निति ।

पञ्चजना वाक्यशेषस्थाः प्राणादयः पञ्चाव्याकृताख्यश्चाकाशो यस्मिन्प्रतिष्ठितस्तमेव निष्प्रपञ्चब्रह्मात्मकममृतमात्मानं मन्ये ।

यद्यपि पूर्वं मर्त्योऽभूतं तथापीदानीं विद्वानमृतोऽस्मीति मन्त्रदृशो वचनम् । कथमस्मान्मन्त्रात्प्रत्यवस्थानं साङ्ख्यस्येत्याशङ्क्याह —

अस्मिन्निति ।

तथापि कथं साङ्ख्यवादप्रसङ्गः, तत्राह —

त इति ।

पञ्चविंशतिसङ्ख्यादृष्टावपि साङ्ख्यीयतत्त्वासिद्धिरित्याशङ्क्य सङ्ख्यैव सङ्ख्येयाकाङ्क्षायां स्मृतिसिद्धतत्त्वानि सङ्गृह्णातीत्याह —

तथेति ।

न चाधारत्वेनात्मनोऽवस्थानादाकाशस्य च पृथक्कथनात्रयोविंशतिर्जना इति वाच्यं, मूलप्रकृतिं सत्त्वादिभिर्विभज्य पञ्चविंशतित्वकल्पनात् । न चैवमात्माकाशाभ्यां सप्तविंशतित्वं, गुणानां मूलप्रकृतिमात्रेणैकीकरणादित्यभिप्रेत्याह —

तावन्तीति ।

तत्र साङ्ख्यस्मृतिमाह —

मूलेति ।

अविकृतिरन्यस्य कस्यचिद्विकारो नेति यावत् । महदहङ्कारपञ्चतन्मात्राणि सप्त प्रकृतिविकृतयः । महानहङ्कारस्य प्रकृतिर्मूलप्रकृतेर्विकृतिः । अहङ्कारोऽपि तामसस्तन्मात्राणां प्रकृतिः । सात्त्विकस्त्वेकादशेन्द्रियाणाम् । तन्मात्राण्याकाशादीनां स्थूलानां प्रकृतयः । पञ्चभूतान्येकादशेन्द्रियाणि षोडशको गणो विकार एव । पृथिव्यादीनां घटादिप्रकृतित्वेऽपि तत्त्वान्तरप्रकृतित्वाद्विकृतय एव । पुरुषस्तु कौटस्थ्यात्प्रकृतिविकृतित्वविरहीत्यर्थः ।

सङ्ख्योपसङ्ग्रहादिति व्याकुर्वन्पूर्वपक्षमुपसंहरति —

तथेति ।